देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः ०१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम्

जनमेजय उवाच
सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् ।
चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम् ॥ १ ॥
अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका ।
मन्वन्तरेषु सर्वेषु यद्यद्‌रूपेण पूज्यते ॥ २ ॥
यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा ।
(शरीरेण च देवेशी पूजनीया फलप्रदा ।
येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते ॥)
देव्या विराट्स्वरूपस्य वर्णनं च यथातथम् ॥ ३ ॥
येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः ।
तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम् ॥ ४ ॥
व्यास उवाच
शृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् ।
यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते ॥ ५ ॥
एवमेतन्नारदेन पृष्टो नारायणः पुरा ।
तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः ॥ ६ ॥
एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् ।
नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान् ॥ ७ ॥
तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्‍भवः ।
पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ ॥ ८ ॥
नारद उवाच
देवदेव महादेव पुराणपुरुषोत्तम ।
जगदाधार सर्वज्ञ श्लाघनीयोरुसद्‍गुण ॥ ९ ॥
जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् ।
जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम् ॥ १० ॥
कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः ।
केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात् ॥ ११ ॥
कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे ।
प्रकाशो जायते देव तमस्यर्कोदयो यथा ॥ १२ ॥
एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः ।
यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि ॥ १३ ॥
व्यास उवाच
एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः ।
नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत् ॥ १४ ॥
श्रीनारायण उवाच
शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् ।
येन ज्ञातेन मर्त्यो हि जायते न जगद्‍भ्रमे ॥ १५ ॥
जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि ।
ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः ॥ १६ ॥
सा जगत्सृजते देवी तया च प्रतिपाल्यते ।
तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात् ॥ १७ ॥
तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् ।
स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा ॥ १८ ॥
मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् ।
शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः ॥ १९ ॥
स मनुः पितरं देवं प्रजापतिमकल्मषम् ।
भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम् ॥ २० ॥
पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् ।
तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति ॥ २१ ॥
एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् ।
जगद्योनिं तदा देवीं तपसातर्पयद्‌ विभुः ॥ २२ ॥
तुष्टाव देवीं देवेशीं समाहितमतिः किल ।
आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम् ॥ २३ ॥
मनुरुवाच
नमो नमस्ते देवेशि जगत्कारणकारणे ।
शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते ॥ २४ ॥
वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि ।
वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे ॥ २५ ॥
माहेश्वरि महाभागे महामाये महोदये ।
महादेवप्रियावासे महादेवप्रियंकरि ॥ २६ ॥
गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे ।
महामारीभयहरे नमो देवादिपूजिते ॥ २७ ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ २८ ॥
यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा ।
चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम् ॥ २९ ॥
ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा ।
पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात् ॥ ३० ॥
मधुकैटभसम्भूतभयार्तः पद्मसम्भवः ।
यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः ॥ ३१ ॥
त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती ।
दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया ॥ ३२ ॥
स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च ।
ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे ॥ ३३ ॥
ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः ।
त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः ॥ ३४ ॥
कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् ।
नैर्ऋतो रक्षसां नाथः सोमो जातो ह्यपोमयः ॥ ३५ ॥
त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि ।
नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः ॥ ३६ ॥
श्रीनारायण उवाच
एवं स्तुता भगवती दुर्गा नारायणी परा ।
प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः ॥ ३७ ॥
देव्युवाच
वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि ।
प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च ॥ ३८ ॥
मनुरुवाच
यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे ।
तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया ॥ ३९ ॥
देव्युवाच
प्रजासर्गः प्रभवतु ममानुग्रहतः किल ।
निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम् ॥ ४० ॥
यः कश्चित्पठते स्तोत्रं मद्‍भक्त्या त्वत्कृतं सदा ।
तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु ॥ ४१ ॥
जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् ।
सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः ॥ ४२ ॥
श्रीनारायण उवाच
एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे ।
अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः ॥ ४३ ॥
अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् ।
ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः ॥ ४४ ॥
यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः ।
यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम् ॥ ४५ ॥
इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः ।
चिन्तयामास सुचिरं कथं कार्यं भवेदिदम् ॥ ४६ ॥
सृजतो मे गतः कालो विपुलोऽनन्तसंख्यकः ।
धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया ॥ ४७ ॥
इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः ।
करिष्यति सहायो मे यदादेशेऽहमाश्रितः ॥ ४८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनं नाम प्रधमोऽध्यायः ॥ १ ॥