देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ३०
देवीपीठवर्णनम्
व्यास उवाच -
ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः ।
मायाबीजजपासक्तास्तपश्चेरुः समाहिताः ॥ १ ॥
ध्यायतां परमां शक्तिं लक्षवर्षाण्यभून्नृप ।
ततः प्रसन्ना देवी सा प्रत्यक्ष्यं दर्शनं ददौ ॥ २ ॥
पाशाङ्कुशवराभीतिचतुर्बाहुस्त्रिलोचना ।
करुणारससम्पूर्णा सच्चिदानन्दरूपिणी ॥ ३ ॥
दृष्ट्वा तां सर्वजननीं तुष्टुवुर्मुनयोऽमलाः ।
नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये ॥ ४ ॥
नमस्तेजसरूपायै सुत्रात्मवपुषे नमः ।
यस्मिन्सर्वे लिङ्गदेहा ओतप्रोता व्यवस्थिताः ॥ ५ ॥
नमः प्राज्ञस्वरूपायै नमोऽव्याकृतमूर्तये ।
नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये ॥ ६ ॥
नमस्ते सर्वरूपायै सर्व लक्ष्यात्ममूर्तये ।
इति स्तुत्वा जगद्धात्रीं भक्तिगद्गदया गिरा ॥ ७ ॥
प्रणेमुश्चरणांभोजं दक्षाद्या मुनयोऽमलाः ।
ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी ॥ ८ ॥
वरं ब्रूत महाभागा वरदाहं सदा मता ।
तस्यास्तु वचनं श्रुत्वा हरविष्ण्वोस्तनोः शमम् ॥ ९ ॥
तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम ।
दक्षोऽथ पुनरप्याह जन्म देवि कुले मम ॥ १० ॥
भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति ।
जपं ध्यानं तथा पूजां स्थानानि विविधानि च ॥ ११ ॥
वद मे परमेशानि स्वमुखेनैव केवलम् ।
देव्युवाच -
मच्छक्त्योरवमानाच्च जातावस्था तयोर्द्वयोः ॥ १२ ॥
नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन ।
अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः ॥ १३ ॥
भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे ।
जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया ॥ १४ ॥
मायाबीजं हि मन्त्रो मे मुख्यः प्रियकरः सदा ।
ध्यानं विराट्स्वरूपं मेऽथवा त्वत्पुरतः स्थितम् ॥ १५ ॥
सच्चिदानंदरूपं वा स्थानं सर्वं जगन्मम ।
युष्माभिः सर्वदा चाहं पूज्या ध्येया च सर्वदा ॥ १६ ॥
व्यास उवाच -
इत्युक्त्वान्तर्दधे देवी मणिद्वीपाधिवासिनी ।
दक्षाद्या मुनयः सर्वे ब्रह्माणं पुनराययुः ॥ १७ ॥
ब्रह्मणे सर्ववृतान्तं कथयामासुरादरात् ।
हरो हरिश्च स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप ॥ १८ ॥
जातौ पराम्बाकृपया गर्वेण रहितौ तदा ।
कदाचितदथ काले तु महः शाक्तमवातरत् ॥ १९ ॥
दक्षदेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत् ।
देवाः प्रमुदिताः सर्वे पुष्पवृष्टिं च चक्रिरे ॥ २० ॥
नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप ।
मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम् ॥ २१ ॥
सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः ।
मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम् ॥ २२ ॥
तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः ।
ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत् ॥ २३ ॥
सा पुनर्ज्वलने दग्धा दैवयोगान्मनोर्नृप ।
जनमेजय उवाच -
अनर्थकरमेतत्ते श्रावितं वचनं मुने ॥ २४ ॥
एतादृशं महद्वस्तु कथं दग्धं हुताशने ।
यन्नामस्मरणान्नृणां संसाराग्निभयं न हि ॥ २५ ॥
केन कर्मविपाकेन मनोर्दग्धं तदेव हि ।
व्यास उवाच -
शृणु राजन् पुरा वृत्तं सतीदायस्य कारणम् ॥ २६ ॥
कदाचिदथ दुर्वासा गतो जाम्बूनदेश्वरीम् ।
ददर्श देवीं तत्रासौ मायाबीजं जजाप सः ॥ २७ ॥
ततः प्रसन्ना देवेशी निजकण्ठगतां स्रजम् ।
भ्रमद्भ्रमरसंसक्तां मकरन्दमदाकुलाम् ॥ २८ ॥
ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः ।
ततो निर्गत्य तरसा व्योममार्गेण तापसः ॥ २९ ॥
आजगाम स यत्रास्ते दक्षः साक्षात्सतीपिता ।
सन्दर्शनार्थमम्बाया ननाम च सतीपदे ॥ ३० ॥
पृष्टो दक्षेण स मुनिर्माला कस्यास्त्यलौकिकी ।
कथं लब्धा त्वया नाथ दुर्लभा भुवि मानवैः ॥ ३१ ॥
तच्छ्रुत्वा वचनं तस्य प्रोवाचाश्रुयुतेक्षणः ।
देव्याः प्रसादमतुलं प्रेमगद्गदितान्तरः ॥ ३२ ॥
प्रार्थयामास तां मालां तं मुनिं स सतीपिता ।
अदेयं शक्तिभक्ताय नास्ति त्रैलोक्यमण्डले ॥ ३३ ॥
इति बुद्ध्या तु तां मालां मनवे स समर्पयत् ।
गृहीता शिरसा माला मनुना निजमन्दिरे ॥ ३४ ॥
स्थापिता शयनं यत्र दम्पत्योरतिसुन्दरम् ।
पशुकर्मरतो रात्रौ मालागन्धेन मोदितः ॥ ३५ ॥
अभवत्स महीपालस्तेन पापेन शङ्करे ।
शिवे द्वेषमतिर्जातो देव्यां सत्यां तथा नृप ॥ ३६ ॥
राजंस्तेनापराधेन तज्जन्यो देह एव च ।
सत्या योगाग्निना दग्धः सतीधर्मदिदृक्षया ॥ ३७ ॥
पुनश्च हिमवत्पृष्ठे प्रादुरासीत्तु तन्महः ।
जनमेजय उवाच -
दह्यमाने सतीदेहे जाते किमकरोच्छिवः ॥ ३८ ॥
प्राणाधिका सती तस्य तद्वियोगेन कातरः ।
व्यास उवाच -
ततः परं तु यज्जातां मया वक्तुं न शक्यते ॥ ३९ ॥
त्रैलोक्यप्रलयो जातः शिवकोपाग्निना नृप ।
वीरभद्रः समुत्पन्नो भद्रकालीगणान्वितः ॥ ४० ॥
त्रैलोक्यनाशनोद्युक्तो वीरभद्रो यदाभवत् ।
ब्रह्मादयस्तदा देवां शङ्करं शरणं ययुः ॥ ४१ ॥
जाते सर्वस्वनाशेऽपि करुणानिधिरीश्वरः ।
अभयं दत्तवांस्तेभ्यो बस्तवक्रेण तं मनुम् ॥ ४२ ॥
अजीवयन्महात्मासौ ततः खिन्नो महेश्वरः ।
यज्ञवाटमुपागम्य रुरोद भृशदुःखितः ॥ ४३ ॥
अपश्यत्तां सतीं वह्नौ दह्यमानां तु चित्कलाम् ।
स्कन्धेऽप्यारोपयामास हा सतीति वदन्मुहुः ॥ ४४ ॥
बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः ।
तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम् ॥ ४५ ॥
विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः ।
चिच्छेदावयवान्सत्यास्तत्तत्स्थानेषु तेऽपतन् ॥ ४६ ॥
तत्तत्स्थानेषु तत्रासीन्नानामूर्तिधरो हरः ।
उवाच च ततो देवान्स्थानेष्वेतेषु ये शिवाम् ॥ ४७ ॥
भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् ।
नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका ॥ ४८ ॥
स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्मिणः ।
तेषां मन्त्राः प्रसिद्ध्यन्ति मायाबीजं विशेषतः ॥ ४९ ॥
इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः ।
कालं निन्ये नृपश्रेष्ठ जपध्यानसमाधिभिः ॥ ५० ॥
जनमेजय उवाच -
कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ ।
कति संख्यानि नामानि कानि तेषां च मे वद ॥ ५१ ॥
तत्र स्थितानां देवीनां नामानि च कृपाकर ।
कृतार्थोऽहं भवे येन तद्वदाशु महामुने ॥ ५२ ॥
व्यास उवाच -
शृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् ।
येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥ ५३ ॥
येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः ।
भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥ ५४ ॥
वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी ।
क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥ ५५ ॥
प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने ।
मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥ ५६ ॥
विश्वकामा भगवती विश्वकामप्रपूरणी ।
गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥ ५७ ॥
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।
गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥ ५८ ॥
एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि ।
विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे ॥ ५९ ॥
केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी ।
मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ ६० ॥
स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्रिका ।
श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥ ६१ ॥
वराहशैले तु जया कमला कमलालये ।
रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा ॥ ६२ ॥
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।
महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ ६३ ॥
मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका ।
गंयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥ ६४ ॥
उत्पलाषी सहस्राक्षे हिरण्याक्षे महोत्पला ।
विपाशायाममोघाक्षी पाडला पुण्ड्रवर्धने ॥ ६५ ॥
नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी ।
विपुले विपुला देवी कल्याणी मलयाचले ॥ ६६ ॥
सह्याद्रावकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ।
रमणा रामतीर्थे तु यमुनायां मृगावती ॥ ६७ ॥
कोटवी कोटतीर्थे तु सुगन्धा माधवे वने ।
गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥ ६८ ॥
शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे ।
रुक्मिणी द्वारवयां तु राधा वृन्दावने वने ॥ ६९ ॥
देवकी मथुरायां तु पाताले परमेश्वरी ।
चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ ७० ॥
करवीरे महालक्षीरुमा देवी विनायके ।
आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ ७१ ॥
अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते ।
माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥ ७२ ॥
छगलण्डे प्रचण्डा तु चण्डीकामरकण्टके ।
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ ७३ ॥
देवमाता सरस्वत्यां पारावारा तटे स्मृता ।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ ७४ ॥
सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी ।
उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥ ७५ ॥
माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे ।
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ ७६ ॥
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।
भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा ॥ ७७ ॥
कपालमोचने शुद्धिर्माता कामावरोहणे ।
शङ्खोद्धारे धरा नाम धृतिः पिण्डारके तथा ॥ ७८ ॥
कला तु चन्द्रभागायामच्छोदे शिवधारिणी ।
वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ ७९ ॥
औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥ ८० ॥
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ।
गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ ८१ ॥
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।
सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ ८२ ॥
अरुन्धती सतीनां तु रामासु च तिलोत्तमा ।
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ ८३ ॥
इमान्यष्ट शतानि स्युः पीठानि जनमेजय ।
तत्संख्याकायस्तदीशान्यो देव्यश्च परिकीर्तिताः ॥ ८४ ॥
सतीदेव्यङ्गभूतानि पीठानि कथितानि च ।
अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥ ८५ ॥
यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् ।
सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत् ॥ ८६ ॥
एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः ।
सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च ॥ ८७ ॥
कुर्याच्च महतीं पूजां भगवत्या विधानतः ।
क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः ॥ ८८ ॥
कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय ।
भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः ॥ ८९ ॥
सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप ।
तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो ॥ ९० ॥
देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते ।
प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत् ॥ ९१ ॥
यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः ।
मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ ९२ ॥
पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् ।
वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः ॥ ९३ ॥
य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः ।
सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे ॥ ९४ ॥
वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा ।
अन्ते लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥ ९५ ॥
नामाष्टशतजापेन बहवः सिद्धतां गताः ।
यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति ॥ ९६ ॥
ग्रहमारीभयादीनि तत्र नैव भवन्ति हि ।
सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः ॥ ९७ ॥
न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः ।
कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः ॥ ९८ ॥
नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः ।
सर्वथा पूज्यन्ते देवैः किं पुनर्मनुजोत्तमैः ॥ ९९ ॥
श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् ।
तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ॥ १०० ॥
इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च ।
सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः ॥ १०१ ॥
पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः ।
रहस्यातिरहस्यं च किं भूयः सह्रोतुमिच्छसि ॥ १०२ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादश साहस्र्यां संहितायां सप्तमस्कन्धे देवीपीठवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥