देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः १५
हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम्
व्यास उवाच -
प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे ।
आजगाम तदा पाशी विप्रवेषधरः शुभः ॥ १ ॥
स्वस्तीत्युक्त्वा नृपं प्राह वरुणोऽहं निशामय ।
पुत्रो जातस्तवाधीश यजानेन नृपाशु माम् ॥ २ ॥
सत्यं कुरु वचो राजन् यत्प्रोक्तं भवतः पुरा ।
वन्ध्यत्वं तु गतं तेऽद्य वरदानेन मे किल ॥ ३ ॥
इति तस्य वचः श्रुत्वा राजा चिन्तां चकार ह ।
कथं हन्मि सुतं जातं जलजेन समाननम् ॥ ४ ॥
लोकपालः समायातो विप्रवेषेण वीर्यवान् ।
न देवहेलनं कार्यं सर्वथा शुभमिच्छता ॥ ५ ॥
पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा ।
किं करोमि कथं मे स्यात्सुखं सन्ततिसम्भवम् ॥ ६ ॥
धैर्यमालम्ब्य भूपालस्तं नत्वा प्रतिपूज्य च ।
उवाच वचनं श्लक्ष्णं युक्तं विनयपूर्वकम् ॥ ७ ॥
राजोवाच -
देवदेव तवानुज्ञां करोमि करुणानिधे ।
वेदोक्तेन विधानेन मखं च बहुदक्षिणम् ॥ ८ ॥
पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता ।
मासेन शुध्येज्जननी दम्पती तत्र कारणम् ॥ ९ ॥
सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् ।
कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर ॥ १० ॥
व्यास उवाच -
इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् ।
स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव ॥ ११ ॥
आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया ।
कृत्वौत्थानिकमाचारं पुत्रस्य नृपसत्तम ॥ १२ ॥
इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः ।
हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः ॥ १३ ॥
कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः ।
विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान् ॥ १४ ॥
राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् ।
नामास्य रोहितश्चेति चकार विधिपूर्वकम् ॥ १५ ॥
पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः ।
आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः ॥ १६ ॥
वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे ।
प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः ॥ १७ ॥
दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो ।
मखं करोमि वारीश विधिवद्वाञ्छितं तव ॥ १८ ॥
अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः ।
तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम् ॥ १९ ॥
व्यास उवाच -
इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ ।
हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे ॥ २० ॥
पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् ।
आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन् ॥ २१ ॥
भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् ।
प्रणम्यासनसम्मानैः पूजयामास सादरम् ॥ २२ ॥
स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः ।
करोमि विधिवत्कामं मखं प्रबलदक्षिणम् ॥ २३ ॥
बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः ।
यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम् ॥ २४ ॥
तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् ।
कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल ॥ २५ ॥
तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः ।
प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन् ॥ २६ ॥
अपि ते सर्वसामग्री वर्तते नृपतेऽधुना ।
पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम् ॥ २७ ॥
क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि ।
तदाहं दारुणं शापं दास्ये कोपसमन्वितः ॥ २८ ॥
अद्य गच्छामि राजेन्द्र वचनात्तव मानद ।
न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव ॥ २९ ॥
इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् ।
राजा परमसन्तुष्टो ननन्द भवने तदा ॥ ३० ॥
चूडाकरणकाले तु प्रवृत्ते परमोत्सवे ।
सम्प्राप्तस्तरसा पाशी भवनं नृपतेः पुनः ॥ ३१ ॥
यदाङ्के सुतमादाय राज्ञी नृपतिसन्निधौ ।
उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात् ॥ ३२ ॥
कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् ।
विप्ररूपधरः श्रीमान् प्रत्यक्ष इव पावकः ॥ ३३ ॥
नृपतिस्त्वं समालोक्य बभूवातीव विह्वलः ।
नमश्चकार तं भीत्या कृताञ्जलिपुटः पुरः ॥ ३४ ॥
विधिवत्पूजयित्वा तं राजोवाच विनीतवान् ।
स्वामिन् कार्यं करोम्यद्य मखस्य विधिपूर्वकम् ॥ ३५ ॥
वक्तव्यमस्ति तत्रापि शृणुष्वैकमना विभो ।
युक्तं चेन्मन्यसे स्वामिंस्तद् ब्रवीमि तवाग्रतः ॥ ३६ ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः ॥ ३७ ॥
तस्मादयं सुतो मेऽद्य शुद्रवद्वर्तते शिशुः ।
उपनीतः क्रियार्हः स्यादिति वेदेषु निर्णयः ॥ ३८ ॥
राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम् ।
अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल ॥ ३९ ॥
दयसे यदि देवेश दीनं मां सेवकं तव ।
तदोपनीय कर्तास्मि पशुना यज्ञमुत्तमम् ॥ ४० ॥
लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद ।
मन्यसे मद्वचः सत्यं तद् गच्छ भवनं विभो ॥ ४१ ॥
व्यास उवाच -
इति तस्य वचः श्रुत्वा दयावान् यादसां पतिः ।
ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः ॥ ४२ ॥
गतेऽथ वरुणो राजा बभूवातिमुदान्वितः ।
सुखं प्राप्य सुतस्यैवं राजा मुदमवाप ह ॥ ४३ ॥
चकार राजकार्याणि हरिश्चन्द्रस्तदा नृपः ।
कालेन व्रजता पुत्रो बभूव दशवार्षिकः ॥ ४४ ॥
तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः ।
चकार ब्राह्मणैः शिष्टैरन्वितः सचिवैस्तथा ॥ ४५ ॥
एकादशे सुतास्याब्दे व्रतबन्धविधौ नृपः ।
विदधे विधिवत्कार्यं चित्ते चिन्तातुरः पुनः ॥ ४६ ॥
वर्तमाने तथा कार्ये उपनीते कुमारके ।
आजगामाथ वरुणो विप्रवेषधरस्तदा ॥ ४७ ॥
तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः ।
कृताञ्जलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम् ॥ ४८ ॥
देव दत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः ।
प्रसादात्तव मे शोको गतो वन्ध्यापवादजः ॥ ४९ ॥
कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम् ।
समये शृणु धर्मज्ञ सत्यमद्य ब्रवीम्यहम् ॥ ५० ॥
समावर्तनकर्मान्ते करिष्यामि तवेप्सितम् ।
ममोपरि दयां कृत्वा तावत्त्वं क्षन्तुमर्हसि ॥ ५१ ॥
वरुण उवाच -
प्रतारयसि मां राजन् पुत्रप्रेमाकुलो भृशम् ।
मुहुर्मुहुर्मतिं कृत्वा युक्तियुक्तां महामते ॥ ५२ ॥
गच्छाम्यद्य महाराज वचसा तव नोदितः ।
आगमिष्यामि समये समावर्तनकर्मणि ॥ ५३ ॥
इत्युक्त्वा प्रययौ पाशी तपापृच्छ्य विशांपते ।
राजा प्रमुदितः कार्यं चकार च यथोत्तरम् ॥ ५४ ॥
आगतं वरुणं दृष्ट्वा कुमारोऽतिविचक्षणः ।
यज्ञस्य समयं ज्ञात्वा तदा चिन्तातुरोऽभवत् ॥ ५५ ॥
शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः ।
ज्ञात्वात्मवधमायुष्मन् गमनाय मतिं दधौ ॥ ५६ ॥
निश्चयं परमं कृत्वा सम्मन्त्र्य सचिवात्मजैः ।
प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसौ ॥ ५७ ॥
गते पुत्रे नृपः कामं दुःखितोऽभूद् भृशं तदा ।
प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया ॥ ५८ ॥
एवं गतेऽथ कालेऽसौ वरुणस्तद्गृहं गतः ।
राजानं शोकसन्तप्तं कुरु यज्ञमिति ब्रुवन् ॥ ५९ ॥
राजा प्रणम्य तं प्राह देवदेव करोमि किम् ।
न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः ॥ ६० ॥
सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च ।
अन्वेषितो मे दूतैस्तु न प्राप्तो यादसांपते ॥ ६१ ॥
आज्ञापय महाराज किं करोमि गते सुते ।
न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा ॥ ६२ ॥
व्यास उवाच -
इति भूपवचः श्रुत्वा प्रचेताः कुपितो भृशम् ।
शशाप च नृपं क्रोधाद्वञ्चितस्तु पुनः पुनः ॥ ६३ ॥
नृपतेऽहं त्वया यस्माद्वचसा च प्रवञ्चितः ।
तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुणः ॥ ६४ ॥
व्यास उवाच -
इति शप्तो महीपालः कुपितेन प्रचेतसा ।
पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु ॥ ६५ ॥
एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् ।
राजा प्राप्य महाव्याधिं बभूवातीव दुःखितः ॥ ६६ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥