देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः १४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम्

व्यास उवाच -
विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः ।
प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा ॥ १ ॥
मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः ।
नागताः सर्व एवैते वसिष्ठेन निवारिताः ॥ २ ॥
गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः ।
आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः ॥ ३ ॥
तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः ।
नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम ॥ ४ ॥
पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि ।
प्रापयामि महाराज वाञ्छितं ते करोम्यहम् ॥ ५ ॥
इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः ।
ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम् ॥ ६ ॥
दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् ।
यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः ॥ ७ ॥
पुण्येन मम राजेन्द्र बहुकालार्जितेन च ।
याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये ॥ ८ ॥
व्यास उवाच -
इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः ।
उत्पपात यथा पक्षी वेगवांस्तपसो बलात् ॥ ९ ॥
उत्पत्य गगने राजा गतः शक्रपुरीं यदा ।
दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक् ॥ १० ॥
कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः ।
गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः ॥ ११ ॥
सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् ।
ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत् ॥ १२ ॥
श्वपच क्व समायासि देवलोके जुगुप्सितः ।
याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम् ॥ १३ ॥
इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन ।
निपपात तदा राजा क्षीणपुण्यो यथामरः ॥ १४ ॥
पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् ।
पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम् ॥ १५ ॥
तस्य तत्क्रन्दितं राजन् पतितः कौशिको मुनिः ।
श्रुत्वा तिष्ठेति होवाच पतन्तं वीक्ष्य भूपतिम् ॥ १६ ॥
वचनात्तस्य तत्रैव स्थितोऽसौ गगने नृपः ।
मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात् ॥ १७ ॥
विश्वामित्रोऽप्यपः स्पृष्ट्वा चकारेष्टिं सुविस्तराम् ।
विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम् ॥ १८ ॥
तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः ।
तत्राजगाम सहसा मुनिं प्रति तु गाधिजम् ॥ १९ ॥
किं ब्रह्मन् क्रियते साधो कस्मात्कोपसमाकुलः ।
अलं सृष्ट्या मुनिश्रेष्ठ ब्रूहि किं करवाणि ते ॥ २० ॥
विश्वामित्र उवाच -
स्वं निवासं महीपालं च्युतं त्वद्‌भुवनाद्‌ विभो ।
नयस्व प्रीतियोगेन त्रिशङ्कुं चातिदुःखितम् ॥ २१ ॥
व्यास उवाच -
तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशङ्‌कितः ।
तपोबलं विदित्वोग्रमोमित्योवाच वासवः ॥ २२ ॥
दिव्यदेहं नृपं कृत्वा विमानवरसंस्थितम् ।
आपृच्छ्य कौशिकं शक्रोऽगमन्निजपुरीं तदा ॥ २३ ॥
गते शक्रे तु वै स्वर्गं त्रिशङ्कुसहिते ततः ।
विश्वामित्रः सुखं प्राप्य स्वाश्रमे सुस्थिरोऽभवत् ॥ २४ ॥
हरिश्चन्द्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम् ।
पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात् ॥ २५ ॥
अयोध्याधिपतिः क्रीडां चकार सह भार्यया ।
रूपयौवनचातुर्ययुक्तया प्रीतिसंयुतः ॥ २६ ॥
अतीतकाले युवती न सा गर्भवती ह्यभूत् ।
तदा चिन्तातुरो राजा बभूवातीव दुःखितः ॥ २७ ॥
वसिष्टस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम् ।
अनपत्यत्वजां चिन्तां गुरवे समवेदयत् ॥ २८ ॥
दैवज्ञोऽसि भवान्कामं मन्त्रविद्याविशारदः ।
उपायं कुरु धर्मज्ञ सन्ततेर्मम मानद ॥ २९ ॥
अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम ।
कस्मादुपेक्षसे जानन् दुःखं मम च शक्तिमान् ॥ ३० ॥
कलविंकास्त्विमे धन्या ये शिशुं लालयन्ति हि ।
मन्दभाग्योऽहमनिशं चिन्तयामि दिवानिशम् ॥ ३१ ॥
व्यास उवाच -
इत्याकर्ण्य मुनिस्तस्य निर्वेदमिश्रितं वचः ।
सञ्चिन्त्य मनसा सम्यक् तमुवाच विधेः सुतः ॥ ३२ ॥
वसिष्ठ उवाच -
सत्यं ब्रूहि महाराज संसारेऽस्मिन्न विद्यते ।
अनपत्यत्वजं दुःखं यत्तथा दुःखमद्‌भुतम् ॥ ३३ ॥
तस्मात्त्वमपि राजेन्द्र वरुणं यादसां पतिम् ।
समाराधय यत्‍नेन स ते कार्यं करिष्यति ॥ ३४ ॥
वरुणादधिको नास्ति देवः सन्तानदायकः ।
तमाराधय धर्मिष्ठ कार्यसिद्धिर्भविष्यति ॥ ३५ ॥
दैवं पुरुषकारश्च माननीयाविमौ नृभिः ।
उद्यमेन विना कार्यसिद्धिः सञ्जायते कथम् ॥ ३६ ॥
न्यायतस्तु नरैः कार्य उद्यमस्तत्त्वदर्शिभिः ।
कृते तस्मिन्भवेत्सिद्धिर्नान्यथा नृपसत्तम ॥ ३७ ॥
इति तस्य वचः श्रुत्वा गुरोरमिततेजसः ।
प्रणम्य निर्ययौ राजा तपसे कृतनिश्चयः ॥ ३८ ॥
गङ्गातीरे शुभे स्थाने कृतपद्मासनो नृपः ।
ध्यायन्पाशधरं चित्ते चचार दुश्चरं तपः ॥ ३९ ॥
एवं तपस्यतस्तस्य प्रचेता दृष्टिगोचरः ।
कृपयाभून्महाराज प्रसन्नमुखपङ्कजः ॥ ४० ॥
हरिश्चन्द्रमुवाचेदं वचनं यादसां पतिः ।
वरं वरय धर्मज्ञ तुष्टोऽस्मि तपसा तव ॥ ४१ ॥
राजोवाच -
अनपत्योऽस्मि देवेश पुत्रं देहि सुखप्रदम् ।
ऋणत्रयापहारार्थमुद्यमोऽयं मया कृतः ॥ ४२ ॥
नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितस्य च ।
स्मितपूर्वं ततः पाशी तमाह पुराः स्थितम् ॥ ४३ ॥
वरुण उवाच -
पुत्रो यदि भवेद्‌राजन् गुणी मनसि वाञ्छितः ।
सिद्धे कार्ये ततः पश्चात्किं करिष्यसि मे प्रियम् ॥ ४४ ॥
यदि त्वं तेन पुत्रेण मां यजेथा विशङ्‌कितः ।
पशुबन्धेन तेनैव ददामि नृपते वरम् ॥ ४५ ॥
राजोवाच -
देव मे मास्तु वन्ध्यत्वं यजिष्येऽहं जलाधिप ।
पशुं कृत्वा सुतं पुत्रं सत्यमेतद्‌ब्रवीमि ते ॥ ४६ ॥
वन्ध्यत्वे परमं दुःखमसह्यं भुवि मानद ।
शोकाग्निशमनं नॄणां तस्माद्देहि सुतं शुभम् ॥ ४७ ॥
वरुण उवाच -
भविष्यति सुतः कामं राजन् गच्छ गृहाय वै ।
सत्यं तद्वचनं कार्यं यद्‌ब्रवीषि ममाग्रतः ॥ ४८ ॥
व्यास उवाच -
इत्युक्तो वरुणेनासौ हरिश्चन्द्रो गृहं ययौ ।
भार्यायै कथयामास वृत्तान्तं वरदानजम् ॥ ४९ ॥
तस्य भार्याशतं पूर्णं बभूवातिमनोहरम् ।
पट्टराज्ञी शुभा शैव्या धर्मपत्‍नी पतिव्रता ॥ ५० ॥
काले गतेऽथ सा गर्भं दधार वरवर्णिनी ।
बभूव मुदितो राजा श्रुत्वा दोहदचेष्टितम् ॥ ५१ ॥
कारयामास विधिवत्संस्कारान्नृपतिस्तदा ।
मासेऽथ दशमे पूर्णे सुषुवे सा शुभे दिने ॥ ५२ ॥
ताराग्रहबलोपेते पुत्रं देवसुतोपमम् ।
पुत्रे जाते नृपः स्नात्वा ब्राह्मणैः परिवेष्टितः ॥ ५३ ॥
चकार जातकर्मादौ ददौ दानानि भूरिशः ।
राज्ञश्चातिप्रमोदोऽभूत्पुत्रजन्मसमुद्‌भवः ॥ ५४ ॥
बभूव परमोदारो धनधान्यसमन्वितः ।
विशेषदानसंयुक्तो गीतवादित्रसंकुलः ॥ ५५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥