देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः १३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम्

राजोवाच -
हरिश्चन्द्रः कृतो राजा सचिवैर्नृपशासनात् ।
त्रिशङ्कुस्तु कथं मुक्तस्तस्माच्चाण्डालदेहतः ॥ १ ॥
मृतो वा वनमध्ये तु गङ्गातीरे परिप्लुतः ।
गुरुणा वा कृपां कृत्वा शापात्तस्माद्‌विमोचितः ॥ २ ॥
एतद्‌ वृत्तान्तमखिलं कथयस्व ममाग्रतः ।
चरितं तस्य नृपतेः श्रोतुकामोऽ‍स्मि सर्वथा ॥ ३ ॥
व्यास उवाच -
अभिषिक्तं सुतं कृत्वा राजा सन्तुष्टमानसः ।
कालातिक्रमणं तत्र चकार चिन्तयञ्छिवाम् ॥ ४ ॥
एवं गच्छति काले तु तपस्तप्त्वा समाहितः ।
द्रष्टुं दारान्सुतादींश्च तदागात्कौशिको मुनिः ॥ ५ ॥
आगत्य स्वजनं दृष्ट्वा सुस्थितं मुदमाप्तवान् ।
भार्यां पप्रच्छ मेधावी स्थितामग्रे सपर्यया ॥ ६ ॥
दुर्भिक्षे तु कथं कालस्तया नीतः सुलोचने ।
अन्नं विना त्विमे बालाः पालिता केन तद्वद ॥ ७ ॥
अहं तपसि सन्नद्धो नागतः शृणु सुन्दरि ।
किं कृतं तु त्वया कान्ते विना द्रव्येण शोभने ॥ ८ ॥
मया चिन्ता कृता तत्र श्रुत्वा दुर्भिक्षमद्‌भुतम् ।
नागतोऽहं विचार्यैवं किं करिष्यामि निर्धनः ॥ ९ ॥
अहमप्यति वामोरु पीडितः क्षुधया वने ।
प्रविष्टश्चौरभावेन कुत्रचिच्छ्वपचालये ॥ १० ॥
श्वपचं निद्रितं दृष्ट्वा क्षुधया पीडितो भृशम् ।
महानसं परिज्ञाय भक्ष्यार्थं समुपस्थितः ॥ ११ ॥
यदा भाण्डं समुद्‌घाट्य पक्वं श्वतनुजामिषम् ।
गृह्णामि भक्षणार्थाय तदा दृष्टस्तु तेन वै ॥ १२ ॥
पृष्टः कस्त्वं कथं प्राप्तो गृहे मे निशि सादरम् ।
ब्रूहि कार्यं किमर्थं त्वमुद्‌घाटयसि भाण्डकम् ॥ १३ ॥
इत्युक्तः श्वपचेनाहं क्षुधया पीडितो भृशम् ।
तमवोचं सुकेशान्ते कामं गद्‌गदया गिरा ॥ १४ ॥
ब्राह्मणोऽहं महाभाग तापसः क्षुधयार्दितः ।
चौरभावमनुप्राप्तो भक्ष्यं पश्यामि भाण्डके ॥ १५ ॥
चौरभावेन सम्प्राप्तोऽस्म्यतिथिस्ते महामते ।
क्षुधितोऽस्मि ददस्वाज्ञां मांसमद्मि सुसंस्कृतम् ॥ १६ ॥
विश्वामित्र उवाच -
श्वपचस्तु वचः श्रुत्वा मामुवाच सुनिश्चितम् ।
भक्षं मा कुरु वर्णाग्र्य जानीहि श्वपचालयम् ॥ १७ ॥
दुर्लभं खलु मानुष्यं तत्रापि च द्विजन्मता ।
द्विजत्वे ब्राह्मणत्वं च दुर्लभं वेत्सि किं न हि ॥ १८ ॥
दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता ।
अग्राह्या मनुना प्रोक्ताः कर्मणा सप्त चान्त्यजाः ॥ १९ ॥
त्याज्योऽहं कर्मणा विप्र श्वपचो नात्र संशयः ।
निवारयामि भक्ष्यात्त्वां न लोभेनाञ्जसा द्विज ॥ २० ॥
वर्णसङ्करदोषोऽयं मा यातु त्वां द्विजोत्तम ।
विश्वामित्र उवाच
सत्यं वदसि धर्मज्ञ मतिस्ते विशदान्त्यज ॥ २१ ॥
तथाप्यापदि धर्मस्य सूक्ष्ममार्गं ब्रवीम्यहम् ।
देहस्य रक्षणं कार्यं सर्वथा यदि मानद ॥ २२ ॥
पापस्यान्ते पुनः कार्यं प्रायश्चित्तं विशुद्धये ।
दुर्गतिस्तु भवेत्पापादनापदि न चापदि ॥ २३ ॥
मरणात्क्षुधितस्याथ नरको नात्र संशयः ।
तस्मात्क्षुधापहरणं कर्तव्यं शुभमिच्छता ॥ २४ ॥
तेनाहं चौर्यधर्मेण देहं रक्षेऽप्यथान्त्यज ।
अवर्षणे च चौर्येण यत्पापं कथितं बुधैः ॥ २५ ॥
यो न वर्षति पर्जन्यस्तत्तु तस्मै भविष्यति ।
इत्युक्ते वचने कान्ते पर्जन्यः सहसापतत् ॥ २६ ॥
गगनाद्धस्तिहस्ताभिर्धाराभिरभिकाङ्‌क्षितः ।
मुदितोऽहं घनं वीक्ष्य वर्षन्तं विद्युता सह ॥ २७ ॥
तदाहं तद्‌गृहं त्यक्त्वा निःसृतः परया मुदा ।
कथय त्वं वरारोहे कालो नीतस्त्वया कथम् ॥ २८ ॥
कान्तारे परमः क्रूरः क्षयकृत्प्राणिनामिह ।
व्यास उवाच -
इति तस्य वचः श्रुत्वा पतिमाह प्रियंवदा ॥ २९ ॥
यथा शृणु मया नीतः कालः परमदारुणः ।
गते त्वयि मुनिश्रेष्ठ दुर्भिक्षं समुपागतम् ॥ ३० ॥
अन्नार्थं पुत्रकाः सर्वे बभूवुश्चातिदुःखिताः ।
क्षुधितान्बालकान्वीक्ष्य नीवारार्थं वने वने ॥ ३१ ॥
भ्रान्ताहं चिन्तयाऽऽविष्टा किञ्चित्प्राप्तं फलं तदा ।
एवं च कतिचिन्मासा नीवारेणातिवाहिताः ॥ ३२ ॥
तदभावे मया कान्त चिन्तितं मनसा पुनः ।
न भिक्षा किल दुर्भिक्षे नीवारा नापि कानने ॥ ३३ ॥
न वृक्षेषु फलान्यासुर्न मूलानि धरातले ।
क्षुधया पीडिता बाला रुदन्ति भृशमातुराः ॥ ३४ ॥
किं करोमि क्व गच्छामि किं ब्रवीमि क्षुधार्तितान् ।
एवं विचिन्त्य मनसा निश्चयस्तु मया कृतः ॥ ३५ ॥
पुत्रमेकं ददाम्यद्य कस्मैचिद्धनिने किल ।
गृहीत्वा तस्य मौल्यं तु तेन द्रव्येण बालकान् ॥ ३६ ॥
पालयेऽहं क्षुधार्तांस्तु नान्योपायोऽस्ति पालने ।
इति सञ्चिन्त्य मनसा पुत्रोऽयं प्रहितो मया ॥ ३७ ॥
विक्रयार्थं महाभाग क्रन्दमानो भृशातुरः ।
क्रन्दमानं गृहीत्वैनं निर्गताहं गतत्रपा ॥ ३८ ॥
तदा सत्यव्रतो मार्गे मामुद्वीक्ष्य भृशातुराम् ।
पप्रच्छ स च राजर्षिः कस्माद्‌रोदिति बालकः ॥ ३९ ॥
तदाहं तमुवाचेदं वचनं मुनिसत्तम ।
विक्रयार्थं नीयतेऽसौ बालकोऽद्य मया नृप ॥ ४० ॥
श्रुत्वा मे वचनं राजा दयार्द्रहृदयस्ततः ।
मामुवाच गृहं याहि गृहीत्वैनं कुमारकम् ॥ ४१ ॥
भोजनार्थे कुमाराणामामिषं विहितं तव ।
प्रापयिष्याम्यहं नित्यं यावन्मुनिसमागमः ॥ ४२ ॥
अहन्यहनि भूपालो वृक्षेऽस्मिन्मृगसूकरान् ।
विन्यस्य याति हत्वासौ प्रत्यहं दययान्वितः ॥ ४३ ॥
तेनैव बालकाः कान्त पालिता वृजिनार्णवात् ।
वसिष्ठेनाथ शप्ताऽसौ भूपतिर्मम कारणात् ॥ ४४ ॥
कस्मिंश्चिद्दिवसे मांसं न प्राप्तं तेन कानने ।
हता दोग्ध्री वसिष्ठस्य तेनासौ कुपितो मुनिः ॥ ४५ ॥
त्रिशङ्कुरिति भूपस्य कृतं नाम महात्मना ।
कुपितेन वधाद्धेतोश्चाण्डालश्च कृतो नृपः ॥ ४६ ॥
तेनाहं दुःखिता जाता तस्य दुःखेन कौशिक ।
श्वपचत्वमसौ प्राप्तो मत्कृते नृपनन्दनः ॥ ४७ ॥
येन केनाप्युपायेन भवता नृपतेः किल ।
तस्माद्रक्षा प्रकर्तव्या तपसा प्रबलेन ह ॥ ४८ ॥
व्यास उवाच -
इति भार्यावचः श्रुत्वा कौशिको मुनिसत्तमः ।
तामाह कामिनीं दीनां सान्त्वपूर्वमरिन्दम ॥ ४९ ॥
विश्वामित्र उवाच -
मोचयिष्यामि तं शापान्नृपं कमललोचने ।
उपकारः कृतो येन कान्ताराद्‌रक्षितासि वै ॥ ५० ॥
विद्यातपोबलेनाहं करिष्ये दुःखसंक्षयम् ।
इत्याश्वास्य प्रियां तत्र कौशिकः परमार्थवित् ॥ ५१ ॥
चिन्तयामास नृपतेः कथं स्याद्दुःखनाशनम् ।
संविमृश्य मुनिस्तत्र जगाम यत्र पार्थिवः ॥ ५२ ॥
त्रिशङ्कुः पक्वणे दीनः संस्थितः श्वपचाकृतिः ।
आगच्छन्तं मुनिं दृष्ट्वा विस्मितोऽसौ नराधिपः ॥ ५३ ॥
दण्डवन्निपपातोर्व्यां पादयोस्तरसा मुनेः ।
गृहीत्वा तं करे भूपं पतितं कौशिकस्तदा ॥ ५४ ॥
उत्थाप्योवाच वचनं सान्त्वपूर्वं द्विजोत्तमः ।
मत्कृते त्वं महीपाल शप्तोऽसि मुनिना यतः ॥ ५५ ॥
वाञ्छितं ते करिष्यामि ब्रूहि किं करवाण्यहम् ।
राजोवाच -
मया सम्प्रार्थितः पूर्वं वसिष्ठो मखहेतवे ॥ ५६ ॥
मां याजय मुनिश्रेष्ठ करोमि मखमुत्तमम् ।
यथेष्टं कुरु विप्रेन्द्र यथा स्वर्गं व्रजाम्यहम् ॥ ५७ ॥
अनेनैव शरीरेण शक्रलोकं सुखालयम् ।
कोपं कृत्वा वसिष्ठोऽसौ मामाहेति सुदुर्मते ॥ ५८ ॥
मानुषेण हि देहेन स्वर्गवासः कुतस्तव ।
पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ ॥ ५९ ॥
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् ।
तदा तेनैव शप्तोऽहं चाण्डालो भव पामर ॥ ६० ॥
इत्येतत्कथितं सर्वं कारणं शापसम्भवम् ।
मम दुःखविनाशाय समर्थोऽसि मुनीश्वर ॥ ६१ ॥
इत्युक्त्वा विररमासौ राजा दुःखरुजार्दितः ।
कौशिकोऽपि निराकर्तुं शापं तस्य व्यचिन्तयत् ॥ ६२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥