देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search

सत्यव्रताय राजनीत्युपदेशवर्णनम्

जनमेजय उवाच -
वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः ।
कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते ॥ १ ॥
व्यास उवाच -
सत्यव्रतस्तथा शप्तः पिशाचत्वमवाप्तवान् ।
तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः ॥ २ ॥
कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् ।
होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः ॥ ३ ॥
भूमिदेवाः शृणुध्वं वै वचनं प्रणतस्य मे ।
ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह ॥ ४ ॥
जपस्य च दशांशेन होमः कार्यो विधानतः ।
भवद्‌भिः कार्यसिद्ध्यर्थं वेदविद्‌भिः कृपापरैः ॥ ५ ॥
सत्यव्रतोऽहं नृपतेः पुत्रो ब्रह्मविदांवराः ।
कार्यं मम विधातव्यं सर्वथा सुखहेतवे ॥ ६ ॥
तच्छ्रुत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेः सुतम् ।
शप्तस्त्वं गुरुणा प्राप्तं पिशाचत्वं त्वयाधुना ॥ ७ ॥
न यागार्होऽसि तस्मात्त्वं वेदेष्वनधिकारतः ।
पिशाचत्वमनुप्राप्तं सर्वलोकेषु गर्हितम् ॥ ८ ॥
व्यास उवाच -
तन्निशम्य वचस्तेषां राजा दुःखमवाप ह ।
धिग्जीवितमिदं मेऽद्य किं करोमि वने स्थितः ॥ ९ ॥
पित्रा चाहं परित्यक्तः शप्तश्च गुरुणा भृशम् ।
राज्याद्‌भ्रष्टः पिशाचत्वमनुप्राप्तः करोमि किम् ॥ १० ॥
तदा पृथुतरां कृत्वा चितां काष्ठैर्नृपात्मजः ।
सस्मार चण्डिकां देवीं प्रवेशमनुचिन्तयन् ॥ ११ ॥
स्मृता देवीं महामायां चितां प्रज्वलितां पुरः ।
कृत्वा स्नात्वा प्रवेशार्थं स्थितः प्राञ्जलिरग्रतः ॥ १२ ॥
ज्ञात्वा भगवती तं तु मर्तुकामं महीपतिम् ।
आजगाम तदाऽऽकाशं प्रत्यक्षं तस्य चाग्रतः ॥ १३ ॥
दत्त्वाथ दर्शनं देवी तमुवाच नृपात्मजम् ।
सिंहारूढा महाराज मेघगम्भीरया गिरा ॥ १४ ।
देव्युवाच -
किं ते व्यवसितं साधो हुताशे मा तनुं त्यज ।
स्थिरो भव महाभाग पिता ते जरसान्वितः ॥ १५ ॥
राज्यं दत्त्वा वने तुभ्यं गन्तास्ति तपसे किल ।
विषादं त्यज हे वीर परश्वोऽहनि भूपते ॥ १६ ॥
नेतुं त्वामागमिष्यन्ति सचिवाश्व पितुस्तव ।
मत्प्रसादात्पिता च त्वामभिषिच्य नृपासने ॥ १७ ॥
जित्वा कामं ब्रह्मलोकं गमिष्येत्येष निश्चयः ।
व्यास उवाच -
इत्युक्त्वा तं तदा देवी तत्रैवान्तरधीयत ॥ १८ ॥
राजपुत्रो विरमितो मरणात्पावकात्ततः ।
अयोध्यायां तदाऽऽगत्य नारदेन महात्मना ॥ १९ ॥
वृत्तान्तः कथितः सर्वो राज्ञे सत्वरमादितः ।
श्रुत्वा राजाथ पुत्रस्य तं तथा मरणोद्यमम् ॥ २० ॥
खेदमाधाय मनसि शुशोच बहुधा नृपः ।
सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः ॥ २१ ॥
ज्ञातं भवद्‍‍भिरत्युग्रं पुत्रस्य मम चेष्टितम् ।
त्यक्तो मया वने धीमान्पुत्रः सत्यव्रतो मम ॥ २२ ॥
आज्ञयासौ गतः सद्यो राज्यार्हः परमार्थवित् ।
स्थितस्तत्रैव विज्ञाने धनहीनः क्षमान्वितः ॥ २३ ॥
वसिष्ठेन तथा शप्तः पिशाचसदृशः कृतः ।
सोऽद्य दुःखेन सन्तप्तः प्रवेष्टुञ्च हुताशनम् ॥ २४ ॥
उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः ।
तस्माद्‌ गच्छन्तु तं शीघ्रं ज्येष्ठपुत्रं महाबलम् ॥ २५ ॥
आश्वास्य वचनैरत्र तरसैवानयन्त्विह ।
अभिषिच्य सुतं राज्ये औरसं पालनक्षमम् ॥ २६ ॥
वनं यास्यामि शान्तोऽहं तपसे कृतनिश्चयः ।
इत्युक्त्वा मन्त्रिणः सर्वान्प्रेषयामास पार्थिवः ॥ २७ ॥
तस्यैवानयनार्थं हि प्रीतिप्रवणमानसः ।
ते गत्वा तं समाश्वास्य मन्त्रिणः पार्थिवात्मजम् ॥ २८ ॥
अयोध्यायां महात्मानं मानपूर्वं समानयन् ।
दृष्ट्वा सत्यव्रतं राजा दुर्बलं मलिनाम्बरम् ॥ २९ ॥
जटाजूटधरं क्रूरं चिन्तातुरमचिन्तयत् ।
किं कृतं निष्ठुरं कर्म मया पुत्रो विवासितः ॥ ३० ॥
राज्यार्हश्चातिमेधावी जानता धर्मनिश्चयम् ।
इति सञ्चिन्त्य मनसा तमालिङ्य महीपतिः ॥ ३१ ॥
आसने स्वसमीपशे समाश्वास्योपवेशयत् ।
उपविष्टं सुतं राजा प्रेमपूर्वमुवाच ह ॥ ३२ ॥
प्रेमगद्‌गदया वाचा नीतिशास्त्रविशारदः ।
राजोवाच -
पुत्र धर्मे मतिः कार्या माननीया मुखोद्‌भवाः ॥ ३३ ॥
न्यायागतं धनं ग्राह्यं रक्षणीयाः सदा प्रजाः ।
नासत्यं क्वापि वक्तव्यं नामार्गे गमनं क्वचित् ॥ ३४ ॥
शिष्टप्रोक्तं प्रकर्तव्यं पूजनीयास्तपस्विनः ।
हन्तव्या दस्यवः क्रूरा इन्द्रियाणां तथा जयः ॥ ३५ ॥
कर्तव्यं कार्यसिद्ध्यर्थं राज्ञा पुत्र सदैव हि ।
मन्त्रस्तु सर्वथा गोप्यः कर्तव्यः सचिवैः सह ॥ ३६ ॥
नोपेक्ष्योऽल्पोऽपि कृतिना रिपुः सर्वात्मना सुत ।
न विश्वसेत्परासक्तं सचिवं च तथा नतम् ॥ ३७ ॥
चाराः सर्वत्र योक्तव्याः शत्रुमित्रेषु सर्वथा ।
धर्मे मतिः सदा कार्या दानं दद्याच्च नित्यशः ॥ ३८ ॥
शुष्कवादो न कर्तव्यो दुष्टसङ्गं च वर्जयेत् ।
यष्टव्या विविधा यज्ञाः पूजनीया महर्षयः ॥ ३९ ॥
न विश्वसेत्स्त्रियं क्वापि स्त्रैणं द्यूतरतं नरम् ।
अत्यादरो न कर्तव्यो मृगयायां कदाचन ॥ ४० ॥
द्यूते मद्ये तथा गेये नूनं वारवधूषु च ।
स्वयं तद्विमुखो भूयात् प्रजास्तेभ्यश्च रक्षयेत् ॥ ४१ ॥
ब्राह्मे मुहूर्ते कर्तव्यमुत्थानं सर्वथा सदा ।
स्नानादिकं सर्वविधिं विधाय विधिवद्यथा ॥ ४२ ॥
पराशक्तेः परां पूजां भक्त्या कुर्यात्सुदीक्षितः ।
पुत्रैतज्जन्मसाफल्यं पराशक्तेः पदार्चनम् ॥ ४३ ॥
सकृत्कृत्वा महापूजां दैवीपादजलं पिबन् ।
न जातु जननीगर्भे गच्छेदिति विनिश्चयः ॥ ४४ ॥
सर्वं दृश्यं महादेवी द्रष्टा साक्षी च सैव हि ।
इति तद्‌भावभरितस्तिष्ठेन्निर्भयचेतसा ॥ ४५ ॥
कृत्वा नित्यविधिं सम्यग्गन्तव्यं सदसि द्विजान् ।
समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः ॥ ४६ ॥
सम्पूज्य ब्राह्मणान्पूज्यान्वेदवेदान्तपारगान् ।
गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा ॥ ४७ ॥
अविद्वान्ब्राह्मणः कोऽपि नैव पूज्यः कदाचन ।
आहारादधिकं नैव देयं मूर्खाय कर्हिचित् ॥ ४८ ॥
न वा लोभात्त्वया पुत्र कर्तव्यं धर्मलङ्घनम् ।
अतः परं न कर्तव्यं क्वचिद्विप्रावमाननम् ॥ ४९ ॥
ब्राह्मणा भूमिदेवाश्च माननीयाः प्रयत्‍नतः ।
कारणं क्षत्रियाणां च द्विजा एव न संशयः ॥ ५० ॥
अद्‌भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ५१ ॥
तस्माद्‌राज्ञा विशेषेण माननीया मुखोद्‌भवाः ।
दानेन विनयेनैव सर्वथा भूतिमिच्छता ॥ ५२ ॥
दण्डनीतिः सदा कार्या धर्मशास्त्रानुसारतः ।
कोशस्य संग्रहः कार्यो नूनं न्यायागतस्य ह ॥ ५३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सत्यव्रताय राजनीत्युपदेशवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥