देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः १०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सत्यव्रताख्यानवर्णनम्

व्यास उवाच ।।
बभूव चक्रवर्ती स नृपतिः सत्यसंगरः ।।
मांधाता पृथिवीं सर्वामजयन्नृपतीश्वरः ।।१।।
दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च ।।
इंद्रेणास्य कृतं नाम त्रसदस्युरिति स्फुटम् ।। २ ।।
तस्य बिंदुमती भार्या शशबिंदोः सुताऽभवत् ।।
पतिव्रता सुरूपा च सर्वलक्षणसंयुता ।। ३ ।।
तस्यामुत्पादयामास मांधाता द्वौ सुतौ नृप ।।
पुरुकुत्सं सुविख्यातं मुचुकुंदं तथाऽपरम् ।।४।।
पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः ।।
पितृभक्तिरतश्चाभूद् बृहदश्वस्तदात्मजः ।। ५ ।।
हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित् ।।
तस्याऽऽत्मजस्त्रिधन्वा भूदरुणस्तस्य चात्मजः ।। ६ ।।
अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः ।।
सोऽभूदिच्छाचरः कामी मंदात्मा ह्यतिलोलुपः ।। ७ ।।
स पापात्मा विप्रभार्यां हृतवान्काममोहितः ।।
विवाहे तस्य विघ्नं स चकार नृपतेः सुतः ।। ८ ।।
मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप ।।
ऊचुर्भृशं सुदुःखार्ता हा हताः स्मेति चासकृत् ।। ९ ।।
पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः ।।
किं कृतं मम पुत्रेण भवतामशुभं द्विजाः ।। 7.10.१० ।।
तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् ।।
तदोचुस्त्वरुणं विप्राः कृताशीर्वचना भृशम् ।। ११ ।।
ब्राह्मणा ऊचुः ।।
राजंस्तव सुतेनाद्य विवाहे प्रहृता किल ।।
विवाहिता विप्रकन्या बलेन बलिनां वर ।। १२ ।।
व्यास उवाच ।।
श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः ।।
पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा ।। १३ ।।
गच्छ दूरं सुमंदात्मन्दुराचार गृहान्मम ।।
न स्थातव्यं त्वया पाप विषये मम सर्वथा ।। १४ ।।
कुपितं पितरं प्राह क्व गच्छामिति वै मुहुः ।।
अरुणास्तमथोवाच श्वपाकैः सह वर्तय ।। १५ ।।
श्वपचस्य कृतं कर्म द्विजदारापहारणम्।।
तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम् ।। १६ ।।
नहि पुत्रेण पुत्रार्थी त्वया च कुलपांसना ।।
यथेष्टं व्रज दुष्टात्मन्कीतनाशः कृतस्त्वया ।। १७ ।।
स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः ।।
निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ ।। १८ ।।
सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते ।।
धनुर्बाणधरः श्रीमान्कवची करुणालयः ।। १९ ।।
यदा निष्कासितः पित्रा कुपितेन महात्मना ।।
गुरुणाऽथ वसिष्ठेन प्रेरितोऽसौ महीपतिः ।। 7.10.२० ।।
तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः ।।
वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे ।। २१ ।।
केनचित्कारणेनाथ पिता तस्य महीपतिः ।।
पुत्रर्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गत ।। २२ ।।
न ववर्ष तदा तस्मिन्विषये पाकशासनः ।।
समा द्वादश राजेंद्र तेनाऽधर्मेण सर्वथा ।। २३ ।।
विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप ।।
संन्यस्य कौशिकीतीरे चचार विपुलं तपः ।। २४ ।।
कातरा तत्र संजाता भार्या कौशिकस्य ह ।।
कुटुंबभरणार्थाय दुःखिता वरवर्णिनी ।। २५ ।।
बालकान्क्षुधयाऽऽक्रांतान्रुदतः पश्यती भृशम् ।।
याचामानांश्च नीवारान्कष्टमाप पति व्रता ।। २६ ।।
चिंतयामास दुःखार्ता तोकान्वीक्ष्य क्षुधाऽऽतुरान् ।।
नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ।। २७ ।।
न मे त्राताऽस्ति पुत्राणां पतिर्मे नास्ति सन्निधौ ।।
रुदंति बालकाः कामं धिङ्मे जीवनमद्य वै ।। २८ ।।
धनहीना च मां त्यक्त्वा तपस्तप्तं गतः पतिः ।।
न जानाति समर्थोऽपि दुःखितां धनवर्जिताम् ।। २९ ।।
बालानां भरणं केन करोमि पतिना विना ।।
मरिष्यंति सुताः सर्वे क्षुधया पीडिता भृशम् ।। 7.10.३० ।।
एकं सुतं तु विक्रीय द्रव्येण कियता पुनः।।
पालयामि सुतानन्यानेष मे विहितो विधिः ।। ३१ ।।
सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये ।।
कालस्य कलनायाहं विक्रीणामि तथाऽऽत्मजम् ।। ३२ ।।
हृदयं कठिनं कृत्वा संचिंत्य मनसा सती ।।
सा दर्भरज्ज्वा बद्धाथ गले पुत्रं विनिर्गता ।। ३३ ।।
मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।।
शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात् ।। ३४ ।।
दृष्टा सत्यव्रतेनाऽऽर्ता तापसी शोकसंयुता ।।
पप्रच्छ नृपतिस्तां तु किं चिकीर्षसि शोभने ।। ३५ ।।
रुदंतं बालकं कंठे बद्ध्वा नयसि काऽधुना ।।
किमर्थं चारुसर्वांगि सत्यं ब्रूहि ममाऽग्रतः ।। ।। ३६ ।।
ऋषिपत्न्युवाच ।।
विश्वामित्रस्य भार्याऽहं पुत्रोऽयं मे नृपात्मज ।।
विक्रेतुमौरसं कामं गमिष्ये विषमेऽ सुतम् ।। ३७ ।।
अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तं नृप क्वचित् ।।
विक्रीणामि क्षुधार्तेन शेषस्य भरणाय वै ।। ३८ ।।
राजोवाच ।।
पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव ।।
तावदेव पतिस्तेऽत्र वनाच्चैवाऽऽगमिष्यति ।। ३९ ।।
वृक्षे तवाऽऽश्रमाभ्याशे भक्ष्यं किंचिन्निरंतरम् ।।
वंधयित्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ।। 7.10.४० ।।
इत्युक्ता सा तदा तेन राज्ञा कौशिककामिनी ।।
विबंधं तययं कृत्वा जगामाऽऽश्रममंडलम् ।।४१।।
सोऽभवद्गालवो नाम गलबंधान्महातपाः ।।
सा तु स्वस्याऽऽश्रमे गत्वा मुमोद बालकैर्वृता ।। ४२ ।।
सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः ।।
विश्वामित्रस्य च मुनेः कलत्रं तद्बभार ह ।। ४३ ।।
वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा ।।
विश्वामित्रवनाभ्याशे मांसं वृक्षे बबंध ह ।। ४४ ।।
ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदा त्ततः ।।
निर्वृतिं परमां प्राप प्राप्य भक्ष्यमनुत्तमम् ।। ४५ ।।
अयोध्यां चैव राज्यं च तथैवांतः पुरं मुनिः ।।
गते तप्तुं नृपे तस्मिन्व सिष्ठः पर्यरक्षत ।। ४६ ।।
सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद्बहिः ।।
पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने ।। ४७ ।।
सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः ।।
वसिष्ठे चाऽधिकं मन्युं धारयामास नित्यदा ।। ४८ ।।
त्याज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम् ।।
न वारयामास मुनिर्वसिष्ठः कारणेन ह ।। ४९ ।।
पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे ।।
जानन्नपि स धर्मात्मा विप्रदारपरिग्रहे ।। 7.10.५० ।।
कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावं महीपतिः ।।
वसिष्ठस्य च गां दोग्ध्रीमपश्यद्वनमध्यगाम्।। ५१ ।।
तां जघान क्षुधार्तस्य क्रोधान्मोहाच्च दस्युवत् ।।
वृक्षे बबंध तन्मांसं नीत्वा स्वयम भक्षयत् ।। ५२ ।।
ऋषिषत्नी सुतान्सर्वान्भोजयामास तत्तदा ।।
शंकमाना मृगस्येति न गोरिति च सुव्रता ।। ५३ ।।
वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा कुद्धस्तमब्रवीत् ।।
दुरात्मन्किं कृतं पापं धेनुघातात्पिशाचवत् ।। ५४ ।।
एवं ते शंकवः क्रूरा पतंतु त्वरितास्त्रयः ।।
गोवधाहारहरणात्पितुः क्रोधात्तथा भृशम् ।। ५५ ।।
त्रिशंकुरिति नाम्ना वै भुवि ख्यातो भविष्यसि ।।
पिशाचरूपमात्मानं दर्शयन्सर्व देहिनाम् ।। ५६ ।।
व्यास उवाच ।।
एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः।।
चचार च तपस्तीव्रं तस्मिन्नेवाऽऽश्रमे थितः ।। ५७ ।।
कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मंत्रमनुत्तमम् ।।
ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम् ।। ५८ ।।

इति श्रीदेवीभागवते महापुराणे सप्तमस्कंधे दशमोऽध्यायः ।। १० ।।