देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम्

व्यास उवाच -
दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् ।
प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः ॥ १ ॥
मा ब्रह्मबन्धो मर्यादामिमां त्वं कर्त्तुमर्हसि ।
वधिष्यामि द्विषन्तं त्वां विश्वरूपमिवाऽपरम् ॥ २ ॥
च्यवन उवाच -
मावमंस्था महात्मानौ रूपद्रविणवर्चसा ।
यौ चक्रतुर्मां मघवन् वृन्दारकमिवापरम् ॥ ३ ॥
ऋते त्वां विबुधाश्चान्ये कथं वाददते ग्रहम् ।
अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ ॥ ४ ॥
इन्द्र उवाच -
भिषजौ नार्हतः कामं ग्रहं यज्ञे कथञ्चन ।
यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि साम्प्रतम् ॥ ५ ॥
व्यास उवाच
अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः ।
ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम् ॥ ६ ॥
सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया ।
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ ७ ॥
आभ्यमर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् ।
वज्रं तु प्रहरिष्यामि विश्वरूपमिवापरम् ॥ ८ ॥
वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः ।
जग्राह विधिवत्सोममश्विभ्यामतिमन्युमान् ॥ ९ ॥
इन्द्रोऽपि प्राक्षिपत्कोपाद्‌वज्रमस्मै स्वमायुधम् ।
पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम् ॥ १० ॥
प्रेरितं चाशनिं प्रेक्ष्य च्यवनस्तपसा ततः ।
स्तम्भयामास वज्रं स शक्रस्यामिततेजसः ॥ ११ ॥
कृत्यया स महाबाहुरिन्द्रं हन्तुमिहोद्यतः ।
जुहावाग्नौ श्रुतं हव्यं मन्त्रेण मुनिसत्तमः ॥ १२ ॥
तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात् ।
प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः ॥ १३ ॥
मदो नाम महाघोरो भयदः प्राणिनामिह ।
शरीरे पर्वताकारस्तीक्ष्णदंष्ट्रो मयानकः ॥ १४ ॥
चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् ।
इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥ १५ ॥
बाहू पर्वतसंकाशावायतौ क्रूरदर्शनौ ।
जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम् ॥ १६ ॥
ग्रीवा तु गिरिशृङ्गाभा कठिना भीषणा भृशम् ।
नखा व्याघ्रनखप्रख्याः केशाश्चातीवभीषणाः ॥ १७ ॥
शरीरं कज्जलाभं च तस्य चास्यं भयानकम् ।
नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके ॥ १८ ॥
हनुरेका स्थिता तस्य भूमावेका दिवं गता ।
एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः ॥ १९ ॥
तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा ।
इन्द्रोऽपि भयसंत्रस्तो युद्धाय न मनो दधे ॥ २० ॥
दैत्योऽपि वदने कामं वज्रमादाय संस्थितः ।
व्याप्तं नभो घोरदृष्टिर्ग्रसन्निव जगत्त्रयम् ॥ २१ ॥
स भक्ष्ययिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ।
चक्रुशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः ॥ २२ ॥
इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् ।
न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः ॥ २३ ॥
वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् ।
सस्मार मनसा तत्र गुरुं समयकोविदम् ॥ २४ ॥
स्मरणादाजगामाशु बृहस्पतिरुदारधीः ।
गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत् ॥ २५ ॥
विचार्य मनसा कृत्यं तमुवाच शचीपतिम् ।
दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव ॥ २६ ॥
असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः ।
तपोबलमृषेः सम्यक् च्यवनस्य महाबलः ॥ २७ ॥
अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया ।
शरणं याहि देवेश च्यवनस्य महात्मनः ॥ २८ ॥
स निवारयिता नूनं कृत्यामात्मकृतां किल ।
न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित् ॥ २९ ॥
व्यास उवाच -
इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति ।
प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः ॥ ३० ॥
क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् ।
प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम् ॥ ३१ ॥
सोमार्हावश्विनावेतावद्यप्रभृति भार्गव ।
भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥ ३२ ॥
मिथ्या ते नोद्यमो ह्येष भवत्येव तपोधन ।
जाने त्वमपि धर्मज्ञ मिथ्या नैव करिष्यसि ॥ ३३ ॥
सोमपावश्विनावेतौ त्वत्कृतौ च सदैवे हि ।
भविष्यतश्च शर्यातेः कीर्तिस्तु विपुला भवेत् ॥ ३४ ॥
मया यद्धि कृतं कर्म सर्वथा मुनिसत्तम ।
परीक्षार्थं तु विज्ञेयं तव वीर्यप्रकाशनम् ॥ ३५ ॥
प्रसादं कुरु मे ब्रह्मन् मदं संहर चोत्थितम् ।
कल्याणं सर्वदेवानां तथा भूयो विधीयताम् ॥ ३६ ॥
एवमुक्तस्तु शक्रेण च्यवनः परमार्थवित् ।
संजहार तपः कोपं समुत्पन्नं विरोधजम् ॥ ३७ ॥
देवमाश्वास्य संविग्नं भार्गवस्तु मदं ततः ।
व्यभजत्स्त्रीषु पानेषु द्यूतेषु मृगयासु च ॥ ३८ ॥
मदं विभज्य देवेन्द्रमाश्वास्य चकितं भिया ।
संस्थाप्य च सुरान्सर्वान्मखं तस्य न्यवर्तयत् ॥ ३९ ॥
ततस्तु संस्कृतं सोमं वासवाय महात्मने ।
अश्विभ्यां सर्वधर्मात्मा पाययामास भार्गवः ॥ ४० ॥
एवं तौ च्यवनेनार्यावश्विनौ रविपुत्रकौ ।
विहितौ सोमपौ राजन् सर्वथा तपसो बलात् ॥ ४१ ॥
सरस्तदपि विख्यातं जातं यूपविमण्डितम् ।
आश्रमस्तु मुनेः सम्यक् पृथिव्यां विश्रुतोऽभवत् ॥ ४२ ॥
शर्यातिरपि सन्तुष्टो ह्यभवत्तेन कर्मणा ।
यज्ञं समाप्य नगरे जगाम सचिवैर्वृतः ॥ ४३ ॥
राज्यं चकार धर्मज्ञो मनुपुत्रः प्रतापवान् ।
आनर्तस्तस्य पुत्रोऽभूदानर्ताद्‌रेवतोऽभवत् ॥ ४४ ॥
सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दमः ॥ ४५ ॥
तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ।
पुत्री च रेवती नाम्ना सुन्दरी शुभलक्षणा ॥ ४६ ॥
वरयोग्या यदा जाता तदा राजा च रेवतः ।
चिन्तयामास राजेन्द्रो राजपुत्रान्कुलोद्‌भवान् ॥ ४७ ॥
रैवतं नाम च गिरिमाश्रितः पृथिवीपतिः ।
चकार राज्यं बलवानानर्तेषु नराधिपः ॥ ४८ ॥
विचिन्त्य मनसा राजा कस्मै देया मया सुता ।
गत्वा पृच्छामि ब्रह्माणं सर्वज्ञं सुरपूजितम् ॥ ४९ ॥
इति सञ्चिन्त्य भूपालः सुतामादाय रेवतीम् ।
ब्रह्मलोकं जगामाशु प्रष्टुकामः पितामहम् ॥ ५० ॥
यत्र देवाश्च यज्ञाश्च छन्दांसि पर्वतास्तथा ।
अब्धयः सिद्धगन्धर्वाः दिव्यरूपधराः स्थिताः ॥ ५१ ॥
ऋषयः सिद्धगन्धर्वाः पन्नगाश्चारणास्तथा ।
तस्थुः प्राञ्जलयः सर्वे स्तुवन्तश्च पुरातनाः ॥ ५२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥