सामग्री पर जाएँ

देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ०६

विकिस्रोतः तः

च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्

जनमेजय उवाच -
च्यवनेन कथं वैद्यौ तौ कृतौ सोमपायिनौ ।
वचनं च कथं सत्यं जातं तस्य महात्मनः ॥ १ ॥
मानुषस्य बलं कीदृग्देवराजबलं प्रति ।
निषिद्धौ भिषजौ तेन कृतौ तौ सोमपायिनौ ॥ २ ॥
धर्मनिष्ठ तदाश्चर्यं विस्तरेण वद प्रभो ।
चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा ॥ ३ ॥
व्यास उवाच -
निशामय महाराज चरितं परमाद्‌भुतम् ।
च्यवनस्य मखे तस्मिञ्छर्यातेर्भुवि भारत ॥ ४ ॥
सुकन्यां सुन्दरीं प्राप्य च्यवनः सुरसन्निभः ।
विजहार प्रसन्नात्मा देवकन्यामिवापरः ॥ ५ ॥
कदाचिदथ शर्यातिभार्या चिन्तातुरा भृशम् ।
पतिं प्राह वेपमाना वचनं रुदती प्रिया ॥ ६ ॥
राजन् पुत्री त्वया दत्ता मुनयेऽन्धाय कानने ।
मृता जीवति वा सा तु द्रष्टव्या सर्वथा त्वया ॥ ७ ॥
गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् ।
किं करोति सुकन्या सा प्राप्य नाथं तथाविधम् ॥ ८ ॥
पुत्रीदुःखेन राजर्षे दग्धास्मि सर्वथा हृदि ।
तामानय विशालाक्षीं तपःक्षामां मदन्तिके ॥ ९ ॥
पश्यामि सर्वथा पुत्रीं कृशाङ्‍गीं वल्कलावृताम् ।
अन्धं पतिं समासाद्य दुःखभाजं कृशोदरीम् ॥ १० ॥
शर्यातिरुवाच -
गच्छामोऽद्य विशालाक्षि सुकन्यां द्रष्टुमादरात् ।
प्रियपुत्रीं वरारोहे मुनिं तं संशितव्रतम् ॥ ११ ॥
व्यास उवाच -
एवमुक्त्व तु शर्यातिः कामिनीं शोकसंकुलाम् ।
जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः ॥ १२ ॥
गत्वाऽऽश्रमसमीपे तु तमपश्यन्महीपतिः ।
नवयौवनसम्पन्नं देवपुत्रोपमं मुनिम् ॥ १३ ॥
तं विलोक्यामराकारं विस्मयं नृपतिर्गतः ।
किं कृतं कुत्सितं कर्म पुत्र्या लोकविगर्हितम् ॥ १४ ॥
निहतोऽसौ मुनिर्वृद्धस्त्वनयान्यः पतिः कृतः ।
कामपीडितया कामं प्रशान्तोऽप्यतिनिर्धनः ॥ १५ ॥
दुःसहयोऽयं पुष्पधन्वा विशेषेण च यौवने ।
कुले कलङ्कः सुमहाननया मानवे कृतः ॥ १६ ॥
धिक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता ।
सर्वपापैस्तु दुःखाय पुत्री भवति देहिनाम् ॥ १७ ॥
मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये ।
वृद्धायान्धाय या दत्ता पुत्री सर्वात्मना किल ॥ १८ ॥
कन्या योग्याय दातव्या पित्रा सर्वात्मना किल ।
तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया ॥ १९ ॥
हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् ।
स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः ॥ २० ॥
मनुवंशस्तु विख्यातः सकलङ्कः कृतो मया ।
लोकापवादो बलवान्दुस्त्याज्या स्नेहशृङ्खला ॥ २१ ॥
किं करोमीति चिन्ताब्धौ यदा मग्नः स पार्थिवः ।
सुकन्यया तदा दैवाद्‌दृष्टश्चिन्ताकुलः पिता ॥ २२ ॥
सा दृष्ट्वा तं जगामाशु सुकन्या पितुरन्तिके ।
गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा ॥ २३ ॥
किं विचारयसे राजंश्चिन्ताव्याकुलिताननः ।
उपविष्टं मुनिं वीक्ष्य युवानमम्बुजेक्षणम् ॥ २४ ॥
एह्येहि पुरुषव्याघ्र प्रणमस्व पतिं मम ।
मा विषादं नृपश्रेष्ठ साम्प्रतं कुरु मानव ॥ २५ ॥
व्यास उवाच -
इति पुत्र्या वचं श्रुत्वा शर्यातिः क्रोधपीडितः ।
प्रोवाच वचनं राजा पुरःस्थां तनयां ततः ॥ २६ ॥
राजोवाच -
क्व मुनिश्च्यवनः पुत्रि वृद्धोऽन्धस्तापसोत्तमः ।
कोऽयं युवा मदोन्मत्तः सन्देहोऽत्र महान्मम ॥ २७ ॥
मुनिः किं निहतः पापे त्वया दुष्कृतकारिणि ।
नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि ॥ २८ ॥
सोऽहं चिन्तातुरस्तं न पश्याम्याश्रमसंस्थितम् ।
किं कृतं दुष्कृतं कर्म कुलटाचरितं किल ॥ २९ ॥
निमग्नोऽहं दुराचारे शोकाब्धौ त्वत्कृतेऽधुना ।
दृष्ट्वैनं पुरुषं दिव्यमदृष्ट्वा च्यवनं मुनिम् ॥ ३० ॥
विहस्य तमुवाचाशु सा श्रुत्वा वचनं पितुः ।
गृहीत्वाऽऽनीय पितरं भर्तुरन्तिकमादरात् ॥ ३१ ॥
च्यवनोऽसौ मुनिस्तात जामाता ते न संशयः ।
अश्विभ्यामीदृशः कान्तः कृतः कमललोचनः ॥ ३२ ॥
यदृच्छयात्र सम्प्राप्तौ नासत्यावाश्रमे मम ।
ताभ्यां करुणया नूनं च्यवनस्तादृशः कृतः ॥ ३३ ॥
नाहं तव सुता तात तथा स्यां पापकारिणी ।
यथा त्वं मन्यसे राजन् विमूढो रूपसंशये ॥ ३४ ॥
प्रणम त्वं मुनिं राजन् भार्गवं च्यवनं पितः ।
आपृच्छ कारणं सर्वं कथियिष्यति विस्तरम् ॥ ३५ ॥
इति श्रुत्वा वचं पुत्र्या शर्यातिस्त्वरितस्तदा ।
प्रणनाम मुनिं तत्र गत्वा पप्रच्छ सादरम् ॥ ३६ ॥
राजोवाच -
कथयस्व स्ववृत्तान्तं भार्गवाशु यथोचितम् ।
नयने च कथं प्राप्ते क्व गता ते जरा पुनः ॥ ३७ ॥
संशयोऽयं महान्मेऽस्ति रूपं दृष्ट्वातिसुन्दरम् ।
वद विस्तरतो ब्रह्मन् श्रुत्वाहं सुखमाप्नुयाम् ॥ ३८ ॥
च्यवन उवाच -
नासत्यावत्र सम्प्राप्तौ देवानां भिषजावुभौ ।
उपकारः कृतस्ताभ्यां कृपया नृपसत्तम ॥ ३९ ॥
मया ताभ्यां वरो दत्त उपकारस्य हेतवे ।
करिष्यामि मखे राज्ञो भवन्तौ सोमपायिनौ ॥ ४० ॥
एवं मया वयः प्राप्तं लोचने विमले तथा ।
स्वस्थो भव महाराज संविशस्वासने शुभे ॥ ४१ ॥
इत्युक्तः स तु विप्रेण सभार्यः पृथिवीपतिः ।
सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना ॥ ४२ ॥
अथैनं भार्गवं प्राह राजानं परिसान्त्वयन् ।
याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ॥ ४३ ॥
मया प्रतिश्रुतं ताभ्यां कर्तव्यौ सोमपौ युवाम् ।
तत्कर्तव्यं नृपश्रेष्ठ तव यज्ञेऽतिविस्तरे ॥ ४४ ॥
इन्द्रं निवारयिष्यामि क्रुद्धं तेजोबलेन वै ।
पाययिष्यामि राजेन्द्र सोमं सोममखे तव ॥ ४५ ॥
ततः परमसन्तुष्टः शर्यातिः पृथिवीपतिः ।
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ ४६ ॥
सम्मान्य च्यवनं राजा जगाम नगरं प्रति ।
सभार्यश्चातिसन्तुष्टः कुर्वन्वार्तां मुनेः किल ॥ ४७ ॥
प्रशस्ते‍हनि यज्ञीये सर्वकामसमृद्धिमान् ।
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ ४८ ॥
समानीय मुनीन्पूज्यान्वसिष्ठप्रमुखानसौ ।
भार्गवो याजयामास च्यवनः पृथिवीपतिम् ॥ ४९ ॥
वितते तु तथा यज्ञे देवाः सर्वे सवासवाः ।
आजग्मुश्चाश्विनौ तत्र सोमार्थमुपजग्मतुः ॥ ५० ॥
इन्द्रस्तु शङ्‌कितस्तत्र वीक्ष्य तावश्विनावुभौ ।
पप्रच्छ च सुरान्सर्वान्किमेतौ समुपागतौ ॥ ५१ ॥
चिकित्सकौ न सोमार्हौ केनानीताविहेति च ।
नाब्रुवन्नमरास्तत्र राज्ञस्तु वितते मखे ॥ ५२ ॥
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।
शक्रस्तं वारयामास मा गृहाणैतयोर्ग्रहम् ॥ ५३ ॥
तमाह च्यवनस्तत्र कथमेतौ रवेः सुतौ ।
न ग्रहार्हौ च नासत्यौ ब्रूहि सत्यं शचीपते ॥ ५४ ॥
न सङ्करौ समुत्पन्नौ धर्मपत्‍नीसुतौ रवेः ।
केन दोषेण देवेन्द्र नार्हौ सोमं भिषग्वरौ ॥ ५५ ॥
निर्णयोऽत्र मखे शक्र कर्तव्यः सर्वदैवतैः ।
ग्राहयिष्यामहं सोमं कृतौ तौ सोमपौ मया ॥ ५६ ॥
प्रेरितोऽसौ मया राजा मखाय मघवन्किल ।
एतदर्थं करिष्यामि सत्यं मे वचनं विभो ॥ ५७ ॥
आभ्यामुपकृतः शक्र तथा दत्तं नवं वयः ।
तस्मात्प्रत्युपकारस्तु कर्तव्यः सर्वथा मया ॥ ५८ ॥
इन्द्र उवाच -
चिकित्सकौ कृतावेतौ नासत्यौ निन्दितौ सुरैः ।
उभावेतौ न सोमार्हौ मा गृहाणैतयोर्ग्रहम् ॥ ५९ ॥
च्यवन उवाच -
अहल्याजार संयच्छ कोपं चाद्य निरर्थकम् ।
वृत्रघ्न किं हि नासत्यौ न सोमार्हौ सुरात्मजौ ॥ ६० ॥
एवं विवादे समुपस्थिते च
     न कोऽपि वाचं तमुवाच भूप ।
ग्रहं तयोर्भार्गवतिग्मतेजाः
     संग्राहयामास तपोबलेन ॥ ६१ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनाश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनं नाम षष्टोऽध्यायः ॥ ६ ॥