देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

दक्षप्रजापतिवर्णनम्

सूत उवाच -
श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः ।
व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः ॥ १ ॥
जनमेजय उवाच -
स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् ।
तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा ॥ २ ॥
कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् ।
चरितं भूपतीनां च विस्तराद्‌वंशयोर्द्वयोः ॥ ३ ॥
ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् ।
देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक् ॥ ४ ॥
इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः ।
तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः ॥ ५ ॥
व्यास उवाच -
निशामय महाराज विस्तराद्‌गदतो मम ।
सोमसूर्यान्वयानां च तथान्येषां समुद्‌भवम् ॥ ६ ॥
विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः ।
तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम् ॥ ७ ॥
तया दत्तवरो धाता जगत्कर्तुं समुद्यतः ।
नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः ॥ ८ ॥
विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः ।
न विस्तारं जगामाशु रचितापि महात्मना ॥ ९ ॥
(ससर्ज मानसान्पुत्रान्सप्तसंख्यान्प्रजापतिः)
मरीचिरङ्‌गिरात्रिश्च वसिष्ठः पुलहः क्रतुः ।
पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः ॥ १० ॥
रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् ।
दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः ॥ ११ ॥
वामाङ्गुष्ठाद्दक्षपत्‍नी जाता सर्वाङ्गसुन्दरी ।
वीरिणी नाम विख्याता पुराणेषु महीपते ॥ १२ ॥
असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः ।
देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः ॥ १३ ॥
जनमेजय उवाच -
अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः ।
वीरिण्यां नारदो जातो दक्षादिति महातपाः ॥ १४ ॥
कथं दक्षस्य पत्‍न्यां तु वीरिण्यां नारदो मुनिः ।
जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः ॥ १५ ॥
विचित्रमिदमाख्यातं भवता नारदस्य च ।
दक्षाज्जन्मास्य भार्यायां तद्‍वदस्व सविस्तरम् ॥ १६ ॥
पूर्वदेहः कथं मुक्तः शापात्कस्य महामना ।
नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने ॥ १७ ॥
व्यास उवाच -
ब्रह्मणासौ समादिष्टो दक्षः सृष्ट्यर्थमादितः ।
प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयम्भुवा ॥ १८ ॥
ततः पञ्चसहस्रांश्च जनयामास वीर्यवान् ।
दक्षः प्रजापतिः पुत्रान् वीरिण्यां बलवत्तरान् ॥ १९ ॥
दृष्ट्वा तान्नारदः पुत्रान्सर्वान्वर्धयिषून्प्रजाः ।
उवाच प्रहसन्वाचं देवर्षिः कालनोदितः ॥ २० ॥
भुवः प्रमाणमज्ञात्वा स्रष्टुकामाः प्रजाः कथम् ।
लोकानां हास्यतां यूयं गमिष्यथ न संशयः ॥ २१ ॥
पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्यः समुद्यमः ।
कृत्तोऽसौ सिद्धिमायाति नान्यथेति विनिश्चयः ॥ २२ ॥
बालिशा बत यूयं वै यदज्ञात्वा भुवस्तलम् ।
समुद्यताः प्रजाः कर्तुं कथं सिद्धिर्भविष्यति ॥ २३ ॥
व्यास उवाच -
नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः ।
अन्योन्यमूचुः सहसा सम्यगाह मुनिः किल ॥ २४ ॥
ज्ञात्व प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः ।
इति सञ्चिन्त्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः ॥ २५ ॥
तलं सर्वं परिज्ञातुं वचनान्नारदस्य च ।
प्राच्यां केचिद्‌गताः कामं दक्षिणस्यां तथापरे ॥ २६ ॥
प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समन्ततः ।
दक्षः पुत्रान्गतान्दृष्ट्वा पीडितस्तु शुचा भृशम् ॥ २७ ॥
अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः ।
तेऽपि तत्रोद्यताः कर्तुं प्रजार्थमुद्यमं सुताः ॥ २८ ॥
नारद‍ः प्राह तान्दृष्ट्वा पूर्वं यद्वचनं मुनिः ।
बालिशा बत यूयं वै यदज्ञात्वा भुवः किल ॥ २९ ॥
प्रमाणं तु प्रजाः कर्तुं प्रवृत्ताः केन हेतुना ।
श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः ॥ ३० ॥
जग्मुः सर्वे यथापूर्वं भ्रातरश्चलितास्तथा ।
तान्सुतान्प्रस्थितान्दृष्ट्वा दक्षः कोपसमवितः ॥ ३१ ॥
शशाप नारदं कोपात् पुत्रशोकसमुद्‌भवात् ।
दक्ष उवाच -
नाशिता मे सुता यस्मात् तस्मान्नाशमवाप्नुहि ॥ ३२ ॥
पापेनानेन दुर्बुद्धे गर्भवासं व्रजेति च ।
पुत्रो मे भव कामं त्वं यतो मे भ्रंशिताः सुताः ॥ ३३ ॥
इति शप्तस्ततो जातो वीरिण्यां नारदो मुनिः ।
षष्टिर्भूयोऽसृजत्कन्या वीरिण्यामिति नः श्रुतम् ॥ ३४ ॥
शोकं विहाय पुत्राणां दक्षः परमधर्मवित् ।
तासां त्रयोदश प्रादात्कश्यपाय महात्मने ॥ ३५ ॥
दश धर्माय सोमाय सप्तविंशति भूपते ।
द्वे चैव भृगवे प्रादाच्चतस्रोऽरिष्टनेमिने ॥ ३६ ॥
द्वे चैवाङ्‌गिरसे कन्ये तथैवाङ्‌गिरसे पुनः ।
तासां पुत्राश्च पौत्राश्च देवाश्च दानवास्तथा ॥ ३७ ॥
जाता बलसमायुक्ताः परस्परविरोधकाः ।
रागद्वेषान्विताः सर्वे परस्परविरोधिनः ।
सर्वे मोहावृताः शूरा ह्यभवन्नतिमायिनः ॥ ३८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सोमसूर्यवंशवर्णने दक्षप्रजापतिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥