देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search

आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम्

इन्द्र उवाच
साहसं कृतवान् राजा पूर्वं यत्कथितो मखः ।
वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम् ॥ १ ॥
गते त्वयि पिता पुत्रं बद्ध्वा यूपेऽघृणः पुनः ।
पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः ॥ २ ॥
इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा ।
स्थितस्तत्रैव मायेशीमायया मोहितो भृशम् ॥ ३ ॥
यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम् ।
गमनाय मतिं चक्रे तदेन्द्रः प्रत्यषेधयत् ॥ ४ ॥
हरिश्चन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमन्तिके ।
स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम् ॥ ५ ॥
राजोवाच
भगवन् कि करोम्यद्य कातरोऽस्मि व्यथाकुलः ।
त्राहि मां दुःखमनसं महाव्याधिभयातुरम् ॥ ६ ॥
वसिष्ठ उवाच
शृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः ।
त्रयोदशविधाः पुत्राः कथिता धर्मसंग्रहे ॥ ७ ॥
तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् ।
द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम् ॥ ८ ॥
एवं कृते मखे भूप रोगनाशो भविष्यति ।
वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम् ॥ ९ ॥
व्यास उवाच
इति तस्य वचः श्रुत्वा राजा प्रोवाच मन्त्रिणम् ।
अन्वेषय महाबुद्धे विषयेष्वतियत्‍नतः ॥ १० ॥
कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता ।
समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ ॥ ११ ॥
सर्वथैव समानेयो यज्ञार्थे द्विजबालकः ।
न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे ॥ १२ ॥
प्रार्थनीयस्त्वया पुत्रः कस्यचिद्‌द्विजवादिनः ।
द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल ॥ १३ ॥
इति सञ्चोदितस्तेन सचिवः कार्यहेतवे ।
अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे ॥ १४ ॥
एवमन्वेषतस्तस्य विषये कश्चिदातुरः ।
निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः ॥ १५ ॥
तस्य पुत्रं शुनःशेपं मध्यमं मन्त्रिसत्तमः ।
आनयामास दत्त्वार्थं प्रार्थितं यद्धनं तदा ॥ १६ ॥
समानीय शुनःशेपं सचिवः कार्यतत्परः ।
राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम् ॥ १७ ॥
राजातिमुदितस्तेन विप्रानानीय सर्वतः ।
कारयामास सम्भारान्यज्ञार्थं वेदवित्तमान् ॥ १८ ॥
प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः ।
बद्धं दृष्ट्वा शुनःशेपं निषिषेध नृपं तदा ॥ १९ ॥
राजन्मा साहसं कार्षीर्मुञ्चैनं द्विजबालकम् ।
प्रार्थयाम्यहमायुष्मन् सुखं तेऽद्य भविष्यति ॥ २० ॥
क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि ।
दयावान्भव राजेन्द्र कुरु मे वचनं नृप ॥ २१ ॥
परदेहस्य रक्षायै स्वदेहं ये दयापराः ।
ददति क्षत्रियाः पूर्वं स्वर्गकामाः शुचिव्रताः ॥ २२ ॥
त्वं स्वदेहस्य रक्षार्थं हंसि द्विजसुतं बलात् ।
पापं मा कुरु राजेन्द्र दयावान् भव बालके ॥ २३ ॥
सर्वेषां सदृशी प्रीतिर्देहे वेत्सि स्वयं नृप ।
मुञ्चैनं बालकं तस्मात्प्रमाणं यदि मे वचः ॥ २४ ॥
व्यास क्त्वच
अनादृत्य च तद्वाक्यं राजा दुःखातुरो भृशम् ।
न मुमोच मुनिस्तस्मै चूकोपातीव तापसः ॥ २५ ॥
उपदेशं ददौ तस्मै शुनःशेपाय कौशिकः ।
मन्त्रं पाशधरस्याथ दयावान्वेदवित्तमः ॥ २६ ॥
शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः ।
स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम् ॥ २७ ॥
स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः ।
तत्रागत्य शुनःशेपं मुमोच करुणार्णवः ॥ २८ ॥
रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ ।
विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः ॥ २९ ॥
न कृतं वचनं राज्ञा कौशिकस्य महात्मनः ।
रोषं दधार मनसा राजोपरि स गाधिजः ॥ ३० ॥
एकस्मिन्समये राजा हयारूढो वनं गतः ।
सूकरं हन्तुकामस्तु मध्याह्ने कौशिकीतटे ॥ ३१ ॥
वृद्धब्राह्मणवेषेण विश्वामित्रेण वञ्चितः ।
सर्वस्वं प्रार्थितं तस्य गृहीतं राज्यमद्‌‍भुतम् ॥ ३२ ॥
पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् ।
वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया ॥ ३३ ॥
क्षत्रियाधम दुर्बुद्धे वृथा ब्राह्मणवेषभृत् ।
बकधर्म वृथा किं त्वं गर्वं वहसि दाम्भिक ॥ ३४ ॥
कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ ।
अपराधं विना जाल्म गमितो दुःखमद्‌भुतम् ॥ ३५ ॥
बकध्यानपरो यस्मात्तस्मात्त्वं वै बको भव ।
इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः ॥ ३६ ॥
त्वमप्याडिर्भवायुष्मन् बकोऽहं यावदेव हि ।
व्यास उवाच
एवं परस्परं दत्त्वा शापं तौ क्रोधपीडितौ ॥ ३७ ॥
अण्डजौ तरसा जातौ सरस्याडीबकौ मुनी ।
एकस्मिन्पादपे नीडं कृत्वासौ बकरूपभाक् ॥ ३८ ॥
विश्वामित्रः स्थितस्तत्र दिव्ये सरसि मानसे ।
अन्यस्मित्पादपे कृत्वा वसिष्ठो नीडमुत्तमम् ॥ ३९ ॥
आडीरूपधरस्तस्थावन्योन्यं द्वेषतत्परौ ।
दिने दिने तौ संग्रामं चक्रतुः क्रोधसंयुतौ ॥ ४० ॥
दुःखदं सर्वलोकानां क्रन्दमानावुभौ भृशम् ।
चञ्चुपक्षप्रहारैस्तु नखाघातैः परस्परम् ॥ ४१ ॥
जघ्नतू रुधिरक्लिनौ पुष्पिताविव किंशुकौ ।
एवं बहूनि वर्षाणि पक्षिरूपधरौ मुनी ॥ ४२ ॥
स्थितौ तत्र महाराज शापपाशेन यन्त्रितौ ।
राजोवाच
कथं मुक्तौ मुनिश्रेष्ठौ शापाद्वसिष्ठकौशिकौ ॥ ४३ ॥
तन्ममाचक्ष्व विप्रर्षे परं कौतूहलं हि मे ।
व्यास उवाच
युध्यमानाब्वुभौ दृष्ट्वा ब्रह्मा लोकपितामहः ॥ ४४ ॥
तत्राजगामानिमिषैर्वृतः सर्वैर्दयापरैः ।
तावाश्वास्य जगत्कर्ता युद्धतो विनिवार्य च ॥ ४५ ॥
शापं संमोचयामास तयोः क्षिप्तं परस्परम् ।
ततो जग्मुः सुराः सर्वे स्वानि धिष्ण्यानि पद्मभूः ॥ ४६ ॥
सत्यलोकं जगामाशु हंसारूढः प्रतापवान् ।
विश्वामित्रोऽप्यगात्तूर्णं वसिष्ठः स्वाश्रमं गतः ॥ ४७ ॥
मिथः स्नेहं ततः कृत्वा प्रजापत्युपदेशतः ।
मैत्रावरुणिनाप्येवं कृतं युद्धमकारणम् ॥ ४८ ॥
कौशिकेन समं भूप दुःखदं च परस्परम् ।
को नाम मानवो लोके देवो वा दानवोऽपि वा ॥ ४९ ॥
अहङ्कारजयं कृत्वा सर्वदा सुखभाग्भवेत् ।
तस्माद्‌राजंश्चित्तशुद्धिर्महतामपि दुर्लभा ॥ ५० ॥
यत्‍नेन साधनीया सा तद्विहीनं निरर्थकम् ।
तीर्थं दानं तपः सत्यं यत्किञ्चिद्धर्मसाधनम् ॥ ५१ ॥
(श्रद्धात्र त्रिविधा प्रोक्ता सात्त्विकी राजसी तथा ।
तामसी सर्वदेहेषु देहिनां धर्मकर्मसु ॥
सात्त्विकी दुर्लभा लोके यथोक्तफलदा सदा ।
तदर्धफलदा प्रोक्ता राजसी विधिसंयुता ॥
तामसी त्वफला राजन्न तु कीर्तिकरी पुनः ।
कामक्रोधाभिभूतानां जनानां नृपसत्तम ॥)
वासनारहितं कृत्वा तच्चित्तं श्रवणादिना ।
तीर्थादिषु वसेन्नित्यं देवीपूजनतत्परः ॥ ५२ ॥
देवीनामानि वचसा गृह्णंस्तस्या गुणान्स्तुवन् ।
ध्यायंस्तस्याः पदाम्भोजं कलिदोषभयार्दितः ॥ ५३ ॥
एवं तु कुर्वतस्तस्य न कदाचित्कलेर्भयम् ।
अनायासेन संसारान्मुच्यते पातकी जनः ॥ ५४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहस्र्यां संहितायां षष्ठस्कन्धे आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥