देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३२

विकिस्रोतः तः

अथ द्वात्रिंशोऽध्यायः
जनमेजय उवाच।
महिमा वर्ण्यते सम्यक्चंडिकायास्त्वया मुने ।
केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥ १ ॥
प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् ।
आराध्य कामदां देवीं कथयस्व कृपानिधे ॥२॥
उपासनाविधिं ब्रह्मस्तथा पूजाविधिं वद ।
विस्तरेण महाभाग होमस्य च विधिं पुनः ॥ ३ ॥
सूत उवाच।
इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः ।
प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम् ॥४॥
व्यास उवाच।
स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः ।
बभूव परमोदारः प्रजापालनतत्परः ॥५॥
सत्यवादी कर्मपरो ब्राह्मणानां च पूजकः ।
गुरुभक्तिरतो नित्यं स्वदारगमने रतः ॥६ ॥
दानशीलोsविरोधी च धनुर्वेदैकपारगः ।
एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः ॥७॥
बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् ।
हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः ॥८॥
कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः ।
सुरथः सैन्यमादाय संमुखः समपद्यत ॥ ९ ॥
युद्धं समभवद्घोरं तस्य तैरतिदारुणैः ।
म्लेच्छानां तु बलं स्वल्पं राज्ञस्तद्बलमद्भुतम् १० ॥
तथापि तैर्जितो युद्धे दैवाद्राजा पराजितः ।
भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमंडितम् ॥११॥
चिंतयामास मेधावी राजा नीतिविचक्षणः ।
प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान् ॥१२॥
स्थानं गृहीत्वा विपुलं परिखादुर्गमंडितम् ।
कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम् ॥ १३ ॥
मंत्रिणः शत्रुवशगा मंत्रयोग्या न ते किल ।
किं करोमीति मनसा भूपतिः समचिंतयत् ॥ १४ ॥
कदाचित्ते गृहीत्वा मां पापाचाराः पराश्रिताः ।
शत्रुभ्योऽथ प्रदास्यंति तदा किं वा भविष्यति ॥ १५ ॥
पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन ।
किं ते वै प्रकुर्वन्ति ये लोभवशगा नराः ॥ १६ ॥
भ्रातरं पितरं मित्रं सुहृदं बांधवं तथा ।
गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः ॥१७॥
तस्मान्मया न कर्तव्यो विश्वासः सर्वथाऽधुना ।
मंत्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते ॥ १८ ॥
इति संचिंत्य मनसा राजा परमदुर्मनाः ।
एकाकी हयमारुह्य निर्जगाम पुरात्तत्तः ॥ १९ ॥
असहायोऽथ निर्गत्य गहनं वनमाश्रितः ।
चिन्तयामास मेधावी क्व गंतव्यं मया पुनः ॥२०॥
योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् ।
ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः ॥ २१ ।
बहुवृक्षसमायुक्तं नदी पुलिन संश्रितम् ।
निर्वैरश्वापदाकीर्णं कोकिलारावमंडितम् ॥२२॥
शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् ।
नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम् ॥२३॥
होमधूमसुगंधेन प्रीतिदं प्राणिनां सदा ।
वेदध्वनिसमाक्रांतं स्वर्गादपि मनोहरम् ॥२४॥
दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः ।
भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे २५ ॥
आसज्य पादपेऽश्वं तु जगाम विनयान्वितः ।
दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम् ॥२६॥
मृगाजिनासनं शांतं तपसाऽतिकृशं ऋजुम् ।
अध्यापयंतं शिष्यांश्च वेदशास्त्रार्थदर्शिनम् ॥२७॥
रहितं क्रोधलोभाद्यैर्द्वंद्वातीतं विमत्सरम् ।
आत्मज्ञानरतं सत्यवादिनं शमसंयुतम् ॥२८॥
तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा ।
तदग्रे ऽश्रुजलापूर्णनयनः प्रेमसंयुतः ॥२९॥
उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः ।
शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा ॥३०॥
उत्थाय नृपतिस्तस्यां समासीनस्तदाज्ञया ।
अर्घ्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम् ॥३१॥
पप्रच्छात्र कुतः प्राप्तः कस्त्वं चिंतापरः कथम् ।
कथयस्व यथाकामं संवृत्तं कारणं त्विह ॥३२॥
किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम् ।
करिष्ये वांछितं काममसाध्यमपि यत्तव ॥ ३३ ॥
राजोवाच।
सुरथो नाम राजाऽहं शत्रुभिश्च पराजितः ।
त्यक्त्वा राज्यं गृहं भार्यामहं ते शरणं गतः ॥ ३४ ॥
यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः ।
करिष्यामि न मे त्राता त्वदन्यः पृथिवीतले ॥३५॥
शत्रुभ्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवांतिकम् ।
त्रायस्व मुनिशार्दूल शरणागतवत्सल ॥३६॥
ऋषिरुवाच।
निर्भयं वस राजेंद्र नात्र ते शत्रवः किल ।
आगमिष्यंति बलिनो निश्चयं तपसो बलात् ॥३७॥
नात्र हिंसा प्रकर्तव्या वनवृत्त्या नृपोत्तम ।
कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः ॥३८॥
व्यास उवाच।
इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा ।
उवासाश्रम एवासौ फलमूलाशनः शुचिः ॥ ३९ ॥
कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः ।
चिन्तयामास चिंतार्तो गृह एव गताशयः ॥ ४० ॥
राज्यं मे शत्रुभिः प्राप्तं म्लेच्छैः पापरतैः सदा ।
संपीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः ॥ ४१ ॥
गजाश्च तुरगाः सर्वे दुर्बला भक्ष्यवर्जिताः ।
जाताः स्युर्नात्र संदेहः शत्रुणा परिपीडिताः ॥ ४२॥
सेवका मम सर्वे ते शत्रूणां वशवर्तिनः ।
दुःखिता एव जाताः स्युः पालिता ये मया पुरा ॥
धनं मे सुदुराचारैरसद्व्ययपरैः परैः ।
द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल ॥ ४४ ॥
कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः ।
न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे ४५ ॥
इति चिन्तापरो राजा वृक्षमूलस्थितो यदा ।
तदाजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा ॥ ४६ ॥
नृपेण पुरतो दृष्टः पार्श्वे तत्रोपवेशितः ।
पप्रच्छ तं नृपः कोऽसि कुत एवागतो वनम् ॥४७॥
कोऽसि कस्माच्च दीनोऽसि हरितः शोकपीडितः ।
ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता ॥ ४८ ॥
व्यास उवाच।
तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः ।
उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम् ॥४९॥
वैश्य उवाच।
मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः ।
धनवान्धर्मनिपुण: सत्यवागनसूयकः ॥ ५० ॥
पुत्रदारैर्निरस्तोऽहं धनलुब्धैरसाधुभिः ।
“कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजाम्”
स्वजनेन च संत्यक्तः प्राप्तोऽस्मि वनमाशु वै ॥ ५१ ॥
कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना ।
राजोवाच।
सुरथो नाम राजाऽहं दस्युभिः पीडितोऽभवम् ॥५२॥
प्राप्तोऽस्मि गतराज्योऽत्र मंत्रिभिः परिवंचितः ।
दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम ५३ ॥
सुखेन विहरिष्यावो वनेऽत्र शुभपादपे ।
शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम ॥५४ ॥
"अत्रैव च यथाकामं सुखं तिष्ठ मया सह । "
वैश्य उवाच।
कुटुम्बं मे निरालंबं मया हीनं सुदुःखितम् ।
भविष्यति च चिन्तार्तं व्याधिशोकोपतापितम् ५५ ॥
भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् ।
इति चिन्तातुरं चेतो न मे शाम्यति भूमिप ॥ ५६ ॥
कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च ।
स्वस्थं न मन्मनो राजन्गृहचिन्ताकुलं भृशम् ॥५७॥
राजोवाच।
यैर्निरस्तोऽसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः ।
तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते ॥ ५८ ॥
हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः ।
तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह ॥ ५९ ॥
वैश्य उवाच।
मनो मे न स्थिरं राजन्भवत्यद्य सुदुःखितम् ।
चिन्तयाऽत्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः ॥ ६०॥
राजोवाच।
ममापि राज्यजं दुःखं दुनोति किल मानसम् ।
पृच्छावोऽद्य मुनिं शांतं शोकनाशनमौषधम् ॥ ६१ ॥
व्यास उवाच।
इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः ।
मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम् ॥ ६२॥
गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् ।
आसीनं सम्यगासीनः शांतं शांतिमुपागतः ॥ ६३॥
इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे द्वात्रिंशोऽध्यायः ॥ ३२ ॥