देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३१

विकिस्रोतः तः

अथैकत्रिंशोऽध्यायः
व्यास उवाच।
 इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तदा ।
उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ १ ॥
शुम्भ उवाच।
जाल्मा: किं ब्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे ।
निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम् २ ॥
कालः कर्ता शुभानां वाऽशुभानां बलवत्तरः ।
का चिंता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके ॥ ३ ॥
यद्भवति तद्भवतु यत्करोति करोतु तत् ।
न मे चिंताऽस्ति कुत्रापि मरणाज्जीवनात्तथा ॥४॥
स कालोऽप्यन्यथा कर्तुं भावितो नेशते क्वचित् ।
न वर्षति च पर्जन्य: श्रावणे मासि सर्वदा ॥५॥
कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने ।
अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्ययम् ॥ ६ ॥
कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् ।
दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः ॥७॥
दैवमेत्र परं मन्ये धिक्पोरुषमनर्थकम् ।
जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः ॥८॥
रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा ।
तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम् ॥ ९ ॥
प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसंमिते ।
निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः ॥ १० ॥
चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल ।
पतंति भवनात्पंच नव चेंद्रास्तथा पुनः ॥ ११ ॥
तथैव त्रिगुणे विष्णुर्मरणायोपकल्पते ।
तथैव द्विगुणे काले शंकरः शांतिमेति च ॥ १२ ॥
का चिंता मरणे मूढा निश्वले दैवनिर्मिते ।
मही महीधराणां च नाशः सूर्यशशांकयोः ॥ १३ ॥
जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।
अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् १४ ॥
रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे ।
जयो वा भरणं वापि भवत्वद्यैव दैवतः ॥ १५ ॥
इत्युक्त्वा सैनिकाञ्छुभो रथमास्थाय सत्वरः ।
प्रययावंबिका यत्र संस्थिता तु हिमाचले ॥१६॥
सैन्यं प्रचलितं तस्य संगे तत्र चतुर्विधम् ।
हस्त्यश्वरथपादातिसंयुतं मायुधं बहु ॥ १७ ॥
तत्र गत्वाऽचले शुम्भः संस्थितां जगदम्बिकाम् ।
त्रैलोक्यमोहिनी कांतामपश्यत्सिंहवाहिनीम् ॥ १८ ॥
सर्वाभरणभूषाढ्यां सर्वलक्षणसंयुताम् ।
स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः ॥१९॥
पुष्पैश्च पूज्यमानां च मंदारपादपोद्भवैः ।
कुर्वाणां शंखनिनदं घंटानादं मनोहरम् ॥२०॥
दृष्ट्वा तां मोहमगमच्छुंभः कामविमोहितः ।
पंचबाणाहतः कामं मनसा समचितयत् ॥२१॥
अहो रूपमिदं सम्यगहो चातुयमद्भुतम् ।
सुकुमाराऽतितन्वंगी सद्यः प्रकटयौवना ।
चित्रमेतदसौ बाला कामभावविवर्जिता ॥२३॥
कामकांतासमा रूपे सर्वलक्षणलक्षिता ।
अम्बिकेयं किमेतत्तु हंति सर्वान्महाबलान् ॥२४॥
उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् ।
न मंत्रा वा मरालाक्षीसाधने सन्निधौ मम ॥२५॥
सर्वमंत्रमयी ह्येषा मोहिनी मदगर्विता।
सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी ॥२६॥
पातालगमनं मेऽत्र न युक्तं समरांगणात् ।
सामदानविभेदैश्च नेयं साध्या महाबला ॥२७॥
किं कर्तव्यं क्व गंतव्यं विषमे समुपस्थिते ।
मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत् ॥२८॥
मरणं ऋषिभिः प्रोक्तं संगरे मंगलास्पदम् ।
यत्तत्समानबलयोर्योधयोर्युध्यतोः किल ॥ २९ ॥
प्राप्तेयं दैवरचिता नारी नरशतोत्तमा ।
नाशायास्मत्कुलस्येह सर्वथाऽतिबलाऽबला ॥३०॥
वृथा किं सामवाक्यानि मया योज्यानि सांप्रतम् ।
हननायागता ह्येषा किं नु साम्ना प्रसीदति ॥ ३१ ॥
न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता ।
भेदस्तु विफलः कामं सर्वदेववशानुगा ॥३२॥
तस्मात्तु मरणं श्रेयो न संग्रामे पलायनम् ।
जयो वा मरणं वाऽद्य भवत्वेव यथाविधि ॥ ३३ ॥
व्यास उवाच।
इति संचिंत्यमानः स शुम्भः सत्त्वाश्रितोऽभवत् ।
युद्धाय सुस्थिरो भूत्वा तामुवाच पुरः स्थिताम् ३४ ॥
देवि युध्यस्व कान्तेऽद्य वृथाऽयं ते परिश्रमः ।
मूर्खाऽसि किल नारीणां नायं धर्मः कदाचन ३५ ॥
नारीणां लोचने बाणा भ्रुवावेव शरासनम् ।
हावभावास्तु शस्त्राणि पुमाँल्लक्ष्यं विचक्षणः ॥ ३६ ॥
सन्नाहश्चांगरागोऽत्र रथश्चापि मनोरथः ।
मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन ॥३७॥
अन्यास्त्रधारणं स्त्रीणां स्त्रीणां विडंबनमसंशयम् ।
लज्जैव भूषणं कांते न च धार्यंट्ं कदाचन ॥३८॥
युध्यमाना वरा नारी कर्कशेवाभिदृश्यते ।
स्तनौ संगोपनीयौ वा धनुषः कर्षणे कथम् ॥३९॥
क्व मन्दगमनं कुत्र गदामादाय धावनम् ।
बुद्धिदा कालिका तेऽत्र चामुंडा परनायिका ॥ ४० ॥
चंडिकामन्त्रमध्यस्था लालनेऽसुस्वरा शिवा ।
वाहनं मृगराडास्ते सर्वसत्त्वभयंकरः ॥ ४१॥
वीणानादं परित्यज्य घंटानादं करोषि यत् ।
रूपयौवनयोः सर्वं विरोधि वरवर्णिनि ॥ ४२॥
यदि ते संगरेच्छाऽस्ति कुरूपा भव भामिनि ।
लम्बोष्ठी कुनखी क्रूरा ध्वांक्षवर्णा विलोचना ॥ ४३ ॥
लम्बपादा कुदन्ती च मार्जारनयनाकृतिः ।
ईदृशं रूपमास्थाय तिष्ठ युद्धे स्थिरा भव ॥ ४४॥
कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् ।
ईदृशीं सुदतीं दृष्ट्वा न मे पाणिः प्रसीदति ॥ ४५ ॥
हन्तुं त्वां मृगशावाक्षि कामकांतोपमे मृधे ।
व्यास उवाच।
इति ब्रुवाणं कामार्तं वीक्ष्य तं जगदम्बिका ॥४६॥
स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम ।
देव्युवाच।
किं विषीदसि मन्दात्मन्कामबाणविमोहितः ॥ ४७॥
प्रेक्षिकाऽहं स्थिता मूढ कुरु कालिकया मृधम् ।
चामुण्डया वा कुर्वेते तव योग्ये रणांगणे ॥ ४८ ॥
प्रहरस्व यथाकामं नाहं त्वां योद्धुमुत्सहे ।
इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा ॥ ४९ ॥
जह्येनं कालिके क्रूरे कुरूपप्रियमाहवे ।
व्यास उवाच।
इत्युक्ता कालिका कालप्रेरिता कालरूपिणी ॥५०॥
गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा ।
तयोः परस्परं युद्धं बभूवातिभयानकम् ॥५१॥
पश्यतां सर्वदेवानां मुनीनां च महात्मनाम् ।
गदामुद्यम्य शुंभोऽथ जघान कालिकां रणे ॥ ५२ ॥
कालिका दैत्यराजानं गदया न्यहनद्भृशम्।
बभंजास्य रथं चंडी गदया कनकोज्ज्वलम् ॥ ५३ ॥
खरान्हत्वा जघानाशु दारुकं दारुणस्वना।
स पदातिर्गदां गुर्वी समादाय क्रुधान्वितः ॥ ५४ ॥
कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा ।
वंचयित्वा गदाघातं खड्गमादाय सत्वरा ॥५५॥
चिच्छेदास्य भुजं सव्यं सायुधं चंदनार्चितम् ।
स छिन्नबाहुविरथो गदापाणि: परिप्लुतः ॥ ५६॥
अचिरेण समागत्य कालिकामहनत्तदा ।
काली च करवालेन भुजं तस्याथ दक्षिणम् ॥५७ ॥
चिच्छेद प्रहसंती सा सगदं किल सांगदम् ।
कर्तुं पादप्रहारं स कुपितः प्रययौ जवात् ॥ ५८ ॥
काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता ।
सच्छिन्नकरपादोऽपि तिष्ठ तिष्ठेति च ब्रुवन् ॥ ५९ ॥
धावमानो ययावाशु कालिकां भीषयन्निव ।
तमागच्छंतमालोक्य कालिका कमलोपमम् ॥ ६०॥
चकर्त मस्तकं कंठाद्रुधिरौघवहं भृशम् ।
छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः ॥ ६१ ॥
प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम् ।
गतासुं पतितं दैत्यं दृष्ट्वा देवाः सवासवाः ॥६२॥
तुष्टुवुस्तां तदा देवीं चामुंडां कालिकां तथा ।
ववुर्वाता: शिवास्तत्र दिशश्च विमला भृशम् ॥ ६३॥
बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः ।
हतशेषाश्च ये दैत्याः प्रणम्य जगदंबिकाम् ॥६४ ॥
त्यक्त्वाऽऽयुधानि ते सर्वे पातालं प्रययुर्नृप ।
एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम् ॥६५ ॥
शुम्भादीनां वधं चैव सुराणां रक्षणं तथा ।
एतदाख्यानकं सर्वं पठन्ति भुवि मानवाः ॥ ६६॥
शृण्वन्ति च सदा भक्त्या ते कृतार्था भवंति हि ।
अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु ॥ ६७ ॥
रोगी च मुच्यते रोगात्सर्वान्कामानवाप्नुयात् ।
शत्रुतो न भयं तस्य य इदं चरितं शुभम् ॥
शृणोति पठते नित्यं मुक्तिमाञ्जायते नरः ॥ ६८ ॥
इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे शुम्भवधो नाम एकत्रिंशोऽध्यायः ॥ ३१॥ .