देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः १२

विकिस्रोतः तः

देवीपराजयकरणाय दुर्धरप्रबोधवचनम्

व्यास उवाच
तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका ।
मेघगम्भीरया वाचा हसन्ती तमुवाच ह ॥ १ ॥
देव्युवाच
गच्छ ताम्र पतिं ब्रूहि मुमूर्षुं मन्दचेतसम् ।
महिषं चातिकामार्तं मूढं ज्ञानविवर्जितम् ॥ २ ॥
यथा ते महिषी माता प्रौढा यवसभक्षिणी ।
नाहं तथा शृङ्गवती लम्बपुच्छा महोदरी ॥ ३ ॥
न कामयेऽहं देवेशं नैव विष्णुं न शङ्करम् ।
धनदं वरुणं नैव ब्रह्माणं न च पावकम् ॥ ४ ॥
एतान्देवगणान्हित्वा पशुं केन गुणेन वै ।
वृणोम्यहं वृथा लोके गर्हणा मे भवेदिति ॥ ५ ॥
नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः ।
सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः ॥ ६ ॥
निर्गुणो निर्ममोऽनन्तो निरालम्बो निराश्रयः ।
सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः ॥ ७ ॥
सर्वावासक्षमः शान्तः सर्वदृक्सर्वभावनः ।
तं त्यक्त्वा महिषं मन्दं कथं सेवितुमुत्सहे ॥ ८ ॥
प्रबुध्य युध्यतां कामं करोमि यमवाहनम् ।
अथवा मनुजानां वै करिष्ये जलवाहकम् ॥ ९ ॥
जीवितेच्छास्ति चेत्पाप गच्छ पातालमाशु वै ।
समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि सङ्गरे ॥ १० ॥
कामं सदृशयोर्योगः संसारे सुखदो भवेत् ।
अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः ॥ ११ ॥
मूर्खस्त्वमसि यद्‌ ब्रूषे पतिं मे भज भामिनि ।
क्वाहं क्व महिषः शृङ्गी सम्बन्धः कीदृशो द्वयोः ॥ १२ ॥
गच्छ युध्यस्व वा कामं हनिष्येऽहं सबान्धवम् ।
यज्ञभागं देवलोकं नोचेत्त्यक्त्वा सुखी भव ॥ १३ ॥
व्यास उवाच
इत्युक्त्वा सा तदा देवी जगर्ज भृशमद्‌भुतम् ।
कल्पान्तसदृशं नादं चक्रे दैत्यभयावहम् ॥ १४ ॥
चकम्पे वसुधा चेलुस्तेन शब्देन भूधराः ।
गर्भाश्च दैत्यपत्‍नीनां सस्रंसुर्गर्जितस्वनात् ॥ १५ ॥
ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा ।
पलायनं ततः कृत्वा जगाम महिषान्तिकम् ॥ १६ ॥
नगरे तस्य ये दैत्यास्तेऽपि चिन्तामवाप्नुवन् ।
बधिरीकृतकर्णाश्च पलायनपरा नृप ॥ १७ ॥
तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः ।
तेन नादेन दैतेया भयं जग्मुरपि स्फुटम् ॥ १८ ॥
ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः ।
चिन्तयामास सचिवैः किं कर्तव्यमतः परम् ॥ १९ ॥
दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः ।
पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः ॥ २० ॥
बुद्धिमन्तो दुराधर्षाः सर्वशास्त्रविशारदाः ।
मन्त्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये ॥ २१ ॥
मन्त्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः ।
मन्त्रिभिश्च सदाचारैर्विधेयः सर्वथा बुधैः ॥ २२ ॥
मन्त्रभेदे विनाशः स्याद्‌राज्यस्य भूपतेस्तथा ।
तस्माद्‌भेदभयाद्‌ गुप्तः कर्तव्यो भूतिमिच्छता ॥ २३ ॥
तदत्र मन्त्रिभिर्वाच्यं वचनं हेतुमद्धितम् ।
कालदेशानुसारेण विचिन्त्य नीतिनिर्णयम् ॥ २४ ॥
या योषात्र समायाता प्रबला देवनिर्मिता ।
एकाकिनी निरालम्बा कारणं तद्विचिन्त्यताम् ॥ २५ ॥
युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम् ।
श्रेयोऽत्र विपरीतं वा को वेत्ति भुवनत्रये ॥ २६ ॥
न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः ।
दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ ॥ २७ ॥
उपायवादिनः प्राहुर्दैवं किं केन वीक्षितम् ।
अदृष्टमिति यन्नाम प्रवदन्ति मनीषिणः ॥ २८ ॥
तत्सत्त्वेऽपि प्रमाणं किं कातराशावलम्बनम् ।
न समर्थजनानां हि दैवं कुत्रापि लक्ष्यते ॥ २९ ॥
उद्यमो दैवमेतौ हि शूरकातरयोर्मतम् ।
विचिन्त्याद्य धिया सर्वं कर्तव्यं कार्यमादरात् ॥ ३० ॥
व्यास उवाच
इति राज्ञो वचः श्रुत्वा हेतुगर्भं महायशाः ।
बिडालाख्यो महाराजमित्युवाच कृताञ्जलिः ॥ ३१ ॥
राजन्नेषा विशालाक्षी ज्ञातव्या यत्‍नतः पुनः ।
किमर्थमिह सम्प्राप्ता कुतः कस्य परिग्रहः ॥ ३२ ॥
मरणं ते परिज्ञाय स्त्रिया सर्वात्मना सुरैः ।
प्रेषिता पद्मपत्राक्षी समुत्पाद्य स्वतेजसा ॥ ३३ ॥
तेऽपि छन्नाः स्थिताः खेऽत्र सर्वे युद्धदिदृक्षवः ।
समयेऽस्याः सहायास्ते भविष्यन्ति युयुत्सवः ॥ ३४ ॥
पुरतः कामिनीं कृत्वा ते वै विष्णुपुरोगमाः ।
वधिष्यन्ति च नः सर्वान्सा त्वां युद्धे हनिष्यति ॥ ३५ ॥
एतच्चिकीर्षितं तेषां मया ज्ञातं नराधिप ।
भवितव्यस्य न ज्ञानं वर्तते मम सर्वथा ॥ ३६ ॥
योद्धव्यं न त्वयाद्येति नाहं वक्तुं क्षमः प्रभो ।
प्रमाणं त्वं महाराज कार्येऽत्र देवनिर्मिते ॥ ३७ ॥
तदर्थेऽस्माभिरनिशं मर्तव्यं कार्यगौरवात् ।
विहर्तव्यं त्वया सार्धमेष धर्मोऽनुजीविनाम् ॥ ३८ ॥
विचारोऽत्र महानस्ति यदेका कामिनी नृप ।
युद्धं प्रार्थयतेऽस्माभिः ससैन्यैर्बलदर्पितैः ॥ ३९ ॥
दुर्मुख उवाच
राजन् युद्धे जयो नोऽद्य भविता वेद्म्यहं किल ।
पलायनं न कर्तव्यं यशोहानिकरं नृणाम् ॥ ४० ॥
इन्द्रादीनां संयुगेऽपि न कृतं यज्जुगुप्सितम् ।
एकाकिनीं स्त्रियं प्राप्य को हि कुर्यात्पलायनम् ॥ ४१ ॥
तस्माद्युद्धं प्रकर्तव्यं मरणं वा रणे जयः ।
यद्‌भावि तद्‌भवत्येव कात्र चिन्ता विपश्यतः ॥ ४२ ॥
मरणेऽत्र यशःप्राप्तिर्जीवने च तथा सुखम् ।
उभयं मनसा कृत्वा कर्तव्यं युद्धमद्य वै ॥ ४३ ॥
पलायने यशोहानिर्मरणं चायुषः क्षये ।
तस्माच्छोको न कर्तव्यो जीविते मरणे वृथा ॥ ४४ ॥

व्यास उवाच
दुर्मुखस्य वचः श्रुत्वा बाष्कलो वाक्यमब्रवीत् ।
प्रणतः प्राञ्जलिर्भूत्वा राजानं वाक्यकोविदः ॥ ४५ ॥
बाष्कल उवाच
राजंश्चिन्ता न कर्तव्या कार्येऽस्मिन्कातरप्रिये ।
अहमेको हनिष्यामि चण्डीं चञ्चललोचनाम् ॥ ४६ ॥
उत्साहस्तु प्रकर्तव्यः स्थायीभावो रसस्य च ।
भयानको भवेद्वैरी वीरस्य नृपसत्तम ॥ ४७ ॥
तस्मात्त्यक्त्वा भयं भूप करिष्ये युद्धमद्‌भुतम् ।
नयिष्यामि नरेन्द्राहं चण्डिकां यमसादनम् ॥ ४८ ॥
न बिभेमि यमादिन्द्रात्कुबेराद्वरुणादपि ।
वायोर्वह्नेस्तथा विष्णोः शङ्कराच्छशिनो रवेः ॥ ४९ ॥
एकाकिनी तथा नारी किं पुनर्मदगर्विता ।
अहं तां निहनिष्यामि विशिखैश्च शिलाशितैः ॥ ५० ॥
पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम् ।
भवतात्र न गन्तव्यं संग्रामेऽप्यनया समम् ॥ ५१ ॥
व्यास उवाच
एवं ब्रुवति राजेन्द्रं बाष्कले मदगर्विते ।
प्रणम्य नृपतिं तत्र दुर्धरो वाक्यमब्रवीत् ॥ ५२ ॥
दुर्धर उवाच
महिषाहं विजेष्यामि देवीं देवविनिर्मिताम् ।
अष्टादशभुजां रम्यां कारणाच्च समागताम् ॥ ५३ ॥
राजन् भीषयितुं त्वां वै मायैषा निर्मिता सुरैः ।
विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम् ॥ ५४ ॥
राजनीतिरियं राजन् मन्त्रिकृत्यं तथा शृणु ।
सात्त्विका राजसाः केचित्तामसाश्च तथापरे ॥ ५५ ॥
मन्त्रिणस्त्रिविधा लोके भवन्ति दानवाधिप ।
सात्त्विकाः प्रभुकार्याणि साधयन्ति स्वशक्तिभिः ॥ ५६ ॥
आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः ।
एकचित्ता धर्मपरा मन्त्रशास्त्रविशारदाः ॥ ५७ ॥
राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा ।
कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया ॥ ५८ ॥
तामसा लोभनिरताः स्वकार्यनिरताः सदा ।
प्रभुकार्यं विनाश्यैव स्वकार्यं साधयन्ति ते ॥ ५९ ॥
समये ते विभिद्यन्ते परैस्तु परिवञ्चिताः ।
स्वच्छिद्रं शत्रुपक्षीयान्निर्दिशन्ति गृहस्थिताः ॥ ६० ॥
कार्यभेदकरा नित्यं कोशगुप्तासिवत्सदा ।
संग्रामेऽथ समुत्पन्ने भीषयन्ति प्रभुं सदा ॥ ६१ ॥
विश्वासस्तु न कर्तव्यस्तेषां राजन् कदाचन ।
विश्वासे कार्यहानिः स्यान्मन्त्रहानिः सदैव हि ॥ ६२ ॥
खलाः किं किं न कुर्वन्ति विश्वस्ता लोभतत्पराः ।
तामसाः पापनिरता बुद्धिहीनाः शठास्तथा ॥ ६३ ॥
तस्मात्कार्यं करिष्यामि गत्वाहं रणमस्तके ।
चिन्ता त्वया न कर्तव्या सर्वथा नृपसत्तम ॥ ६४ ॥
गृहीत्वा तां दुराचारामागमिष्यामि सत्वरः ।
पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः ॥ ६५ ॥

इति श्रीमद्देवीभागवते महायुराणेऽष्टादशसाह्स्र्यां संहितायां पञ्चमस्कन्धे देवीपराजयकरणाय दुर्धरप्रबोधवचनं नाम द्वादशोऽध्यायः ॥ १२ ॥