देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः १०

विकिस्रोतः तः

मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः

व्यास उवाच
इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा ।
तमुवाच महाराज मेघगम्भीरया गिरा ॥ १ ॥
देव्युवाच
मन्त्रिवर्य सुराणां वै जननीं विद्धि मां किल ।
महालक्ष्मीमिति ख्यातां सर्वदैत्यनिषूदिनीम् ॥ २ ॥
प्रार्थिताहं सुरैः सर्वैर्महिषस्य वधाय च ।
पीडितैर्दानवेन्द्रेण यज्ञभागबहिष्कृतैः ॥ ३ ॥
तस्मादिहागतास्म्यद्य तद्वधार्थं कृतोद्यमा ।
एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम ॥ ४ ॥
यत्त्वयाहं सामपूर्वं कृत्वा स्वागतमादरात् ।
उक्ता मधुरया वाचा तेन तुष्टास्मि तेऽनघ ॥ ५ ॥
नोचेद्धन्मि दृशा त्वां वै कालाग्निसमया किल ।
कस्य प्रीतिकरं न स्यान्माधुर्यवचनं खलु ॥ ६ ॥
गच्छ तं महिषं पापं वद मद्वचनादिदम् ।
गच्छ पातालमधुना जीवितेच्छा यदस्ति ते ॥ ७ ॥
नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे ।
मद्‌बाणक्षुण्णदेहस्त्वं गन्तासि यमसादनम् ॥ ८ ॥
दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम् ।
हते त्वयि सुरा मूढ स्वर्गं प्राप्स्यन्ति सत्वरम् ॥ ९ ॥
तस्माद्‌ गच्छस्व त्यक्त्वैको मेदिनीञ्च ससागराम् ।
पातालं तरसा मन्द यावद्‌ बाणा न मेऽपतन् ॥ १० ॥
युद्धेच्छा चेन्मनसि ते तर्ह्येहि त्वरितोऽसुर ।
वीरैर्महाबलैः सर्वैर्नयामि यमसादनम् ॥ ११ ॥
युगे युगे महामूढ हतास्त्वत्सदृशाः किल ।
असंख्यातास्तथा त्वां वै हनिष्यामि रणाङ्गणे ॥ १२ ॥
साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा ।
तद्युध्यस्व मया सार्धं समरे स्मरपीडितः ॥ १३ ॥
मा गर्वं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः ।
स्त्रीवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः ॥ १४ ॥
कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता ।
स्त्रीरूपमतुलं कृत्वा सत्यं हन्तुं कृतागसम् ॥ १५ ॥
यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् ।
हित्वा भूसुरसद्माद्य जीवितेच्छा यदस्ति ते ॥ १६ ॥
व्यास उवाच
इत्युक्तः स ततो देव्या मन्त्रिश्रेष्ठो बलान्वितः ।
प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम् ॥ १७ ॥
देवि स्त्रीसदृशं वाक्यं ब्रूषे त्वं मदगर्विता ।
क्वासौ क्व त्वं कथं युद्धमसम्भाव्यमिदं किल ॥ १८ ॥
एकाकिनी पुनर्बाला प्रारब्धयौवना मृदुः ।
महिषोऽसौ महाकायो दुर्विभाव्यं हि सङ्गतम् ॥ १९ ॥
सैन्यं बहुविधं तस्य हस्त्यश्वरथसंकुलम् ।
पदातिगणसंविद्धं नानायुधविराजितम् ॥ २० ॥
कः श्रमः करिराजस्य मालतीपुष्पमर्दने ।
मारणे तव वामोरु महिषस्य तथा रणे ॥ २१ ॥
यदि त्वां परुषं वाक्यं ब्रवीमि स्वल्पमप्यहम् ।
शृङ्गारे तद्विरुद्धं हि रसभङ्गाद्‌बिभेम्यहम् ॥ २२ ॥
राजास्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् ।
साममेव मया वाच्यं दानयुक्तं तथा वचः ॥ २३ ॥
नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् ।
मिथ्याभिमानचतुरां रूपयौवनगर्विताम् ॥ २४ ॥
स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् ।
तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया ॥ २५ ॥
राज्यं तव धनं सर्वं दासस्ते महिषः किल ।
कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम् ॥ २६ ॥
पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि ।
पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते ॥ २७ ॥
त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् ।
सुखं संसारजं सर्वं महिषस्य परिग्रहात् ॥ २८ ॥
देव्युवाच
शृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् ।
शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च ॥ २९ ॥
महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल ।
पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम् ॥ ३० ॥
मन्त्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् ।
उभयोः सदृशो योगः कृतोऽयं विधिना किल ॥ ३१ ॥
यदुक्तं स्त्रीस्वभावासि तद्विचारस्य मूढ किम् ।
पुमान्नाहं तत्स्वभावाभवंस्त्रीवेषधारिणी ॥ ३२ ॥
याचितं मरणं पूर्वं स्त्रिया त्वत्प्रभुणा यथा ।
तस्मान्मन्येऽतिमूर्खोऽसौ न वीररसवित्तमः ॥ ३३ ॥
कामिन्या मरणं क्लीबरतिदं शूरदुःखदम् ।
प्रार्थितं प्रभुणा तेन महिषेणात्मबुद्धिना ॥ ३४ ॥
तस्मात्स्त्रीरूपमाधाय कार्यं कर्तुमुपागता ।
कथं बिभेमि त्वद्वाक्यैर्धर्मशास्त्रविरोधकैः ॥ ३५ ॥
विपरीतं यदा दैवं तृणं वज्रसमं भवेत् ।
विधिश्चेत्सुमुखः कामं कुलिशं तूलवत्तदा ॥ ३६ ॥
किं सैन्यैरायुधैः किं वा प्रपञ्चैर्दुर्गसेवनैः ।
मरणं साम्प्रतं यस्य तस्य सैन्यैस्तु किं फलम् ॥ ३७ ॥
यदायं देहसम्बन्धो जीवस्य कालयोगतः ।
तदैव लिखितं सर्वं सुखं दुःखं तथा मृतिः ॥ ३८ ॥
यस्य येन प्रकारेण मरणं दैवनिर्मितम् ।
तस्य तेनैव जायेत नान्यथेति विनिश्चयः ॥ ३९ ॥
ब्रह्मादीनां यथा काले नाशोत्पत्ती विनिर्मिते ।
तथैव भवतः कामं किमन्येषां विचार्यते ॥ ४० ॥
ये मृत्युधर्मिणस्तेषां वरदानेन दर्पिताः ।
मरिष्यामो न मन्यन्ते ते मूढा मन्दचेतसः ॥ ४१ ॥
तस्माद्‌ गच्छ नृपं ब्रूहि वचनं मम सत्वरम् ।
यदाज्ञापयते भूपस्तत्कर्तव्यं त्वया किल ॥ ४२ ॥
मघवा स्वर्गमाप्नोतु देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ ४३ ॥
अन्यथा चेन्मतिर्मन्द महिषस्य दुरात्मनः ।
तद्युध्यस्व मया सार्धं मरणाय कृतादरः ॥ ४४ ॥
मन्यसे सङ्गरे भग्ना देवा विष्णुपुरोगमाः ।
दैवं हि कारणं तत्र वरदानं प्रजापतेः ॥ ४५ ॥
व्यास उवाच
इति देव्या वचः श्रुत्वा चिन्तयामास दानवः ।
किं कर्तव्यं मया युद्धं गन्तव्यं वा नृपं प्रति ॥ ४६ ॥
विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै ।
तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधौ ॥ ४७ ॥
इयं बुद्धिः समीचीना यद्‌ व्रजामि कलिं विना ।
यथागतं तथा शीघ्रं राज्ञे संवेदयाम्यहम् ॥ ४८ ॥
स प्रमाणं पुनः कार्ये राजा मतिमतां वरः ।
करिष्यति विचार्यैव सचिवैर्निपुणैः सह ॥ ४९ ॥
सहसा न मया युद्धं कर्तव्यमनया सह ।
जये पराजये वापि भूपतेरप्रियं भवेत् ॥ ५० ॥
यदि मां सुन्दरी हन्यादहं वा हन्मि तां पुनः ।
येन केनाप्युपायेन स कुप्येत्पार्थिवः किल ॥ ५१ ॥
तस्मात्तत्रैव गत्वाहं बोधयिष्यामि तं नृपम् ।
यथाद्याभिहितं देव्या यथारुचि करोतु सः ॥ ५२ ॥
व्यास उवाच
इति सञ्चिन्त्य मेधावी जगाम नृपसन्निधौ ।
प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यकः ॥ ५३ ॥

मन्त्र्युवाच
राजन् देवी वरारोहा सिंहस्योपरि संस्थिता ।
अष्टादशभुजा रम्या वरायुधधरा परा ॥ ५४ ॥
सा मयोक्ता महाराज महिषं भज भामिनि ।
महिषी भव राज्ञस्त्वं त्रैलोक्याधिपतेः प्रिया ॥ ५५ ॥
पट्टराज्ञी त्वमेवास्य भविता नात्र संशयः ।
स तवाज्ञाकरो जातो वशवर्ती भविष्यति ॥ ५६ ॥
त्रैलोक्यविभवं भुक्त्वा चिरकालं वरानने ।
महिषं पतिमासाद्य योषितां सुभगा भव ॥ ५७ ॥
इति मद्वचनं श्रुत्वा सा स्मयावेशमोहिता ।
मामुवाच विशालाक्षी स्मितपूर्वमिदं वचः ॥ ५८ ॥
महिषीगर्भसम्भूतं पशूनामधमं किल ।
बलिं दास्याम्यहं देव्यै सुराणां हितकाम्यया ॥ ५९ ॥
का मूढा कामिनी लोके महिषं वै पतिं भजेत् ।
मादृशी मन्दबुद्धे किं पशुभावं भजेदिह ॥ ६० ॥
महिषी महिषं नाथं सशृङ्गा शृङ्गसंयुतम् ।
कुरुते क्रन्दमाना वै नाहं तत्सदृशी शठा ॥ ६१ ॥
करिष्येऽहं मृधे युद्धं हनिष्ये त्वां सुराप्रियम् ।
गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते ॥ ६२ ॥
परुषं तु तया वाक्यमित्युक्तं नृप मत्तया ।
तच्छ्रुत्वाहं समायातः प्रविचिन्त्य पुनः पुनः ॥ ६३ ॥
रसभङ्गं विचिन्त्यैव न युद्धं तु मया कृतम् ।
आज्ञां विना तवात्यन्तं कथं कुर्यां वृथोद्यमम् ॥ ६४ ॥
सातीव च बलोन्मत्ता वर्तते भूप भामिनी ।
भवितव्यं न जानामि किं वा भावि भविष्यति ॥ ६५ ॥
कार्येऽस्मिंस्त्वं प्रमाणं नो मन्त्रोऽतीव दुरासदः ।
युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम् ॥ ६६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावो नाम दशमोऽध्यायः ॥ १० ॥