देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०९

विकिस्रोतः तः

महिषमन्त्रिणा देवीवार्तावर्णनम्

व्यास उवाच
देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा ।
ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च ॥ १ ॥
क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे ।
निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम् ॥ २ ॥
ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् ।
कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै ॥ ३ ॥
केयूरान्कङ्कणान्दिव्यान्नानारत्‍नविराजितान् ।
ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः ॥ ४ ॥
नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्‍नभूषितौ ।
ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः ॥ ५ ॥
तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः ।
अङ्गुलीयकरत्‍नानि तेजोवन्ति च सर्वशः ॥ ६ ॥
अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् ।
तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत ॥ ७ ॥
हिमवानथ सन्तुष्टो रत्‍नानि विविधानि च ।
ददौ च वाहनं सिंहं कनकाभं मनोहरम् ॥ ८ ॥
भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा ।
सिंहारूढा वरारोहा सर्वलक्षणसंयुता ॥ ९ ॥
विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् ।
सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम् ॥ १० ॥
स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् ।
ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम् ॥ ११ ॥
वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् ।
घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम् ॥ १२ ॥
हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् ।
प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम् ॥ १३ ॥
इषुधिं बाणपूर्णञ्च चापं चाद्‌भुतदर्शनम् ।
मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम् ॥ १४ ॥
स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् ।
घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम् ॥ १५ ॥
ददौ दण्डं यमः कामं कालदण्डसमुद्‌भवम् ।
येनान्तं सर्वभूतानामकरोत्काल आगते ॥ १६ ॥
ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् ।
ददावस्यै मुदा युक्तो वरुणः पाशमेव च ॥ १७ ॥
कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप ।
परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ ॥ १८ ॥
धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् ।
पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम् ॥ १९ ॥
गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् ।
अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम् ॥ २० ॥
अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् ।
ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः ॥ २१ ॥
सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः ।
तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम् ॥ २२ ॥
देवा ऊचुः
नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः ।
भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः ॥ २३ ॥
कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः ।
सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः ॥ २४ ॥
पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या ।
अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम् ॥ २५ ॥
मायायां या स्थिता ज्ञाता मायया न च तामजाम् ।
अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम् ॥ २६ ॥
कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् ।
जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम् ॥ २७ ॥
खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् ।
दुःखदं सर्वदेवानां नानारूपधरं शतम् ॥ २८ ॥
त्वमेका सर्वदेवानां शरणं भक्तवत्सले ।
पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते ॥ २९ ॥
व्यास उवाच
एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा ।
तानुवाच महादेवी स्मितपूर्वं शुभं वचः ॥ ३० ॥
देव्युवाच
भयं त्यजन्तु गीर्वाणा महिषान्मन्दचेतसः ।
हनिष्यामि रणेऽद्यैव वरदृप्तं विमोहितम् ॥ ३१ ॥
व्यास उवाच
इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् ।
चित्रमेतच्च संसारे भ्रममोहयुतं जगत् ॥ ३२ ॥
ब्रह्मविष्णुमहेशाद्याः सेन्द्राश्चान्ये सुरास्तथा ।
कम्पयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल ॥ ३३ ॥
अहो दैवबलं घोरं दुर्जयं सुरसत्तमाः ।
कालः कर्तास्ति दुःखानां सुखानां प्रभुरीश्वरः ॥ ३४ ॥
सृष्टिपालनसंहारे समर्था अपि ते यदा ।
मुह्यन्ति क्लेशसन्तप्ता महिषेण प्रपीडिताः ॥ ३५ ॥
इति कृत्वा स्मितं देवी साट्टहासं चकार ह ।
उच्चैः शब्दं महाघोरं दानवानां भयप्रदम् ॥ ३६ ॥
चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्‌भुतम् ।
चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान् ॥ ३७ ॥
मेरुश्चचाल शब्देन दिशः सर्वाः प्रपूरिताः ।
भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत् ॥ ३८ ॥
जय पाहीति देवास्तामूचुः परमहर्षिताः ।
महिषोऽपि स्वनं श्रुत्वा चुकोप मदगर्वितः ॥ ३९ ॥
किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशङ्‌कितः ।
गच्छन्तु त्वरिता दूता ज्ञातुं शब्दसमुद्‌भवम् ॥ ४० ॥
कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः ।
देवो वा दानवो वापि यो भवेत्स्वनकारकः ॥ ४१ ॥
गृहीत्वा तं दुरात्मानं मत्समीपं नयन्त्विह ।
हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम् ॥ ४२ ॥
क्षीणायुष्यं मन्दमतिं नयामि यमसादनम् ।
पराजिताः सुराः कामं न गर्जन्ति भयातुराः ॥ ४३ ॥
नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् ।
त्वरिता मामुपायान्तु ज्ञात्वा शब्दस्य कारणम् ॥ ४४ ॥
अहं गत्वा हनिष्यामि तं पापं वितथश्रमम् ।
व्यास उवाच
इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम् ॥ ४५ ॥
अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् ।
सर्वलक्षणसम्पन्नां वरायुधधरां शुभाम् ॥ ४६ ॥
दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु ।
संवीक्ष्य भयभीतास्ते जग्मुस्त्रस्ताः सुशङ्‌किताः ॥ ४७ ॥
सकाशे महिषस्याशु तमूचुः स्वनकारणम् ।

दूता ऊचुः
देवी दैत्येश्वर प्रौढा दृश्यते काचिदङ्गना ॥ ४८ ॥
सर्वाङ्गभूषणा नारी सर्वरत्‍नोपशोभिता ।
न मानुषी नासुरी सा दिव्यरूपा मनोहरा ॥ ४९ ॥
सिंहारूढायुधधरा चाष्टादशकरा वरा ।
सा नादं कुरुते नारी लक्ष्यते मदगर्विता ॥ ५० ॥
सुरापानरता कामं जानीमो न सभर्तृका ।
अन्तरिक्षस्थिता देवास्तां स्तुवन्ति मुदान्विताः ॥ ५१ ॥
जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो ।
न जाने का वरारोहा कस्य वा सा परिग्रहः ॥ ५२ ॥
किमर्थमागता चात्र किं चिकीर्षति सुन्दरी ।
द्रष्टुं नैव समर्थाः स्मस्तत्तेजःपरिधर्षिताः ॥ ५३ ॥
शृङ्गारवीरहासाढ्या रौद्राद्‌भुतरसान्विता ।
दृष्ट्वैवैवंविधां नारीमसम्भाष्य समागताः ॥ ५४ ॥
वयं त्वदाज्ञया राजन् किं कर्तव्यमतःपरम् ।
महिष उवाच
गच्छ वीर मयादिष्टो मन्त्रिश्रेष्ठ बलान्वितः ॥ ५५ ॥
सामादिभिरुपायैस्त्वं समानय शुभाननाम् ।
नायाति यदि सा नारी त्रिभिः सामादिभिस्त्विह ॥ ५६ ॥
अहत्वा तां वरारोहां त्वमानय ममान्तिकम् ।
करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा ॥ ५७ ॥
प्रीतियुक्ता समायाति यदि सा मृगलोचना ।
रसभङ्गो यथा न स्यात्तथा कुरु ममेप्सितम् ॥ ५८ ॥
श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा ।
व्यास उवाच
महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः ॥ ५९ ॥
जगाम तरसा कामं गजाश्वरथसंयुतः ।
गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम् ॥ ६० ॥
विनयावनतः श्लक्ष्णं मन्त्री मधुरया गिरा ।
प्रधान उवाच
कासि त्वं मधुरालापे किमत्रागमनं कृतम् ॥ ६१ ॥
पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः ।
स जेता सर्वदेवानामवध्यस्तु नरैः किल ॥ ६२ ॥
ब्रह्मणो वरदानेन गर्वितश्चारुलोचने ।
दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा ॥ ६३ ॥
श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् ।
द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः ॥ ६४ ॥
मानुषं रूपमादाय त्वत्समीपं समेष्यति ।
यथा रुच्येत चार्वङ्‌गि तथा मन्यामहे वयम् ॥ ६५ ॥
तर्ह्येहि मृगशावाक्षि समीपं तस्य धीमतः ।
नो चेदिहानयाम्येनं राजानं भक्तितत्परम् ॥ ६६ ॥
तथा करोमि देवेशि यथा ते मनसेप्सितम् ।
वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव ॥ ६७ ॥
करभोरु वदाशु त्वं संविधेयं मया तथा ॥ ६८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषमन्त्रिणा देवीवार्तावर्णनं नाम नवमोऽध्यायः ॥ ९ ॥