सामग्री पर जाएँ

देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः १७

विकिस्रोतः तः

नारायणवरदानम्

जनमेजय उवाच
वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे ।
एकं नारायणं शान्तं कामयाना स्मरातुराः ॥ १ ॥
शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः ।
निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप ॥ २ ॥
किं कृतं मुनिना तेन व्यसने समुपस्थिते ।
ताभिः संकल्पितेनाथ कामार्थाभिर्भृशं मुने ॥ ३ ॥
शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः ।
याचितेन विवाहार्थं किं कृतं तेन जिष्णुना ॥ ४ ॥
इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् ।
नारायणस्य मे ब्रूहि विस्तरेण पितामह ॥ ५ ॥
व्यास उवाच
शृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः ।
धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते ॥ ६ ॥
शप्तुकामस्तु संदृष्टो नरेणाथ यदा हरिः ।
वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा ॥ ७ ॥
शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः ।
स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः ॥ ८ ॥
अस्मिञ्जन्मनि चार्वंग्यः कृतसंकल्पवानहम् ।
आवाभ्याञ्च न कर्तव्यः सर्वथा दारसंग्रहः ॥ ९ ॥
तस्माद्‌ गच्छन्तु त्रिदिवं कृपां कृत्वा ममोपरि ।
धर्मज्ञा न प्रकुर्वन्ति व्रतभङ्गं परस्य वै ॥ १० ॥
शृङ्गारेऽस्मिन् रसे नूनं स्थायीभावो रतिः स्मृतः ।
कथं करोमि सम्बन्धं तदभावे सुलोचनाः ॥ ११ ॥
कारणेन विना कार्यं न भवेदिति निश्चयः ।
कविभिः कथितं शास्त्रे स्थायीभावो रसः किल ॥ १२ ॥
धन्यः सुचारुसर्वाङ्गः सभाग्योऽहं धरातले ।
प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम् ॥ १३ ॥
भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम ।
भविष्यामि महाभागाः पतिरप्यन्यजन्मनि ॥ १४ ॥
अष्टाविंशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले ।
देवानां कार्यसिद्ध्यर्थं प्रभविष्यामि सर्वथा ॥ १५ ॥
तदा भवत्यो मद्दाराः प्राप्य जन्म पृथक्पृथक् ।
भूपतीनां सुता भूत्वा पलीभावं गमिष्यथ ॥ १६ ॥
इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् ।
व्यसर्जयत्स भगवाञ्जग्मुश्च विगतज्वराः ॥ १७ ॥
एवं विसर्जितास्तेन गताः स्वर्गं तदाङ्गनाः ।
शक्राय कथयामासुः कारणं सकलं पुनः ॥ १८ ॥
आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् ।
तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः ॥ १९ ॥
इन्द्र उवाच
अहो धैर्यं मुनेः कामं तथैव च तपोबलम् ।
येनोर्वश्यः स्वतपसा तादृग्‌रूपाः प्रकल्पिताः ॥ २० ॥
इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः ।
नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत् ॥ २१ ॥
इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्‌भुतम् ।
नारायणस्य सकलं नरस्य च महामुनेः ॥ २२ ॥
तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च ।
जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह ॥ २३ ॥

राजोवाच
कृष्णावतारचरितं विस्तरेण वदस्व मे ।
सन्देहो मम चित्तेऽस्ति तं निवारय मानद ॥ २४ ॥
ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ ।
देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने ॥ २५ ॥
कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् ।
ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत् ॥ २६ ॥
जातोऽसौ मथुरायां तु गोकुले स कथं गतः ।
कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम् ॥ २७ ॥
पित्रादिसेवितं देशं समृद्धं पावनं किल ।
त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः ॥ २८ ॥
कुलञ्च द्विजशापेन कथमुत्सादितं हरेः ।
भारावतारणं कृत्वा वासुदेवः सनातनः ॥ २९ ॥
देहं मुमोच तरसा जगाम च दिवं हरिः ।
पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी ॥ ३० ॥
ते हता वासुदेवेन पार्थेनामितकर्मणा ।
लुण्ठिता यैर्हरेः पत्‍न्यस्ते कथं न निपातिताः ॥ ३१ ॥
भीष्मो द्रोणस्तथा कर्णो बाह्लिकोऽप्यथ पार्थिवः ।
वैराटोऽथ विकर्णश्च धृष्टद्युम्नश्च पार्थिवः ॥ ३२ ॥
सोमदत्तादयः सर्वे निहताः समरे नृपाः ।
तेषामुत्तारितो भारश्चौराणां न हृतः कथम् ॥ ३३ ॥
कृष्णपत्‍न्यः कथं दुःखं प्राप्ताः प्रान्ते पतिव्रताः ।
सन्देहोऽयं मुनिश्रेष्ठ चित्ते मे परिवर्तते ॥ ३४ ॥
वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः ।
त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह ॥ ३५ ॥
पाण्डवा धर्मसंयुक्ताः कृष्णे च निरताः सदा ।
ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम ॥ ३६ ॥
द्रौपदी च महाभागा कथं दुःखस्य भागिनी ।
वेदीमध्याच्च सञ्जाता लक्ष्म्यंशसम्भवा किल ॥ ३७ ॥
सभायां सा समानीता रजोदोषसमन्विता ।
बाला दुःशासनेनाथ केशग्रहणकर्शिता ॥ ३८ ॥
पीडिता सिन्धुराज्ञाथ वनमध्यगता सती ।
तथैव कीचकेनापि पीडिता रुदती भृशम् ॥ ३९ ॥
पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे ।
सुभद्रायाः सुतो युद्धे बाल एव निपातितः ॥ ४० ॥
तथा च देवकीपुत्रा षट् कंसेन निषूदिताः ।
समर्थेनापि हरिणा दैवं न कृतमन्यथा । ४१ ॥
यादवानां तथा शापः प्रभासे निधनं पुनः ।
कुलक्षयस्तथा तीव्रस्तत्पत्‍नीनाञ्च लुण्ठनम् ॥ ४२ ॥
विष्णुना चेश्वरेणापि साक्षान्नारायणेन च ।
उग्रसेनस्य सेवा वै दासवत्सततं कृता ॥ ४३ ॥
सन्देहोऽयं महाभाग तत्र नारायणे मुनौ ।
सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम् ॥ ४४ ॥
हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् ।
ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः ॥ ४५ ॥
तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् ।
अलौकिकेन हरिणा कृतं कर्म महीतले ॥ ४६ ॥
हता आयुःक्षये दैत्याः क्लेशेन महता पुनः ।
क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम ॥ ४७ ॥
रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् ।
कृतं हि वासुदेवेन चौरवच्चरितं तदा ॥ ४८ ॥
मथुरामण्डलं त्यक्त्वा समृद्धं कुलसम्मतम् ।
जरासन्धभयात्तेन द्वारकागमनं कृतम् ॥ ४९ ॥
तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः ।
किञ्चित्प्रब्रूहि मे ब्रह्मन् कारणं व्रजगोपनम् ॥ ५० ॥
एते चान्ये च बहवः सन्देहा वासवीसुत ।
नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम ॥ ५१ ॥
गोप्यस्तथैकः सन्देहो हृदयान्न निवर्तते ।
पाञ्चाल्याः पञ्चभर्तृत्वं लोके किं न जुगुप्सितम् ॥ ५२ ॥
सदाचारं प्रमाणं हि प्रवदन्ति मनीषिणः ।
पशुधर्मः कथं तैस्तु समर्थैरपि संश्रितः ॥ ५३ ॥
भीष्मेणापि कृतं किं वा देवरूपेण भूतले ।
गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम् ॥ ५४ ॥
धिग्धर्मनिर्णयः कामं मुनिभिः परिदर्शितः ।
येन केनाप्युपायेन पुत्रोत्पादनलक्षणः ॥ ५५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे सुराङ्गनानां प्रति नारायणवरदानं नाम सप्तदशोऽध्यायः ॥ १७ ॥