देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः ०१

विकिस्रोतः तः

जनमेजयप्रश्नाः

जनमेजय उवाच
वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ ।
प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन ॥ १ ॥
शूरसेनसुतः श्रीमान्वसुदेवः प्रतापवान् ।
श्रुतं मया हरिर्यस्य पुत्रभावमवाप्तवान् ॥ २ ॥
देवानामपि पूज्योऽभून्नाम्ना चानकदुन्दुभिः ।
कारागारे कथं बद्धः कंसस्य धर्मतत्परः ॥ ३ ॥
देवक्या भार्यया सार्धं किमागः कृतवानसौ ।
देवक्या बालषट्कस्य विनाशश्च कृतः पुनः ॥ ४ ॥
तेन कंसेन कस्माद्वै ययातिकुलजेन च ।
कारागारे कथं जन्म वासुदेवस्य वै हरेः ॥ ५ ॥
गोकुले च कथं नीतो भगवान्सात्वतां पतिः ।
गतो जन्मान्तरं कस्मात्पितरौ निगडे स्थितौ ॥ ६ ॥
देवकीवसुदेवौ च कृष्णस्यामिततेजसः ।
कथं न मोचितौ वृद्धौ पितरौ हरिणामुना ॥ ७ ॥
जगत्कर्तुं समर्थेन स्थितेन जनकोदरे ।
प्राक्तनं किं तयोः कर्म दुर्विज्ञेयं महात्मभिः ॥ ८ ॥
जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः ।
के ते पुत्राश्च का बाला या कंसेन विपोथिता ॥ ९ ॥
शिलायां निर्गता व्योम्नि जाता त्वष्टभुजा पुनः ।
गार्हस्थ्यञ्च हरेर्ब्रूहि बहुभार्यस्य चानघ ॥ १० ॥
कार्याणि तत्र तान्येव देहत्यागं च तस्य वै ।
किंवदन्त्या श्रुतं यत्तन्मनो मोहयतीव मे ॥ ११ ॥
चरितं वासुदेवस्य त्वमाख्याहि यथातथम् ।
नरनारायणौ देवौ पुराणावृषिसत्तमौ ॥ १२ ॥
धर्मपुत्रौ महात्मानौ तपश्चेरतुरुत्तमम् ।
यौ मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे ॥ १३ ॥
निराहारौ जितात्मानौ निःस्पृहौ जितषड्गुणौ ।
विष्णोरंशौ जगत्स्थेम्ने तपश्चेरतुरुत्तमम् ॥ १४ ॥
तयोरंशावतारौ हि जिष्णुकृष्णौ महाबलौ ।
प्रसिद्धौ मुनिभिः प्रोक्तौ सर्वज्ञैर्नारदादिभिः ॥ १५ ॥
विद्यमानशरीरौ तौ कथं देहान्तरं गतौ ।
नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम् ॥ १६ ॥
यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ ।
तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ ॥ १७ ॥
शूद्रः स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः ।
शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत् ॥ १८ ॥
ब्राह्मणो निःस्पृहः शान्तो भवरोगाद्विमुच्यते ।
विपरीतमिदं भाति नरनारायणौ च तौ ॥ १९ ॥
तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः ।
केन तौ कर्मणा शान्तौ जातौ शापेन वा पुनः ॥ २० ॥
ब्राह्मणौ क्षत्रियौ जातौ कारणं तन्मुने वद ।
यादवानां विनाशश्च ब्रह्मशापादिति श्रुतः ॥ २१ ॥
कृष्णस्यापि हि गान्धार्याः शापेनैव कुलक्षयः ।
प्रद्युम्नहरणं चैव शम्बरेण कथं कृतम् ॥ २२ ॥
वर्तमाने वासुदेवे देवदेवे जनार्दने ।
पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम् ॥ २३ ॥
द्वारकादुर्गमध्याद्वै हरिवेश्माद्दुरत्ययात् ।
न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा ॥ २४ ॥
सन्देहोऽयं महान्ब्रह्मन्निसन्देहं कुरु प्रभो ।
यत्पत्‍न्यो वासुदेवस्य दस्युभिर्लुण्ठिता हृताः ॥ २५ ॥
स्वर्गते देवदेवे तु तत्कथं मुनिसत्तम ।
संशयो जायते ब्रह्मंश्चित्तान्दोलनकारकः ॥ २६ ॥
विष्णोरंशः समुद्‌भूतः शौरिर्भूभारहारकृत् ।
स कथं मथुराराज्यं भयात्त्यक्त्वा जनार्दनः ॥ २७ ॥
द्वारवत्यां गतः साधो ससैन्यः ससुहृद्‌गणः ।
अवतारो हरेः प्रोक्तो भूभारहरणाय वै ॥ २८ ॥
पापात्मनां विनाशाय धर्मसंस्थापनाय च ।
तत्कथं वासुदेवेन चौरास्ते न निपातिताः ॥ २९ ॥
यैर्हृता वासुदेवस्य पत्‍न्यः संलुण्ठिताश्च ताः ।
स्तेनास्ते किं न विज्ञाताः सर्वज्ञेन सता पुनः ॥ ३० ॥
भीष्मद्रोणवधः कामं भूभारहरणे मतः ।
अर्चिताश्च महात्मानः पाण्डवा धर्मतत्पराः ॥ ३१ ॥
कृष्णभक्ताः सदाचारा युधिष्ठिरपुरोगमाः ।
ते कृत्वा राजसूयञ्च यज्ञराजं विधानतः ॥ ३२ ॥
दक्षिणा विविधा दत्त्वा ब्राह्मणेभ्योऽतिभावतः ।
पाण्डुपुत्रास्तु देवांशा वासुदेवाश्रिता मुने ॥ ३३ ॥
घोरं दुःखं कथं प्राप्ताः क्व गतं सुकृतञ्च तत् ।
किं तत्पापं महारौद्रं येन ते पीडिताः सदा ॥ ३४ ॥
द्रौपदी च महाभागा वेदीमध्यात्समुत्थिता ।
रमांशजा च साध्वी च कृष्णभक्तियुता तथा ॥ ३५ ॥
सा कथं दुःखमतुलं प्राप घोरं पुनः पुनः ।
दुःशासनेन सा केशे गृहीता पीडिता भृशम् ॥ ३६ ॥
रजस्वला सभायां तु नीता भीतैकवाससा ।
विराटनगरे दासी जाता मत्स्यस्य सा पुनः ॥ ३७ ॥
धर्षिता कीचकेनाथ रुदती कुररी यथा ।
हृता जयद्रथेनाथ क्रन्दमानातिदुःखिता ॥ ३८ ॥
मोचिता पाण्डवैः पश्चाद्‌बलवद्‌भिर्महात्मभिः ।
पूर्वजन्मकृतं पापं किं तद्येन च पीडिताः ॥ ३९ ॥
दुःखान्यनेकान्याप्तास्ते कथयाद्य महामते ।
राजसूयं क्रतुवरं कृत्वा ते मम पूर्वजाः ॥ ४० ॥
दुःखं महत्तरं प्राप्ताः पूर्वजन्मकृतेन वै ।
देवांशानां कथं तेषां संशयोऽयं महान्हि मे ॥ ४१ ॥
सदाचारैस्तु कौन्तेयैर्भीष्मद्रोणादयो हताः ।
छलेन धनलाभार्थं जानानैर्नश्वरं जगत् ॥ ४२ ॥
प्रेरिता वासुदेवेन पापे घोरे महात्मना ।
कुलं क्षयितवन्तस्ते हरिणा परमात्मना ॥ ४३ ॥
वरं भिक्षाटनं साधोर्नीवारैर्जीवनं वरम् ।
योधान्न हत्वा लोभेन शिल्पेन जीवनं वरम् ॥ ४४ ॥
विच्छिन्नस्तु त्वया वंशो रक्षितो मुनिसत्तम ।
समुत्पाद्य सुतानाशु गोलकाच्छत्रुनाशनान् ॥ ४५ ॥
सोऽल्पेनैव तु कालेन विराटतनयासुतः ।
तापसस्य गले सर्पं न्यस्तवान्कथमद्‌भुतम् ॥ ४६ ॥
नकोऽपि ब्राह्मणं द्वेष्टि क्षत्रियस्य कुलोद्‌भवः ।
तापसं मौनसंयुक्तं पित्रा किं तत्कृतं मुने ॥ ४७ ॥
एतैरन्यैश्च सन्देहैर्विकलं मे मनोऽधुना ।
स्थिरं कुरु पितः साधो सर्वज्ञोऽसि दयानिधे ॥ ४८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ चतुर्थस्कन्धे जनमेजयप्रश्नो नाम प्रथमोऽध्यायः ॥ १ ॥