देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ३०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

रामाय देवीवरदानम्

व्यास उवाच
एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः ।
आजगाम तदाऽऽकाशान्नारदो भगवानृषिः ॥ १ ॥
रणयन्महतीं वीणां स्वरग्रामविभूषिताम् ।
गायन्बृहद्रथं साम तदा तमुपतस्थिवान् ॥ २ ॥
दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् ।
आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः ॥ ३ ॥
पूजां परमिकां कृत्वा कृताञ्जलिरुपस्थितः ।
उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः ॥ ४ ॥
उपविष्टं तदा रामं सानुजं दुःखमानसम् ।
पप्रच्छ नारदः प्रीत्या कुशलं मुनिसत्तमः ॥ ५ ॥
कथं राघव शोकार्तो यथा वै प्राकृतो नरः ।
हृतां सीतां च जानामि रावणेन दुरात्मना ॥ ६ ॥
सुरसद्मगतश्चाहं श्रुतवाञ्जनकात्मजाम् ।
पौलस्त्येन हृतां मोहान्मरणं स्वमजानता ॥ ७ ॥
तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै ।
मैथिलीहरणं जातमेतदर्थं नराधिप ॥ ८ ॥
पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी ।
रावणेन वने दृष्टा तपस्यन्ती शुचिस्मिता ॥ ९ ॥
प्रार्थिता रावणेनासौ भव भार्येति राघव ।
तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात् ॥ १० ॥
शशाप तत्क्षणं राम रावणं तापसी भृशम् ।
कुपिता त्यक्तुमिच्छन्ती देहं संस्पर्शदूषितम् ॥ ११ ॥
दुरात्मंस्तव नाशार्थं भविष्यामि धरातले ।
अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि ॥ १२ ॥
सेयं रमांशसम्भूता गृहीता तेन रक्षसा ।
विनाशार्थं कुलस्यैव व्याली स्रगिव सम्भ्रमात् ॥ १३ ॥
तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः ।
प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः ॥ १४ ॥
कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा ।
सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम् ॥ १५ ॥
कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् ।
पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा ॥ १६ ॥
सुरभीदुग्धपानात्सा क्षुत्तुड्‌दुःखविवर्जिता ।
जाता कमलपत्राक्षी वर्तते वीक्षिता मया ॥ १७ ॥
उपायं कथयाम्यद्य तस्य नाशाय राघव ।
व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम् ॥ १८ ॥
नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् ।
सर्वसिद्धिकरं राम जपहोमविधानतः ॥ १९ ॥
मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः ।
दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि ॥ २० ॥
विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा ।
तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै ॥ २१ ॥
सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् ।
विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै ॥ २२ ॥
विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः ।
भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च ॥ २३ ॥
गुरुणा हृतदारेण कृतमेतन्महाव्रतम् ।
तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च ॥ २४ ॥
इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम् ।
त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम् ॥ २५ ॥
हरिणा मधुनाशाय कृतं मेरौ महामते ।
विधिवत्कुरु काकुत्स्थ व्रतमेतदतन्द्रितः ॥ २६ ॥
श्रीराम उवाच
का देवी किं प्रभावा सा कुतो जाता किमाह्वया ।
व्रतं किं विधिवद्‌ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ २७ ॥
नारद उवाच
शृणु राम सदा नित्या शक्तिराद्या सनातनी ।
सर्वकामप्रदा देवी पूजिता दुःखनाशिनी ॥ २८ ॥
कारणं सर्वजन्तूनां ब्रह्मादीनां रघूद्वह ।
तस्याः शक्तिं विना कोऽपि स्पन्दितुं न क्षमो भवेत् ॥ २९ ॥
विष्णोः पालनशक्तिः सा कर्तृशक्तिः पितुर्मम ।
रुद्रस्य नाशशक्तिः सा त्वन्याशक्तिः परा शिवा ॥ ३० ॥
यच्च किञ्चित्क्वचिद्वस्तु सदसद्‌भुवनत्रये ।
तस्य सर्वस्य या शक्तिस्तदुत्पत्तिः कुतो भवेत् ॥ ३१ ॥
न ब्रह्मा न यदा विष्णुर्न रुद्रो न दिवाकरः ।
न चेन्द्राद्याः सुराः सर्वे न धरा न धराधराः ॥ ३२ ॥
तदा सा प्रकृतिः पूर्णा पुरुषेण परेण वै ।
संयुता विहरत्येव युगादौ निर्गुणा शिवा ॥ ३३ ॥
सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् ।
पूर्वं संसृज्य ब्रह्मादीन्दत्त्वा शक्तीश्च सर्वशः ॥ ३४ ॥
तां ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ।
सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी ॥ ३५ ॥
असंख्यातानि नामानि तस्या ब्रह्मादिभिः किल ।
गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे ॥ ३६ ॥
अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः ।
असंख्येयानि नामानि भवन्ति रघुनन्दन ॥ ३७ ॥

राम उवाच
विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः ।
करोम्यद्यैव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा ॥ ३८ ॥
नारद उवाच
पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् ।
उपवासान्नवैव त्वं कुरु राम विधानतः ॥ ३९ ॥
आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते ।
देवकार्यविधानार्थमुत्साहं प्रकरोम्यहम् ॥ ४० ॥
व्यास उवाच
तच्छ्रुत्वा वचनं सत्यं मत्वा रामः प्रतापवान् ।
कारयित्वा शुभं पीठं स्थापयित्वाम्बिकां शिवाम् ॥ ४१ ॥
विधिवत्पूजनं तस्याश्चकार व्रतवान् हरिः ।
सम्प्राप्ते चाश्विने मासि तस्मिन्गिरिवरे तदा ॥ ४२ ॥
उपवासपरो रामः कृतवान्व्रतमुत्तमम् ।
होमञ्च विधिवत्तत्र बलिदानञ्च पूजनम् ॥ ४३ ॥
भ्रातरौ चक्रतुः प्रेम्णा व्रतं नारदसम्मतम् ।
अष्टम्यां मध्यरात्रे तु देवी भगवती हि सा ॥ ४४ ॥
सिंहारूढा ददौ तत्र दर्शनं प्रतिपूजिता ।
गिरिशृङ्गे स्थितोवाच राघवं सानुजं गिरा ॥ ४५ ॥
मेघगम्भीरया चेदं भक्तिभावेन तोषिता ।

देव्युवाच
राम राम महाबाहो तुष्टाऽस्म्यद्म व्रतेन ते ॥ ४६ ॥
प्रार्थयस्व वरं कामं यत्ते मनसि वर्तते ।
नारायणांशसम्भूतस्त्वं वंशे मानवेऽनघे ॥ ४७ ॥
रावणस्य वधायैव प्रार्थितस्त्वमरैरसि ।
पुरा मत्स्यतनुं कृत्वा हत्वा घोरञ्च राक्षसम् ॥ ४८ ॥
त्वया वै रक्षिता वेदाः सुराणां हितमिच्छता ।
भूत्वा कच्छपरूपस्तु धृतवान्मन्दरं गिरिम् ॥ ४९ ॥
अकूपारं प्रमन्थानं कृत्वा देवानपोषयः ।
कोलरूपं परं कृत्वा दशनाग्रेण मेदिनीम् ॥ ५० ॥
धृतवानसि यद्‌राम हिरण्याक्षं जघान च ।
नारसिंहीं तनुं कृत्वा हिरण्यकशिपुं पुरा ॥ ५१ ॥
प्रह्लादं राम रक्षित्वा हतवानसि राघव ।
वामनं वपुरास्थाय पुरा छलितवान्बलिम् ॥ ५२ ॥
भूत्वेन्द्रस्यानुजः कामं देवकार्यप्रसाधकः ।
जमदग्निसुतस्त्वं मे विष्णोरंशेन सङ्गतः ॥ ५३ ॥
कृत्वान्तं क्षत्रियाणां तु दानं भूमेरदाद्‌द्विजे ।
तथेदानीं तु काकुत्स्थ जातो दशरथात्मज ॥ ५४ ॥
प्रार्थितस्तु सुरैः सर्वै रावणेनातिपीडितैः ।
कपयस्ते सहाया वै देवांशा बलवत्तराः ॥ ५५ ॥
भविष्यन्ति नरव्याघ्र मच्छक्तिसंयुता ह्यमी ।
शेषांशोऽप्यनुजस्तेऽयं रावणात्मजनाशकः ॥ ५६ ॥
भविष्यति न सन्देहः कर्तव्योऽत्र त्वयाऽनघ ।
वसन्ते सेवनं कार्यं त्वया तत्रातिश्रद्धया ॥ ५७ ॥
हत्वाऽथ रावणं पापं कुरु राज्यं यथासुखम् ।
एकादश सहस्राणि वर्षाणि पृथिवीतले ॥ ५८ ॥
कृत्वा राज्यं रघुश्रेष्ठ गन्ताऽसि त्रिदिवं पुनः ।
व्यास उवाच
इत्युक्त्वान्तर्दधे देवी रामस्तु प्रीतमानसः ॥ ५९ ॥
समाप्य तद्‌व्रतं चक्रे प्रयाणं दशमीदिने ।
विजयापूजनं कृत्वा दत्त्वा दानान्यनेकशः ॥ ६० ॥
कपिपतिबलयुक्तः सानुजः श्रीपतिश्च
     प्रकटपरमशक्त्या प्रेरितः पूर्णकामः ।
उदधितटगतोऽसौ सेतुबन्धं विधाया-
     प्यहनदमरशत्रुं रावणं गीतकीर्तिः ॥ ६१ ॥
यः शृणोति नरो भक्त्या देव्याश्चरितमुत्तमम् ।
स भुक्त्वा विपुलान्भोगान्प्राप्नोति परमं पदम् ॥ ६२ ॥
सन्त्यन्यानि पुराणानि विस्तराणि बहूनि च ।
श्रीमद्‌भागवतस्यास्य न तुल्यानीति मे मतिः ॥ ६३ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामाय देवीवरदानं नाम त्रिंशोऽध्यायः ॥ ३० ॥