सामग्री पर जाएँ

देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः २९

विकिस्रोतः तः

लक्ष्मणकृतरामशोकसान्त्वनम्

व्यास उवाच
तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला ।
वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह ॥ १ ॥
पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः ।
नाहं वै स्वैरिणी किन्तु जनकस्य कुलोद्‌भवा ॥ २ ॥
गच्छ लङ्कां दशास्य त्वं राम त्वां वै हनिष्यति ।
मत्कृते मरणं तत्र भविष्यति न संशयः ॥ ३ ॥
इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ ।
गच्छ गच्छेति वदती रावणं लोकरावणम् ॥ ४ ॥
सोऽथ कृत्वा निजं रूपं जगामोटजमन्तिकम् ।
बलाज्जग्राह तां बालां रुदती भयविह्वलाम् ॥ ५ ॥
रामरामेति क्रन्दन्ती लक्ष्मणेति मुहुर्मुहुः ।
गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः ॥ ६ ॥
गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा ।
सङ्ग्रामोऽभून्महारौद्रस्तयोस्तत्र वनान्तरे ॥ ७ ॥
हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः ।
लङ्कायां क्रन्दती तात कुररीव दुरात्मनः ॥ ८ ॥
अशोकवनिकायां सा स्थापिता राक्षसीयुता ।
स्ववृत्तान्नैव चलिता सामदानादिभिः किल ॥ ९ ॥
रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः ।
आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम् ॥ १० ॥
एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः ।
श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम् ॥ ११ ॥
सौ‌मित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः ।
प्रभोऽत्राहं समायातः कालयोगान्न संशयः ॥ १२ ॥
तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ ।
जानक्यन्वेषणे यत्‍नमुभौ कर्तुं समुद्यतौ ॥ १३ ॥
मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः ।
जटायुः प्राणशेषस्तु पतितः पृथिवीतले ॥ १४ ॥
तेनोक्तं रावणेनाद्य हृता‍‍ऽसौ जनकात्मजा ।
मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः ॥ १५ ॥
इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै ।
कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः ॥ १६ ॥
कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः ।
वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः ॥ १७ ॥
हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् ।
सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः ॥ १८ ॥
तत्रैव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः ।
चिन्तयञ्जानकीं चित्ते दशाननहृतां प्रियाम् ॥ १९ ॥
लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः ।
सौ‌मित्रे कैकयसुता जाता पूर्णमनोरथा ॥ २० ॥
न प्राप्ता जानकी नूनं नाहं जीवामि तां विना ।
नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम् ॥ २१ ॥
गतं राज्यं वने वासो मृतस्तातो हृता प्रिया ।
पीडयन्मां स दुष्टात्मा दैवो‍ऽग्रे किं करिष्यति ॥ २२ ॥
दुर्ज्ञेयं भवितव्यं हि प्राणिनां भरतानुज ।
आवयोः का गतिस्तात भविष्यति सुदुःखदा ॥ २३ ॥
प्राप्य जन्म मनोर्वंशे राजपुत्रावुभौ किल ।
वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च ॥ २४ ॥
त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः ।
दैवयोगाच्च सौ‌मित्रे भुंक्ष्व दुःखं दुरत्ययम् ॥ २५ ॥
न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः ।
अकिञ्चनोऽक्षमः क्लिष्टो न भूतो न भविष्यति ॥ २६ ॥
किं करोम्यद्य सौ‌मित्रे मग्नोऽस्मि दुःखसागरे ।
न चास्ति तरणोपायो ह्यसहायस्य मे किल ॥ २७ ॥
न वित्तं न बलं वीर त्वमेकः सहचारकः ।
कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज ॥ २८ ॥
गतं हस्तगतं राज्यं क्षणादिन्द्रासनोपमम् ।
वने वासस्तु सम्प्राप्तः को वेद विधिनिर्मितम् ॥ २९ ॥
बालभावाच्च वैदेही चलिता चावयोः सह ।
नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम् ॥ ३० ॥
लङ्केशस्य गृहे श्यामा कथं दुःखं भविष्यति ।
पतिव्रता सुशीला च मयि प्रीतियुता भृशम् ॥ ३१ ॥
न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् ।
स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा ॥ ३२ ॥
त्यजेत्प्राणान्नियन्तृत्वे मैथिली भरतानुज ।
न रावणस्य वशगा भवेदिति सुनिश्चितम् ॥ ३३ ॥
मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम् ।
मृता चेदसितापाङ्गीं किं मे देहेन लक्ष्मण ॥ ३४ ॥
एवं विलपमानं तं रामं कमललोचनम् ।
लक्ष्मणः प्राह धर्मात्मा सान्त्वयन्नृतया गिरा ॥ ३५ ॥
धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह ।
आनयिष्यामि वैदेहीं हत्वा तं राक्षसाधमम् ॥ ३६ ॥
आपदि सम्पदि तुल्या धैर्याद्‌भवन्ति ते धीराः ।
अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवेऽपि ॥ ३७ ॥
संयोगो विप्रयोगश्च दैवाधीनावुभावपि ।
शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित् ॥ ३८ ॥
राज्याद्यथा वने वासो वैदेह्या हरणं यथा ।
तथा काले समीचीने संयोगोऽपि भविष्यति ॥ ३९ ॥
प्राप्तव्यं सुखदुःखानां भोगान्निर्वर्तनं क्वचित् ।
नान्यथा जानकीजाने तस्माच्छोकं त्यजाधुना ॥ ४० ॥
वानराः सन्ति भूयांसो गमिष्यन्ति चतुर्दिशम् ।
शुद्धिं जनकनन्दिन्या आनयिष्यन्ति ते किल ॥ ४१ ॥
ज्ञात्वा मार्गस्थितिं तत्र गत्वा कृत्वा पराक्रमम् ।
हत्वा तं पापकर्माणमानयिष्यामि मैथिलीम् ॥ ४२ ॥
ससैन्यं भरतं वाऽपि समाहूय सहानुजम् ।
हनिष्यामो वयं शत्रुं किं शोचसि वृथाग्रज ॥ ४३ ॥
रघुणैकरथेनैव जिताः सर्वा दिशः पुरा ।
तद्वंशजः कथं शोकं कर्तुमर्हसि राघव ॥ ४४ ॥
एकोऽहं सकलाञ्जेतुं समर्थोऽस्मि सुरासुरान् ।
किं पुनः ससहायो वै रावणं कुलपांसनम् ॥ ४५ ॥
जनकं वा समानीय साहाय्ये रघुनन्दन ।
हनिष्यामि दुराचारं रावणं सुरकण्टकम् ॥ ४६ ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
चक्रनेमिरिवैकं यन्न भवेद्‌रघुनन्दन ॥ ४७ ॥
मनोऽतिकातरं यस्य सुखदुःखसमुद्‌भवे ।
स शोकसागरे मग्नो न सुखी स्यात्कदाचन ॥ ४८ ॥
इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन ।
नहुषः स्थापितो देवैः सर्वैर्मघवतः पदे ॥ ४९ ॥
स्थितः पङ्कजमध्ये च बहुवर्षगणानपि ।
अज्ञातवासं मघवा भीतस्त्यक्त्वा निजं पदम् ॥ ५० ॥
पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते ।
नहुषः पतितो भूमौ शापादजगराकृतिः ॥ ५१ ॥
इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च ।
अगस्तिकोपात्सञ्जातः सर्पदेहो महीपतिः ॥ ५२ ॥
तस्माच्छोको न कर्तव्यो व्यसने सति राघव ।
उद्यमे चित्तमास्थाय स्थातव्यं वै विपश्चिता ॥ ५३ ॥
सर्वज्ञोऽसि महाभाग समर्थोऽसि जगत्पते ।
किं प्राकृत इवात्यर्थं कुरुषे शोकमात्मनि ॥ ५४ ॥
व्यास उवाच
इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः ।
त्यक्त्वा शोकं तथात्यर्थं बभूव विगतज्वरः ॥ ५५ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे लक्ष्मणकृतरामशोकसान्त्वनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥