देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search

देवीमहिमवर्णनम्

व्यास उवाच
तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः ।
प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः ॥ १ ॥
सुबाहुरुवाच
एकतो देवलोकस्य राज्यं भूमण्डलस्य च ।
एकतो दर्शनं ते वै न च तुल्यं कदाचन ॥ २ ॥
दर्शनात्सदृशं किञ्चित्त्रिषु लोकेषु नास्ति मे ।
कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले ॥ ३ ॥
एतदिच्छाम्यहं मातर्याचितुं वाञ्छितं वरम् ।
तव भक्तिः सदा मेऽस्तु निश्चला ह्यनपायिनी ॥ ४ ॥
नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा ।
दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता ॥ ५ ॥
रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह ।
यथा सुदर्शनस्त्रातो रिपुसंघादनामयः ॥ ६ ॥
तथाऽत्र रक्षा कर्तव्या वाराणस्यास्त्वयाम्बिके ।
यावत्पुरी भवेद्‌भूमौ सुप्रतिष्ठा सुसंस्थिता ॥ ७ ॥
तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे ।
वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम् ॥ ८ ॥
विविधान्सकलान्कामान्देहि मे विद्विषो जहि ।
अभद्राणां विनाशञ्च कुरु लोकस्य सर्वदा ॥ ९ ॥
व्यास उवाच
इति सम्प्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी ।
तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः ॥ १० ॥
दुर्गोवाच
राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति ।
रक्षार्थं सर्वलोकानां यावत्तिष्ठति मेदिनी ॥ ११ ॥
अथो सुदर्शनस्तत्र समागत्य मुदान्वितः ।
प्रणम्य परया भक्त्या तुष्टाव जगदम्बिकाम् ॥ १२ ॥
अहो कृपा ये कथयाम्यहं किं
     त्रातस्त्वया यत्किल भक्तिहीनः ।
भक्तानुकम्पी सकलो जनोऽस्ति
     विमुक्तभक्तेरवनं व्रतं ते ॥ १३ ॥
त्वं देवि सर्वं सृजसि प्रपञ्चं
     श्रुतं मया पालयसि स्वसृष्टम् ।
त्वमत्सि संहारपरे च काले
     न तेऽत्र चित्रं मम रक्षणं वै ॥ १४ ॥
करोमि किं ते वद देवि कार्यं
     क्व वा व्रजामीत्यनुमोदयाशु ।
कार्ये विमूढोऽस्मि तवाज्ञयाऽहं
     गच्छामि तिष्ठे विहरामि मातः ॥ १५ ॥

व्यास उवाच
तं तथा भाषमाणं तु देवी प्राह दयान्विता ।
गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम् ॥ १६ ॥
स्मरणीया सदाऽहं ते पूजनीया प्रयत्‍नतः ।
शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम ॥ १७ ॥
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः ।
मम पूजा प्रकर्तव्या बलिदानविधानतः ॥ १८ ॥
अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ ।
पूजनीया प्रयत्‍नेन त्रिकालं भक्तिपूर्वकम् ॥ १९ ॥
शरत्काले महापूजा कर्तव्या मम सर्वदा ।
नवरात्रविधानेन भक्तिभावयुतेन च ॥ २० ॥
चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः ।
नवरात्रे महाराज पूजा कार्या विशेषतः ॥ २१ ॥
कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः ।
कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः ॥ २२ ॥
व्यास उवाच
इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी ।
नता सुदर्शनेनाथ स्तुता च बहुविस्तरम् ॥ २३ ॥
अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते ।
प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा ॥ २४ ॥
सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः ।
ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा ॥ २५ ॥
त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा ।
कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम ॥ २६ ॥
त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा ।
आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा ॥ २७ ॥
धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले ।
यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी ॥ २८ ॥
न जानीमो वयं सर्वे प्रभावं नृपसत्तम ।
चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा ॥ २९ ॥
धनदारसुतानां च चिन्तनेऽभिरताः सदा ।
मग्ना महार्वणे घोरे कामक्रोधझषाकुले ॥ ३० ॥
पृच्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते ।
केयं शक्तिः कुतो जाता किं प्रभावा वदस्व तत् ॥ ३१ ॥
भव त्वं नौश्च संसारे साधवोऽति दयापराः ।
तस्मान्नो वद काकुत्स्थ देवीमाहात्म्यमुत्तमम् ॥ ३२ ॥
यत्प्रभावा च सा देवी यत्स्वरुपा यदुद्‌भवा ।
सत्सर्वं श्रोतुमिच्छामस्त्वं ब्रूहि नृवरोत्तम ॥ ३३ ॥
व्यास उवाच
इति पृष्टस्तदा तैस्तु ध्रुवसन्धिसुतो नृपः ।
विचिन्त्य मनसा देवीं तानुवाच मुदान्वितः ॥ ३४ ॥
सुदर्शन उवाच
किं ब्रवीमि महीपालास्तस्याश्चरितमुत्तमम् ।
ब्रह्मादयो न जानन्ति सेशाः सुरगणास्तथा ॥ ३५ ॥
सर्वस्याद्या महालक्ष्मीर्वरेण्या शक्तिरुत्तमा ।
सात्त्विकीयं महीपाला जगत्पालनतत्परा ॥ ३६ ॥
सृजते या रजोरूपा सत्त्वरूपा च पालने ।
संहारे च तमोरूपा त्रिगुणा सा सदा मता ॥ ३७ ॥
निर्गुणा परमा शक्तिः सर्वकामफलप्रदा ।
सर्वेषां कारणं सा हि ब्रह्मादीनां नृपोत्तमाः ॥ ३८ ॥
निर्गुणा सर्वथा ज्ञातुमशक्या योगिभिर्नृपाः ।
सगुणा सुखसेव्या सा चिन्तनीया सदा बुधैः ॥ ३९ ॥
राजान ऊचुः
बाल एव वनं प्राप्तस्त्वं तु नूनं भयातुरः ।
कथं ज्ञाता त्वया देवी परमा शक्तिरुत्तमा ॥ ४० ॥
उपासिता कथं चैव पूजिता च कथं नृप ।
या प्रसन्ना तु साहाय्यं चकार त्वरयान्विता ॥ ४१ ॥
सुदर्शन उवाच
बालभावान्मया प्राप्तं बीजं तस्याः सुसम्मतम् ।
स्मरामि प्रजपन्नित्यं कामबीजाभिधं नृपाः ॥ ४२ ॥
ऋषिभिः कथ्यमाना सा मया ज्ञाताम्बिका शिवा ।
स्मरामि तां दिवारात्रं भक्त्या परमया पराम् ॥ ४३ ॥
व्यास उवाच
तन्निशम्य वचस्तस्य राजानो भक्तितत्पराः ।
तां मत्वा परमां शक्तिं निर्ययुः स्वगृहान्प्रति ॥ ४४ ॥
सुबाहुरगमत्काश्यां तमापृच्छ्य सुदर्शनम् ।
सुदर्शनोऽपि धर्मात्मा निर्ज्जगाम सुकोसलान् ॥ ४५ ॥
मन्त्रिणस्तु नृपं श्रुत्वा हतं शत्रुजितं मृधे ।
जितं सुदर्शनञ्चैव बभूवुः प्रेमसंयुताः ॥ ४६ ॥
आगच्छन्तं नृपं श्रुत्वा तं साकेतनिवासिनः ।
उपायनान्युपादाय प्रययुः सम्मुखे जनाः ॥ ४७ ॥
तथा प्रकृतयः सर्वे नानोपायनपाणयः ।
ध्रुवसन्धिसुतं दत्त्वा मुदिताः प्रययुः प्रजाः ॥ ४८ ॥
स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः ।
सम्मान्य सर्वलोकांश्च ययौ राजा निवेशनम् ॥ ४९ ॥
वन्दिभिः स्तूयमानस्तु वन्द्यमानश्च मन्त्रिभिः ।
कन्याभिः कीर्यमाणश्च लाजैः सुमनसैस्तथा ॥ ५० ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सुदर्शनेन देवीमहिमवर्णनं नाम तृतीयस्कन्धे चतुर्विशोऽध्यायः ॥ २४ ॥