देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search

कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम्

व्यास उवाच
सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा ।
चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम् ॥ १ ॥
सङ्गताः पृथिवीपालाः ससैन्याः सपरिग्रहाः ।
उपविष्टाश्‍च मञ्चेषु योद्धुकामा महाबलाः ॥ २ ॥
यदि ब्रवीमि तान्सर्वान्सुता नायाति साम्प्रतम् ।
तथापि कोपसंयुक्ता हन्युर्मा दुष्टबुद्धयः ॥ ३ ॥
न मे सैन्यबलं तादृङ्न दुर्गबलमद्‌भुतम् ।
येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे ॥ ४ ॥
सुदर्शनस्तथैकाकी ह्यसहायोऽधनः शिशुः ।
किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे ॥ ५ ॥
इति चिन्तापरो राजा जगाम नृपसन्निधौ ।
प्रणम्य तानुवाचाथ प्रश्रयावनतो नृपः ॥ ६ ॥
किं कर्तव्यं नृपाः कामं नैति मे मण्डपे सुता ।
बहुशः प्रेर्यमाणाऽपि सा मात्राऽपि मयाऽपि च ॥ ७ ॥
मूर्घ्ना पतामि पादेषु राज्ञां दासोऽस्मि साम्प्रतम् ।
पूजादिकं गृहीत्वाऽद्य व्रजन्तु सदनानि वः ॥ ८ ॥
ददामि बहुरत्‍नानि वस्त्राणि च गजान् रथान् ।
गृहीत्वाऽद्य कृपां कृत्वा व्रजन्तु भवनान्युत ॥ ९ ॥
न वशे मे सुता बाला म्रियते यदि खेदिता ।
तदा मे स्यान्महद्‍दुःखं तेन चिन्तातुरोऽस्म्यहम् ॥ १० ॥
भवन्तः करुणावन्तो महाभाग्या महौजसः ।
किं मे तया दुहित्रा तु मन्दया दुर्विनीतया ॥ ११ ॥
अनुग्राह्योऽस्मि वः कामं दासोऽहमिति सर्वथा ।
सुता सुतेव मन्तव्या भवद्‌भिः सर्वथा मम ॥ १२ ॥

व्यास उवाच
श्रुत्वा सुबाहुवचनं नोचुः केचन भूमिपाः ।
युधाजित्क्रोधताम्राक्षस्तमुवाच रुषान्वितः ॥ १३ ॥
राजन्मूर्खोऽसि किं ब्रूषे कृत्वा कार्य सुनिन्दितम् ।
स्वयंवरः कथं मोहाद्‌रचितः संशये सति ॥ १४ ॥
मिलिता भूभुजः सर्वे त्वयाहूताः स्वयंवरे ।
कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति ॥ १५ ॥
अवमान्य नृपान्सर्वांस्त्वं किं सुदर्शनाय वै ।
दातुमिच्छसि पुत्रीञ्च किमनार्यमतः परम् ॥ १६ ॥
विचार्य पुरुषेणादौ कार्यं वै शुभमिच्छता ।
आरब्धव्यं त्वया तत्तु कृतं राजन्नजानता ॥ १७ ॥
एतान्विहाय नृपतीन्बलवाहनसंयुतान् ।
वरं सुदर्शनं कर्तुं कथमिच्छसि साम्प्रतम् ॥ १८ ॥
अहं त्वां हन्मि पापिष्ठं तथा पश्‍चात्सुदर्शनम् ।
दौहित्रायाद्य ते कन्यां दास्यामीति विनिश्‍चयः ॥ १९ ॥
मयि तिष्ठति कोऽन्योस्ति यः कन्यां हर्तुमिच्छति ।
सुदर्शनः कियानद्य निर्धनो निर्बलः शिशुः ॥ २० ॥
भारद्वाजाश्रमे पूर्वं मुक्तो मुनिकृते मया ।
नाद्याहं मोचयिष्यामि सर्वथा जीवितं शिशोः ॥ २१ ॥
तस्माद्विचार्य सम्यक्त्वं पुत्र्या च भार्यया सह ।
दौहित्राय प्रियां कन्यां देहि मे सुभ्रुवं किल ॥ २२ ॥
सम्बन्धी भव दत्त्वा त्वं पुत्रीमेतां मनोरमाम् ।
उच्चाश्रयः प्रकर्तव्यः सर्वदा शुभमिच्छता ॥ २३ ॥
सुदर्शनाय दत्त्वा त्वं पुत्रीं प्राणप्रियां शुभाम् ।
एकाकिनेऽप्यराज्याय किं सुखं प्राप्तुमिच्छसि ॥ २४ ॥
( कुलं वित्तं बलं रूपं राज्यं दुर्गं सुहृज्जनम् ।
दृष्ट्वा कन्या प्रदातव्या नान्यथा सुखमृच्छति) ॥
परिचिन्तय धर्मं त्वं राजनीतिञ्च शाश्‍वतीम् ।
कुरु कार्यं यथायोग्यं मा कृथा मतिमन्यथा ॥ २५ ॥
सुहृदसि ममात्यर्थं हितं ते प्रब्रवीम्यहम् ।
समानय सुतां राजन् मण्डपे तां सखीवृताम् ॥ २६ ॥
सुदर्शनमृते चेयं वरिष्यति यदाऽप्यसौ ।
विग्रहो मे तदा न स्याद्विवाहोऽस्तु तवेप्सितः ॥ २७ ॥
अन्ये नृपतयः सर्वे कुलीनाः सबलाः समाः ।
विरोधः कीदृशस्त्वेनं वृणोद्यदि नृपोत्तम ॥ २८ ॥
अन्यथाऽहं हरिष्येऽद्य बलात्कन्यामिमां शुभाम् ।
मा विरोधं सुदुःसाध्यं गच्छ पार्थिवसत्तम ॥ २९ ॥

व्यास उवाच
युधाजिता समादिष्टः सुबाहुः शोकसंयुतः ।
निःश्‍वसन्भवनं गत्वा भार्यां प्राह शुचावृतः ॥ ३० ॥
पुत्रीं ब्रूहि सुधर्मज्ञे कलहे समुपस्थिते ।
किं कर्त्तव्यं मया शक्यं त्वद्वशोऽस्मि सुलोचने ॥ ३१ ॥
व्यास उवाच
सा श्रुत्वा पतिवाक्यं तु गत्वा प्राह सुतान्तिकम् ।
वत्से राजातिदुःखार्तः पिता तेऽद्यापि वर्तते ॥ ३२ ॥
त्वदर्थे विग्रहः कामं समुत्पन्नोऽद्य भूभृताम् ।
अन्यं वरय सुश्रोणि सुदर्शनमृते नृपम् ॥ ३३ ॥
यदि सुदर्शनं वत्से हठात्त्वं वै वरिष्यसि ।
युधाजित्त्वां च मां चैव हनिष्यति बलान्वितः ॥ ३४ ॥
सुदर्शनं च राजाऽसौ बलमत्तः प्रतापवान् ।
द्वितीयस्ते पतिः पश्‍चाद्‌भविता कलहे सति ॥ ३५ ॥
तस्मात्सुदर्शनं त्यक्त्वा वरयान्यं नृपोत्तमम् ।
सुखमिच्छसि चेन्मह्यं तुभ्यं वा मृगलोचने ।
इति मात्रा बोधितां तां पश्‍चाद्‌राजाप्यबोधयत् ॥ ३६ ॥
उभयोर्वचनं श्रुत्वा निर्भयोवाच कन्यका
कन्योवाच
सत्यमुक्तं नृपश्रेष्ठ जानासि च व्रतं मम ॥ ३७ ॥
नान्यं वृणोमि भूपाल सुदर्शनमृते क्वचित् ।
बिभेषि यदि राजेन्द्र नृपेभ्यः किल कातरः ॥ ३८ ॥
सुदर्शनाय दत्त्वा मां विसर्जय पुराद्‌बहिः ।
स मां रथे सामारोप्य निर्गमिष्यति ते पुरात् ॥ ३९ ॥
भवितव्यं तु पश्‍चाद्वै भविष्यति न चान्यथा ।
नात्र चिन्ता त्वया कार्या भवितव्ये नृपोत्तम ॥ ४० ॥
यद्‌भावि तद्‌भवत्येव सर्वथात्र न संशयः ।
राजोवाच
न पुत्रि साहसं कार्यं मतिमद्‌भिः कदाचन ॥ ४१ ॥
बहुभिर्न विरोद्धव्यमिति वेदविदो विदुः ।
विस्रक्ष्यामि कथं कन्यां दत्त्वा राजसुताय च ॥ ४२ ॥
राजानो वरसंयुक्ताः किं न कुर्युरसाम्प्रतम् ।
यदि ते रोचते वत्से पणं संविदधाम्यहम् ॥ ४३ ॥
जनकेन यथा पूर्वं कृतः सीतास्वयंवरे ।
शैवं धनुर्यथा तेन धृतं कृत्वा पणं तथा ॥ ४४ ॥
तथाहमपि तन्वङ्‌गि करोम्यद्य दुरासदम् ।
विवादो येन राज्ञां वै कृते सति शमं व्रजेत् ॥ ४५ ॥
पालयिष्यति यः कामं स ते भर्ता भविष्यति ।
सुदर्शनस्तथाऽन्यो वा यः कश्चिद्‌बलवत्तरः ॥ ४६ ॥
पालयित्वा पणं त्वां वै वरयिष्यति सर्वथा ।
एवं कृते नृपाणां तु विवादः शमितो भवेत् ॥ ४७ ॥
सुखेनाहं विवाहं ते करिष्यामि ततः परम् ।
कन्योवाच
सन्देहे नैव मज्जामि मूर्खकृत्यमिदं यतः ॥ ४८ ॥
मया सुदर्शनः पूर्वं धृतश्चेतसि नान्यथा ।
कारणं पुण्यपापानां मन एव महीपते ॥ ४९ ॥
मनसा विधृतं त्यक्त्वा कथमन्यं वृणे पितः ।
कृते पणे महाराज सर्वेषां वशगा ह्यहम् ॥ ५० ॥
एकः पालयिता द्वौ वा बहवो वा भवन्ति चेत् ।
किं कर्तव्यं तदा तात विवादे समुपस्थिते ॥ ५१ ॥
संशयाधिष्ठिते कार्ये मतिं नाहं करोम्यतः ।
मा चिन्तां कुरु राजेन्द्र देहि सुदर्शनाय माम् ॥ ५२ ॥
विवाहं विधिना कृत्वा शं विधास्यति चण्डिका ।
यन्नामकीर्तनादेव दुःखौघो विलयं व्रजेत् ॥ ५३ ॥
तां स्मृत्वा परमां शक्तिं कुरु कार्यमतन्द्रितः ।
गत्वा वद नृपेभ्यस्त्वं कृताञ्जलिपुटोऽद्य वै ॥ ५४ ॥
आगन्तव्यञ्च श्वः सर्वैरिह भूपैः स्वयंवरे ।
इत्युक्त्वा त्वं विसृज्याशु सर्वं नृपतिमण्डलम् ॥ ५५ ॥
विवाहं कुरु रात्रौ मे वेदोक्तविधिना नृप ।
पारिबर्हं यथायोग्यं दत्त्वा तस्मै विसर्जय ॥ ५६ ॥
गमिष्यति गृहीत्वा मां ध्रुवसन्धिसुतः किल ।
कदाचित्ते नृपाः क्रुद्धाः सङ्ग्रामं कर्त्तुमुद्यताः ॥ ५७ ॥
भविष्यति तदा देवी साहाय्यं नः करिष्यति ।
सोऽपि राजसुतस्तैस्तु सङ्ग्रामं संविधास्यति ॥ ५८ ॥
दैवान्मृधे मृते तस्मिन्मरिष्याम्यहमप्युत ।
स्वस्ति तेस्तु गृहे तिष्ठ दत्त्वा मां सहसैन्यकः ॥ ५९ ॥
एकैवाहं गमिष्यामि तेन सार्धं रिरंसया ।
व्यास उवाच
इति तस्या वचः श्रुत्वा राजाऽसौ कृतनिश्चयः ।
मतिं चक्रे तथा कर्तुं विश्वासं प्रतिपद्य च ॥ ६० ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनं नामैकविंशोऽध्यायः ॥ २१ ॥