सामग्री पर जाएँ

देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः २०

विकिस्रोतः तः

स्वपितरं प्रति शशिकलावाक्यम्

व्यास उवाच
इतिवादिनि भूपाले केरलाधिपतौ तदा ।
प्रत्युवाच महाभाग युधाजिदपि पार्थिवः ॥ १ ॥
नीतिरेषा महीपाल यद्‌ब्रवीति भवानिह ।
समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः ॥ २ ॥
योग्येषु वर्तमानेषु कन्यारत्‍नं कुलोद्वह ।
अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते ॥ ३ ॥
भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् ।
तथा सुदर्शनोऽयं वै कन्यारत्‍नं किमर्हति ॥ ४ ॥
बलं वेदो हि विप्राणां भूभुजां चापजं बलम् ।
किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना ॥ ५ ॥
बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् ।
बलवानेव गृह्णातु नाबलस्तु कदाचन ॥ ६ ॥
तस्मात्कन्यापणं कृत्वा नीतिरत्र विधीयताम् ।
अन्यथा कलहः कामं भविष्यति महीभुजाम् ॥ ७ ॥
एवं विवादे संवृत्ते राज्ञां तत्र परस्परम् ।
आहूतस्तु सभामध्ये सुबाहुर्नृपसत्तमः ॥ ८ ॥
समाहूय नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः ।
राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता ॥ ९ ॥
किं ते चिकीर्षितं राजंस्तद्वदस्व समाहितः ।
पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि ॥ १० ॥
सुबाहुरुवाच
पुत्र्या मे मनसा कामं वृतः किल सुदर्शनः ।
मया निवारितोऽत्यर्थं न सा प्रत्येति मे वचः ॥ ११ ॥
किं करोमि सुताया मे न वशे वर्तते मनः ।
सुदर्शनस्तथैकाकी सम्प्राप्तोऽस्ति निराकुलः ॥ १२ ॥
व्यास उवाच
सम्पन्ना भूभुजः सर्वे समाहूय सुदर्शनम् ।
ऊचुः समागतं शान्तमेकाकिनमतन्द्रिताः ॥ १३ ॥
राजपुत्र महाभाग केनाहूतोऽसि सुव्रत ।
एकाकी यः समायातः समाजे भूभृतामिह ॥ १४ ॥
न वै सैन्यं न सचिवा न कोशो न बृहद्‌बलम् ।
किमर्थञ्च समायातस्तत्त्वं ब्रूहि महामते ॥ १५ ॥
युद्धकामा नृपतयो वर्तन्तेऽत्र समागमे ।
कन्यार्थं सैन्यसम्पन्नाः किं त्वं कर्तुमिहेच्छसि ॥ १६ ॥
भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया ।
युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः ॥ १७ ॥
गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् ।
त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत ॥ १८ ॥
सुदर्शन उवाच
न बलं न सहायो मे न कोशो दुर्गसंश्रयः ।
न मित्राणि न सौहार्दी न नृपा रक्षका मम ॥ १९ ॥
अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः ।
स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः ॥ २० ॥
नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्‍वरी ।
तया यद्विहितं तच्च भविताऽद्य न संशयः ॥ २१ ॥
न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्‍वराः ।
सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम् ॥ २२ ॥
यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः ।
शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम् ॥ २३ ॥
यद्‌भावि तद्वै भविता नान्यथा नृपसत्तमाः ।
का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा ॥ २४ ॥
देवभूतमनुष्येषु सर्वभूतेषु सर्वदा ।
सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः ॥ २५ ॥
सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः ।
निर्धनं वा नरं कामं का चिन्ता वै तदा मम ॥ २६ ॥
तामृते परमां शक्तिं ब्रह्मविष्णुहरादयः ।
न शक्ताः स्पन्दितुं देवाः का चिन्ता मे तदा नृपाः ॥ २७ ॥
अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् ।
तदाज्ञया नृपाद्यैव सम्प्राप्तोऽस्मि स्वयंवरे ॥ २८ ॥
सा यदिच्छति तत्कुर्यान्मम किं चिन्तनेन वै ।
नात्र शंका प्रकर्तव्या सत्यमेतद्‌ब्रवीम्यहम् ॥ २९ ॥
जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः ।
भगवत्यास्तु लज्जास्ति तदधीनोऽस्मि सर्वथा ॥ ३० ॥
व्यास उवाच
इति तस्य तदाकर्ण्य वचनं राजसत्तमाः ।
ऊचुः परस्परं प्रेक्ष्य निश्‍चयज्ञा नराधिपाः ॥ ३१ ॥
सत्यमुक्तं त्वया साधो न मिथ्या कर्हिचिद्‌भवेत् ।
तथाप्युज्जयनीनाथस्त्वां हन्तुं परिकाङ्क्षति ॥ ३२ ॥
त्वत्कृते न दयादिष्टा त्वां ब्रवीमो महामते ।
यद्युक्तं तत्त्वया कार्यं विचार्य मनसाऽनघ ॥ ३३ ॥
सुदर्शन उवाच
सत्यमुक्तं भवद्‌भिश्‍च कृपावद्‌भिः सुहृज्जनैः ।
किं ब्रवीमि पुनर्वाक्यमुक्त्वा नृपतिसत्तमाः ॥ ३४ ॥
न मृत्युः केनचिद्‌भाव्यः कस्यचिद्वा कदाचन ।
दैवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ ३५ ॥
स्ववशोऽयं न जीवो‍ऽस्ति स्वकर्मवशगः सदा ।
तत्कर्म त्रिविधं प्रोक्तं विद्वद्‌भिस्तत्त्वदर्शिभिः ॥ ३६ ॥
सञ्चितं वर्तमानञ्च प्रारब्धञ्च तृतीयकम् ।
कालकर्मस्वभावैश्‍च ततं सर्वमिदं जगत् ॥ ३७ ॥
न देवो मानुषं हन्तुं शक्तः कालागमं विना ।
हतं निमित्तमात्रेण हन्ति कालः सनातनः ॥ ३८ ॥
यथा पिता मे निहतः सिंहेनामित्रकर्षणः ।
तथा मातामहोऽप्येवं युद्धे युधाजिता हतः ॥ ३९ ॥
यत्‍नकोटिं प्रकुर्वाणो हन्यते दैवयोगतः ।
जीवेद्वर्षसहस्राणि रक्षणेन विना नरः ॥ ४० ॥
नाहं बिभेमि धर्मिष्ठाः कदाचिच्च युधाजितः ।
दैवमेव परं मत्वा सुस्थितोऽस्मि सदा नृपाः ॥ ४१ ॥
स्मरणं सततं नित्यं भगवत्याः करोम्यहम् ।
विश्‍वस्य जननी देवी कल्याणं सा करिष्यति ॥ ४२ ॥
पूर्वार्जितं हि भोक्तव्यं शुभं वाप्यशुभं तथा ।
स्वकृतस्य च भोगेन कीदृक्शोको विजानताम् ॥ ४३ ॥
स्वकर्मफलयोगेन प्राप्य दुःखमचेतनः ।
निमित्तकारणे वैरं करोत्यल्पमतिः किल ॥ ४४ ॥
न तथाऽहं विजानामि वैरं शोकं भयं तथा ।
निःशङ्कमिह सम्प्राप्तः समाजे भूभृतामिह ॥ ४५ ॥
एकाकी द्रष्टुकामोऽहं स्वयंवरमनुत्तमम् ।
भविष्यति च यद्‌भाव्यं प्राप्तोऽस्मि चण्डिकाज्ञया ॥ ४६ ॥
भगवत्याः प्रमाणं मे नान्यं जानामि संयतः ।
तत्कृतञ्च सुखं दुःखं भविष्यति च नान्यथा ॥ ४७ ॥
युधाजित्सुखमाप्नोतु न मे वैरं नृपोत्तमाः ।
यः करिष्यति मे वैरं स प्राप्स्यति फलं तथा ॥ ४८ ॥
व्यास उवाच
इत्युक्तास्ते तथा तेन सन्तुष्टा भूभुजः स्थिताः ।
सोऽपि स्वमाश्रमं प्राप्य सुस्थितः सम्बभूव ह ॥ ४९ ॥
अपरेऽह्नि शुभे काले नृपाः सम्मन्त्रिताः किल ।
सुबाहुना नृपेणाथ रुचिरे वै स्वमण्डपे ॥ ५० ॥
दिव्यास्तरणयुक्तेषु मञ्चेषु रचितेषु च ।
उपविष्टाश्‍च राजानः शुभालङ्करणैर्युताः ॥ ५१ ॥
दिव्यवेषधराः कामं विमानेष्वमरा इव ।
दीप्यमानाः स्थितास्तत्र स्वयंवरदिदृक्षया ॥ ५२ ॥
इति चिन्तापराः सर्वे कदा साप्यागमिष्यति ।
भाग्यवन्तं नृपश्रेष्ठं श्रुतपुण्यं वरिष्यति ॥ ५३ ॥
यदा सुदर्शनं दैवात्स्रजा सम्भूषयेदिह ।
विवादो वै नृपाणां च भविता नात्र संशयः ॥ ५४ ॥
इत्येवं चिन्त्यमानास्ते भूपा मञ्चेषु संस्थिताः ।
वादित्रघोषः सुमहानुत्थितो नृपमण्डपे ॥ ५५ ॥
अथ काशीपतिः प्राह सुतां स्नातां स्वलङ्कृताम् ।
मधूकमालासंयुक्तां क्षौमवासोविभूषिताम् ॥ ५६ ॥
विवाहोपस्करैर्युक्तां दिव्यां सिन्धुसुतोपमाम् ।
चिन्तापरां सुवसनां स्मितपूर्वमिदं वचः ॥ ५७ ॥
उत्तिष्ठ पुत्रि सुनसे करे धृत्वा शुभां स्रजम् ।
व्रज मण्डपमध्येऽद्य समाजं पश्य भूभुजाम् ॥ ५८ ॥
गुणवान् रूपसम्पन्नः कुलीनश्‍च नृपोत्तमः ।
तव चित्ते वसेद्यस्तु तं वृणुष्व सुमध्यमे ॥ ५९ ॥
देशदेशाधिपाः सर्वे मञ्चेषु रचितेषु च ।
संविष्टाः पश्य तन्वङ्‌गि वरयस्व यथारुचि ॥ ६० ॥
व्यास उवाच
तं तथा भाषमाणं वै पितरं मितभाषिणी ।
उवाच वचनं बाला ललितं धर्मसंयुतम् ॥ ६१ ॥

शशिकलोवाच
नाहं दृष्टिपथे राज्ञां गमिष्यामि पितः किल ।
कामुकानां नरेशानां गच्छन्त्यन्याश्च योषितः ॥ ६२ ॥
धर्मशास्त्रे श्रुतं तात मयेदं वचनं किल ।
एक एव वरो नार्या निरीक्ष्यः स्यान्न चापरः ॥ ६३ ॥
सतीत्वं निर्गतं तस्या या प्रयाति बहूनथ ।
सङ्कल्पयन्ति ते सर्वे दृष्ट्वा मे भवतात्त्विति ॥ ६४ ॥
स्वयंवरे स्रजं धृत्वा यदागच्छति मण्डपे ।
सामान्या सा तदा जाता कुलटेवापरा वधूः ॥ ६५ ॥
वारस्त्री विपणे गत्वा यथा वीक्ष्य नरांस्थितान् ।
गुणागुणपरिज्ञानं करोति निजमानसे ॥ ६६ ॥
नैकभावा यथा वेश्या वृथा पश्यति कामुकम् ।
तथाऽहं मण्डपे गत्वा कुर्वे वारस्त्रिया कृतम् ॥ ६७ ॥
वृद्धैरेतैः कृतं धर्मं न करिष्यामि साम्प्रतम् ।
पत्‍नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता ॥ ६८ ॥
सामान्या प्रथमं गत्वा कृत्वा सङ्कल्पितं बहु ।
वृणोति चैकं तद्वद्वै वृणोमि कथमद्य वै ॥ ६९ ॥
सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः ।
तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम ॥ ७० ॥
विवाहविधिना देहि कन्यादानं शुभे दिने ।
सुदर्शनाय नृपते यदीच्छसि शुभं मम ॥ ७१ ॥

इति श्रीदेवीभागवत महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे स्वपितरं प्रति शशिकलावाक्यं नामविंशोध्यायः ॥ २० ॥