सामग्री पर जाएँ

देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः १७

विकिस्रोतः तः

विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्

व्यास उवाच
इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः ।
मन्त्रिवृद्धं समाहूय पप्रच्छ तमतन्द्रितः ॥ १ ॥
किं कर्तव्यं सुबुद्धेऽत्र मयाऽद्य वद सुव्रत ।
बलान्नयामि तां कामं सपुत्राञ्च सुभाषिणीम् ॥ २ ॥
रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता ।
राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत् ॥ ३ ॥
नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत् ।
गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल ॥ ४ ॥
निष्कण्टकं भवेद्राज्यं यताम्यद्य बलादहम् ।
हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति ॥ ५ ॥

प्रधान उवाच
साहसं न हि कर्तव्यं श्रुतं राजन् मुनेर्वचः ।
विश्‍वामित्रस्य दृष्टान्तः कथितस्तेन मारिष ॥ ६ ॥
पुरा गाधिसुतः श्रीमान्विश्‍वामित्रोऽतिविश्रुतः ।
विचरन्स नृपश्रेष्ठो वसिष्ठाश्रममभ्यगात् ॥ ७ ॥
नमस्कृत्य च तं राजा विश्‍वामित्रः प्रतापवान् ।
उपविष्टो नृपश्रेष्ठो मुनिना दत्तविष्टरः ॥ ८ ॥
निमन्त्रितो वसिष्ठेन भोजनाय महात्मना ।
ससैन्यश्‍च स्थितो राजा गाधिपुत्रो महायशाः ॥ ९ ॥
नन्दिन्याऽऽसादितं सर्वं भक्ष्यभोज्यादिकं च यत् ।
भुक्त्वा राजा ससैन्यश्‍च वाञ्छितं तत्र भोजनम् ॥ १० ॥
प्रतापं तञ्च नन्दिन्याः परिज्ञाय स पार्थिवः ।
ययाचे नन्दिनीं राजा वसिष्ठं मुनिसत्तमम् ॥ ११ ॥
विश्‍वामित्र उवाच
मुने धेनुसहस्रं ते घटोध्नीनां ददाम्यहम् ।
नन्दिनीं देहि मे धेनुं प्रार्थयामि परन्तप ॥ १२ ॥
वसिष्ठ उवाच
होमधेनुरियं राजन्न ददामि कथञ्चन ।
सहस्रञ्चापि धेनूनां तवेदं तव तिष्ठतु ॥ १३ ॥

विश्‍वामित्र उवाच
अयुतं वाथ लक्ष्यं वा ददामि मनसेप्सितम् ।
द्देहि मे नन्दिनीं साधो ग्रहीष्यामि बलादथ ॥ १४ ॥
वसिष्ठ उवाच
कामं गृहाण नृपते बलादद्य यथारुचि ।
नाहं ददामि ते राजन्स्वेच्छया नन्दिनीं गृहात् ॥ १५ ॥
तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् ।
नयध्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः ॥ १६ ॥
ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् ।
वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना ॥ १७ ॥
मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् ।
मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे ॥ १८ ॥
बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे ।
किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल ॥ १९ ॥
इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह ।
हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम् ॥ २० ॥
उद्‍गतास्तत्र देहात्तु दैत्या घोरतरास्तदा ।
सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः ॥ २१ ॥
सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता ।
एकाकी निर्गतो राजा विश्‍वामित्रोऽतिदुःखितः ॥ २२ ॥
हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् ।
ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः ॥ २३ ॥
तप्त्वा बहूनि वर्षाणि तपो घोरं महावने ।
ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः ॥ २४ ॥
तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्‌भुतम् ।
कुलनाशकरं नूनं तापसैः सह संयुगम् ॥ २५ ॥
मुनिवर्यं व्रजाद्य त्वं समाश्‍वास्य तपोनिधिम् ।
सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम् ॥ २६ ॥
बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् ।
वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ ॥ २७ ॥
दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् ।
ईर्ष्यया किं नृपश्रेष्ठ यद्‌भाव्यं तद्‌भविष्यति ॥ २८ ॥
वज्रं तृणायते राजन् दैवयोगान्न संशयः ।
तृणं वज्रायते क्वापि समये दैवयोगतः ॥ २९ ॥
शशको हन्ति शार्दूलं मशको वै तथा गजम् ।
साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम् ॥ ३० ॥
व्यास उवाच
तच्छ्रुत्वा वचनं तस्य युधाजिन्नृपसत्तमः ।
प्रणम्य तं मुनिं मूर्घ्ना जगाम स्वपुरं नृपः ॥ ३१ ॥
मनोरमाऽपि स्वस्थाऽभूदाश्रमे तत्र संस्थिता ।
पालयामास पुत्रं तं सुदर्शनमृतव्रतम् ॥ ३२ ॥
दिने दिने कुमारोऽसौ जगामोपचयं ततः ।
मुनिबालगतः क्रीडन्निर्भयः सर्वतः शुभः ॥ ३३ ॥
एकस्मिन्समये तत्र विदल्लं समुपागतम् ।
क्लीबेति मुनिपुत्रस्तमामन्त्रयत्तदन्तिके ॥ ३४ ॥
सुदर्शनस्तु तच्छ्रुत्वा दधारैकाक्षरं स्फुटम् ।
अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः ॥ ३५ ॥
बीजं वै कामराजाख्यं गृहीतं मनसा तदा ।
जजाप बालकोऽत्यर्थं धृत्वा चेतसि सादरम् ॥ ३६ ॥
भावियोगान्महाराज कामराजाख्यमद्‌भुतम् ।
स्वभावेनैव तेनेत्थं गृहीतं बालकेन वै ॥ ३७ ॥
तदाऽसौ पञ्चमे वर्षे प्राप्य मन्त्रमनुत्तमम् ।
ऋषिच्छन्दोविहीनञ्च ध्यानन्यासविवर्जितम् ॥ ३८ ॥
प्रजपन्मनसा नित्यं क्रीडत्यपि स्वपित्यपि ।
विसस्मार न तं मन्त्रं ज्ञात्वा सारमिति स्वयम् ॥ ३९ ॥
वर्षे चैकादशे प्राप्ते कुमारोऽसौ नृपात्मजः ।
मुनिना चोपनीतोऽथ वेदमध्यापितस्तथा ॥ ४० ॥
धनुर्वेदं तथा साङ्गं नीतिशास्त्रं विधानतः ।
अभ्यस्ताः सकला विद्यास्तेन मन्त्रबलादिना ॥ ४१ ॥
कदाचित्सोऽपि प्रत्यक्षं देवीरूपं ददर्श ह ।
रक्ताम्बरं रक्तवर्णं रक्तसर्वाङ्गभूषणम् ॥ ४२ ॥
गरुडे वाहने संस्थां वैष्णवीं शक्तिमद्‌भुताम् ।
दृष्ट्वा प्रसन्नवदनः स बभूव नृपात्मजः ॥ ४३ ॥
वने तस्मिंस्थितः सोऽथ सर्वविद्यार्थतत्त्ववित् ।
मातरं सेवमानस्तु विजहार नदीतटे ॥ ४४ ॥
शरासनञ्च सम्प्राप्तं विशिखाश्‍च शिलाशिताः ।
तूणीरकवचं तस्मै दत्तं चाम्बिकया वने ॥ ४५ ॥
एतस्मिन्समये पुत्री काशिराजस्य सुप्रिया ।
नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता ॥ ४६ ॥
शुश्राव नृपपुत्रं तं वनस्थञ्च सुदर्शनम् ।
सर्वलक्षणसम्पन्नं शूरं काममिवापरम् ॥ ४७ ॥
बन्दीजनमुखाच्छ्रुत्वा राजपुत्रं सुसङ्गतम् ।
चकमे मनसा तं वै वरं वरयितुं धिया ॥ ४८ ॥
स्वप्ने तस्याः समागम्य जगदम्बा निशान्तरे ।
उवाच वचनं चेदं समाश्‍वास्य सुसंस्थिता ॥ ४९ ॥
वरं वरय सुश्रोणि मम भक्तः सुदर्शनः ।
सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि ॥ ५० ॥
एवं शशिकला दृष्टा स्वप्ने रूपं मनोहरम् ।
अम्बाया वचनं स्मृत्वा जहर्ष भृशभामिनी ॥ ५१ ॥
उत्थिता सा मुदा युक्ता पृष्टा मात्रा पुनः पुनः ।
प्रमोदे कारणं बाला नोवाचातित्रपान्विता ॥ ५२ ॥
जहास मुदमापन्ना स्मृत्वा स्वप्नं मुहुर्मुहुः ।
सखीं प्राह तदान्यां वै स्वप्नवृत्तं सविस्तरम् ॥ ५३ ॥
कदाचित्सा विहारार्थमवापोपवनं शुभम् ।
सखीयुक्ता विशालाक्षी चम्पकैरुपशोभितम् ॥ ५४ ॥
पुष्पाणि चिन्वती बाला चम्पकाधःस्थिताबला ।
अपश्यद्‍ब्राह्मणं मार्गे आगच्छन्तं त्वरान्वितम् ॥ ५५ ॥
तं प्रणम्य द्विजं श्यामा बभाषे मधुरं वचः ।
कुतो देशान्महाभाग कृतमागमनं त्वया ॥ ५६ ॥
द्विज उवाच
भारद्वाजाश्रमाद्‌बाले नूनमागमनं मम ।
जातं वै कार्ययोगेन किं पृच्छसि वदस्व मे ॥ ५७ ॥
शशिकलोवाच
तत्राश्रमे महाभाग वर्णनीयं किमस्ति वै ।
लोकातिगं विशेषेण प्रेक्षणीयतमं किल ॥ ५८ ॥
ब्राह्मण उवाच
ध्रुवसन्धिसुतः श्रीमानास्ते सुदर्शनो नृपः ।
यथार्थनामा सुश्रोणि वर्तते पुरुषोत्तमः ॥ ५९ ॥
तस्य लोचनमत्यन्तं निष्फलं प्रतिभाति मे ।
येन दृष्टो न वामोरु कुमारस्तु सुदर्शनः ॥ ६० ॥
एकत्र निहिता धात्रा गुणाः सर्वे सिसृक्षुणा ।
गुणानामाकरं द्रष्टुं मन्ये तेनैव कौतुकात् ॥ ६१ ॥
तव योग्यः कुमारोऽसौ भर्ता भवितुमर्हति ।
योगोऽयं विहितोऽप्यासीन्मणिकाञ्चनयोरिव ॥ ६२ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥