सामग्री पर जाएँ

देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः १५

विकिस्रोतः तः

मनोरमया भारद्वाजाश्रमं प्रति गमनम्

व्यास उवाच
संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः ।
क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः ॥ १ ॥
संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित् ।
संयुतः स्वबलवाहनादिकैराहवाय कृतनिश्‍चयो नृपः ॥ २ ॥
वीरसेन इह सैन्यसंयुतः क्षात्रधर्ममनुसृत्य सङ्गरे ।
पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः ॥ ३ ॥
स बाणवृष्टिं विससर्ज पार्थिवो
     युधाजितं वीक्ष्य रणे स्थितञ्च ।
गिरिं तडित्वानिव तोयवृष्टिभिः
     क्रोधान्वितः सत्यपराक्रमोऽसौ ॥ ४ ॥
तं वीरसेनो विशिखैः शिलाशितैः
     समावृणोदाशुगमैरजिह्मगैः ।
चिच्छेद बाणैश्‍च शिलीमुखानसौ
     तेनैव मुक्तानतिवेगपातिनः ॥ ५ ॥
गजरथतुरगाणां सम्बभूवातियुद्धं
     सुरनरमुनिसङ्घैर्वीक्षितञ्चातिघोरम् ।
विततविहगवृन्दैरावृतं व्योम सद्यः
     पिशितमशितुकामैः कामगृध्रादिभिश्‍च ॥ ६ ॥
तत्राद्‌भुता क्षतजसिन्धुरुवाह घोरा
     वृन्देभ्य एव गजवीरतुरङ्गमाणाम् ।
त्रासावहा नयनमार्गगता नराणां
     पापात्मनां रविजमार्गभवेव कामम् ॥ ७ ॥
कीर्णानि भिन्नपुलिने नरमस्तकानि
     केशावृतानि च विभान्ति यथैव सिन्धौ ।
तुम्बीफलानि विहितानि विहर्तुकामै-
     र्बालैर्यथा रविसुताप्रभवैश्‍च नूनम् ॥ ८ ॥
वीरं मृतं भुवि गतं पतितं रथाद्वै
     गृध्रः पलार्थमुपरि भ्रमतीति मन्ये ।
जीवोऽप्यसौ निजशरीरमवेक्ष्य कान्तं
     काङ्क्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टुम् ॥ ९ ॥
आजौ हतोऽपि नृवरः सुविमानरूढः
     स्वाङ्के स्थितां सुरवधूं प्रवदत्यभीष्टम् ।
पश्याधुना मम शरीरमिदं पृथिव्यां
     बाणाहतं निपतितं करभोरु कान्तम् ॥ १० ॥
एको हतस्तु रिपुणैव गतोऽन्तरिक्षं
     देवाङ्गनां समधिगम्य युतो विमाने ।
तावत्प्रिया हुतवहे सुसमर्प्य देहं
     जग्राह कान्तमबला सबला स्वकीया ॥ ११ ॥
युद्धे मृतौ च सुभटौ दिवि सङ्गतौ ता-
     वन्योन्यशस्त्रनिहतौ सह सम्प्रयातौ ।
तत्रैव जघ्नतुरलं परमाहितास्त्रा-
     वेकाप्सरोऽर्थविहतौ कलहाकुलौ च ॥ १२ ॥
कश्‍चिद्युवा समधिगम्य सुराङ्गनां वै
     रूपाधिकां गुणवतीं किल भक्तियुक्तः ।
स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ
     तां प्रेमदामनुचकार च योगयुक्तः ॥ १३ ॥
भौ‌मं रजोऽतिविततं दिवि संस्थितञ्च
     रात्रिं चकार तरणिञ्च समावृणोद्यत् ।
मग्नं तदेव रुधिराम्बुनिधावकस्मात्
     प्रादुर्बभूव रविरप्यतिकान्तियुक्तः ॥ १४ ॥
कश्‍चिद्‍गतस्तु गगनं किल देवकन्यां
     सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् ।
नाङ्गीचकार चतुरो व्रतनाशभीतो
     यास्यत्ययं मम वृथा ह्यनुकूलशब्दः ॥ १५ ॥
सङ्ग्रामे संवृते तत्र युधाजित्पृथिवीपतिः ।
जघान वीरसेनं तं बाणैस्तीव्रैः सुदारुणैः ॥ १६ ॥
निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः ।
प्रभग्नं तद्‍बलं सर्वं निर्गतं च चतुर्दिशम् ॥ १७ ॥
मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि ।
भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन् ॥ १८ ॥
हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः ।
राज्यलोभेन पापात्मा सेति चिन्तापराभवत् ॥ १९ ॥
किं करोमि क्व गच्छामि पिता मे निहतो रणे ।
भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः ॥ २० ॥
लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः ।
किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः ॥ २१ ॥
पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् ।
हन्ति लोभसमाविष्टो जनो नात्र विचारणा ॥ २२ ॥
अभक्ष्यभक्षणं लोभादगम्यागमनं तथा ।
करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः ॥ २३ ॥
न सहायोऽस्ति मे कश्‍चिन्नगरेऽत्र महाबलः ।
यदाधारे स्थिता चाहं पालयामि सुतं शुभम् ॥ २४ ॥
हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः ।
न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम् ॥ २५ ॥
सापि वैरयुता कामं सपत्‍नी सर्वदा भवेत् ।
लीलावती न मे पुत्रे भविष्यति दयावती ॥ २६ ॥
युधाजिति समायाते न मे निःसरणं भवेत् ।
ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति ॥ २७ ॥
श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः ।
कृन्तितः सप्तधा पश्‍चात्कृतास्ते सप्त सप्तधा ॥ २८ ॥
प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् ।
एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि ॥ २९ ॥
सपत्‍न्यै गरलं दत्तं सपत्‍न्या नृपभार्यया ।
गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम् ॥ ३० ॥
जातस्तु बालकः पश्‍चाद्देहे विषयुतः किल ।
तेनासौ सगरो नाम विख्यातो भुवि मण्डले ॥ ३१ ॥
जीवमानोऽथ भर्ता वै कैकेय्या नृपभार्यया ।
रामः प्रव्राजितो ज्येष्ठो मृतो दशरथो नृपः ॥ ३२ ॥
मन्त्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम् ।
राजानं कर्तुकामा वै युधाजिद्वशगाश्‍च ते ॥ ३३ ॥
न मे भ्राता तथा शूरो यो मां बन्धात्प्रमोचयेत् ।
महत्कष्टञ्च सम्प्राप्तं मया वै दैवयोगतः ॥ ३४ ॥
उद्यमः सर्वथा कार्यः सिद्धिर्दैवाद्धि जायते ।
उपायं पुत्ररक्षार्थं करोम्यद्य त्वरान्विता ॥ ३५ ॥
इति सञ्चिन्त्य सा बाला विदल्लं चातिमानिनम् ।
निपुणं सर्वकार्येषु चिन्त्यं मन्त्रिवरोत्तमम् ॥ ३६ ॥
समाहूय तमेकान्ते प्रोवाच बहुदुःखिता ।
गृहीत्वा बालकं हस्ते रुदती दीनमानसा ॥ ३७ ॥
पिता मे निहतः संख्ये पुत्रोऽयं बालकस्तथा ।
युधाजिद्‌बलवान् राजा किं विधेयं वदस्व मे ॥ ३८ ॥
तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च ।
गमिष्यामो वने कामं वाराणस्याः पुनः किल ॥ ३९ ॥
तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः ।
सुबाहुरिति विख्यातो रक्षिता स भविष्यति ॥ ४० ॥
युधाजिद्दर्शनोत्कण्ठमनसा नगराद्‌बहिः ।
निर्गत्य रथमारुह्य गन्तव्यं नात्र संशयः ॥ ४१ ॥
इत्युक्ता तेन सा राज्ञी गत्वा लीलावतीं प्रति ।
उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने ॥ ४२ ॥
इत्युक्त्वा रथमारुह्य सैरन्ध्रीसंयुता तदा ।
विदल्लेन च संयुक्ता निःसृता नगराद्‌बहिः ॥ ४३ ॥
त्रस्ता ह्यार्तातिकृपणा पितुः शोकसमाकुला ।
दृष्ट्वा युधाजितं भूपं पितरं गतजीवितम् ॥ ४४ ॥
संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला ।
दिनद्वयेन सम्प्राप्ता राज्ञी भागीरथीतटम् ॥ ४५ ॥
निषादैलुण्ठिता तत्र गृहीतं सकलं वसु ।
रथञ्चापि गृहीत्वा ते निर्गता दस्यवः शठाः ॥ ४६ ॥
रुदती सुतमादाय चारुवस्त्रा मनोरमा ।
निर्ययौ जाह्नवीतीरे सैरन्ध्रीकरलम्बिता ॥ ४७ ॥
आरुह्य च भयाच्छीघ्रमुडुपं सा भयाकुला ।
तीर्त्वा भागीरथीं पुण्यां ययौ त्रिकूटपर्वतम् ॥ ४८ ॥
भारद्वाजाश्रमं प्राप्ता त्वरया च भयाकुला ।
संवीक्ष्य तापसांस्तत्र सञ्जाता निर्भया तदा ॥ ४९ ॥
मुनिना सा ततः पृष्टा काऽसि कस्य परिग्रहः ।
कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिस्मिते ॥ ५० ॥
देवी वा मानुषी वासि बालपुत्रा वने कथम् ।
राज्यभ्रष्टेव वामोरु भासि त्वं कमलेक्षणे ॥ ५१ ॥
एवं सा मुनिना पृष्टा नोवाच वरवर्णिनी ।
रुदती दुःखसन्तप्ता विदल्लं च समादिशत् ॥ ५२ ॥
विदल्लस्तमुवाचेदं ध्रुवसन्धिर्नृपोत्तमः ।
तस्य भार्या धर्मपत्‍नी नाम्ना चेयं मनोरमा ॥ ५३ ॥
सिंहेन निहतो राजा सूर्यवंशी महाबलः ।
पुत्रोऽयं नृपतेस्तस्य नाम्ना चैव सुदर्शनः ॥ ५४ ॥
अस्याः पितातिधर्मात्मा दौहित्रार्थं मृतो रणे ।
युधाजिद्‌भयसन्त्रस्ता सम्प्राप्ता विजने वने ॥ ५५ ॥
त्वामेव शरणं प्राप्ता बालपुत्रा नृपात्मजा ।
त्राता भव महाभाग त्वमस्या मुनिसत्तम ॥ ५६ ॥
आर्तस्य रक्षणे पुण्यं यज्ञाधिकमुदाहृतम् ।
भयतस्तस्य दीनस्य विशेषफलदं स्मृतम् ॥ ५७ ॥

ऋषिरुवाच
निर्भया वस कल्याणि पुत्रं पालय सुव्रते ।
न ते भयं विशालाक्षि कर्तव्यं शत्रुसम्भवम् ॥ ५८ ॥
पालयस्व सुतं कान्तं राजा तेऽयं भविष्यति ।
नात्र दुःखं तथा शोकः कदाचित्सम्भविष्यति ॥ ५९ ॥
व्यास उवाच
इत्युक्ता मुनिना राज्ञी स्वस्था सा सम्बभूव ह ।
उटजे मुनिना दत्ते वीतशोका तदावसत् ॥ ६० ॥
सैरन्ध्रीसहिता तत्र विदल्लेन च संयुता ।
सुदर्शनं पालयाना न्यवसत्सा मनोरमा ॥ ६१ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे मनोरमया भारद्वाजाश्रमं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥