देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ०९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

गुणानां गुणपरिज्ञानवर्णनम्

नारद उवाच
गुणानां लक्षणं तात भवता कथितं किल ।
न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम् ॥ १ ॥
गुणानां तु परिज्ञानं यथावदनुवर्णय ।
येनाहं परमां शान्तिमधिगच्छामि चेतसि ॥ २ ॥
व्यास उवाच
इति पृष्टस्तु पुत्रेण नारदेन महात्मना ।
उवाच च जगत्कर्ता रजोगुणसमुद्‌भवः ॥ ३ ॥

ब्रह्मोवाच
शृणु नारद वक्ष्यामि गुणानां परिवर्णनम् ।
सम्यङ्‌ नाहं विजानामि यथामति वदामि ते ॥ ४ ॥
सत्त्वं तु केवलं नैव कुत्रापि परिलक्ष्यते ।
मिश्रीभावात्तु तेषां वै मिश्रत्वं प्रतिभाति वै ॥ ५ ॥
यथा काचिद्वरा नारी सर्वभूषणभूषिता ।
हावभावयुता कामं भर्तुः प्रीतिकरी भवेत् ॥ ६ ॥
मातापित्रोस्तथा सैव बन्धुवर्गस्य प्रीतिदा ।
दुःखं मोहं सपत्‍नीषु जनयत्यपि सैव हि ॥ ७ ॥
एवं सत्त्वेन तेनैव स्त्रीत्वमापादितेन च ।
रजसस्तमसश्चैव जनिता वृत्तिरन्यथा ॥ ८ ॥
रजसा स्त्रीकृतेनैव तमसा च तथा पुनः ।
अन्योन्यस्य समायोगादन्यथा प्रतिभाति वै ॥ ९ ॥
अवस्थानात्स्वभावेषु न वै जात्यन्तराणि च ।
लक्ष्यते विपरीतानि योगान्नारद कुत्रचित् ॥ १० ॥
यथा रूपवती नारी यौवनेन विभूषिता ।
लज्जामाधुर्ययुक्ता च तथा विनयसंयुता ॥ ११ ॥
कामशास्त्रविधिज्ञा च धर्मशास्त्रेऽपि सम्मता ।
भर्तुःप्रीतिकरी भूत्वा सपत्‍नीनां च दुःखदा ॥ १२ ॥
मोहदुःखस्वभावस्था सत्त्वस्थेत्युच्यते जनैः ।
तथा सत्त्वं विकुर्वाणमन्यभावं विभाति वै ॥ १३ ॥
चोरैरुपद्रुतानां हि साधूनां सुखदा भवेत् ।
दुःखा मूढा च दस्यूनां सैव सेना तथागुणा ॥ १४ ॥
विपरीतप्रतीतिं वै वर्जयन्ति स्वभावतः ।
यथा च दुर्दिनं जातं महामेघघनावृतम् ॥ १५ ॥
विद्युत्स्तनितसंयुक्तं तिमिरेणावगुण्ठितम् ।
सिंचद्‌भूमिं प्रवर्षद्वै तमोरूपमुदाहृतम् ॥ १६ ॥
यदेतत्कर्षकाणां वै तदेवातीव दुर्दिनम् ।
बीजोपस्करयुक्तानां सुखदं प्रभवत्युत ॥ १७ ॥
अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः ।
तृणकाष्ठगृहीतानां दुःखदं गृहमेधिनाम् ॥ १८ ॥
प्रोषितभर्तृकाणां वै मोहदं प्रवदन्त्यपि ।
स्वभावस्था गुणाः सर्वे विपरीता विभान्ति वै ॥ १९ ॥
लक्षणानि पुनस्तेषां शृणु पुत्र ब्रवीम्यहम् ।
लघुप्रकाशकं सत्त्वं निर्मलं विशदं सदा ॥ २० ॥
यदाङ्गानि लघून्येव नेत्रादीनीन्द्रियाणि च ।
निर्मलं च तथा चेतो गृह्णाति विषयान्न तान् ॥ २१ ॥
तदा सत्त्वं शरीरे वै मन्तव्यञ्च समुत्कटम् ।
जृम्भां स्तम्भं च तन्द्रां च चलञ्चैव रजः पुनः ॥ २२ ॥
यदा तदुत्कटं जातं देहे यस्य च कस्यचित् ।
कलिं मृगयते कर्तुं गन्तुं ग्रामान्तरं तथा ॥ २३ ॥
चलचित्तस्य सोऽत्यर्थं विवादे चोद्यतस्तथा ।
गुरुमावरणं कामं तमो भवति तद्यदा ॥ २४ ॥
तदाङ्गानि गुरूण्याशु प्रभवन्त्यावृतानि च ।
इन्द्रियाणि मनः शून्यं निद्रां नैवाभिवाञ्छति ॥ २५ ॥
गुणानां लक्षणान्येवं विज्ञेयानीह नारद ।
नारद उवाच
विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः ॥ २६ ॥
कथमेकत्र संस्थाने कार्यं कुर्वन्ति शाश्वतम् ।
परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल ॥ २७ ॥
एकत्रस्थाः कथं कार्यं कुर्वन्तीति वदस्व मे ।
ब्रह्मोवाच
शृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः ॥ २८ ॥
प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् ।
वर्तिस्तैलं यथार्चिश्च विरुद्धाश्च परस्परम् ॥ २९ ॥
विरुद्धं हि तथा तैलमग्निना सह सङ्गतम् ।
तैलं वर्तिविरोध्येव पावकोऽपि परस्परम् ॥ ३० ॥
एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम् ।
नारद उवाच
एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत ॥ ३१ ॥
विश्वस्य कारणं ते वै मया पूर्वं यथा श्रुतम् ।
व्यास उवाच
इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम् ॥ ३२ ॥
गुणानां लक्षणं सर्वं कार्यं चैव विभागशः ।
आराध्या परमा शक्तिर्यया सर्वमिदं ततम् ॥ ३३ ॥
सगुणा निर्गुणा चैव कार्यभेदे सदैव हि ।
अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः ॥ ३४ ॥
करोत्येषा महामाया विश्वं सदसदात्मकम् ।
ब्रह्मा विष्णुस्तथा रुद्रःसूर्यश्चन्द्रः शचीपतिः ॥ ३५ ॥
अश्विनौ वसवस्त्वष्टा कुबेरो यादसां पतिः ।
वह्निर्वायुस्तथा पूषा सेनानीश्च विनायकः ॥ ३६ ॥
सर्वे शक्तियुताः शक्ताः कर्तुं कार्याणि स्वानि च ।
अन्यथा तेऽप्यशक्ता वै प्रस्पन्दितुमनीश्वराः ॥ ३७ ॥
सा चैव कारणं राजन् जगतः परमेश्वरी ।
समाराधय तां भूप कुरु यज्ञं जनाधिप ॥ ३८ ॥
पूजनं परया भक्त्या तस्या एव विधानतः ।
महालक्ष्मीर्महाकाली तथा महासरस्वती ॥ ३९ ॥
ईश्वरी सर्वभूतानां सर्वकारणकारणम् ।
सर्वकामार्थदा शान्ता सुखसेव्या दयान्विता ॥ ४० ॥
नामोच्चारणमात्रेण वाञ्छितार्थफलप्रदा ।
देवैराराधिता पूर्वं ब्रह्मविष्णुमहेश्वरैः ॥ ४१ ॥
मोक्षकामैश्च विविधैस्तापसैर्विजितात्मभिः ।
अस्पष्टमपि यन्नाम प्रसङ्गेनापि भाषितम् ॥ ४२ ॥
ददाति वाञ्छितानर्थान्दुर्लभानपि सर्वथा ।
ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने ॥ ४३ ॥
बिन्दुहीनमपीत्युक्तं वाञ्छितं प्रददाति वै ।
तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम ॥ ४४ ॥
प्रत्यक्ष एव चास्माकं मुनीनां भावितात्मनाम् ।
ब्राह्मणानां समाजेषु तस्योदाहरणं बुधैः ॥ ४५ ॥
कथ्यमानं मया राजञ्छ्रुतं सर्वं सविस्तरम् ।
अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः ॥ ४६ ॥
श्रुत्वाऽक्षरं कोलमुखात्समुच्चार्य स्वयं ततः ।
बिन्दुहीनं प्रसंगेन जातोऽसौ विबुधोत्तमः ॥ ४७ ॥
ऐकारोच्चारणाद्देवी तुष्टा भगवती तदा ।
चकार कविराजं तं दयार्द्रा परमेश्वरी ॥ ४८ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणपरिज्ञानवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥