देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

गुणानां रूपसंस्थानादिवर्णनम्

ब्रह्मोवाच
सर्गोऽयं कथितस्तात यत्पृष्टोऽहं त्वयाऽधुना ।
गुणानां रूपसंस्थां वै शृणुष्वैकाग्रमानसः ॥ १ ॥
सत्त्वं प्रीत्यात्मकं ज्ञेयं सुखात्प्रीतिसमुद्‌भवः ।
आर्जवं च तथा सत्यं शौचं श्रद्धा क्षमा धृतिः ॥ २ ॥
अनुकम्पा तथा लज्जा शान्तिः सन्तोष एव च ।
एतैः सत्त्वप्रतीतिश्च जायते निश्चला सदा ॥ ३ ॥
श्वेतवर्णं तथा सत्त्वं धर्मे प्रीतिकरः सदा ।
सच्छ्रद्धोत्पादकं नित्यमसच्छ्रद्धानिवारकम् ॥ ४ ॥
सात्त्विकी राजसी चैव तामसी च तथापरा ।
श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ ५ ॥
रक्तवर्णं रजः प्रोक्तमप्रीतिकरमद्‌भुतम् ।
अप्रीतिर्दुःखयोगत्वाद्‌भवत्येव सुनिश्चिता ॥ ६ ॥
प्रद्वेषोऽथ तथा द्रोहो मत्सरः स्तम्भ एव च ।
उत्कण्ठा च तथा निद्रा श्रद्धा तत्र च राजसी ॥ ७ ॥
मानो मदस्तथा गर्वो रजसा किल जायते ।
प्रत्येतव्यं रजस्त्वेतैर्लक्षणैश्च विचक्षणैः ॥ ८ ॥
कृष्णवर्णं तमः प्रोक्तं मोहनं च विषादकृत् ।
आलस्यं च तथाऽज्ञानं निद्रा दैन्यं भयं तथा ॥ ९ ॥
विवादश्चैव कार्पण्यं कौटिल्यं रोष एव च ।
वैषम्यं वातिनास्तिक्यं परदोषानुदर्शनम् ॥ १० ॥
प्रत्येतव्यं तमस्त्वेतैर्लक्षणैः सर्वथा बुधैः ।
तामस्या श्रद्धया युक्तं परतापोपपादकम् ॥ ११ ॥
सत्त्वं प्रकाशयितव्यं नियन्तव्यं रजः सदा ।
संहर्तव्यं तमः कामं जनेन शुभमिच्छता ॥ १२ ॥
अन्योन्याभिभवाच्चैते विरुध्यन्ति परस्परम् ।
तथोऽन्योन्याश्रयाः सर्वे न तिष्ठन्ति निराश्रयाः ॥ १३ ॥
सत्त्वं न केवलं क्वापि न रजो न तमस्तथा ।
मिलिताश्च सदा सर्वे तेनान्योन्याश्रयाः स्मृताः ॥ १४ ॥
अन्योन्यमिथुनाच्चैव विस्तारं कथयाम्यहम् ।
शृणु नारद यज्ज्ञात्वा मुच्यते भवबन्धनात् ॥ १५ ॥
सन्देहोऽत्र न कर्तव्यो ज्ञात्वेत्युक्तं मया वचः ।
ज्ञातं तदनुभूतं यत्परिज्ञातं फले सति ॥ १६ ॥
श्रवणाद्दर्शनाच्चैव सपद्येव महामते ।
संस्कारानुभवाच्चैव परिज्ञातं न जायते ॥ १७ ॥
श्रुतं तीर्थं पवित्रञ्च श्रद्धोत्पन्ना च राजसी ।
निर्गतस्तत्र तीर्थे वै दृष्टं चैव यथाश्रुतम् ॥ १८ ॥
स्नातस्तत्र कृतं कृत्यं दत्तं दानं च राजसम् ।
स्थितस्तत्र कियत्कालं रजोगुणसमावृतः ॥ १९ ॥
रागद्वेषान्न निर्मुक्तः कामक्रोधसमावृतः ।
पुनरेव गृहं प्राप्तो यथापूर्वं तथा स्थितः ॥ २० ॥
श्रुतं च नानुभूतं वै तेन तीर्थं मुनीश्वर ।
न प्राप्तं च फलं यस्मादश्रुतं विद्धि नारद ॥ २१ ॥
निष्पापत्वं बलं विद्धि तीर्थस्य मुनिसत्तम ।
कृषेः फलं यथा लोके निष्पन्नान्नस्य भक्षणम् ॥ २२ ॥
पापदेहविकारा ये कामक्रोधादयः परे ।
लोभो मोहस्तथा तृष्णा द्वेषो रागस्तथा मदः ॥ २३ ॥
असूयेर्ष्याक्षमाशान्तिः पापान्येतानि नारद ।
न निर्गतानि देहात्तु तावत्पापयुतो नरः ॥ २४ ॥
कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् ।
निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥ २५ ॥
श्रमेणापीडितं क्षेत्रं कृष्टा भूमिः सुदुर्घटा ।
उप्तं बीजं महार्घं च हिता वृत्तिरुदाहृता ॥ २६ ॥
अहोरात्रं परिक्लिष्टो रक्षणार्थं फलोत्सुकः ।
काले सुप्तस्तु हेमन्ते वने व्याघ्रादिभिर्भृशम् ॥ २७ ॥
भक्षितं शलभैः सर्वं निराशश्च कृतः पुनः ।
तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्रदः ॥ २८ ॥
सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् ।
वैराग्यं तत्फलं जातं तामसार्थेषु नारद ॥ २९ ॥
प्रसह्याभिभवत्येव तद्‌रजस्तमसी उभे ।
रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः ॥ ३० ॥
तत्तथाभिभवत्येव तमःसत्त्वे तथा उभे ।
तमस्तथोत्कटं भूत्वा प्रवृद्धं मोहयोगतः ॥ ३१ ॥
तत्सत्त्वरजसी चोभे सङ्गम्याभिभवत्यपि ।
विस्तरं कथयाम्यद्य यथाभिभवतीति वै ॥ ३२ ॥
यदा सत्त्वं प्रवृद्धं वै मतिर्धर्मे स्थिता तदा ।
न चिन्तयति बाह्यार्थं रजस्तमःसमुद्‌भवम् ॥ ३३ ॥
अर्थं सत्त्वसमुद्‌भूतं गृह्णाति च न चान्यथा ।
अनायासकृतं चार्थं धर्मं यज्ञं च वाञ्छति ॥ ३४ ॥
सात्त्विकेष्वेव भोगेषु कामं वै कुरुते तदा ।
राजसेषु न मोक्षार्थं तामसेषु पुनः कुतः ॥ ३५ ॥
एवं जित्वा रजः पूर्वं ततश्च तमसो जयः ।
सत्त्वं च केवलं पुत्र तदा भवति निर्मलम् ॥ ३६ ॥
यदा रजः प्रवृद्धं वै त्यक्त्वा धर्मान् सनातनान् ।
अन्यथाकुरुते धर्माच्छ्रद्धां प्राप्य तु राजसीम् ॥ ३७ ॥
राजसादर्थसंवृद्धिस्तथा भोगस्तु राजसः ।
सत्त्वं विनिर्गतं तेन तमसश्चापि निग्रहः ॥ ३८ ॥
यदा तमो विवृद्धं स्यादुत्कटं सम्बभूव ह ।
तदा वेदे न विश्वासो धर्मशास्त्रे तथैव च ॥ ३९ ॥
श्रद्धां च तामसीं प्राप्य करोति च धनात्ययम् ।
द्रोहं सर्वत्र कुरुते न शान्तिमधिगच्छति ॥ ४० ॥
जित्वा सत्त्वं रजश्चैव क्रोधनो दुर्मतिः शठः ।
वर्तते कामचारेण भावेषु विततेषु च ॥ ४१ ॥
एकं सत्त्वं न भवति रजश्चैकं तमस्तथा ।
सहैवाश्रित्य वर्तन्ते गुणा मिथुनधर्मिणः ॥ ४२ ॥
रजो विना न सत्त्वं स्याद्‌रजः सत्त्वं विना क्वचित् ।
तमो विना न चैवैते वर्तन्ते पुरुषर्षभ ॥ ४३ ॥
तमस्ताभ्यां विहीनं तु केवलं न कदाचन ।
सर्वे मिथुनधर्माणो गुणाः कार्यान्तरेषु वै ॥ ४४ ॥
अन्योन्यसंश्रिताः सर्वे तिष्ठन्ति न वियोजिताः ।
अन्योन्यजनकाश्चैव यतः प्रसवधर्मिणः ॥ ४५ ॥
सत्त्वं कदाचिच्च रजस्तमसी जनयत्युत ।
कदाचित्तु रजः सत्त्वतमसी जनयत्यपि ॥ ४६ ॥
कदाचित्तु तमः सत्त्वरजसी जनयत्युभे ।
जनयन्त्येवमन्योन्यं मृत्पिण्डश्च घटं यथा ॥ ४७ ॥
बुद्धिस्थास्ते गुणाः कामान्बोधयन्ति परस्परम् ।
देवदत्तविष्णुमित्रयज्ञदत्तादयो यथा ॥ ४८ ॥
यथा स्त्रीपुरुषश्चैव मिथुनौ च परस्परम् ।
तथा गुणाः समायान्ति युग्मभावं परस्परम् ॥ ४९ ॥
रजसो मिथुने सत्त्वं सत्त्वस्य मिथुने रजः ।
उभे ते सत्त्वरजसी तमसो मिथुने विदुः ॥ ५० ॥
नारद उवाच
इत्येतत्कथितं पित्रा गुणरूपमनुत्तमम् ।
श्रुत्वाप्येतत्स एवाहं ततोऽपृच्छं पितामहम् ॥ ५१ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणानां रूपसंस्थानादिवर्णनं नाम अष्टमोऽध्यायः ॥ ८ ॥