देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ०६

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

ब्रह्मणे श्रीदेव्या उपदेशवर्णनम्

ब्रह्मोवाच
इति पृष्टा मया देवी विनयावनतेन च ।
उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा ॥ १ ॥
देव्युवाच
सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च ।
योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात् ॥ २ ॥
आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः ।
विमुक्तः स तु संसारान्मुच्यते नात्र संशयः ॥ ३ ॥
एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् ।
द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके ॥ ४ ॥
यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा ।
छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः ॥ ५ ॥
भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज ।
दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा ॥ ६ ॥
नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसंक्षये ।
सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः ॥ ७ ॥
अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा ।
श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा ॥ ८ ॥
कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा ।
विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च ॥ ९ ॥
वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता ।
परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः ॥ १० ॥
किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि ।
सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज ॥ ११ ॥
एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे ।
तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम् ॥ १२ ॥
नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् ।
भवामि शक्तिरूपेण करोमि च पराक्रमम् ॥ १३ ॥
गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा ।
वारूणी चाथ कौबेरी नारसिंही च वासवी ॥ १४ ॥
उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् ।
करोमि सर्वकार्याणि निमित्तं तं विधाय वै ॥ १५ ॥
जले शीतं तथा वह्नावौष्ण्यं ज्योतिर्दिवाकरे ।
निशानाथे हिमा कामं प्रभवामि यथा तथा ॥ १६ ॥
मया त्यक्तं विधे नूनं स्पन्दितुं न क्षमं भवेत् ।
जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयि ॥ १७ ॥
अशक्तः शङ्करो हन्तुं दैत्यान्किल मयोज्झितः ।
शक्तिहीनं नरं ब्रूते लोकश्चैवातिदुर्बलम् ॥ १८ ॥
रुद्रहीनं विष्णुहीनं न वदन्ति जनाः किल ।
शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम् ॥ १९ ॥
पतितः स्खलितो भीतः शान्तः शत्रुवशं गतः ।
अशक्तः प्रोच्यते लोके नारुद्रः कोऽपि कथ्यते ॥ २० ॥
तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि ।
भविता च यदा युक्तः शक्त्या कर्ता तदाखिलम् ॥ २१ ॥
तथा हरिस्तथा शंभुस्तथेन्द्रोऽथ विभावसुः ।
शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा ॥ २२ ॥
धरा स्थिरा तदा धर्तुं शक्तियुक्ता यदा भवेत् ।
अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे ॥ २३ ॥
तथा शेषस्तथा कूर्मो येऽन्ये सर्वे च दिग्गजाः ।
मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितुम् ॥ २४ ॥
जलं पिबामि सकलं संहरामि विभावसुम् ।
पवनं स्तम्भयाम्यद्य यदिच्छामि तथाचरम् ॥ २५ ॥
तत्त्वानां चैव सर्वेषां कदापि कमलोद्‌भव ।
असतां भावसन्देहः कर्तव्यो न कदाचन ॥ २६ ॥
कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा ।
मृत्पिण्डेषु कपालेषु घटाभावो यथा तथा ॥ २७ ॥
अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे ।
सञ्जाता इति विज्ञेया अस्यास्तु परमाणवः ॥ २८ ॥
शाश्वतं क्षणिकं शून्यं नित्यानित्यं सकर्तुकम् ।
अहङ्काराग्रिमञ्चैव सप्तभेदैर्विवक्षितम् ॥ २९ ॥
गृहाणाज महतत्त्वमहङ्कारस्तदुद्‌भवः ।
ततः सर्वाणि भूतानि रचयस्व यथा पुरा ॥ ३० ॥
व्रजन्तु स्वानि धिष्ण्यानि विरच्य निवसन्तु वः ।
स्वानि स्वानि च कार्याणि कुर्वन्तु दैवभाविताः ॥ ३१ ॥
गृहाणेमां विधे शक्तिं सुरूपां चारुहासिनीम् ।
महासरस्वतीं नाम्ना रजोगुणयुतां वराम् ॥ ३२ ॥
श्वेताम्बरधरां दिव्यां दिव्यभूषणभूषिताम् ।
वरासनसमारूढां क्रीडार्थं सहचारिणीम् ॥ ३३ ॥
एषा सहचरी नित्यं भविष्यति वराङ्गना ।
मावमंस्था विभूतिं मे मत्वा पूज्यतमां प्रियाम् ॥ ३४ ॥
गच्छ त्वमनया सार्धं सत्यलोकं बताशु वै ।
बीजाच्चतुर्विधं सर्वं समुत्पादय साम्प्रतम् ॥ ३५ ॥
लिङ्गकोशाश्च जीवैस्तैः सहिताः कर्मभिस्तथा ।
वर्तन्ते संस्थिताः काले तान्कुरु त्वं यथा पुरा ॥ ३६ ॥
कालकर्मस्वभावाख्यैः कारणैः सकलं जगत् ।
स्वभावस्वगुणैर्युक्तं पूर्ववत्सचराचरम् ॥ ३७ ॥
माननीयस्त्वया विष्णुः पूजनीयश्च सर्वदा ।
सत्त्वगुणप्रधानत्वादधिकः सर्वतः सदा ॥ ३८ ॥
यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् ।
करिष्यति पृथिव्यां वै अवतारं तदा हरिः ॥ ३९ ॥
तिर्यग्योनावथान्यत्र मानुषीं तनुमाश्रितः ।
दानवानां विनाशं वै करिष्यति जनार्दनः ॥ ४० ॥
भवोऽयं ते सहायश्च भविष्यति महाबलः ।
समुत्पाद्य सुरान्सर्वान्विहरस्व यथासुखम् ॥ ४१ ॥
ब्राह्मणाः क्षत्रिया वैश्या नानायज्ञैः सदक्षिणैः ।
यजिष्यन्ति विधानेन सर्वान्वः सुसमाहिताः ॥ ४२ ॥
मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च ।
सदा तृप्ताश्च सन्तुष्टा भविष्यध्वं सुराः किल ॥ ४३ ॥
शिवश्च माननीयो वै सर्वथा यत्तमोगुणः ।
यज्ञकार्येषु सर्वेषु पूजनीयः प्रयत्‍नतः ॥ ४४ ॥
यदा पुनः सुराणां वै भयं दैत्याद्‌भविष्यति ।
शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहाः ॥ ४५ ॥
वाराही वैष्णवी गौरी नारसिंही सदाशिवा ।
एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्‌भव ॥ ४६ ॥
नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा ।
जपन्सर्वाणि कार्याणि कुरु त्वं कमलोद्‌भव ॥ ४७ ॥
मन्त्राणामुत्तमोऽयं वै त्वं जानीहि महामते ।
हृदये ते सदा धार्यः सर्वकामार्थसिद्धये ॥ ४८ ॥
इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता ।
विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम् ॥ ४९ ॥
सदा वक्षःस्थले स्थाने भविता नात्र संशयः ।
क्रीडार्थं ते मया दत्ता शक्तिः सर्वार्थदा शिवा ॥ ५० ॥
त्वयेयं नावमन्तव्या माननीया च सर्वदा ।
लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया ॥ ५१ ॥
जीवनार्थं कृता यज्ञा देवानां सर्वथा मया ।
अविरोधेन सङ्गेन वर्तितव्यं त्रिभिः सदा ॥ ५२ ॥
त्वं च वेधाः शिवस्त्वेते देवा मद्‌गुणसम्भवाः ।
मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः ॥ ५३ ॥
ये विभेदं करिष्यन्ति मानवा मूढचेतसः ।
निरयं ते गमिष्यन्ति विभेदान्नात्र संशयः ॥ ५४ ॥
यो हरिः स शिवः साक्षाद्यः शिवः स स्वयं हरिः ।
एतयोर्भेदमातिष्ठन्नरकाय भवेन्नरः ॥ ५५ ॥
तथैव द्रुहिणो ज्ञेयो नात्र कार्या विचारणा ।
अपरो गुणभेदोऽस्ति शृणु विष्णो ब्रवीमि ते ॥ ५६ ॥
मुख्यः सत्त्वगुणस्तेऽस्तु परमात्मविचिन्तने ।
गौणत्वेऽपि परौ ख्यातौ रजोगुणतमोगुणौ ॥ ५७ ॥
लक्ष्म्या सह विकारेषु नानाभेदेषु सर्वदा ।
रजोगुणयुतो भूत्वा विहरस्वानया सह ॥ ५८ ॥
वाग्बीजं कामराजं च मायाबीजं तृतीयकम् ।
मन्त्रोऽयं त्वं रमाकान्त मद्दत्तः परमार्थदः ॥ ५९ ॥
गृहीत्वा जप तं नित्यं विहरस्व यथासुखम् ।
न ते मृत्युभयं विष्णो न कालप्रभवं भयम् ॥ ६० ॥
यावदेष विहारो मे भविष्यति सुनिश्चयः ।
संहरिष्याम्यहं सर्वं यदा विश्वं चराचरम् ॥ ६१ ॥
भवन्तोऽपि तदा नूनं मयि लीना भविष्यथ ।
स्मर्तव्योऽयं सदा मन्त्रः कामदो मोक्षदस्तथा ॥ ६२ ॥
उद्‌गीथेन च संयुक्तः कर्तव्यः शुभमिच्छता ।
कारयित्वाथ वैकुण्ठं वस्तव्यं पुरुषोत्तम ॥ ६३ ॥
विहरस्व यथाकामं चिन्तयन्मां सनातनीम् ।

ब्रह्मोवाच
इत्युक्त्वा वासुदेवं सा त्रिगुणा प्रकृतिः परा ॥ ६४ ॥
निर्गुणा शङ्करं देवमवोचदमृतं वचः ।

देव्युवाच
गृहाण हरगौरीं त्वं महाकालीं मनोहराम् ॥ ६५ ॥
कैलासं कारयित्वा च विहरस्व यथासुखम् ।
मुख्यस्तमोगुणस्तेऽस्तु गौणौ सत्त्वरजोगुणौ ॥ ६६ ॥
विहरासुरनाशार्थं रजोगुणतमोगुणौ ।
तपस्तप्तं तथा कर्तुं स्मरणं परमात्मनः ॥ ६७ ॥
सर्वसत्त्वगुणः शान्तो गृहीतव्यः सदानघ ।
सर्वथा त्रिगुणा यूयं सृष्टिस्थित्यन्तकारकाः ॥ ६८ ॥
एभिर्विहीनं संसारे वस्तु नैवात्र कुत्रचित् ।
वस्तुमात्रं तु यद्‌‌दृश्यं संसारे त्रिगुणं हि तत् ॥ ६९ ॥
दृश्यं च निर्गुणं लोके न भूतं नो भविष्यति ।
निर्गुणः परमात्मासौ न तु दृश्यः कदाचन ॥ ७० ॥
सगुणा निर्गुणा चाहं समये शङ्करोत्तमा ।
सदाहं कारणं शम्भो न च कार्यं कदाचन ॥ ७१ ॥
सगुणा कारणत्वाद्वै निर्गुणा पुरुषान्तिके ।
महत्तत्त्वमहङ्कारो गुणाः शब्दादयस्तथा ॥ ७२ ॥
कार्यकारणरूपेण संसरन्ते त्वहर्निशम् ॥
सदुद्‌भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा ॥ ७३ ॥
अहङ्कारश्च मे कार्यं त्रिगुणोऽसौ प्रतिष्ठितः ।
अहङ्कारान्महत्तत्त्वं बुद्धिः सा परिकीर्तिता ॥ ७४ ॥
महत्तत्त्वं हि कार्यं स्यादहङ्कारो हि कारणम् ।
तन्मात्राणि त्वहङ्कारादुत्पद्यन्ते सदैव हि ॥ ७५ ॥
कारणं पञ्चभूतानां तानि सर्वसमुद्‌भवे ।
कर्मेन्द्रियाणि पंचैव पञ्च ज्ञानेन्द्रियाणि च ॥ ७६ ॥
महाभूतानि पञ्चैव मनः षोडशमेव च ।
कार्यञ्च कारणञ्चैव गणोऽयं षोडशात्मकः ॥ ७७ ॥
परमात्मा पुमानाद्यो न कार्यं न च कारणम् ।
एवं समुद्‌भवः शम्भो सर्वेषामादिसम्भवे ॥ ७८ ॥
संक्षेपेण मया प्रोक्तस्तव तत्र समुद्‌भवः ।
व्रजन्त्वद्य विमानेन कार्यार्थं मम सत्तमाः ॥ ७९ ॥
स्मरणाद्दर्शनं तुभ्यं दास्येऽहं विषमे स्थिते ।
स्मर्तव्याहं सदा देवाः परमात्मा सनातनः ॥ ८० ॥
उभयोः स्मरणादेव कार्यसिद्धिरसंशयम् ।
ब्रह्मोवाच
इत्युक्त्वा विससर्जास्मान्दत्त्वा शक्तीः सुसंस्कृताः ॥ ८१ ॥
विष्णवेऽथ महालक्ष्मीं महाकालीं शिवाय च ।
महासरस्वतीं मह्यं स्थानात्तस्माद्विसर्जिताः ॥ ८२ ॥
स्थलान्तरं समासाद्य ते जाताः पुरुषा वयम् ।
चिन्तयन्तः स्वरूपं तत्प्रभावं परमाद्‌भुतम् ॥ ८३ ॥
विमानं तत्समासाद्य संरूढास्तत्र वै त्रयः ।
न द्वीपोऽसौ न सा देवी सुधासिन्धुस्तथैव च ॥
पुनर्दृष्टं विमानं वै तत्रास्माभिर्न चान्यथा ॥ ८४ ॥
आसाद्य तस्मिन्वितते विमाने
     प्राप्ता वयं पङ्कजसन्निधौ च ।
महार्णवे यत्र हतौ दुरत्ययौ
     मुरारिणा तौ मधुकैटभाख्यौ ॥ ८५ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मणे श्रीदेव्या उपदेशवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥