देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ०५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

हरब्रह्मकृतस्तुतिवर्णनम्

ब्रह्मोवाच
इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने ।
उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ १ ॥
शिव उवाच
यदि हरिस्तव देवि विभावज-
     स्तदनु पद्मज एव तवोद्‌भवः ।
किमहमत्र तवापि न सद्‌गुणः
     सकललोकविधौ चतुरा शिवे ॥ २ ॥
त्वमसि भूः सलिलं पवनस्तथा
     खमपि वह्निगुणश्च तथा पुनः ।
जननि तानि पुनः करणानि च
     त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः ॥ ३ ॥
न च विदन्ति वदन्ति च येऽन्यथा
     हरिहराजकृतं निखिलं जगत् ।
तव कृतास्त्रय एव सदैव ते
     विरचयन्ति जगत्सचराचरम् ॥ ४ ॥
अवनिवायुखवह्निजलादिभिः
     सविषयैः सगुणैश्च जगद्‌भवेत् ।
यदि तदा कथमद्य च तत्स्फुटं
     प्रभवतीति तवाम्ब कलामृते ॥ ५ ॥
भवसि सर्वमिदं सचराचरं
     त्वमजविष्णुशिवाकृतिकल्पितम् ।
विविधवेषविलासकुतूहलै-
     र्विरमसे रमसेऽम्ब यथारुचि ॥ ६ ॥
सकललोकसिसृक्षुरहं हरिः
     कमलभूश्च भवाम यदाऽम्बिके ।
तव पदाम्बुजपांसुपरिग्रहं
     समधिगम्य तदा ननु चक्रिम ॥ ७ ॥
यदि दयार्द्रमना न सदाम्बिके
     कथमहं विहितश्च तमोगुणः ।
कमलजश्च रजोगुणसंभवः
     सुविहितः किमु सत्त्वगुणो हरिः ॥ ८ ॥
यदि न ते विषमा मतिरम्बिके
     कथमिदं बहुधा विहितं जगत् ।
सचिवभूपतिभृत्यजनावृतं
     बहुधनैरधनैश्च समाकुलम् ॥ ९ ॥
तव गुणास्रय एव सदा क्षमाः
     प्रकटनावनसंहरणेषु वै ।
हरिहरद्रुहिणाश्च क्रमात्त्वया
     विरचितास्त्रिजगतां किल कारणम् ॥ १० ॥
परिचितानि मया हरिणा तथा
     कमलजेन विमानगतेन वै ।
पथिगतैर्भुवनानि कृतानि वा
     कथय केन भवानि नवानि च ॥ ११ ॥
सृजसि पासि जगज्जगदम्बिके
     स्वकलया कियदिच्छसि नाशितुम् ।
रमयसे स्वपतिं पुरुषं सदा
     तव गतिं न हि विद्म वयं शिवे ॥ १२ ॥
जननि देहि पदाम्बुजसेवनं
     युवतिभागवतानपि नः सदा ।
पुरुषतामधिगम्य पदाम्बुजा-
     द्विरहिताः क्व लभेम सुखं स्फुटम् ॥ १३ ॥
न रुचिरस्ति ममाम्ब पदाम्बुजं
     तव विहाय शिवे भुवनेष्वलम् ।
निवसितुं नरदेहमवाप्य च
     त्रिभुवनस्य पतित्वमवाप्य वै ॥ १४ ॥
सुदति नास्ति मनागपि मे रति-
     र्युवतिभावमवाप्य तवान्तिके ।
पुरुषता क्व सुखाय भवत्यलं
     तव पदं न यदीक्षणगोचरम् ॥ १५ ॥
त्रिभुवनेषु भवत्वियमम्बिके
     मम सदैव हि कीर्तिरनाविला ।
युवतिभावमवाप्य पदाम्बुजं
     परिचितं तव संसृतिनाशनम् ॥ १६ ॥
भुवि विहाय तवान्तिकसेवनं
     क इह वाञ्छति राज्यमकंटकम् ।
त्रुटिरसौ किल याति युगात्मतां
     न निकटं यदि तेऽङ्‌घ्रिसरोरुहम् ॥ १७ ॥
तपसि ये निरता मुनयोऽमला-
     स्तव विहाय पदाम्बुजपूजनम् ।
जननि ते विधिना किल वञ्चिताः
     परिभवो विभवे परिकल्पितः ॥ १८ ॥
न तपसा न दमेन समाधिना
     न च तथा विहितैः क्रतुभिर्यथा ।
तव पदाब्जपरागनिषेवणा-
     द्‌भवति मुक्तिरजे भवसागरात् ॥ १९ ॥
कुरु दयां दयसे यदि देवि मां
     कथय मन्त्रमनाविलमद्‌भुतम् ।
समभवं प्रजपन्सुखितो ह्यहं
     सुविशदं च नवार्णमनुत्तमम् ॥ २० ॥
प्रथमजन्मनि चाधिगतो मया
     तदधुना न विभाति नवाक्षरः ।
कथय मां मनुमद्य भवार्णवा-
     ज्जननि तारय तारय तारके ॥ २१ ॥
इत्युक्ता सा तदा देवी शिवेनाद्‌भुततेजसा ।
उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम् ॥ २२ ॥
तं गृहीत्वा महादेवः परां मुदमवाप ह ।
प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः ॥ २३ ॥
जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा ।
बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा ॥ २४ ॥
तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् ।
अवोचं तां महामायां संस्थितोऽहं पदान्तिके ॥ २५ ॥
न वेदास्त्वामेवं कलयितुमिहासन्नपटवो
यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् ।
स्वधाभूता देवी सकलमखहोमेषु विहिता
तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने ॥ २६ ॥
कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्‌भुतं
कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् ।
धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो
मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति ॥ २७ ॥
अद्याहं तव पादपङ्कजपरागादानगर्वेण वै
धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते ।
याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं
हित्वा मोहकृतं महार्तिनिगडं त्वद्‌भक्तियुक्तं कुरु ॥ २८ ॥
अतोऽहञ्च जातो विमुक्तः कथं स्यां
     सरोजादमेयात्त्वदाविष्कृताद्वै ।
तवाज्ञाकरः किङ्करोऽस्मीति नूनं
     शिवे पाहि मां मोहमग्नं भवाब्धौ ॥ २९ ॥
न जानन्ति ये मानवास्ते वदन्ति
     प्रभुं मां तवाद्यं चरित्रं पवित्रम् ।
यजन्तीह ये याजकाः स्वर्गकामा
     न ते ते प्रभावं विदन्त्येव कामम् ॥ ३० ॥
त्वया निर्मितोऽहं विधित्वे विहारं
     विकर्तुं चतुर्धा विधायादिसर्गम् ।
अहं वेद्मि कोऽन्यो विवेदातिमाये
     क्षमस्वापराधं त्वहङ्कारजं मे ॥ ३१ ॥
श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः
     प्रकुर्वन्ति मूढाः समाधौ स्थिता वै ।
न जानन्ति ते नाम मोक्षप्रदं वा
     समुच्चारितं जातु मातर्मिषेण ॥ ३२ ॥
विचारे परे तत्त्वसंख्याविधाने
     पदे मोहिता नाम ते संविहाय ।
न किं ते विमूढा भवाब्धौ भवानि
     त्वमेवासि संसारमुक्तिप्रदा वै ॥ ३३ ॥
परं तत्त्वविज्ञानमाद्यैर्जनैर्यै-
     रजे चानुभूतं त्यजन्त्येव ते किम् ।
निमेषार्धमात्रं पवित्रं चरित्रं
     शिवा चाम्बिका शक्तिरीशेति नाम ॥ ३४ ॥
न किं त्वं समर्थाऽसि विश्वं विधातुं
     दृशैवाशु सर्वं चतुर्धा विभक्तम् ।
विनोदार्थमेवं विधिं मां विधाया-
     दिसर्गे किलेदं करोषीति कामम् ॥ ३५ ॥
हरिः पालकः किं त्वयाऽसौ मधोर्वा
     तथा कैटभाद्रक्षितः सिन्धुमध्ये ।
हरः संहृतः किं त्वयाऽसौ न काले
     कथं मे भ्रुवोर्मध्यदेशात्स जातः ॥ ३६ ॥
न ते जन्म कुत्रापि दृष्टं श्रुतं वा
     कुतः सम्भवस्ते न कोऽपीह वेद ।
किलाद्यासि शक्तिस्त्वमेका भवानि
     स्वतन्त्रैः समस्तैरतो बोधिताऽसि ॥ ३७ ॥
त्वया संयुतोऽहं विकर्तुं समर्थो
     हरिस्त्रातुमम्ब त्वया संयुतश्च ।
हरः सम्प्रहर्तुं त्वयैवेह युक्तः
     क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः ॥ ३८ ॥
यथाऽहं हरिः शङ्करः किं तथाऽन्ये
     न जाता न सन्तीह नो वाऽभविष्यन् ।
न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे
     विनोदे विवादास्पदेऽल्पाशयानाम् ॥ ३९ ॥
अकर्ता गुणस्पष्ट एवाद्य देवो
     निरीहोऽनुपाधिः सदैवाकलश्च ।
तथापीश्वरस्ते वितीर्णं विनोदं
     सुसम्पश्यतीत्याहुरेवं विधिज्ञाः ॥ ४० ॥
दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः ।
नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते ॥ ४१ ॥
न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन ।
विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्‌कितः ॥ ४२ ॥
एकमेवाद्वितीयं यद्‌‌ब्रह्म वेदा वदन्ति वै ।
सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय ॥ ४३ ॥
निःसंशयं न मे चेतः प्रभवत्यविशङ्‌कितम् ।
द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः ॥ ४४ ॥
स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् ।
पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः ॥ ४५ ॥
पुमानसि त्वं स्त्री वासि वद विस्तरतो मम ।
ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात् ॥ ४६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे हरब्रह्मकृतस्तुतिवर्णनं पञ्चमोऽध्यायः ॥ ५ ॥