देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ०२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

ब्रह्मादीनाङ्गतिवर्णनम्

व्यास उवाच
यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम ।
तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः ॥ १ ॥
नारद उवाच
व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम ।
उत्पन्नो हृदयेऽत्यर्थं संदेहासारपीडितः ॥ २ ॥
गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् ।
अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम् ॥ ३ ॥
पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो ।
भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम् ॥ ४ ॥
रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते ।
आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः ॥ ५ ॥
तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ ।
निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे ॥ ६ ॥
सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् ।
न तीर्थेषु न देवेषु साधनेष्वितरेषु च ॥ ७ ॥
अविज्ञाय परं तत्त्वं कुतः शान्तिः परन्तप ।
विकीर्णं बहुधा चित्तं नैकत्र स्थिरतां व्रजेत् ॥ ८ ॥
कं स्मरामि यजे कं वा कं व्रजाम्यर्चयामि कम् ।
स्तौ‌मि कं नाभिजानामि देव सर्वेश्वरेश्वरम् ॥ ९ ॥
ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः ।
मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे ॥ १० ॥
ब्रह्मोवाच
किं ब्रवीमि सुताद्याहं दुर्बोधं प्रश्नमुत्तमम् ।
त्वयाशक्यं महाभाग विष्णोरपि सुनिश्चयात् ॥ ११ ॥
रागी को‍ऽपि न जानाति संसारेऽस्मिन्महामते ।
विरक्तश्च विजानाति निरीहो यो विमत्सरः ॥ १२ ॥
एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे
भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम् ॥ १३ ॥
नापश्यं तरणिं सोमं न वृक्षान्न च पर्वतान् ।
कर्णिकायां समाविष्टश्चिन्तामकरवं तदा ॥ १४ ॥
कस्मादहं समुद्‌भूतः सलिलेऽस्मिन्महार्णवे ।
को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये ॥ १५ ॥
न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् ।
पङ्कजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः ॥ १६ ॥
पश्याम्यद्यास्य पङ्कं तं मूलं वै पङ्कजस्य च ।
भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः ॥ १७ ॥
उत्तरन्सलिले तत्र यावद्वर्षसहस्रकम् ।
अन्वेषमाणो धरणीं नावाप तां यदा तदा ॥ १८ ॥
तपस्तपेति चाकाशे वागभूदशरीरिणी ।
ततो मया तपस्तप्तं पद्‌मे वर्षसहस्रकम् ॥ १९ ॥
सृजेति पुनरुद्‌भूता वाणी तत्र श्रुता मया ।
विमूढोऽहं तदाकर्ण्य कं सृजामि करोमि किम् ॥ २० ॥
तदा दैत्यावपि प्राप्तौ दारुणौ मधुकैटभौ ।
ताभ्यां विभीषितश्चाहं युद्धाय मकरालये ॥ २१ ॥
ततोऽहं नालमालम्ब्य वारिमध्यमवातरम् ।
तदा तत्र मया दृष्टः पुरुषः परमाद्‌भुतः ॥ २२ ॥
मेघश्यामशरीरस्तु पीतवासाश्चतुर्भुजः ।
शेषशायी जगन्नाथो वनमालाविभूषितः ॥ २३ ॥
शङ्खचक्रगदापद्माद्यायुधैः सुविराजितः ।
तमद्राक्षं महाविष्णुं शेषपर्यङ्कशायिनम् ॥ २४ ॥
योगनिद्रासमाक्रान्तमविस्पन्दिनमच्युतम् ।
शयानं तं समालोक्य भोगिभोगोपरि स्थितम् ॥ २५ ॥
चिन्ता ममाद्‌भुता जाता किं करोमीति नारद ।
मया स्मृता तदा देवी स्तुता निद्रास्वरूपिणी ॥ २६ ॥
देहान्निर्गत्य सा देवी गगने संस्थिता शिवा ।
अवितर्क्यशरीरा सा दिव्याभरणमण्डिता ॥ २७ ॥
विष्णोर्देहं विहायाशु विरराज नभःस्थिता ।
उदतिष्ठदमेयात्मा तया मुक्तो जनार्दनः ॥ २८ ॥
पंचवर्षसहस्राणि कृतवान् युद्धमुत्तमम् ।
तदा विलोकितौ दैत्यौ हरिणा विनिपातितौ ॥ २९ ॥
उत्सङ्गं विमलं कृत्वा तत्रैव निहतौ च तौ ।
रुद्रस्तत्रैव सम्प्राप्तो यत्रावां संस्थितावुभौ ॥ ३० ॥
त्रिभिः संवीक्षितास्मामिः स्वस्था देवी मनोहरा ।
संस्तुता परमा शक्तिरुवाचास्मानवस्थितान् ॥ ३१ ॥
कृपावलोकनैः कृत्वा पावनैर्मुदितानथ ।

देव्युवाच
काजेशाः स्वानि कार्याणि कुरुध्वं समतन्द्रिताः ॥ ३२ ॥
सृष्टिस्थितिविशिष्टानि हतावेतौ महासुरौ ।
कृत्वा स्वानि निकेतानि वसध्वं विगतज्वराः ॥ ३३ ॥
प्रजाश्चतुर्विधाः सर्वाः सृजध्वं स्वविभूतिभिः ।

ब्रह्मोवाच
तच्छ्रुत्वा वचनं तस्याः पेशलं सुखदं मृदु ॥ ३४ ॥
अब्रूम तामशक्तिः स्मः कथं कुर्मस्त्विमाः प्रजाः ।
न मही वितता मातः सर्वत्र विततं जलम् ॥ ३५ ॥
न भूतानि गुणाश्चापि तन्मात्राणीन्द्रियाणि च ।
तदाकर्ण्य वचोऽस्माकं शिवा जाता स्मितानना ॥ ३६ ॥
झटित्येवागतं तत्र विमानं गगनाच्छुभम् ।
सोवाचास्मिन्सुराः कामं विशध्वं गतसाध्वसाः ॥ ३७ ॥
विमाने ब्रह्मविष्ण्वीशा दर्शयाम्यद्य चाद्‌भुतम् ।
तन्निशम्य वचस्तस्या ओमित्युक्त्वा पुनर्वयम् ॥ ३८ ॥
समारुह्योपविष्टाः स्मो विमाने रत्‍नमण्डिते ।
मुक्तादामसुसंवीते किङ्‌किणीजालशब्दिते ॥ ३९ ॥
सुरसद्मनिभे रम्ये त्रयस्तत्राविशङ्‌किताः ।
सोपविष्टांस्ततो दृष्ट्वा देव्यस्मान्विजितेन्द्रियान् ॥ ४० ॥
स्वशक्त्या तद्विमानं वै नोदयामास चाम्बरे ॥ ४१ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मादीनाङ्गतिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥