देवीभागवतपुराणम्/स्कन्धः ०२/अध्यायः १०

विकिस्रोतः तः

परीक्षिन्मरणम्

सूत उवाच
तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् ।
शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः ॥ १ ॥
वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः ।
अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति ॥ २ ॥
तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् ।
क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति ॥ ३ ॥
कश्यप उवाच
परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति ।
तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम् ॥ ४ ॥
मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल ।
जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल ॥ ५ ॥
तक्षक उवाच
अहं स पन्नगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ ६ ॥
कश्यप उवाच
अहं दष्टं त्वया सर्प नृपं शप्तं द्विजेन वै ।
जीवयिष्याम्यसन्देहं कामं मन्त्रबलेन वै ॥ ७ ॥
तक्षक उवाच
यदि त्वं जीवितुं यासि मया दष्टं नृपोत्तमम् ।
मन्त्रशक्तिबलं विप्र दर्शय त्वं ममानघ ॥ ८ ॥
धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्राभिरद्य वै ।
कश्यप उवाच
जीवयिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम ॥ ९ ॥
सूत उवाच
अदशत्पन्नगो वृक्षं भस्मसाच्च चकार तम् ।
उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम ॥ १० ॥
दृष्ट्वा भस्मीकृतं वृक्षं पन्नगेन विषाग्निना ।
सर्वं भस्म समाहृत्य कश्यपो वाक्यमब्रवीत् ॥ ११ ॥
पश्य मन्त्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम ।
जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष ॥ १२ ॥
इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः ।
सिषेच भस्मराशिं तं मन्त्रितेनैव वारिणा ॥ १३ ॥
तद्वारिसेचनाज्जातो न्यग्रोधः पूर्ववच्छुभः ।
विस्मयं तक्षकः प्राप्तो दृष्ट्वा तं जीवितं नगम् ॥ १४ ॥
तमाह कश्यपं नागः किमर्थं ते परिश्रमः ।
सम्पादयामि तं कामं ब्रूहि वाडव वाञ्छितम् ॥ १५ ॥
कश्यप उवाच
वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः ।
गृहादहं चोपकर्तुं विद्यया नृपसत्तमम् ॥ १६ ॥
तक्षक उवाच
वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् ।
ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः ॥ १७ ॥
सूत उवाच
तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् ।
चिन्तयामास मनसा किं करोमि पुनः पुनः ॥ १८ ॥
धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः ।
भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात् ॥ १९ ॥
जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम ।
धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात् ॥ २० ॥
रक्षणीयं यशः कामं धिग्धनं यशसा विना ।
सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये ॥ २१ ॥
हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् ।
उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना ॥ २२ ॥
जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च ।
अराजके प्रजानाशो भविता नात्र संशयः ॥ २३ ॥
प्रजानाशस्य पापं मे भविष्यति मृते नृपे ।
अपकीर्तिश्च लोकेषु धनलोभाद्‌भविष्यति ॥ २४ ॥
इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः ।
गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः ॥ २५ ॥
आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः ।
गृहं ययौ स धर्मात्मा धनमादाय तक्षकात् ॥ २६ ॥
निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् ।
हन्तुकामो जगामाशु नगरं नागसाह्वयम् ॥ २७ ॥
शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् ।
मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम् ॥ २८ ॥
चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः ।
चिन्तयामास योगेन प्रविशेयं गृहं कथम् ॥ २९ ॥
वञ्जयामि कथं चैनं राजानं पापकारिणम् ।
विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम् ॥ ३० ॥
पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् ।
तापसस्य गले येन मृतः सर्पो निवेशितः ॥ ३१ ॥
कृत्वा विगर्हितं कर्म जानन्कालगतिं नृपः ।
रक्षकान्भवने कृत्वा प्रासादमभिगम्य च ॥ ३२ ॥
मृत्युं वञ्चयते राजा वर्ततेऽद्य निराकुलः ।
तं कथं धक्षयिष्यामि विप्रवाक्येन चोदितः ॥ ३३ ॥
न जानाति च मन्दात्मा मरणं ह्यनिवर्तनम् ।
तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते ॥ ३४ ॥
यदि वै विहितो मृत्युर्दैवेनामिततेजसा ।
स कथं परिवर्तेत कृतैर्यत्‍नैस्तु कोटिभिः ॥ ३५ ॥
पाण्डवस्य च दायादो जानन्मृत्युं गतं नृपः ।
जीवने मतिमास्थाय स्थितः स्थाने निराकुलः ॥ ३६ ॥
दानपुण्यादिकं राजा कर्तुमर्हति सर्वथा ।
धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत् ॥ ३७ ॥
नोचेन्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः ।
मरणं स्वर्गलोकाय नरकायान्यथा भवेतू ॥ ३८ ॥
द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः ।
विप्रशापस्तथा घोर आसन्ने मरणे किल ॥ ३९ ॥
न कोऽपि ब्राह्मणः पार्श्वे य एनं प्रतिबोधयेत् ।
वेधसा विहितो मृत्युरनिवार्यस्तु सर्वथा ॥ ४० ॥
इति सञ्चिन्त्य सर्पोऽसौ स्वान्नागान्निकटे स्थितान् ।
कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजङ्गमान् ॥ ४१ ॥
फलमूलादिकं गृह्य राज्ञे नागोऽथ तक्षकः ।
स्वयं च कीटरूपेण फलमध्ये ससार ह ॥ ४२ ॥
निर्गतास्ते तदा नागाः फलान्यादाय सत्वराः ।
ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ ॥ ४३ ॥
रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीर्षितम् ।
ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात् ॥ ४४ ॥
अभिमन्युसुतं वीरं कुलार्कं चारुदर्शनम् ।
परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा ॥ ४५ ॥
निवेदयध्वं राजानं दर्शनार्थागतान्मुनीन् ।
कृत्वाभिषेकान्यास्यामो दत्त्वा मिष्टफलानिच ॥ ४६ ॥
भारतानां कुले वापि न दृष्टा द्वाररक्षकाः ।
न श्रुतं तापसानां तु राज्ञोऽसन्दर्शनं किल ॥ ४७ ॥
आरोहामो वयं तत्र यत्र राजा परीक्षितः ।
आशीर्भिर्वर्धयित्वैनं दत्ताज्ञाः प्रव्रजामहे ॥ ४८ ॥

सूत उवाच
इत्याकर्ण्य वचस्तेषां तापसानां तु रक्षकाः ।
प्रत्यूचुस्तान् द्विजान्मत्वा निदेशं भूपतेर्यथा ॥ ४९ ॥
नाद्य वो दर्शनं विप्रा राज्ञः स्यादिति नो मतिः ।
श्वः सर्वतापसैरत्र त्वागन्तव्यं नृपालये ॥ ५० ॥
अनारोहस्तु प्रासादो विप्राणां मुनिसत्तमाः ।
विप्रशापभयाद्‌राज्ञा विहितोऽस्ति न संशयः ॥ ५१ ॥
तदोचुस्तानथो विप्राः फलमूलजलानि च ।
विप्राशिषश्च राज्ञेऽथ ग्राहयन्तु सुरक्षकाः ॥ ५२ ॥
ते गत्वा नृपतिं प्रोचुस्तापसानागताञ्जनाः ।
राजोवाचानयध्वं वै फलमूलादिकं च यत् ॥ ५३ ॥
पृच्छध्वं तापसान्कार्यं प्रातरागमनं पुनः ।
प्रणामं कथयध्वं मे नाद्य सन्दर्शनं मम ॥ ५४ ॥
ते गत्वाथ समादाय फलमूलादिकं च यत् ।
राज्ञे समर्पयामासुर्बहुमानपुरःसरम् ॥ ५५ ॥
गतेषु तेषु नागेषु विप्रवेषावृतेषु च ।
फलान्यादाय राजासौ सचिवानिदमब्रवीत् ॥ ५६ ॥
सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वशः ।
अद्म्यहं चैकमेतद्वै फलं विप्रार्पितं महत् ॥ ५७ ॥
इत्युक्त्वा तत्फलं दत्त्वा सुहृद्‌भ्यश्चोत्तरासुतः ।
करे कृत्वा फलं पक्वं ददार नृपतिः स्वयम् ॥ ५८ ॥
विदारितं फलं राज्ञा तत्र कृमिरभूदणुः ।
स कृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम् ॥ ५९ ॥
तं दृष्ट्वा नृपतिः प्राह सचिवान्विस्मितानथ ।
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ ६० ॥
अङ्गीकरोमि तं शापं कृमिको मां दशत्वयम् ।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संन्यवेशयत् ॥ ६१ ॥
अस्तं याते दिवानाथे धृतः कण्ठेऽथ कीटकः ।
तक्षकस्तु तदा जातः कालरूपी भयानकः ॥ ६२ ॥
राजा संवेष्टितस्तेन दष्टश्चापि महीपतिः ।
मन्त्रिणो विस्मयं प्राप्ता रुरुदुर्भृशदुःखिताः ॥ ६३ ॥
घोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिताः ।
चुक्रुशू रक्षकाः सर्वे हाहाकारो महानभूत् ॥ ६४ ॥
वेष्टितो भोगिभोगेन विनष्टबहुपौरुषः ।
नोवाच नृपतिः किञ्चिन्न चचालोत्तरासुतः ॥ ६५ ॥
उत्थिताग्निशिखा घोरा विषजा तक्षकाननात् ।
प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह ॥ ६६ ॥
हत्वाशु जीवितं राज्ञस्तक्षको गगने गतः ।
जगद्दग्धं तु कुर्वाणं ददृशुस्तं जना इह ॥ ६७ ॥
स पपात गतप्राणो राजा दग्ध इव द्रुमः ।
चुकुशुश्च जनाः सर्वे मृतं दृष्ट्वा नराधिपम् ॥ ६८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ द्वितीयस्कन्धे परीक्षिन्मरणं नाम दशमोऽध्यायः ॥ १० ॥