देवीभागवतपुराणम्/स्कन्धः ०१/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search

सुद्युम्नस्तुतिः

सूत उवाच
ततः पुरूरवा जज्ञे इलायां कथयामि वः ।
बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः ॥ १ ॥
सुद्युम्नो नाम भूपालः सत्यवादी जितेन्द्रियः ।
सैन्धवं हयमारुह्य चचार मृगयां वने ॥ २ ॥
युतः कतिपयामात्यैर्दर्शितश्चारुकुण्डलः ।
धनुराजगवं बद्ध्वा बाणसङ्घं तथाद्‌भुतम् ॥ ३ ॥
स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् ।
शशांश्च सूकरांश्चैव खड्गांश्च गवयांस्तथा ॥ ४ ॥
शरभान्महिषांश्चैव साम्भरान्वनकुक्कुटान् ।
निघ्नन्मेध्यान् पशून् राजा कुमारवनमाविशत् ॥ ५ ॥
मेरोरधस्तले दिव्यं मन्दारद्रुमराजितम् ।
अशोकलतिकाकीर्णं बकुलैरधिवासितम् ॥ ६ ॥
सालैस्तालैस्तमालैश्च चम्पकैः पनसैस्तथा ।
आम्रैर्नीपैर्मधूकैश्च माधवीमण्डपावृतम् ॥ ७ ॥
दाडिमैर्नारिकेलैश्च कदलीखण्डमण्डितम् ।
यूथिकामालतीकुन्दपुष्पवल्लीसमावृतम् ॥ ८ ॥
हंसकारण्डवाकीर्णं कीचकध्वनिनादितम् ।
भ्रमरालिरुतारामं वनं सर्वसुखावहम् ॥ ९ ॥
दृष्ट्वा प्रमुदितो राजा सुद्युम्नः सेवकैर्वृतः ।
वृक्षान्सुपुष्पितान्वीक्ष्य कोकिलारावमण्डितान् ॥ १० ॥
प्रविष्टस्तत्र राजर्षिः स्त्रीत्वमाप क्षणात्ततः ।
अश्वोऽपि वडवा जातश्चिन्ताविष्टः स भूपतिः ॥ ११ ॥
किमेतदिति चिन्तार्तश्चिन्त्यमानः पुनः पुनः ।
दुःखं बहुतरं प्राप्तः सुद्युम्नो लज्जयान्वितः ॥ १२ ॥
किं करोमि कथं यामि गृहं स्त्रीभावसंयुतः ।
कथं राज्यं करिष्यामि केन वा वञ्चितो ह्यहम् ॥ १३ ॥
ऋषय ऊचुः
सूताश्चर्यमिदं प्रोक्तं त्वया यल्लोमहर्षण ।
सुद्युम्नः स्त्रीत्वमापन्नो भूपतिर्देवसन्निभः ॥ १४ ॥
किं तत्कारणमाचक्ष्व वने तत्र मनोहरे । किं कृतं तेन राज्ञा च विस्तरं वद सुव्रत ॥ १५ ॥
सूत उवाच
एकदा गिरिशं द्रष्टुमृषयः सनकादयः ।
दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ १६ ॥
तस्मिंश्च समये तत्र शङ्करः प्रमदायुतः ।
क्रीडासक्तो महादेवो विवस्त्रा कामिनी शिवा ॥ १७ ॥
उत्सङ्गे संस्थिता भर्तू रममाणा मनोरमा ।
तान्विलोक्याम्बिका देवी विवस्त्रा व्रीडिता भृशम् ॥ १८ ॥
भर्तुरङ्कात्समुत्थाय वस्त्रमादाय पर्यधात् ।
लज्जाविष्टा स्थिता तत्र वेपमानातिमानिनी ॥ १९ ॥
ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः ।
परिवृत्य ययुस्तूर्णं नरनारायणाश्रमम् ॥ २० ॥
ह्रीयुतां कामिनीं वीक्ष्य प्रोवाच भगवान्हरः ।
कथं लज्जातुरासि त्वं सुखं ते प्रकरोम्यहम् ॥ २१ ॥
अद्यप्रभृति यो मोहात्पुमान्कोऽपि वरानने ।
वनं च प्रविशेदेतत्स वै योषिद्‌भविष्यति ॥ २२ ॥
इति शप्तं वनं तेन ये जानन्ति जनाः क्वचित् ।
वर्जयन्तीह ते कामं वनं दोषसमृद्धिमत् ॥ २३ ॥
सुद्युम्नस्तु तदज्ञानात्प्रविष्टः सचिवैः सह ।
तथैव स्त्रीत्वमापन्नस्तैः सहेति न संशयः ॥ २४ ॥
चिन्ताविष्टः स राजर्षिर्न जगाम गृहं ह्रिया ।
विचचार बहिस्तस्माद्वनदेशादितस्ततः ॥ २५ ॥
इलेति नाम सम्प्राप्तं स्त्रीत्वे तेन महात्मना ।
विचरंस्तत्र सम्प्राप्तो बुधः सोमसुतो युवा ॥ २६ ॥
स्त्रीभिः परिवृतां तां तु दृष्ट्वा कान्तां मनोरमाम् ।
हावभावकलायुक्तां चकमे भगवाम्बुधः ॥ २७ ॥
सापि तं चकमे कान्तं बुधं सोमसुतं पतिम् ।
संयोगस्तत्र सञ्जातस्तयोः प्रेम्णा परस्परम् ॥ २८ ॥
स तस्यां जनयामास पुरूरवसमात्मजम् ।
इलायां सोमपुत्रस्तु चक्रवर्तिनमुत्तमम् ॥ २९ ॥
सा प्रासूत सुतं बाला चिन्ताविष्टा वने स्थिता ।
सस्मार स्वकुलाचार्यं वसिष्ठं मुनिसत्तमम् ॥ ३० ॥
स तदास्य दशां दृष्ट्वा सुद्युम्नस्य कृपान्वितः ।
अतोषयन्महादेवं शङ्करं लोकशङ्करम् ॥ ३१ ॥
तस्मै स भगवांस्तुष्टः प्रददौ वाञ्छितं वरम् ।
वसिष्ठः प्रार्थयामास पुंस्त्वं राज्ञः प्रियस्य च ॥ ३२ ॥
शङ्करस्तु निजां वाचमृतां कुर्वन्नुवाच ह ।
मासं पुमांस्तु भविता मासं स्त्री भूपतिः किल ॥ ३३ ॥
इत्थं प्राप्य वरं राजा जगाम स्वगृहं पुनः ।
चक्रे राज्यं स धर्मात्मा वसिष्ठस्याप्यनुग्रहात् ॥ ३४ ॥
स्त्रीत्वे तिष्ठति हर्म्येषु पुंस्त्वे राज्यं प्रशास्ति च ।
प्रजास्तस्मिन्समुद्विग्ना नाभ्यनन्दन्महीपतिम् ॥ ३५ ॥
काले तु यौवनं प्राप्तः पुत्रः पुरूरवास्तदा ।
प्रतिष्ठां नृपतिस्तस्मै दत्त्वा राज्यं वनं ययौ ॥ ३६ ॥
गत्वा तस्मिन्वने रम्ये नानाद्रुमसमाकुले ।
नारदान्मन्त्रमासाद्य नवाक्षरमनुत्तमम् ॥ ३७ ॥
जजाप मन्त्रमत्यर्थं प्रेमपूरितमानसः ।
परितुष्टा तदा देवी सगुणा तारिणी शिवा ॥ ३८ ॥
सिंहारूढा स्थिता चाग्रे दिव्यरूपा मनोरमा ।
वारुणीपानसम्मत्ता मदाघूर्णितलोचना ॥ ३९ ॥
दृष्ट्वा तां दिव्यरूपां च प्रेमाकुलितलोचनः ।
प्रणम्य शिरसा प्रीत्या तुष्टाव जगदम्बिकाम् ॥ ४० ॥
इलोवाच
दिव्यं च ते भगवति प्रथितं स्वरूपं
     दृष्टं मया सकललोकहितानुरूपम् ।
वन्दे त्वदंघ्रिकमलं सुरसङ्घसेव्यं
     कामप्रदं जननि चापि विमुक्तिदं च ॥ ४१ ॥
को वेत्ति तेऽम्ब भुवि मर्त्यतनुर्निकामं
     मुह्यन्ति यत्र मुनयश्च सुराश्च सर्वे ।
ऐश्वर्यमेतदखिलं कृपणे दयां च
     दृष्ट्वैव देवि सकलं किल विस्मयो मे ॥ ४२ ॥
शम्भुर्हरिः कमलजो मघवा रविश्च
     वित्तेशवह्निवरुणाः पवनश्च सोमः ।
जानन्ति नैव वसवोऽपि हि ते प्रभावं
     बुध्येत्कथं तव गुणानगुणो मनुष्यः ॥ ४३ ॥
जानाति विष्णुरमितद्युतिरम्ब साक्षा-
     त्त्वां सात्त्विकीमुदधिजां सकलार्थदां च ।
को राजसीं हर उमां किल तामसीं त्वां
     वेदाम्बिके न तु पुनः खलु निर्गुणां त्वाम् ॥ ४४ ॥
क्वाहं सुमन्दमतिरप्रतिमप्रभावः
     क्वायं तवातिनिपुणो मयि सुप्रसादः ।
जाने भवानि चरितं करुणासमेतं
     यत्सेवकांश्च दयसे त्वयि भावयुक्तान् ॥ ४५ ॥
वृत्तस्त्वया हरिरसौ वनजेशयापि
     नैवाचरत्यपि मुदं मधुसूदनश्च ।
पादौ तवादिपुरुषः किल पावकेन
     कृत्वा करोति च करेण शुभौ पवित्रौ ॥ ४६ ॥
वाञ्छत्यहो हरिरशोक इवातिकामं
     पादाहतिं प्रमुदितः पुरुषः पुराणः ।
तां त्वं करोषि रुषिता प्रणतं च पादे
     दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम् ॥ ४७ ॥
वक्षःस्थले वससि देवि सदैव तस्य
     पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते ।
सौदामिनीव सुघने सुविभूषिते च
     किं ते न वाहनमसौ जगदीश्वरोऽपि ॥ ४८ ॥
त्वं चेज्जहासि मधुसूदनमम्ब कोपा-
     न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः ।
प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति
     शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम् ॥ ४९ ॥
ब्रह्मादयः सुरगणा न तु किं युवत्यो
     ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति ।
मन्ये त्वयैव विहिताः खलु ते पुमांसः
     किं वर्णयामि तव शक्तिमनन्तवीर्ये ॥ ५० ॥
त्वं नापुमान्न च पुमानिति मे विकल्पो
     याकासि देवि सगुणा ननु निर्गुणा वा ।
तां त्वां नमामि सततं किल भावयुक्तो
     वाञ्छामि भक्तिमचलां त्वयि मातरं तु ॥ ५१ ॥
सूत उवाच
इति स्तुत्वा महीपालो जगाम शरणं तदा ।
परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि ॥ ५२ ॥
सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् ।
तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम् ॥ ५३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ प्रथमस्कन्धे सुद्युम्नस्तुतिर्नाम द्वादशोऽध्यायः ॥ १२ ॥