देवीभागवतपुराणम्/स्कन्धः ०१/अध्यायः ०४

विकिस्रोतः तः

देवीसर्वोत्तमेतिकथनम्

ऋषय ऊचुः
सौम्य व्यासस्य भार्यायां कस्यां जातः सुतः शुकः ।
कथं वा कीदृशो येन पठितेयं सुसंहिता ॥ १ ॥
अयोनिजस्त्वया प्रोक्तस्तथा चारणिजः शुकः ।
सन्देहोऽस्ति महांस्तत्र कथयाद्य महामते ॥ २ ॥
गर्भयोगी श्रुतः पूर्वं शुको नाम महातपाः ।
कथं च पठितं तेन पुराणं बहुविस्तरम् ॥ ३ ॥
सूत उवाच
पुरा सरस्वतीतीरे व्यासः सत्यवतीसुतः ।
आश्रमे कलविंकौ तु दृष्ट्वा विस्मयमागतः ॥ ४ ॥
जातमात्रं शिशुं नीडे मुक्तमण्डान्मनोहरम् ।
ताम्रास्यं शुभसर्वाङ्गं पिच्छांकुरविवर्जितम् ॥ ५ ॥
तौ तु भक्ष्यार्थमत्यन्तं रतौ श्रमपरायणौ ।
शिशोश्चंचुपुटे भक्ष्यं क्षिपन्तौ च पुनः पुनः ॥ ६ ॥
अङ्गेनाङ्गानि बालस्य घर्षयन्तौ मुदान्वितौ ।
चुम्बन्तौ च मुखं प्रेम्णा कलविंकौ शिशोः शुभम् ॥ ७ ॥
वीक्ष्य प्रेमाद्‌भुतं तत्र बाले चटकयोस्तदा ।
व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥ ८ ॥
तिरश्चामपि यत्प्रेम पुत्रे समभिलक्ष्यते ।
किं चित्रं यन्मनुष्याणां सेवाफलमभीप्सताम् ॥ ९ ॥
किमेतौ चटकौ चास्य विवाहं सुखसाधनम् ।
विरच्य सुखिनौ स्यातां दृष्ट्वा वध्वा मुखं शुभम् ॥ १० ॥
अथवा वार्धके प्राप्ते परिचर्यां करिष्यति ।
पुत्रः परमधर्मिष्ठः पुण्यार्थं कलविंकयोः ॥ ११ ॥
अर्जयित्वाथवा द्रव्यं पितरौ तर्पयिष्यति ।
अथवा प्रेतकार्याणि करिष्यति यथाविधि ॥ १२ ॥
अथवा किं गयाश्राद्धं गत्वा संवितरिष्यति ।
नीलोत्सर्गं च विधिवत्प्रकरिष्यति बालकः ॥ १३ ॥
संसारेऽत्र समाख्यातं सुखानामुत्तमं सुखम् ।
पुत्रगात्रपरिष्वंगो लालनञ्च विशेषतः ॥ १४ ॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
पुत्रादन्यतरन्नास्ति परलोकस्य साधनम् ॥ १५ ॥
मन्वादिभिश्च मुनिभिर्धर्मशास्त्रेषु भाषितम् ।
पुत्रवान्स्वर्गमाप्नोति नापुत्रस्तु कथञ्चन ॥ १६ ॥
दृश्यतेऽत्र समक्षं तन्नानुमानेन साध्यते ।
पुत्रवान्मुच्यते पापादाप्तवाक्यं च शाश्वतम् ॥ १७ ॥
आतुरे मृत्युकालेऽपि भूमिशय्यागतो नरः ।
करोति मनसा चिन्तां दुःखितः पुत्रवर्जितः ॥ १८ ॥
धनं मे विपुलं गेहे पात्राणि विविधानि च ।
मन्दिरं सुन्दरं चैतत्कोऽस्य स्वामी भविष्यति ॥ १९ ॥
मृत्युकाले मनस्तस्य दुःखेन भ्रमते यतः ।
अतोऽस्य दुर्गतिर्नूनं भ्रान्तचित्तस्य सर्वथा ॥ २० ॥
एवं बहुविधां चिन्तां कृत्वा सत्यवतीसुतः ।
निःश्वस्य बहुधा चोष्णं विमनाः सम्बभूव ह ॥ २१ ॥
विचार्य मनसात्यर्थं कृत्वा मनसि निश्चयम् ।
जगाम च तपस्तप्तुं मेरुपर्वतसनिधौ ॥ २२ ॥
मनसा चिन्तयामास कं देवं समुपास्महे ।
वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा ॥ २३ ॥
विष्णुं रुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरम् ।
गणेशं कार्तिकेयं च पावकं वरुणं तथा ॥ २४ ॥
एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः ।
यदृच्छया समायातो वीणापाणिः समाहितः ॥ २५ ॥
तं दृष्ट्वा परमप्रीतो व्यासः सत्यवतीसुतः ।
कृत्वार्घ्यमासनं दत्त्वा पप्रच्छ कुशलं मुनिम् ॥ २६ ॥
श्रुत्वाथ कुशलप्रश्नं पप्रच्छ मुनिसत्तमः ।
चिन्तातुरोऽसि कस्मात्त्वं द्वैपायन वदस्व मे ॥ २७ ॥
व्यास उवाच
अपुत्रस्य गतिर्नास्ति न सुखं मानसे यतः ।
तदर्थं दुःखितश्चाहं चिन्तयामि पुन पुनः ॥ २८ ॥
तपसा तोषयाम्यद्य कं देवं वाच्छितार्थदम् ।
इति चिन्तातुरोऽस्म्यद्य त्वामहं शरणं गतः ॥ २९ ॥
सर्वज्ञोऽसि महर्षे त्वं कथयाशु कृपानिधे ।
कं देवं शरणं यामि यो मे पुत्रं प्रदास्यति ॥ ३० ॥
सूत उवाच
इति व्यासेन पृष्टस्तु नारदो वेदविन्मुनिः ।
उवाच परया प्रीत्या कृष्णं प्रति महामनाः ॥ ३१ ॥
नारद उवाच
पाराशर्य महाभाग यत्त्वं पृच्छसि मामिह ।
तमेवार्थं पुरा पृष्टः पित्रा मे मधुसूदनः ॥ ३२ ॥
ध्यानस्थं च हरिं दृष्ट्वा पिता मे विस्मयं गतः ।
पर्यपृच्छत देवेशं श्रीनाथं जगतः पतिम् ॥ ३३ ॥
कौस्तुभोद्भासितं दिव्यं शङ्खचक्रगदाधरम् ।
पीताम्बरं चतुर्बाहुं श्रीवत्साङ्‌कितवक्षसम् ॥ ३४ ॥
कारणं सर्वलोकानां देवदेवं जगद्गुरुम् ।
वासुदेवं जगन्नाथं तप्यमानं महत्तपः ॥ ३५ ॥
ब्रह्मोवाच
देवदेव जगन्नाथ भूतभव्यभवत्प्रभो ।
तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्दन ॥ ३६ ॥
विस्मयोऽयं ममात्यर्थं त्वं सर्वजगतां प्रभुः ।
ध्यानयुक्तोऽसि देवेश किं च चित्रमतः परम् ॥ ३७ ॥
त्वन्नाभिकमलाज्जातः कर्ताहमखिलस्य ह ।
त्वत्तः कोऽप्यधिकोऽस्त्यत्र तं देवं ब्रूहि मापते ॥ ३८ ॥
जानाम्यहं जगन्नाथ त्वमादिः सर्वकारणम् ।
कर्ता पालयिता हर्ता समर्थः सर्वकार्यकृत् ॥ ३९ ॥
इच्छया ते महाराज सृजाम्यहमिदं जगत् ।
हरः संहरते काले सोऽपि ते वचने सदा ॥ ४० ॥
सूर्यो भ्रमति चाकाशे वायुर्वाति शुभाशुभः ।
अग्निस्तपति पर्जन्यो वर्षतीश त्वदाज्ञया ॥ ४१ ॥
त्वं तु ध्यायसि कं देवं संशयोऽयं महान्मम ।
त्वत्तः परं न पश्यामि देवं वै भुवनत्रये ॥ ४२ ॥
कृपां कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत ।
महतां नैव गोप्यं हि प्रायः किञ्चिदिति स्मृतिः ॥ ४३ ॥
तच्छ्रुत्वा वचनं तस्य हरिराह प्रजापतिम् ।
शृणुष्वैकमना ब्रह्मंस्त्वां ब्रवीमि मनोगतम् ॥ ४४ ॥
यद्यपि त्वां शिवं मां च स्थितिसृष्ट्यन्तकारणम् ।
ते जानन्ति जनाः सर्वे सदेवासुरमानुषाः ॥ ४५ ॥
स्रष्टा त्वं पालकश्चाहं हरः संहारकारकः ।
कृताः शक्त्येति संतर्कः क्रियते वेदपारगैः ॥ ४६ ॥
जगत्संजनने शक्तिस्त्वयि तिष्ठति राजसी ।
सात्त्विकी मयि रुद्रे च तामसी परिकीर्तिता ॥ ४७ ॥
तया विरहितस्त्वं न तत्कर्मकरणे प्रभुः ।
नाहं पालयितुं शक्तः संहर्तुं नापि शङ्करः ॥ ४८ ॥
तदधीना वयं सर्वे वर्तामः सततं विभो ।
प्रत्यक्षे च परोक्षे च दृष्टान्तं शृणु सुव्रत ॥ ४९ ॥
शेषे स्वपिमि पर्यङ्के परतन्त्रो न संशयः ।
तदधीनः सदोत्तिष्ठे काले कालवशं गतः ॥ ५० ॥
तपश्चरामि सततं तदधीनोऽस्म्यहं सदा ।
कदाचित्सह लक्ष्या च विहरामि यथासुखम् ॥ ५१ ॥
कदाचिद्दानवैः सार्धं संग्रामं प्रकरोम्यहम् ।
दारुणं देहदमनं सर्वलोकभयङ्करम् ॥ ५२ ॥
प्रत्यक्षं तव धर्मज्ञ तस्मिन्नेकार्णवे पुरा ।
पञ्चवर्षसहस्राणि बाहुयुद्धं मया कृतम् ॥ ५३ ॥
तौ कर्णमलजौ दुष्टौ दानवौ मदगर्वितौ ।
देव देव्याः प्रसादेन निहतौ मधुकैटभौ ॥ ५४ ॥
तदा त्वया न किं ज्ञातं कारणं तु परात्परम् ।
शक्तिरूपं महाभाग किं पृच्छसि पुनः पुनः ॥ ५५ ॥
यदिच्छः पुरुषो भूत्वा विचरामि महार्णवे ।
कच्छपः कोलसिंहश्च वामनश्च युगे युगे ॥ ५६ ॥
न कस्यापि प्रियो लोके तिर्यग्योनिषु सम्भवः ।
नाभवं स्वेच्छया वामवराहादिषु योनिषु ॥ ५७ ॥
विहाय लक्ष्या सह संविहारं
     को याति मत्स्यादिषु हीनयोनिषु ।
शय्यां च मुक्त्वा गरुडासनस्थः
     करोमि युद्धं विपुलं स्वतन्त्रः ॥ ५८ ॥
पुरा पुरस्तेऽज शिरो मदीयं
     गतं धनुर्ज्यास्खलनात्क्व चापि ।
त्वया तदा वाजिशिरो गृहीत्वा
     संयोजितं शिल्पिवरेण भूयः ॥ ५९ ॥
हयाननोऽहं परिकीर्तितश्च
     प्रत्यक्षमेतत्तव लोककर्तः ।
विडम्बनेयं किल लोकमध्ये
     कथं भवेदात्मपरो यदि स्याम् ॥ ६० ॥
तस्मान्नाहं स्वतन्त्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा ।
तामेव शक्तिं सततं ध्यायामि च निरन्तरम् ॥ ६१ ॥
नातः परतरं किञ्चिज्जानामि कमलोद्भव ।
नारद उवाच
इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ ॥ ६२ ॥
तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुङ्गव ।
तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे ॥ ६३ ॥
असंशयं हृदम्भोजे भज देवीपदाम्बुजम् ।
सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव ॥ ६४ ॥
सूत उवाच
नारदेनैवमुक्तस्तु व्यासः सत्यवतीसुतः ।
देवीपादाब्जनिष्णातस्तपसे प्रययौ गिरौ ॥ ६५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे देवीसर्वोत्तमेतिकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥