देवीभागवतपुराणम्/स्कन्धः ०१/अध्यायः ०३
पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम्
सूत उवाच
शृण्वन्तु सम्प्रवक्ष्यामि पुराणानि मुनीश्वराः ।
यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात् ॥ १ ॥
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
अनापलिंगकूस्कानि पुराणानि पृथक्पृथक् ॥ २ ॥
चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम् । ॥
तथा ग्रहसहस्रं तु मार्कण्डेयं महाद्भुतम् ॥ ३ ॥ ॥
चतुर्दशसहस्राणि तथा पञ्चशतानि च । ॥
भविष्यं परिसंख्यातं मुनिभिस्तत्त्वदर्शिभिः ॥ ४ ॥
अष्टादशसहस्रं वै पुण्यं भागवतं किल ।
तथा चायुतसंख्याकं पुराणं ब्रह्मसंज्ञकम् ॥ ५ ॥
द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् ।
तथाष्टादशसाहस्रं ब्रह्मवैवर्तमेव च ॥ ६ ॥
अयुतं वामनाख्यं च वायव्यं षट्शतानि च ।
चतुर्विंशतिसंख्यातः सहस्राणि तु शौनक ॥ ७ ॥
त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् ।
चतुर्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥ ८ ॥
षोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् ।
पञ्चविंशतिसाहस्रं नारदं परमं मतम् ॥ ९ ॥
पञ्चपञ्चाशत्साहस्रं पद्माख्यं विपुलं मतम् ।
एकादशसहस्राणि लिङ्गाख्यं चातिविस्मृतम् ॥ १० ॥
एकोनविंशत्साहस्रं गारुडं हरिभाषितम् ।
सप्तदशसहस्रं च पुराणं कूर्मभाषितम् ॥ ११ ॥
एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् ।
पुराणाख्या च संख्या च विस्तरेण मयानघाः ॥ १२ ॥
तथैवोपपुराणानि शृण्वन्तु ऋषिसत्तमाः ।
सनत्कुमारं प्रथमं नारसिंहं ततः परम् ॥ १३ ॥
नारदीयं शिवं चैव दौर्वाससमनुत्तमम् ।
कापिलं मानवं चैव तथा चौशनसं स्मृतम् ॥ १४ ॥
वारुणं कालिकाख्यं च साम्बं नन्दिकृतं शुभम् ।
सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम् ॥ १५ ॥
माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् ।
एतान्युपपुराणानि कथितानि महात्मभिः ॥ १६ ॥
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः ।
भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥ १७ ॥
मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे ।
प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि ॥ १८ ॥
द्वापरे द्वापरे विष्णुर्व्यासरूपेण सर्वदा ।
वेदमेकं स बहुधा कुरुते हितकाम्यया ॥ १९ ॥
अल्पायुषोऽल्पबुद्धींश्च विप्रान्ज्ञात्वा कलावथ ।
पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे ॥ २० ॥
स्त्रीशूद्रद्विजबन्धूनां न वेदश्रवणं मतम् ।
तेषामेव हितार्थाय पुराणानि कृतानि च ॥ २१ ॥
मन्वन्तरे सप्तमेऽत्र शुभे वैवस्वताभिधे ।
अष्टाविंशतिमे प्राप्ते द्वापरे मुनिसत्तमाः ॥ २२ ॥
व्यासः सत्यवतीसूनुर्गुरुर्मे धर्मवित्तमः ।
एकोनत्रिंशत्संप्राप्ते द्रौणिर्व्यासो भविष्यति ॥ २३ ॥
अतीतास्तु तथा व्यासाः सप्तविंशतिरेव च ।
पुराणसंहितास्तैस्तु कथितास्तु युगे युगे ॥ २४ ॥
ऋषय ऊचुः
ब्रूहि सूत महाभाग व्यासाः पूर्वयुगोद्भवाः ।
वक्तारस्तु पुराणानां द्वापरे द्वापरे युगे ॥ २५ ॥
सूत उवाच
द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा ।
प्रजापतिर्द्वितीये तु द्वापरे व्यासकार्यकृत् ॥ २६ ॥
तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः ।
पञ्चमे सविता व्यासः षष्ठे मृत्युस्तथापरे ॥ २७ ॥
मघवा सप्तमे प्राप्ते वसिष्ठस्त्वष्टमे स्मृतः ।
सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥ २८ ॥
एकादशेऽथ त्रिवृषो भरद्वाजस्ततः परम् ।
त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे ॥ २९ ॥
त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः ।
मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥ ३० ॥
अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् ।
उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः ॥ ३१ ॥
वेनो वाजश्रवाश्चैव सोमोऽमुष्यायणस्तथा ।
तृणबिन्दुस्तथा व्यासो भार्गवस्तु ततः परम् ॥ ३२ ॥
ततः शक्तिर्जातुकर्ण्यः कृष्णद्वैपायनस्ततः ।
अष्टाविंशतिसंख्येयं कथिता या मया श्रुता ॥ ३३ ॥
कृष्णद्वैपायनात्प्रोक्तं पुराणं च मया श्रुतम् ।
श्रीमद्भागवतं पुण्यं सर्वदुःखौघनाशनम् ॥ ३४ ॥
कामदं मोक्षदं चैव वेदार्थपरिबृंहितम् ।
सर्वागमरसारामं मुमुक्षूणां सदा प्रियम् ॥ ३५ ॥
व्यासेन कृत्वातिशुभं पुराणं
शुकाय पुत्राय महात्मने यत् ।
वैराग्ययुक्ताय च पाठितं वै
विज्ञाय चैवारणिसम्भवाय ॥ ३६ ॥
श्रुतं मया तत्र तथा गृहीतं
यथार्थवद्व्यासमुखान्मुनीन्द्राः ।
पुराणगुह्यं सकलं समेतं
गुरोः प्रसादात्करुणानिधेश्च ॥ ३७ ॥
सूतेन पृष्टः सकलं जगाद
द्वैपायनस्तत्र पुराणगुह्यम् ।
अयोनिजेनाद्भुतबुद्धिना वै
श्रुतं मया तत्र महाप्रभावम् ॥ ३८ ॥
श्रीमद्भागवतामरांघ्रिपफलास्वादादरः सत्तमाः
संसारार्णवदुर्विगाह्यसलिलं सन्तर्तुकामः शुकः ।
नानाख्यानरसालयं श्रुतिपुटैः प्रेम्णाशृणोदद्भुतं
तच्छ्रुत्वा न विमुच्यते कलिभयादेवंविधः कः क्षितौ ॥ ३९ ॥
पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो ॥
व्याजेनापि शृणोति यः परमिदं श्रीमत्पुराणोत्तमम् ।
भुक्त्या भोगकलापमत्र विपुलं देहावसानेऽचलं
योगिप्राप्यमवाप्नुयाद्भगवतीनामाङ्कितं सुन्दरम् ॥ ४० ॥
या निर्गुणा हरिहरादिभिरप्यलभ्या
विद्या सतां प्रियतमाथ समाधिगम्या ।
सा तस्य चित्तकुहरे प्रकरोति भावं
यः संशृणोति सततं तु सतीपुराणम् ॥ ४१ ॥
सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं
पोतं भवार्णवजलोत्तरणाय कामम् ।
सम्प्राप्य वाचकमहो न शृणोति मूढः
स वञ्चितोऽत्र विधिना सुखदं पुराणम् ॥ ४२ ॥
यः प्राप्य कर्णयुगलं पटुमानुषत्वे
रागी शृणोति सततं च परापवादान् ।
सर्वार्थदं रसनिधिं विमलं पुराणं
नष्टः कुतो न शृणुते भुवि मन्दबुद्धिः ॥ ४३ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥