सामग्री पर जाएँ

देवीभागवतपुराणम्/माहात्म्यम्/अध्यायः ५

विकिस्रोतः तः

अथ पञ्चमोऽध्यायः
ऋषय ऊचुः।
सूत सूत महाभाग श्रुतं माहात्म्यमुत्तमम् ।
अधुना श्रोतुमिच्छामः पुराणश्रवणे विधिम् ॥१॥
सूत उवाच।
श्रूयतां मुनयः सर्वे पुराणश्रवणे विधिम् ।
नराणां शृण्वतां येन सिद्धिः स्यात्सार्वकामिकी ॥२॥
आदौ दैवज्ञमाहूय मुहूर्तं कल्पयेत्सुधीः ।
आरभ्य शुचिमासं तु मासषट्कं शुभावहम् ॥३॥
हस्ताश्विमूलपुष्यर्क्षे ब्रह्ममैत्रेन्दुवैष्णवे ।
सत्तिथौ शुभवारे च पुराणश्रवणं शुभम् ॥४॥
गुरुभाद्वेद४वेदा४ब्ज१शरां५गा६ब्धि४गुणैः४क्रमात् ।
धर्माप्तिरिन्दिराप्राप्तिः कथासिद्धिः परं सुखम् ॥ ५ ॥
पीडाऽथ भूपतिभयं ज्ञानप्राप्तिः क्रमात्फलम् ।
पुराणश्रवणे चक्रं शोधयेच्छिवभाषितम् ॥ ६॥
अथवा प्रीतये देव्या नवरात्रचतुष्टये ।
शृणुयादन्यमासेऽपि तिथिवारर्क्षशोधिते ॥७॥
संभारं तादृशं कार्यं विवाहादौ च यादृशम् ।
नवाह्यज्ञे चाप्यस्मिन्विधेयं यत्नतो बुधैः ॥८॥
सहाया बहवः कार्या दम्भलोभविवर्जिताः ।
चतुराश्च वदान्याश्च देवीभक्तिपरा नराः ॥ ९॥
प्रेष्या यत्नेन वार्तेयं देशे देशे जने जने ।
आगन्तव्यमिहावश्यं कथा देव्या भविष्यति ॥१०॥
सौराश्च गाणपत्याश्च शैवाः शाक्ताश्च वैष्णवाः ।
सर्वेषामपि सेव्येयं यतो देवाः सशक्तयः ॥ ११ ॥
श्रीमद्देवीभागवतपीयूषरसलोलुपैः ।
आगंतव्यं विशेषेण कथार्थं प्रेमतत्परैः ॥ १२ ॥
ब्राह्मणाद्याश्च ये वर्णाः स्त्रियश्चाश्रमिणस्तथा ।
सकामाश्चापि निष्कामाः पातव्यं तैः कथामृतम् ॥ १३ ॥
नावकाशः कदाचित्स्यान्नवाहश्रवणेऽपि तैः ।
आगंतव्यं यथाकालं यज्ञे पुण्या क्षणस्थितिः ॥ १४ ॥
विनयेनैव कर्त्तव्यमेवमाकारणं नृणाम् ।
आगतानां च कर्त्तव्यं वासस्थानं यथोचितम् १५ ॥
कथास्थानं प्रकर्त्तव्यं भूमौ मार्जनपूर्वकम् ।
लेपनं गोमयेनाथ विशालायां मनोरमम् ॥१६॥
कार्यस्तु मण्डपो रम्यो रंभास्तंभोपशोभितः ।
वितानमुपरिष्ठात्तु पताकाध्वज राजितः ॥ १७ ॥
वक्तुश्चैवासनं दिव्यं सुखास्तरणसंयुतम् ।
रचितव्यं प्रयत्नेन प्राङ्मुखं वाप्युदङ्मुखम् ॥ १८ ॥
यथोचितानि कुर्वीत श्रोतॄणामासनानि च ।
नृणां चैवाथ नारीणां कथाश्रवणहेतवे ॥ १९ ॥
वाग्मी दांतश्च शास्त्रज्ञो देव्याराधनतत्परः ।
दयालुनिस्पृहो दक्षो धीरो वक्तोत्तमो मतः ॥२०॥
ब्रह्मण्यो देवताभक्तः कथारसपरायणः ।
उदारोऽलोलुपो नम्रः श्रोता हिंसादिवर्जितः ॥ २१ ॥
पाखण्डनिरतो लुब्धः स्त्रैणो धर्मध्वजस्तथा ।
निष्ठुरः क्रोधनो वक्ता देवीयज्ञे न शस्यते ॥ २२ ॥
संशयच्छेदनायैक: पण्डितश्च तथागुणः ।
श्रोतृबोधकृदव्यग्रः कार्य्यो वक्तुः सहायकृत् ॥ २३ ॥
मुहूर्तं दिवसादर्वाग्वक्तृश्रोतादिभिर्जनैः ।
कर्त्तव्यं क्षौरकर्मादि ततो नियमकल्पनम् ॥२४॥
अरुणोदयवेलायां स्नायाच्छौचं विधाय च ।
संध्या तर्पणकार्यं च नित्यं संक्षेपतश्चरेत् ॥ २५ ।
कथाश्रवणयोग्यत्वसिद्धये गाश्च दापयेत् ।
समस्तविघ्नहर्तारमादौ गणपतिं यजेत् ॥ २६ ॥
कलशांश्चापि संस्थाप्य पूजयेत्तत्र दिग्भवान् ।
वटुकं क्षेत्रपालं च योगिनीर्मातृकास्तथा ॥२७॥
तुलसीं चापि संपूज्य ग्रहान्विष्णुं च शंकरम् ।
नवाक्षरेण मनुना पूजयेज्जगदम्बिकाम् ॥२८॥
सर्वोपचारैः संपूज्य श्रीभागवतपुस्तकम् ।
श्रीदेव्या वाङ्मयीं मूर्तिं यथावच्छोभनाक्षरम् २९॥
कथाविघ्नोपशांत्यर्थं वृणुयात्तं च वाडवान् ।
जाप्यो नवार्णमंत्रस्तैः पाठ्यः सप्तशतीस्तवः ३० ॥
प्रदक्षिणनमस्कारान्कृत्वांते स्तुतिमाचरेत् ।
कात्यायनि महामाये भवानि भुवनेश्वरि ॥३१॥
संसारसागरे मग्नं मामुद्धर कृपामये ।
ब्रह्मविष्णुशिवाराध्ये प्रसीद जगदंबिके ॥ ३२॥
मनोभिलषितं देवि वरं देहि नमोऽस्तु ते ।
इति संप्रार्थ्य शृणुयात्कथां नियतमानसः ॥३३॥
वक्तारं चापि संपूज्य व्यासबुद्ध्या तदात्मवान् ।
माल्यालंकारवस्त्राद्यैः संभूष्य' प्रार्थयेच्च तम् ॥३४॥
सर्वशास्त्रेतिहासज्ञ व्यासरूप नमोऽस्तु ते ।
कथाचंद्रोदयेनांतस्तमःस्तोमं निराकुरु ॥ ३५
तदग्रे तु नवाहान्तं कर्त्तव्या नियमास्तदा ।
विप्रादीनुपवेश्यादौ संपूज्योपविशेत्स्वयम् ॥३६॥
श्रोतव्यं सावधानेन चतुर्वर्गफलाप्तये ।
गृहपुत्रकलत्राप्तघनचिन्तामपास्य च ॥ ३७॥
सूर्योदयं समारभ्य किंचित्सूर्येऽवशेषिते ।
मुहूर्तमात्रं विश्रम्य मध्याह्ने वाचयेत्सुधीः ॥ ३८ ॥
मलमूत्रजयायैषां लघु भोजनमिष्यते ।
हविष्यान्नं वरं भोज्यं सकृदेव कथार्थिना ॥ ३९॥
अथवा स्यात्फलाहारी पयोभुग्वा घृताशनः ।
यथा स्यान्न कथाविघ्नस्तथा कार्यं विचक्षणैः ४० ॥
कथाश्रवणनिष्ठानां वक्ष्यामि नियमं द्विजाः ।
ब्रह्मविष्णुमहेशानां मध्ये ये भेददर्शिनः ॥ ४१ ॥
देवीभक्तिविहीना ये पाखण्डा हिंसकाः खलाः ।
विप्रद्रुहो नास्तिका ये न ते योग्याः कथाश्रवे ॥४२॥
ब्रह्मस्वहरणे लुब्धाः परदारधनेषु च ।
देवस्वहरणे तेषां नाधिकारः कथाश्रवे ॥४३॥
ब्रह्मचारी च भूशायी सत्यवक्ता जितेन्द्रियः ।
कथासमाप्तौ भुंजीत पत्रावल्यां यतात्मवान् ४४ ॥
वृंतांकं च कलिन्दं च तैलं च द्विदलं मधु ।
दग्धमन्नं पर्युषितं भावदुष्टं त्यजेद्व्रती ॥४५॥
आमिषं च मसूरान्नमुदक्या दृष्टमेव च ।
रसोनं मूलकं हिंगुं पलांडुं गृञ्जनं तथा ॥ ४६ ॥
कूष्मांडनलिकाशाकं न भुंजीत कथाव्रती ।
कामं क्रोधं मदं लोभं दंभं मानं च वर्जयेत् ॥४७॥
विप्रध्रुक्पतितव्रात्यश्वपाकयवनांत्यजैः ।
उदक्यया वेदबाह्यैर्न वदेद्यः कथाव्रती ॥४८॥
वेदगोगुरुविप्राणां स्त्रीराज्ञां महतां तथा ।
देवानां देवभक्तानां न निंदां शृणुयादपि ॥ ४९ ॥
विनयं चार्जवं शौचं दयां च मितभाषणम् ।
उदारं मानसं चैव कुर्याद्यस्तु कथाव्रती ॥ ५० ॥
वंध्या वा काकवंध्या वा दुर्भगा वा मृतार्भका ।
दरिद्रश्चानपत्यश्च भक्त्येमां शृणुयात्कथाम् ॥५१॥
वंध्या वा काकवंध्या वा दुर्भगा वा मृतार्भका ।
पतद्गर्भांगना या च ताभिः श्राव्या तथा कथा ५२ ॥
धर्मार्थकाममोक्षांश्च यो वांछति विना श्रमम् ।
भगवत्या भागवतं श्रोतव्यं तेन यत्नतः ॥ ५३ ॥
कथादिनानि चैतानि नययज्ञैः समानि हि ।
तेषु दत्तं हुतं जप्तमनन्तफलदं भवेत् ॥५४॥
एवं व्रतं नवाहं तु कृत्वोद्यापनमाचरेत् ।
महाष्टमीव्रतं यद्वत्तथा कार्यं फलेप्सुभिः ॥ ५५ ॥
निष्कामाः श्रवणेनैव पूता मुक्तिं व्रजन्ति हि ।
भोगमोक्षप्रदा नॄणां यतो भगवती परा ॥ ५६ ॥
 पुस्तकस्य च वक्तुश्च पूजा कार्या तु नित्यशः ।
वक्त्रा दत्तं प्रसादं तु गृह्णाद्भक्तिपूर्वकम् ॥५७॥
कुमारी: पूजयेन्नित्यं भोजयेत्प्रार्थयेच्च यः ।
सुवासिनीश्च विप्रांश्च तस्य सिद्धिर्न संशयः ॥ ५८ ॥
गायत्र्या नामसाहस्रं समाप्तावथ वा पठेत् ।
विष्णोर्नामसहस्रं च सर्वदोषोपशान्तये ॥ ५९ ॥
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं संपूर्णतां याति तस्माद्विष्णुं च कीर्तयेत् ६० ॥
देव्याः सप्तशतीमंत्रैः समाप्तौ होममाचरेत् ।
देवीमाहात्म्यमूलेन नवार्णमनुनाऽथवा ॥ ६१ ॥
गायत्र्या त्वथवा होमः पायसेन ससर्पिषा ।
यतो भागवतं त्वेतद्गायत्रीमयमीरितम् ॥ ६२॥
वाचकं तोषयेत्सम्यग्वस्त्रभूषाधनादिभिः ।
प्रसन्ने वाचके सर्वाः प्रसन्ना तस्य देवताः ॥ ६३॥
ब्राह्मणान्भोजयेद्भक्त्या दक्षिणाभिश्च तोषयेत् !
पृथिव्यां देवरूपास्ते तुष्टेष्वेष्वीप्सितं फलम् ।।६४।।
सुवासिनी: कुमारीश्च देवीभक्तया च भोजयेत् ।
ताभ्योऽपि दक्षिणां दत्त्वा प्रार्थयेत्सिद्धिमात्मनः ॥ ६५॥
दद्याद्दानानि चान्यानि सुवर्णं गाः पयस्विनीः ।
हयानिभान्मेदिनीं च तस्य स्यादक्षयं फलम् ॥६६॥
देवीभागवतं चैतल्लिखितं शोभनाक्षरम् ।
हेमसिंहासने स्थाप्यं पट्टवस्त्रेण वेष्टितम् ॥ ६७ ॥
अष्टम्यां वा नवम्यां च वाचकायार्चिताय च ।
दद्यात्स भोगान्भुक्त्वेह दुर्लभं मोक्षमाप्नुयात् ६८ ॥ ॥
दरिद्रो दुर्बलो बालस्तरुणो जरठोऽपि वा ।
पुराणवेत्ता वैद्यः स्यात्पूज्यो मान्यश्च सर्वदा ॥ ६९ ॥
सन्ति लोकस्य बहवो गुरवो गुणजन्मतः ।
सर्वेषामपि तेषां च पुराणज्ञः परो गुरुः ॥ ७० ॥
पौराणिको ब्राह्मणस्तु व्यासासनसमाश्रितः ।
असमाप्ते प्रसंगे तु नमस्कुर्यान्न कस्यचित् ॥ ७१ ॥
पौराणिकीं कथां दिव्यां येऽपि शृण्वंत्यभक्तितः ।
तेषां पुण्यफलं नास्ति दुःखदारिद्र्यभागिनाम् ॥७२॥
असंपूज्य पुराणं तु ताम्बूलकुसुमादिभिः ।
ये शृण्वंति कथां देव्यास्ते दरिद्रा भवंति हि ७३ ॥
कीर्त्यमानां कथां त्यक्त्वा ये व्रजंत्यन्यतो नराः ।
भोगान्तरे प्रणश्यंति तेषां दाराश्च सम्पदः ॥७४॥
ये च तुंगासनारूढाः कथां शृण्वंति दांभिकाः ।
ते वायसा भवंत्यत्र भुक्त्वा निरययातनाम् ॥७५ ॥ `
ये चाढ्यासनसंस्थाश्च ये वीरासनसंस्थिताः ।
शृण्वंति च कथां दिव्यां ते स्युरर्जुनशाखिनः ७६ ॥
कथायां कीर्त्यमानायां ये वदंति दुरुत्तरम् ।
रासभास्ते भवंतीह कृकलासास्ततः परम् ॥७७॥
निंदंति ये पुराणज्ञान्कथां वा पापहारिणीम् ।
ते तु जन्मशतं दुष्टाः शुनकाः स्युर्न संशयः ॥ ७८ ॥
ये शृण्वंति कथां वक्तुः समानासनसंस्थिताः ।
गुरुतल्पसमं पापं लभंते नरकालयाः ॥७९ ॥
ये चाप्रणम्य शृण्वंति ते भवन्ति विषद्रुमाः ।
शयाना येऽपि शृण्वंति भवंत्यजगराहयः ॥ ८० ॥
ये कदाचन पौराणीं न शृण्वंति कथां नराः ।
ते घोरं नरकं भुक्त्वा भवन्ति ग्रामसूकराः ॥ ८१ ॥
ये कथां नानुमोदंते विघ्नं कुर्वन्ति ये शठाः ।
कोट्यब्दं निरयं भुक्त्वा भवंति ग्रामसूकराः ८२ ॥
आसनं भाजनं द्रव्यं फलं वस्त्राणि कम्बलम् ।
पुराणज्ञाय यच्छन्ति ते व्रजन्ति हरेः पदम् ॥ ८३ ॥
पुराणपुस्तकस्यापि ये पट्टवसनं नवम् ।
प्रयच्छन्ति शुभं सूत्रं ते नराः सुखभागिनः ॥ ८४ ॥
पुराणानां तु सर्वेषां श्रवणाद्यत्फलं लभेत् ।
तस्माच्छतगुणं पुण्यं देवीभागवताल्लभेत् ॥ ८५ ॥
यथा सरित्सु प्रवरा गंगा देवेषु शंकरः ।
काव्ये रामायणं यद्वज्ज्योतिष्मत्सु यथा रविः ॥८६॥
आह्लादकानां चन्द्रश्च धनानां च यथा यशः ।
क्षमावतां यथा भूमिर्गाम्भीर्ये सागरो यथा ॥ ८७ ॥ !
मंत्राणां चैव सावित्री पापनाशे हरिस्मृतिः ।
अष्टादशपुराणानां देवीभागवतं तथा ॥ ८८ ॥
येन केनाप्युपायेन नवकृत्वः शृणोति चेत् ।
न शक्यं तत्फलं वक्तुं जीवन्मुक्तः स एव ह ॥ ८९ ॥
राजशत्रुभये प्राप्ते महामारीभये तथा ।
दुर्भिक्षे राष्ट्रभंगे च तच्छांत्यै शृणुयादिदम् ॥१०॥
भूतप्रेतविनाशाय राज्यलाभाय शत्रुतः ।
पुत्रलाभाय शृणुयाद्देवीभागवतं द्विजाः ॥ ९१ ॥
श्रीमद्भागवतं यस्तु पठेद्वा शृणुयादपि ।
श्लोकार्द्धं श्लोकपादं वा संयाति परमां गतिम् ॥ ९२ ॥
भगवत्या स्वयं देव्या श्लोकार्द्धेन प्रकाशितम् ।
शिष्यप्रशिष्यद्वारेण तदेव विपुलीकृतम् ॥९३॥
न गायत्र्याः परो धर्मो न गायत्र्याः परं तपः ।
न गायत्र्याः समो देवो न गायत्र्याः परो मनुः ॥ ९४ ॥
गातारं त्रायते यस्माद्गायत्री तेन सोच्यते ।
साऽत्र भागवते देवी सरहस्या प्रतिष्ठिता ॥ ९५ ॥
अतो भागवतस्यास्य देव्याः प्रीतिकरस्य च ।
महांत्यपि पुराणानि कलां नार्हंति षोडशीम् ॥९६॥
श्रीमद्भागवतं पुराणममलं यद्ब्राह्मणानां धनं
धर्मो धर्मसुतेन यत्र गदितो नारायणेनामलः ।
गायत्र्याश्च रहस्यमत्र च मणिद्वीपश्च संवर्णितः
श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥९७॥
तस्मान्नास्य पुराणस्य लोकेऽन्यत्सदृशं परम् ।
अतः सदैव संसेव्यं देवीभागवतं द्विजाः ॥ ९८ ॥
यस्याः प्रभावमखिलं न हि वेद धाता नो वा हरिर्न गिरिशो न हि चाप्यनन्तः ।
अंशांशका अपि च ते किमुतान्यदेवास्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥ ९९ ॥
यत्पादपंकजरजः समवाप्य विश्वं ब्रह्मा सृजत्यनुदिनं च बिभर्ति विष्णुः ।
रुद्रश्च संहरति नेतरथा समर्थास्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥ १०० ॥
सुधाकूपारांतस्त्रिदशतरुवाटी विलसिते मणिद्वीपे चिन्तामणिमयगृहे चित्ररुचिरे ।
विराजन्तीमम्बां परशिवहृदि स्मेरवदनां नरो ध्यात्वा भोगं भजति खलु मोक्षं च लभते ॥ १०१ ॥
ब्रह्मेशाच्युतशक्राद्यैर्महर्षिभिरुपासिता।
जगतः श्रेयसे साऽस्तु मणिद्वीपाधिदेवता ॥ १०२॥
इति श्रीस्कन्दपुराणे मानसखण्डे देवीभागवतमाहात्म्ये वणविधिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
समाप्तमिदं स्कान्दीयं श्रीमद्देवीभागवतमाहात्म्यम् ।