देवीभागवतपुराणम्/माहात्म्यम्/अध्यायः ३
अध्यायः ३
सूत उवाच।
अथेतिहासमन्यच्च शृणुध्वं मुनिसत्तमाः ।
देवीभागवतस्यास्य माहात्म्यं यत्र गीयते ॥ १॥
एकदा कुंभयोनिस्तु लोपामुद्रापतिर्मुनिः ।
गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः ॥२॥
स तस्मै भगवान्स्कन्दः कथयामास भूरिशः ।
दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः ॥३॥
वाराणस्याश्च माहात्म्यं मणिकर्णीभवं तथा ।
गंगायाश्चापि तीर्थानां वर्णितं बहुविस्तरम् ॥४॥
श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् ।
पुनः पप्रच्छ लोकानां हितार्थं कुंभसंभवः ॥ ५ ॥
अगस्त्य उवाच।
भगवंस्तारकाराते देवीभागवतस्य तु ।
माहात्म्यश्रवणे तस्य विधिं चापि वद प्रभो ॥६॥
देवीभागवतं नाम पुराणं परमोत्तमम् ।
त्रैलोक्यजननी साक्षाद्गीयते यत्र शाश्वती ॥७॥
स्कन्द उवाच।
श्रीभागवतमाहात्म्यं को वक्तुं विस्तरात्क्षमः ।
शृणु संक्षेपतो ब्रह्मन्कथयिष्यामि सांप्रतम् ॥८॥
या नित्या सच्चिदानन्दरूपिणी जगदम्बिका ।
साक्षात्समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी ॥९॥
अतस्तद्वाङ्मयी मूर्तिर्देवीभागवते मुने ।
पठनाच्छ्रवणाद्यस्य न किंचिदिह दुर्लभम् ॥ १० ॥
आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः ॥ ११ ॥
होतारं प्रार्थयामास श्रद्धाऽथ दयिता मनोः ।
कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम् ॥ १२॥
मनसा चिन्तयन्होता कन्यामेवाजुहोद्धविः ।
ततस्तद्व्यभिचारेण कन्येला नाम चाभवत् ॥ १३॥ ॥१३॥
अथ राजा सुतां दृष्ट्वा प्रोवाच विमना गुरुम् ।
कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव ॥ १४॥
तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम् ।
ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया ॥ १५ ॥
मुनेस्तपःप्रभावाच्च परेशानुग्रहात्तथा ।
पश्यतां सर्वलोकानामिला पुरुषतामगात् ॥ १६ ॥
गुरुणा कृतसंस्कारः सुद्युम्नोऽथ मनोः सुतः ।
निधिर्बभूव विद्यानां सरितामिव सागरः ॥१७॥
अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च ।
मृगयार्थं वनं यातो हयमारुह्य सैन्धवम् ॥१८॥
वनाद्वनांतरं गच्छन्बहु बभ्राम सानुगः ।
दैवादधस्ताद्धेमाद्रेः स कुमारो वनं ययौ ॥ १९ ॥
कस्मिंश्चित्समये यत्र भार्ययाऽपर्णया सह ।
अरमद्देवदेवस्तु शङ्करो भगवान्मुदा ॥२०।
तदा तु मुनयस्तत्र शिवदर्शनलालसाः ।
आजग्मुरथ तान्दृष्ट्वा गिरिजा व्रीडिताऽभवत् ॥ २१ ॥
रममाणौ तु तौ दृष्ट्वा गिरिशौ संशितव्रताः ।
निवृत्ता मुनयो जग्मुर्वैकुण्ठनिलयं तदा ॥२२॥
प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप ह ।
अद्यारभ्य विशेद्योऽत्र पुमान् योषिद्भवेदिति ॥ २३ ॥
तत आरभ्य तं देशं पुरुषा वर्जयंति हि ।
तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा ॥२४॥
स्त्रीभूतानुगानश्वं वडवां वीक्ष्य विस्मितः ।
अथ सा सुन्दरी योषा विचचार वने वने ॥ २५॥
एकदा सा जगामाथ बुधस्याश्रमसन्निधौ ।
दृष्ट्वा तां चारुसर्वाङ्गीं पीनोन्नतपयोधराम् ॥२६॥
बिंबोष्ठीं कुन्ददशनां सुमुखीमुत्पलेक्षणाम् ।
अनङ्गशरविद्धांगश्चकमे भगवान्बुधः ॥२७।।
सापि तं चकमे सुभ्रूः कुमारं सोमनंदनम् ।
ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा ॥२८॥
अथ कालेन कियता पुरूरवसमात्मजम् ।
स तस्यां जनयामास मित्रावरुणसंभवः ॥ २९॥
अथ वर्षेषु यातेषु कदाचित्सा बुधाश्रमे ।
स्मृत्वा स्वं पूर्ववृत्तान्तं दुःखिता निर्जगाम ह ॥३०॥
गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् ।
निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती ॥३१॥
वसिष्ठो ज्ञातवृत्तांतो गत्वा कैलासपर्वतम् ।
संपूज्य शंभुं तुष्टाव भक्त्या परमया युतः ॥ ३२ ॥
वसिष्ठ उवाच।
नमो नमः शिवायास्तु शंकराय कपर्दिने ।
गिरिजार्द्धाङ्गदेहाय नमस्ते चंद्रमौलये ॥३३॥
मृडाय सुखदात्रे ते नमः कैलासवासिने ।
नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने ॥३४॥
शिवाय शिवरूपाय प्रपन्नभयहारिणे ।
नमो वृषभवाहाय शरण्याय परात्मने ॥३५॥
ब्रह्मविष्ण्वीशरूपाय सर्गस्थितिलयेषु च ।
नमो देवाधिदेवाय वरदाय पुरारये ॥३६॥
यज्ञरूपाय यजतां फलदात्रे नमो नमः ।
गंगाधराय सूर्येन्दुशिखिनेत्राय ते नमः ॥ ३७ ॥
एवं स्तुतः स भगवान्प्रादुरासीज्जगत्पतिः ।
वृषारूढोऽम्बिकोपेतः कोटिसूर्यसमप्रभः ॥३८॥
रजताचलसंकाशस्त्रिनेत्रश्चंद्रशेखरः।
प्रणतं परितुष्टात्मा प्रोवाच मुनिसत्तमम् ॥३९॥
श्रीभगवानुवाच।
वरं वरय विप्रर्षे यत्ते मनसि वर्तते ।
इत्युक्तस्तं प्रणम्येला पुँस्त्वमभ्यर्थयन्मुनिः ॥ ४० ॥
अथ प्रसन्नो भगवानुवाच मुनिसत्तमम् ।
मासं पुमान्स भविता मासं नारी भविष्यति ॥ ४१ ॥
इति प्राप्य वरं शंभोर्महर्षिर्जगदम्बिकाम् ।
वरदानोन्मुखीं देवीं प्रणनाम महेश्वरीम् ॥ ४२ ॥
कोटिचंद्रकलाकान्तिं सुस्मितां परिपूज्य च ।
तुष्टाव भक्त्या सततमिलायाः पुंस्त्वकाम्यया ४३ ॥
जय देवि महादेवि भक्तानुग्रहकारिणि ।
जय सर्वसुराराध्ये जयानंतगुणालये ॥४४॥
नमो नमस्ते देवेशि शरणागतवत्सले ।
जय दुर्गे दु:खहंत्रि दुष्टदैत्यनिषूदिनि ॥ ४५ ॥
भक्तिगम्ये महामाये नमस्ते जगदम्बिके ।
संसारसागरोत्तारपोतीभूतपदाम्बुजे ॥४६॥
ब्रह्मादयोऽपि विबुधास्त्वत्पादांबुजसेवया ।
विश्वसर्गस्थितिलयप्रभुत्वं समवाप्नुयुः ॥ ४७ ॥
प्रसन्ना भव देवेशि चतुर्वर्गप्रदायिनि ।
कस्त्वां स्तोतुं क्षमो देवि केवलं प्रणतोऽस्म्यहम् ४८॥
एवं स्तुता भगवती दुर्गा नारायणी परा ।
भक्त्या वसिष्ठमुनिना प्रसन्ना तत्क्षणादभूत् ॥४९ ॥
तदोवाच महादेवी प्रणतार्तिहरी मुनिम् ।
सुद्युम्नभवनं गत्वा कुरु भक्त्या मदर्चनम् ॥५०॥
सुद्युम्नं श्रावय प्रीत्या पुराणं मत्प्रियंकरम् ।
देवीभागवतं नाम नवाहोभिर्द्विजोत्तम ॥ ५१॥
श्रवणादेव सततं पुंस्त्वमस्य भविष्यति ।
इत्युक्त्वा च तिरोधानं गच्छतःस्म शिवेश्वरौ ॥ ५२ ॥
वसिष्ठस्तां दिशं नत्वा समागत्याश्रमं निजम् ।
समाहूय च सुद्युम्नं देव्याराधनमादिशत् ॥ ५३॥
आश्विनस्य सिते पक्षे संपूज्य जगदंबिकाम् ।
नवरात्रविधानेन श्रावयामास भूपतिम् ॥५४ ॥
श्रुत्वा भक्त्यापि सुद्युम्नः श्रीमद्भागवतामृतम् ।
प्रणम्याभ्यर्च्य च गुरुं लेभे पुंस्त्वं निरंतरम् ५५ ॥
राज्यासनेऽभिषिक्तस्तु वसिष्ठेन महर्षिणा ।
भुवं शशास धर्मेण प्रजाश्चैवानुरंजयन् ॥ ५६ ॥
ईजे च विविधैर्यज्ञैः संपूर्णवरदक्षिणैः ।
पुत्रेषु राज्यं संदिश्य प्राप देव्याः सलोकताम् ॥ ५७ ॥ ॥
इति कथितमशेषं सेतिहासं च विप्रा यदि पठति सुभक्त्या मानवो वा शृणोति ।
स इह सकलकामान्प्राप्य देव्याः प्रसादात्परममृतमथान्ते याति देव्याः सलोकम् ॥५८॥
इति श्रीस्कन्दपुराणे मानसखण्डे देवीभागवतमाहात्म्ये तृतीयोऽध्यायः ॥ ३ ॥