दिव्यावदानम्/अवदानम् २५१-३००

विकिस्रोतः तः
← अवदानम् २०१-२५० दिव्यावदानम्
अवदानम् २५१-३००
[[लेखकः :|]]
अवदानम् ३०१-३५० →

२५१.००१. <२५१>दृष्टस्त्वा ज्वलितकाञ्चनतुल्यवर्णः शास्ता ममाप्रतिसमः शरदेन्दुवक्त्रः।
२५१.००३. आख्याहि मे दशबलस्य गुणैकदेशं तत्कीदृशी वद भवन् सुगते तदानीम्॥५२॥
२५१.००५. कालिक उवाच--न शक्यं विग्भिः संप्रकाशयितुम्।
२५१.००५. अपि तु संक्षेपं शृणु--
२५१.००६. चरणतलपराहता सशैला अवनिस्तदा प्रचचाल षट्विकारम्।
२५१.००८. रविकिरणप्रभाधिका नृलोके सुगतशशिद्युतिसंनिभा मनोज्ञा॥५३॥
२५१.०१०. यावद्राजा चैत्यं प्रतिष्ठाप्य प्रक्रान्तः।
२५१.०१०. अथ स्थविरोपगुप्तो राजानं बोधिमूलमुपनामयित्वा दक्षिणं करमभिप्रसार्योवाच--अस्मिन् प्रदेशे महाराज बोधिसत्त्वेन महामैत्रीसहायेन सकलं मारबलं जित्वा अनुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धा।
२५१.०१२. आह च--
२५१.०१३. इह मुनिवृषभेण बोधिमूले नमुचिबलं विकृतं निरस्तमाशु।
२५१.०१५. इदममृतमुदारमग्र्यबोधिं ह्यधिगतमप्रतिपुद्गलेन तेन् ।५४॥
२५१.०१७. यावद्राज्ञा बोधौ शतसहस्रं दत्तम्।
२५१.०१७. चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः।
२५१.०१७. अथ स्थविरोपगुप्तो राजानमशोकमुवाच--अस्मिन् प्रदेशे भगवांश्चतुर्णां महाराजानां सकाशाच्चत्वारि शैलमयानि पात्राणि ग्रहायैकं पात्रमधिमुक्तम्।
२५१.०१९. अस्मिन् प्रदेशे त्रपुषभिल्लिकयोर्वणिजोरपि पिण्डपात्रः प्रतिगृहीतः।
२५१.०२०. अस्मिन् प्रदेशे भगवान् वारणसीमभिगच्छन्नुपगेनाजीविकेन संस्तुतः।
२५१.०२१. यावत्स्थविरो राजानमृषिवदन(पतन?)मुपनीय दक्षिणं हस्तमभिप्रसार्योवाच--अस्मिन् प्रदेशे महाराज भगवता त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्जिततम्।
२५१.०२३. आह च--
२५१.०२४. शुभं धर्ममयं चक्रं संसारविनिवर्तय्
२५१.०२५. अस्मिन् प्रदेशे नाथेन प्रवर्जितमनुत्तरम्॥५५॥
२५१.०२६. अस्मिन् प्रदेशे जटिलसहस्रं प्रव्रजितम्।
२५१.०२६. अस्मिन् प्रदेशे राज्ञो बिम्बिसारस्य धर्मं देशितम्।
२५१.०२७. राज्ञा च बिम्बिसारेण सत्यानि दृष्टानि, अशीतिभिश्च देवतासहस्रैरनेकैश्च मागधकैर्ब्राह्मणगृहपतिसहस्रैः।
२५१.०२८. अस्मिन् प्रदेशे भगवता शक्रस्य देवेन्द्रस्य धर्मो देशितः, शक्रेण च सत्यानि दृष्टान्यशीतिभिश्च देवतासहस्रैः।
२५१.०२९. अस्मिन् प्रदेशे महाप्रातिहार्यं विदर्शितम्।
२५१.०३०. अस्मिन् प्रदेशे भगवान् देवेषु त्रायस्त्रिंशोषु वर्षा मातुर्जनयित्र्या धर्मम् <२५२>देशयित्वा देवगणपरिवृतोऽवतीर्णः।

२५२.००१. विस्तरेण यावत्स्थविरो राजानमशोकं कुशिनगरीमुपनामयित्वा दक्षिणं करतलमभिप्रसार्योवाच--अस्मिन् प्रदेशे महाराज भगवान् सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिवृतः।
२५२.००३. आह च--
२५२.००४. लोकं सदेवमनुजासुरयक्षनागमक्षय्यधर्मविनये मतिमान् विनीय्
२५२.००५. वैनेयसत्त्वविरहानुपशान्तबुद्धिः शान्तिं गतः परमकारुणिको महर्षिः॥५६॥
२५२.००८. श्रुत्वा च राजा मूर्छितः पतितः।
२५२.००८. यावज्जलपरिषेकं कृत्वोत्थापितः।
२५२.००८. अथ राजा कथंचित्संज्ञामुपलभ्य परिविर्वाणे शतसहस्रं दत्वा चैत्यं प्रतिष्ठाप्य पादयोर्निपत्योवाच--स्थविर, अयं मे मनो रथह्--ये च भगवता श्रावका अग्रतायां निर्दिष्टाः, तेषां शरीरपूजां करिष्यामीति।
२५२.०११. स्थविर उवाच--साधु साधु महाराज्
२५२.०११. शोभनस्ते चित्तोत्पादः।
२५२.०११. स्थविरो राजानमशोकं जेतवनं प्रवेशयित्वा दक्षिणं करमभिप्रसार्योवाच--अयं महाराज स्थविरशारिपुत्रस्य स्तूपः।
२५२.०१३. त्रियतामस्यार्चनामिति।
२५२.०१३. राजा आह--के तस्य तस्य गुणा बभूवह्? स्थविर उवाच--स हि द्वितीयशास्ता धर्मसेनाधिपतिर्धर्मचक्रपरवर्तनः प्रज्ञावतामग्रो निर्दिष्टो भगवता।
२५२.०१६. सर्वलोकस्य या प्रज्ञा स्थापयित्वा तथागतम्।
२५२.०१७. शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशीम्॥५७॥
२५२.०१८. आह च--
२५२.०१९. सद्धर्मचक्रमतुलं यज्जिनेन प्रवर्तितम्।
२५२.०२०. अनुवृत्तं हि तत्तेन शारिपुत्रेण धीमता॥५८॥
२५२.०२१. कस्तस्य साधु बुद्धान्यः पुरुषः शारद्वतस्येह्
२५२.०२२. ज्ञात्वा गुणगणनिधिं वक्तुं शक्नोति निरवशेषात् ॥५९॥
२५२.०२३. ततो राजा प्रीतमनाः स्थविरशारद्वतीपुत्रस्तूपे शतसहस्रं दत्वा कृताज्ञलिरुवाच--
२५२.०२४. शारद्वतीपुत्रमहं भक्त्या वन्दे विमुक्तभवसङ्गम्।
२५२.०२५. लोकप्रकाशकीर्ति ज्ञानवतामुत्तमं वीरम्॥६०॥
२५२.०२६. यावत्स्थविरोपगुप्तः स्थविरमहामौद्गल्यायनस्य स्तूपमुपदर्शन्नुवाच--इदं महाराज स्थविरमहामौद्गल्यायनस्य स्तूपम्।
२५२.०२७. त्रियतामस्यार्चनमिति।
२५२.०२७. राजा आह--के तस्य गुणा बभूवुरिति? स्थविर उवाच--स हि ऋद्धिमतामग्रो निर्दिष्टो भगवता, येन दक्षिणेन पादाङ्गुष्ठेन शक्रस्य देवेन्द्रस्य वैजयन्तः प्रासादः प्रकम्पितः, नन्दोपनन्दौ नागराजानौ विनीतौ।
२५२.०३०. आह च--

२५३.००१. <२५३>शक्रस्य येन भवनं पादाङ्गुष्ठेन कम्पितम्।
२५३.००२. पूजनीयः प्रयत्नेन कोलितः स द्विजोत्तम्॥६१॥
२५३.००३. भुजगेश्वरौ प्रतिभयौ दान्तौ तौ यनातिदुर्गमौ।
२५३.००४. लोके कस्तस्य शुद्धबुद्धेः पारं गच्छेद्गुणार्णवस्य् ।६२॥
२५३.००५. यावद्राजा महामौद्गल्यायनस्य स्तूपे शतसहस्रं दत्वा कृताञ्जलिरुवाच--
२५३.००६. ऋद्धिमतामग्रो यो जन्मजराशोकदुःखनिर्मुक्तः।
२५३.००७. मौद्गल्यायनमहं वन्दे मूर्ध्ना प्रणिपत्य विख्यातम्॥६३॥
२५३.००८. यावत्स्थविरोपगुप्तः स्थविरमहाकाश्यपस्य स्तूपम्....।
२५३.००८. त्रियतामस्यार्चनमिति।
२५३.००८. राजा आह--के तस्य गुणा बभूवह्? स्थविर उवाच--स हि महात्मा अल्पेच्छानां संतुष्टानां धुतगुणवादितामग्रो निर्दिष्टो भगवता, अर्धासनेनोपनिमन्त्रितः, श्वेतचीवरेणाच्छादितः, दीनातुरग्राहकः शास्तनसंधारकश्चेति।
२५३.०११. आह च--
२५३.०१२. पुण्यक्षेत्रमुदारं चीनातुरग्राहको निरायासः।
२५३.०१३. सर्वज्ञचीवरधरः शासनसंधारको मतिमान्॥६४॥
२५३.०१४. कस्तस्य गुरोर्मनुजो वक्तुं शक्तो गुणान्निरवशेषान्।
२५३.०१५. आसनवरस्य सुमतिर्यस्य जनो दत्तवानर्धम्॥६५॥
२५३.०१६. ततो राजा अशोकः स्थविरमहाकाश्यपस्य स्तूपे दत्वा कृताञ्जलिरुवाच--
२५३.०१७. पर्वतगुहानिलायं वैरपरान्मुखं प्रशमयुक्तम्।
२५३.०१८. संतोषगुणविवृद्धं वन्दे खलु काश्यपं स्थविरम्॥६६॥
२५३.०१९. यावत्स्थविरोपगुप्तः स्थविरवत्कुलस्य स्तूपं दर्शयन्नुवाच--इदं महाराज स्थविरबत्कुलस्य स्तूपम्।
२५३.०२०. त्रियतामर्चनमिति।
२५३.०२०. राजा आह--के तस्य गुणा बभूवुरिति? स्थविर उवाच--स महात्मा अल्पाबाधानामग्रो निर्दिष्टो भगवता।
२५३.०२१. अपि च्
२५३.०२१. न तेन कस्यचिद्द्वीपदिका गाथा श्रावती।
२५३.०२२. राजा आह--दीयतामत्र काकणिः।
२५३.०२२. यावदमात्यैरभिहितह्--देव, किमर्थं तुल्येष्ववस्थितेष्वत्र काकाणी दीयत इति? राजा आह--श्रूयतामत्राभिप्रायो मम--
२५३.०२४. आज्ञाप्रदीपेन मनोगृहस्थं हतं तमो यद्यपि कृतं हि तेन यथा कृतं सत्त्वहितं तदन्यैः॥६७॥
२५३.०२८. सा प्रत्याहता तस्यैव राज्ञः पादमूले निपतिता।
२५३.०२८. यावदमात्या विस्मिता ऊचुह्--अहो तस्य महात्मनोऽल्पेच्छता बभूव्
२५३.०२९. अनयाप्यनर्थी।
२५३.०२९. यावत्स्थविरोपगुप्तः स्थविरानन्दस्य स्तूपमुपदर्शयन्नुवाच--इदं स्थविरानन्दस्य स्तूपम्।
२५३.०३०. त्रियतामस्यार्चनमिति।
२५३.०३०. राजा आह--के तस्य गुणा बभूवुरिति।
२५३.०३१. स्थविर उवाच--स हि भगवत उपस्थायको बभुव, बहुश्रुतानामग्र्यः प्रवचनग्राहकश्चेति।
२५३.०३२. आह च--

२५४.००१. <२५४>मुनिपत्ररक्षणपटुः स्मृतिधृतिमतिनिश्चितः श्रुतसमुद्रः।
२५४.००२. विस्पष्टमधुरवचनः सुरनरमहितः सदानन्दः॥६८॥
२५४.००३. संबुद्धचित्तकुशलः सर्वत्र विचक्षणो गुणकरण्डः।
२५४.००४. जिनसंस्तुतो जितरणो सुरनरमहितः सदानन्दः॥६९॥
२५४.००५. यावद्राज्ञा तस्य स्तूपे कोटिर्दत्ता।
२५४.००५. यावदमात्यैरभिहितह्--किमर्थमयं देव सर्वेषां सकाशादधिकतरं पूज्यते? राजा आह--श्रूयतामभिप्रायह्--
२५४.००७. यत्तच्छरीरं वदतां वरस्य धर्मात्मनो धर्ममयं विशुद्धम्।
२५४.००९. तद्धारितं तेन विशोकनांना तस्माद्विशेषेण स पूजनीयः॥७०॥
२५४.०११. धर्मप्रदीपो ज्वलति प्रजासु क्लेशान्धकारान्तकरो यदद्य्
२५४.०१३. तत्तत्प्रभावात्सुगतेन्द्रसूनोस्तस्माद्विशेषेण स पूजनीयः॥७१॥
२५४.०१५. यदा समुद्रं सलिलं समुद्रे कुर्वीत कश्चिन्न हि गोष्पदेन्
२५४.०१७. नाथेन तद्धर्ममवेक्ष्य भावं सूत्रान्तकोऽयं स्थविरेऽभिषिक्तः॥७२॥
२५४.०१९. अथ राजा स्थविराणां स्तूपार्चनं कृत्वा स्थविरोपगुप्तस्य पादयोर्निपत्य प्रीतिमना उवाच--
२५४.०२१. मानुष्यं सफलीकृतं क्रतुशतैरिष्टेन संप्राप्यते राज्यैश्वर्यगुणैश्चलैश्च विभवैः सारं गृहीतं परम्।
२५४.०२३. लोकं चैत्यशतैरलंकृतमिदं श्वेताभ्रकूटप्रभैरस्याद्याप्रतिमस्य शासनमिदं किं नः कृतं दुष्करम्॥७३॥ इति।
२५४.०२५. यावद्राजा स्थविरोपगुप्तस्य प्राणामं कृत्वा प्रक्रान्तः॥
२५४.०२६. यावद्राज्ञा अशोकेन जातौ बोधौ धर्मचक्रे परिनिर्वाणे एकैकशतसहस्रं दत्तम्, तस्य बोधौ विशेषतः प्रसादो जातह्--इह भगवतानुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धेति।
२५४.०२७. स यानि विशेषयुक्तानि रत्नानि, तानि बोधिं प्रेषयति।
२५४.०२८. अथ राज्ञोऽशोकस्य तिष्यरक्षिता नाम अग्रमहिषी।
२५४.०२९. तस्या बुद्धिरुत्पन्ना--अयं राजा मया सार्धं रतिमनुभवति, विशेषयुक्तांश्च(क्रानि च) रत्नानि बोधौ प्रेषयति।
२५४.०३०. तया मातङ्गी व्याहरिता--शक्यसि त्वं बोधिं मम सपत्नीं प्रघातितुम्? तयाभिहितम्--शक्ष्यामि, किं तु कार्षापणान् देहीति।
२५४.०३१. यावन्मातङ्ग्या बोधिवृक्षो मन्त्रैः परिजप्तः, सूत्रं च बुद्धम्।
२५४.०३२. यावद्बोधिमृक्षः शुष्कितुमारब्धः।
२५४.०३२. ततो राजपुरुषै राज्ञे निवेदितम्--देव, बोधिवृक्षः शुष्यत इति।
२५४.०३३. आह च--

२५५.००१. <२५५>यत्रोपविष्टेन तथागतेन कृत्स्नं जगद्बुद्धमिदं यथावत् ।
२५५.००३. सर्वज्ञता चाधिगता नरेन्द्र बोधिद्रुमोऽसौ निधनं प्रयाति॥७४॥
२५५.००५. श्रुत्वा च राजा मूर्च्छितो भूमौ पतितः।
२५५.००५. यावज्जलसेकं दत्त्वोत्थापितः।
२५५.००५. अथ राजा कथंचित्संज्ञामुपलभ्य प्ररुदन्नुवाच--
२५५.००७. दृष्ट्वान्वहं तं द्रुमराजमूलं जानामि दृष्टोऽद्य मया स्वयम्भूः।
२५५.००९. नाथद्रुमे चैव गते प्रणाशं प्राणाः प्रयास्यन्ति ममापि नाशम्॥५९॥
२५५.०११. अथ तिष्यरक्षिता राजानं शोकार्तमवेक्ष्योवाच--देव, यदि बोधिर्न भविष्यति, अहं देवस्य रतिमुत्पादयिष्यामि।
२५५.०१२. राजा आह--न सा स्त्री, अपि तु बोधिवृक्षः सः।
२५५.०१२. तत्र भगवता अनुत्तरा सम्यक्सम्बोधिरधिगता।
२५५.०१३. तिष्यरक्षिता मातङ्गीमुवाच--शक्यसि त्वं बोधिवृक्षं यथापौराणमवस्थापितुम्? मातङ्गी आह--यदि तावत्प्राणान्तिकावशिष्टा भविष्यति, यथापौराणमवस्थापयिष्यामीति।
२५५.०१५. विस्तरेण यावतया सूत्रं मुक्त्वा वृक्षसामन्तेन खनित्वा दिवसे क्षीरकुम्भसहस्रेण पाययति।
२५५.०१६. यावदल्पैरहोभिर्यथापौराणः संवृत्तः।
२५५.०१६. ततो राजपुरुषै राज्ञे निवेदितम्--देव, दिष्ट्या वर्धस्व, यथापौराणः संवृत्तः।
२५५.०१७. श्रुत्वा च प्रीतमना बोधिवृक्षं निरीक्षमाण उवाच--
२५५.०१९. बिम्बिसारप्रभृतिभिः पार्थिवेन्द्रैर्द्युतिंधरैः।
२५५.०२०. न कृतं तत्करिष्यामि सत्कारद्वयमुत्तमम्॥७६॥
२५५.०२१. बोधिं च स्नापयिष्यामि कुम्भैर्गन्धोदकाकुलैः।
२५५.०२२. आर्यसंघस्य च करिष्यामि सत्कारं पञ्चवार्षिकम्॥७७॥
२५५.०२३. अथ राजा सौवर्णरूप्यवैडूर्यस्फटिकमयानां कुम्भानां सहस्रं गन्धोदकेन पूरयित्वा प्रभूतं चान्नपानं समुद्रानीय गन्धमाल्यपुष्पसंचयं कृत्वा स्नात्वा आहतानि वासांसि नवानि दीर्घदशानि प्रावृत्य अष्टाङ्गसमन्वागतमुपवासमुपोष्य धूपकटच्छुकमादाय शरणतलमभिरुह्य चतुर्दिशमायाचितुमारब्धह्--ये भगवतो बुद्धस्य श्रावकास्ते ममानुग्रहायागच्छन्तु।
२५५.०२६. अपि च--
२५५.०२७. सम्यग्गता ये सुगतस्य शिष्याः शान्तेन्द्रिया निर्जितकामदोषाः।
२५५.०२९. संमाननार्हा नरदेवपूजिता आयान्तु तेऽस्मिन्ननुकम्पया मम् ।७८॥

२५६.००१. <२५६>प्रशमदमरता विभुक्तसंगाः प्रवरसुताः सुगतस्य धर्मराज्ञः।
२५६.००३. असुरसुरनरार्चितार्यवृत्तास्त्विह मदनुग्रहणात्समभ्युपैन्तु॥७९॥
२५६.००५. वसन्ति काश्मीरपुरे सुरम्ये ये चापि धीरास्तमसावनेऽस्मिन्।
२५६.००७. महावने रेवतके रयेऽर्या अनुग्रहार्यं मम तेऽभ्युपेयुः॥८०॥
२५६.००९. अनवतप्तहृदे निवसन्ति ये गिरिनदीषु सपर्वतकन्दरेषु।
२५६.०११. जिनसुताः खलु ध्यानरताः सदा समुदयान्त्विह तेऽद्य कृपाबलाः॥८१॥
२५६.०१३. शैरीषके ये प्रवरे विमाने वसन्ति पुत्रा वदतां वरस्य्
२५६.०१५. अनुग्रहार्थं मम ते विशोका ह्यायन्तु कारुण्यनिविष्टभावाः॥८२॥
२५६.०१७. गन्धमादनशैले च ये वसन्ति महौजसः।
२५६.०१८. इहायान्तु कारुण्यमुत्पाद्योपनिमन्त्रिताः॥८३॥
२५६.०१९. एवमुक्ते च राज्ञा त्रीणि शतसहस्राणि भिक्षूणां संनिपतितानि।
२५६.०१९. तत्रैकं शतसहस्राणामर्हतां शैक्षाणां पृथग्जनकल्याणकानां च्
२५६.०२०. न काश्चिद्वृद्धासनमाक्रम्यते स्म्
२५६.०२०. राजा आह--किमर्थं वृद्धासनं तन्नाक्रम्यते? तत्र यशो नांना वृद्धः षडभिज्ञः।
२५६.०२२. स उवाच--महाराज, वृद्धस्य तदासनमिति।
२५६.०२२. राजा आह--अस्ति स्थविर त्वत्सकाशादन्यो वृद्धतर इति? स्थविर उवाच--अस्ति महाराज--
२५६.०२४. वदतां वरेण वशिना निर्दिष्टः सिंहनादिनामग्र्यः।
२५६.०२५. पिण्डोलभरद्वाजस्यैतदग्रासनं नृपत् ।८४॥
२५६.०२६. अथ राजा कदम्बपुष्पवदाहृष्टरोमकूपः कथयति--अस्ति कश्चिद्बुद्धदर्शी भिक्षुर्ध्रियत इति? स्थविर उआच--अस्ति महाराज पिण्डोलभरद्वाजो नांना बुद्धदर्शी तिष्ठत इति।
२५६.०२८. राजा कथयति--स्थविर, शक्यः सोऽस्माभिर्द्रष्टुमिति? स्थविर उवाच--महाराज, इदानीं द्रक्ष्यसि।
२५६.०२९. अयं तस्यागमनकाल इति।
२५६.०२९. अथ राजा प्रीतमना उवाच--

२५७.००१. <२५७>लाभः परः स्यादतुलो ममेह महासुखश्चायमनुत्तमश्च्
२५७.००३. पश्याम्यहं यत्तमुदारसत्त्वं साक्षाद्भरद्वाजसगोत्रनामम्॥८५॥
२५७.००५. ततो राजा कृतकरपुटो गगनतलावसक्तदृष्टिरवस्थितः।
२५७.००५. अथ स्थविरपिण्डोलभरद्वाजोऽनेकैरर्हत्सहस्रैरर्धचन्द्राकारेणोपगूढो राजहंस इव गगनतलादवतीर्य वृद्धान्ते निषसाद्
२५७.००७. स्थविरपिण्डोलभरद्वाजं दृष्ट्वा नान्यनेकानि भिक्षुशतसहस्राणि प्रत्युपस्थितानि।
२५७.००८. अद्राक्षीद्राजा पिण्डोलभरद्वाजं श्वेतपलितशिरसं प्रलम्बभ्रूललाटं निगूढाक्षितारकं प्रत्येकबुद्धाश्रयम्।
२५७.००९. दृष्ट्वा च राजा मूलनिकृत्त इव द्रुमः सर्वशरीरेण स्थविरपिण्डोलभरद्वाजस्य पादयोः पतितः।
२५७.०१०. मुखतुण्डकेन च पादावनुपरिमार्ज्य उत्थाय तौ जानुमण्डलौ पृथिवीतले प्रतिष्ठाप्य कृताञ्जलिः स्थविरपिण्डोलभरद्वाजं निरीक्षमाणः प्ररुदन्नुवाच--
२५७.०१२. यदा मया शत्रुगणान्निहत्य प्राप्ता समुद्राभरणा सशैला।
२५७.०१४. एकातपुत्रा पृथैवी तदा मे प्रीतिर्न या मे स्थविरं निरीक्ष्य् ।८६॥
२५७.०१६. त्वद्दर्शनाद्भवति।
२५७.०१६. दृष्टोऽद्य तथागतः।
२५७.०१६. करुणालाभात्र्वद्दर्शनाच्च द्विगुणप्रसादो ममोत्पन्नः।
२५७.०१७. अपि च स्थविर दृष्टस्ते त्रैलोक्यनाथो गुरुर्मे भगवान् बुद्ध इति? ततः स्थविरपिण्डोलभरद्वाज उभाभ्यां पाणिभ्यां भ्रुवमुन्नाम्य राजानमशोकमुवाच--
२५७.०१९. दृष्टो मया ह्यसकृदप्रतिमो महर्षिः संतप्तकाञ्चनसमोपमतुल्यतेजाः।
२५७.०२१. द्वात्रिशल्लक्षणधरः शरदिन्दुवक्त्रो ब्राह्मस्वराधिकरणो ह्यरणाविहारी॥८७॥
२५७.०२३. राजा आह--स्थविर, कुत्र ते भगवान् दृष्टः, कथं चेति? स्थविर उवाच--यदा महाराज भगवान् विजितमारपरिवारः पञ्चभिरर्हच्छतैः सार्धं प्रथमतो राजगृहे वर्षामुपगतः, अहं तत्कालं तत्रैवासम्।
२५७.०२५. मया स दक्षिणीयः सम्यग्दृष्ट इति।
२५७.०२५. आह च--
२५७.०२६. वीतरागैः परिवृतो वीतरागओ महामुनिः।
२५७.०२७. यदा राजगृहे वर्षा उषितः स तथागतः॥८८॥
२५७.०२८. तत्कालमासं तत्राहं संबुद्धस्य तदन्तिक्
२५७.०२९. यथा पश्यसि मां साक्षादेवं दृष्टो मया मिनिः॥८९॥
२५७.०३०. यदापि महाराज भगवता श्रावस्त्यां तीर्थ्यान् बिजयार्थं विजयार्थं महाप्रातिहार्यं कृतम्, बुद्धावतंसकं यावदकनिष्ठभवनं निर्मितं महन्, तत्कालं तैत्रैवाहमासम्।
२५७.०३१. मया तद्बुद्धविक्रीडितं दृष्टमिति।
२५७.०३२. आह च--

२५८.००१. तीर्थ्या यदा भगवता कुपथप्रयाता ऋद्धिप्रभावविधिना खलु निर्गृहीताः।
२५८.००३. विक्रीडितं दशबलस्य तदां ह्युदारं दृष्टं मया तु नृप हर्षकरं प्रजानाम्॥१०॥
२५८.००५. यदापि महाराज भगवता देवेषु त्रायस्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः सांकाश्ये नगरेऽवतीर्णः, अहं तत्कालं तत्रैवासम्। मया सा देवमनुष्यसम्पदा दृष्टा, उत्पलवर्णया च निर्मिता चक्रवर्तिसम्पदा इति।
२५८.००७. आह च--
२५८.००८. यदावतीर्णो वदतां वरिष्ठो वर्षामुषित्वा खलु देवलोक्
२५८.०१०. तत्राप्यहं संनिहितो बभूव दृष्टो मयासौ मुनिरग्रसत्त्वः॥९१॥
२५८.०१२. यदा महाराज सुमागधया अनाथपिण्डददुहित्र्या उपनिमन्त्रितः पञ्चभिरर्हच्छतैः सार्धमृद्ध्या पुण्ड्रवर्धनं गतः, तदाहं पर्वतशैलं ग्रहाय गगनतलमाक्रम्य पुण्ड्रवर्धनं गतः।
२५८.०१४. तन्निमित्तं च मे भगवता आज्ञाक्षिप्ता--न तावत्ते परिनिर्वातव्यं यावद्धर्मो नान्तर्हित इति।
२५८.०१५. आह च--
२५८.०१६. यदा जगामर्द्धिबलेन नायकः सुमागधयोपनिमन्त्रितो गुरुः।
२५८.०१८. तदा गृहीत्वार्धबलेन शैलं जगाम तूर्णं खलु पुण्ड्रवर्धनम्॥९२॥
२५८.०२०. आज्ञा तदा शाक्यकुलोदितेन दत्ता च मे कारुणिकेन तेन्
२५८.०२२. तावन्न ते निर्वृतिरभ्युपेया अन्तर्हितो यावदयं न धर्मः॥९३॥
२५८.०२४. यदापि महाराज त्वया पूर्वं बालभावाद्भगवतो राजगृहं पिण्डाय प्रविष्टस्य सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तः, राधगुप्तेन चानुमोदितम्, त्वं न भगवता निर्दिष्टह्--अयं दारको वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरे अशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा, यो मे शरीरधातुकं वैस्तारिकां करिष्यति, चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति, अहं तत्कालं तत्रैवासीत् ।
२५८.०२८. आह च--
२५८.०२९. यदा पांश्वञ्जलिर्दत्तस्त्वया बुद्धस्य भाजन्
२५८.०३०. बालभावात्प्रसादित्वा तत्रैवाहं तदाभवम्॥९४॥

२५९.००१. <२५९>राजा आह--स्थविर, कुत्रेदानीमुष्यत इति? स्थविर उवाच--
२५९.००२. उत्तरे सरराजस्य पर्वते गन्धमादन्
२५९.००३. वसामि नृपते तत्र सार्धं सब्रह्मचारिभिः॥९५॥
२५९.००४. राजा आह--कियन्तः स्थविरस्य परिवाराह्? स्थविर उवाच--
२५९.००५. षष्ट्यर्हन्तः सहस्राणि परिवारो नृणां वर्
२५९.००६. वसामि यैरहं सार्धं निस्पृहैर्जितकल्मषैः॥९६॥
२५९.००७. अपि च महाराज, किमनेन संदेहेन कृतेन? परिविष्यतां भिक्षुसंघः।
२५९.००७. भुक्तवतो भिक्षुसंघस्य प्रतिसंमोदनां करिष्यामि।
२५९.००८. राजा आह--एवमस्तु, यथा स्थविर आज्ञापयति।
२५९.००९. किं तु बुद्धस्मृतिप्रतिबोधितोऽहं बोधिस्नपनं तावत्करिष्यामि।
२५९.००९. समनन्तरं च मनापेन चाहारेण भिक्षुसंघमुपस्थास्यामीति।
२५९.०१०. अथ राजा सर्वमित्रमुद्धोषकमामन्त्रयति--अहमार्यसंघस्य शतसहस्रं दास्यामि, कुम्भसहस्रेण च बोधिं स्नापयिष्यामि, मम नांना धुष्यतां पञ्चवार्षिकमिति।
२५९.०१२. तत्कालं च कुणालस्य नयनद्वयमविपन्नमासीत् ।
२५९.०१२. स राज्ञो दक्षिणे पार्श्वे स्थितः।
२५९.०१३. तेनाङ्गुलिद्वयमुत्क्षिप्तम्, न तु वाग्भाषिता।
२५९.०१३. द्विगुणं त्वहं प्रसादयिष्यामीत्याकारयति।
२५९.०१४. पाणिना वर्धितमात्रे च कुणालेन सर्वजनकायेन हास्यं मुक्तम्।
२५९.०१४. ततो राजा हास्यं मुक्त्वा कथयति--अहो राधगुप्त, केनैतद्वर्धितमिति? राधगुप्तः कथयति--देव, बहवः पुण्यार्थिनः प्राणिनः।
२५९.०१६. यः पुण्यार्थी, तेन वर्धितमिति।
२५९.०१६. राजा आह--शतसहस्रत्र्यं दास्यामीत्यार्यसंघे कुम्भसहस्रेण च बोधिं स्नपयिष्यामि, मम नांना घुष्यतां पञ्चवार्षिकमिति।
२५९.०१७. यावत्कुणालेन चतस्रोऽङ्गुल्य उत्क्षिप्ताः।
२५९.०१८. ततो राजा रुषितः।
२५९.०१८. राधगुप्त्मुवाच--अहो राधगुप्त, कोऽयमस्माभिः सार्धं प्रतिद्वन्द्वयत्यलोकज्ञह्? रुषितं च राजानमवेक्ष्य राधगुप्तो राज्ञः पादयोर्निपत्योवाच--देव, कस्य शक्तिर्नरेन्द्रेण सार्धं विस्पर्धितुं भवेत्? कुणालो गुणवान्, पित्रा सार्धं विकुर्वत्
२५९.०२१. अथ राजा दक्षिणेन परिवृत्य कुणालमवलोक्योवाच--स्थविरोऽहम्।
२५९.०२१. कोशं स्थापयित्वा राज्यमन्तःपुरममात्यगणमात्मानं च कुणालं सुवर्णरूप्यस्फटिकवैडूर्यमयानां पञ्चकुम्भसहस्राणि नानागन्धपूर्णानि क्षीरचन्दनकुङ्कुमकर्पूर्वासित्रैर्महाबोधिं स्नपयिष्यामि, पुष्पशतसहस्राणि च बोधिप्रमुखे चार्यसंघे ददामि, मम नांना घुष्यतां पञ्चवार्षिकमिति।
२५९.०२४. आह च--
२५९.०२५. राज्यं समृद्धं संस्थाप्य कोशमन्तःपुराणि चामात्यगणं च सर्वम्।
२५९.०२७. ददामि संघे गुणपात्रभूते आत्मा कुणालं च गुणोपपन्नम्॥९७॥
२५९.०२९. ततो राजा पिण्डोलभरद्वाजप्रमुखे भिक्षुसंघे निर्यातयित्वा बोधिवृक्षस्य च चतुर्दिशं वारं बद्ध्वा स्वयमेव च वारमभिरुह्य चतुर्भिः कुम्भसहस्रैर्बोधिसनपनं कृतवान्।
२५९.०३०. कृतमात्रे च बोधिस्नपने बोधिवृक्षो यथापौराणः संवृत्तः।
२५९.०३१. वक्ष्यति हि--

२६०.००१. <२६०>कृतमात्रे नृपतिना बोधिस्नपनमुत्तमम्।
२६०.००२. बोधिवृक्षस्तदा जातो हरित्पल्लवकोमलः॥९८॥
२६०.००३. दृष्ट्वा हरितपत्राढ्यं पल्लवाङ्कुरकोमलम्।
२६०.००४. राजा हर्षं परं जगाम सामात्यगणनैगमः॥९९॥
२६०.००५. अथ राजा बोधिस्नपनं कृत्वा भिक्षुसंघं परिवेष्टुमारब्धः।
२६०.००५. तत्र यशो नांना स्थविरः।
२६०.००६. तेनाभिहितम्--महाराज, महानयं परमदक्षिणीय आर्यसंघः संनिपतितः, तथा ते परिवेष्टव्यं यथा ते क्षतिर्न स्यादिति।
२६०.००७. ततो राजा स्वहस्तेन परिवेषणं यावन्नवकान्तं गतः।
२६०.००७. तत्र द्वौ श्रामणेरौ संरञ्जनीयं धर्मं समादाय वर्ततः।
२६०.००८. एकेनापि सक्तवो दत्ताः, द्वितीयेनापि सक्तवः।
२६०.००९. एकेन खाद्यकाः, द्वितीयेनापि खाद्यका एव्
२६०.००९. एकेन मोदिकाः, द्वितीयेनापि मोदिकाः।
२६०.००९. तौ दृष्ट्वा राजा हसितः।
२६०.०१०. इमौ श्रामणेरौ बालक्रीडया क्रीडतः।
२६०.०१०. यावद्राज्ञा भिक्षुसंघं परिवेष्य वृद्धान्तमारूढः।
२६०.०११. स्थविरेण चानुयुक्तह्--मा देवेन कुत्रचिदप्रसादमुत्पादित इति।
२६०.०११. राजा आह--न इति।
२६०.०१२. अपि तु अस्ति द्वौ श्रामणेरौ बालक्रीडया क्रीडतः।
२६०.०१३. स्थविर उवाच--अलं महाराज, उभौ हि तौ उभयतोभागविमुक्तौ अर्हन्तौ।
२६०.०१४. श्रुत्वा च राज्ञः प्रीतिमनसो बुद्धिरुत्पन्ना--तौ श्रामणेरौ आगम्य भिक्षुसंघं पटेनाच्छादयिष्यामि।
२६०.०१५. ततस्तौ श्रामणेरौ राज्ञोऽभिप्रायमवगम्य भूयोऽन्येऽस्माभिः स्वगुणा उद्भवयितव्या इति, तयोरेकेन कटाहका उपस्थापिता, द्वितीयेन रङ्गः समुदानीतः।
२६०.०१७. राज्ञा दृष्टौ श्रामणेरकौ।
२६०.०१७. किमिदमारब्धम्? तयोरभिहितम्--देवोऽस्माकमवगम्य भिक्षुसंघं पटेनाच्छादयितुकामः।
२६०.०१८. तान् पटान् रञ्जयिष्यामः।
२६०.०१९. श्रुत्वा च राज्ञो बुद्धिरुत्पन्ना--मया केवलं चिन्तितम्, न तु वाग्निश्चारिता।
२६०.०१९. परचित्तवादौ एतौ महात्मानौ।
२६०.०२०. ततः सर्वशरीरेण पादयोर्निपत्य कृताञ्जलिरुवाच--
२६०.०२१. मौर्यः समृत्यः सजनः सपौरः सुलब्धलाभार्थसुयष्टयज्ञः।
२६०.०२३. यस्येदृशः साधुजने प्रसादः काले तथोत्साहि कृतं च दानम्॥१००॥
२६०.०२५. यावद्राज्ञा अभिहितम्--युष्माकमागम्य त्रिचीवरेण भिक्षुसंघमाच्छादयिष्यामीति।
२६०.०२६. ततो राजा अशोकः पञ्चवार्षिके पर्यवसिते सर्वभिक्षूंस्त्रिचीवरेणाच्छाद्य चत्वारि शतसहस्राणि संघस्याच्छादनं दत्वा पृथिवीमन्तःपुरममात्यगणमात्मानं च कुणालं च निष्क्रीतवान्।
२६०.०२८. भूयसा भगवच्छासने श्रद्धा प्रतिलब्धा चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितमिति॥
२६०.०२९. यस्मिन्नेव दिवसे राज्ञा अशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, तस्मिन्नेव दिवसे राज्ञोऽशोकस्य पद्मावती नांना देवी प्रसूता।
२६०.०३०. पुत्रो जातोऽभिरूपो दर्शनीयः प्रासादिकः।
२६०.०३१. नयनानि चास्य परमशोभनानि।
२६०.०३१. यावद्राज्ञोऽशोकस्य निवेदितम्--देव, दिष्ट्या वृद्धिः।
२६०.०३२. देवस्य पुत्रो जातः।
२६०.०३२. श्रुत्वा राजा आत्तमनाः कथयति--

२६१.००१. <२६१>प्रीतिः परा मे विपुला ह्यवाप्ता मौर्यस्य वंशस्य परा विभूतिः।
२६१.००३. धर्मेण राज्यं मम कुर्वतो हि जातो धर्मविवर्धनोऽस्तु॥१०१॥
२६१.००५. तस्य धर्मविवर्धन इति नाम कृतम्।
२६१.००५. यावत्कुमारो राज्ञोऽशोकस्योपनामितः।
२६१.००५. अथ राजा कुमारं निरीक्ष्य प्रीतमनाः कथयति--
२६१.००७. सुतस्य मे नेत्रवराः सुपुण्याः सुजातनीलोत्पलसंनिकाशाः।
२६१.००९. अलंकृतं शोभति यस्य वक्त्रं संपूर्णचन्द्रप्रतिमं विभाति॥१०२॥
२६१.०११. यावद्राजा अमात्यानुवाच--दृष्टानि भवद्भिः कस्येदृशानि नयनानि? अमात्या ऊचुह्--देव, मनुष्यभूतस्य न दृष्टानि, अपि तु देव, अस्ति हिमवति पर्वतराजे कुणाले नाम पक्षी प्रतिवसति, तस्य सदृशानि नयनानि।
२६१.०१३. आह च--
२६१.०१४. हिमेन्द्रराजे गिरिशैलशृङ्गे प्रवालपुष्पप्रसवे जलाढ्य्
२६१.०१६. कुणालनांनेति निवासपक्षी नेत्राणि तेनास्य समान्यमूनि॥१०३॥
२६१.०१८. ततो राज्ञा अभिहितम्--कुणालः पक्षी आनीयतामीति।
२६१.०१८. तस्योर्ध्वतो योजनं यक्षाः शृण्वन्त्यधो योजनं नागाः।
२६१.०१९. ततो यक्षैस्तत्क्षणेन कुणालः पक्षी आनीतः।
२६१.०१९. अथ राजा कुणालस्य नेत्राणि सुचिरं निरीक्ष्य न किंचिद्विशेषं पश्यति।
२६१.०२०. ततो राज्ञाभिहितम्--कुमारस्य कुणालसदृशानि नयनानि।
२६१.०२१. भवतु कुमारस्य कुणाल इति नाम्
२६१.०२१. वक्ष्यति हि--
२६१.०२२. नेत्रानुरागेण स पार्थिवेन्द्रः सुतः कुणालेति तदा बभाष्
२६१.०२४. ततोऽस्य नाम प्रथितं पृथिव्यां तस्यार्यसत्त्वस्य नृपात्मजस्य् ।१०४॥
२६१.०२६. विस्तरेण यावत्कुमारो महान् संवृत्तः।
२६१.०२६. तस्य काञ्चनमाला नाम दारिका पत्न्यर्थे आनीता।
२६१.०२७. यावद्राजा अशोकः कुणालेन सह कुर्कुटारामं गतः।
२६१.०२७. तत्र यशो नांना संघस्थविरोऽर्हन् षडभिज्ञः।
२६१.०२८. स पश्यति--कुणालस्य नचिरान्नयनविनाशो भविष्यति।
२६१.०२८. तेन राज्ञोऽभिहितम्--किमर्थं कुणालः स्वकर्मणि न नियुज्यते? ततो राज्ञा अभिहितह्--कुणाल, संघस्थविरो यदाज्ञापयति तत्परिपालयितव्यम्।
२६१.०३०. ततः कुणालः स्थविरस्य पादयोर्निपत्य कथयति--स्थविर, किमाज्ञापयसि? स्थविर उवाच--चक्षुः कुणाल अनित्यमिति कुरु।
२६१.०३१. आह--

२६२.००१. <२६२>चक्षुः कुमारं सततं परीक्ष्यं चलात्मकं दुःखसहस्रयुक्तम्।
२६२.००३. यत्रानुरक्ता बहवः पृथग्जनाः कुर्वन्ति कर्माण्यहितावहानि॥१०५॥
२६२.००५. स च तथा अभ्यासं करोति मनसिकारप्रयुक्तः।
२६२.००५. एकाभिरामहेकामिराभिरामः प्रशमारामश्च संवृत्तः।
२६२.००६. स राजकुले विविक्ते स्थानेऽवस्थितश्चक्षुरादीन्यायतनान्यनित्यादिभिराकारैः परीक्षत्
२६२.००६. तिष्यरक्षिता च नांना अशोकस्याग्रमहिषा तं प्रदेशमभिगता।
२६२.००७. सा तं कुणालमेकाकिनं दृष्ट्वा नयनानुरागेण गात्रेषु परिष्वज्य कथयति--
२६२.००९. दृष्ट्वा तवेदं नयनाभिरामं श्रीमद्वपुर्नेत्रयुगं च कान्तम्।
२६२.०११. दंदग्यते मे हृदयं समन्ताद्दावाग्निना प्रज्वलतेव कक्षम्॥१०६॥
२६२.०१३. श्रुत्वा कुणाल उभाभ्यां पाणिभ्यां कर्णौ पिधाय कथयति--
२६२.०१४. वाक्यं न युक्तं तव वक्तुमेतत्सूनोः पुरस्ताज्जननी ममासि।
२६२.०१६. अधर्मरागं परिवर्जयस्व अपायमार्गस्य हि एष हेतुः॥१०७॥
२६२.०१८. ततस्तिष्यरक्षिता तत्कालमलभमाना क्रुद्धा कथयति--
२६२.०१९. अभिकामामभिगतां यत्त्वं नेच्छसि मामिह्
२६२.०२०. नचिरादेव दुर्बुद्धे सर्वथा न भविष्यसि॥१०८॥
२६२.०२१. कुणाल उवाच--
२६२.०२२. मम भवतु मरणं मा तु स्थितस्य धर्मे विशुद्धभावस्य्
२६२.०२३. न तु जीवितेन कार्यं सज्जनधिक्कृतेन मम् ।१०९॥
२६२.०२४. स्वर्गस्य धर्मलोपो यतो भवति जीवितेन किं तेन्
२६२.०२५. मम मरणहेतुना वै बुधपरिभूतेन धिक्कृतेन् ।११०॥
२६२.०२६. यावत्तिष्यरक्षिता कुणालस्य च्छिद्रान्वेषिणी अवस्थिता।
२६२.०२६. राज्ञोऽशोकस्योत्तरापथे तक्षशिला नगरं विरुद्धम्।
२६२.०२७. श्रुत्वा च राजा स्वयमेवाभिप्रस्थितः।
२६२.०२७. ततोऽमात्यैरभिहितह्--देव, कुमारः प्रेष्यतम्।
२६२.०२८. स संतामयिष्यति।
२६२.०२८. अथ राजा कुणालमाहूय कथयति--वत्स कुणाल, गमिष्यसि तक्षशिलानगरं संनामयितुम्? कुणाल उवाच--परं देव गमिष्यामि।

२६३.००१. <२६३>ततो नृपस्तस्य निशाम्य भावं पुत्राभिधानस्य मनोरथस्य्
२६३.००३. स्नेहाच्च योग्यं मनसा च बुद्ध्वा आज्ञापयामास विधाय यात्राम्॥१११॥
२६३.००५. अथ राजा अशोको नगरशोभां मार्गशोभां च कृत्वा जीर्णातुरकृपणानाथांश्च मार्गादपनीय एकरथेऽभिरुह्य कुमारेण सह पाटलिपुत्रान्निर्गतः।
२६३.००६. अनुव्रजित्वा निवर्तमानः कुणालं कण्ठे परिष्वज्य नयनं निरीक्षमाणः प्ररुदन्नुवाच--
२६३.००८. धन्यानि तस्य चक्षूंषि चक्षुष्मन्तश्च ते जनाः।
२६३.००९. सततं ये कुमारस्य द्रक्ष्यन्ति मुखपङ्कजम्॥११२॥
२६३.०१०. यावन्नैमित्तिको ब्राह्मणह्--कुमारस्य नचिरान्नयनविनाशो भविष्यति।
२६३.०१०. स च राजा अशोकस्तस्य नयनेष्वत्यर्थमनुषक्तः।
२६३.०११. दृष्ट्वा च कथयति--
२६३.०१२. नृपात्मजस्य नयने विशुद्धे महीपतिश्चाप्यनुरक्तमस्य्
२६३.०१४. श्रिया विवृद्धे हि सुखानुकूले पश्यामि नेत्रेऽद्य विनश्यमान् ।११३॥
२६३.०१६. इदं पुरं स्वर्गामिव प्रहृष्टं कुमारसंदर्शनजातहर्षम्।
२६३.०१८. पुरं विपन्ने नयने तु तस्य भविष्यति शोकपरीतचेताः॥११४॥
२६३.०२०. अनुपूर्वेण तक्षशिलामनुप्राप्तः।
२६३.०२०. श्रुत्वा च तक्षशिलापौरा अर्धत्रिकाणि योजनानि मार्गशोभां नगरशोभां च कृत्वा पूर्णकुम्भैः प्रत्युद्गताः।
२६३.०२१. वक्ष्यति च--
२६३.०२२. श्रुत्वा तक्षशिलापौरो रत्नपूर्णघटादिकान्।
२६३.०२३. गृह्य प्रत्युज्जगामाशु बहुमान्यो नृपात्मजम्॥११५॥
२६३.०२४. प्रत्युद्गम्य कृताञ्जलिरुवाच--न वयं कुमारस्य विरुद्धाः, न राज्ञोऽशोकस्य, अपि तु दुष्टात्मानोऽमात्या आगत्यास्माकमपमानं कुर्वन्ति।
२६३.०२५. यावत्कुणालो महता संमानेन तक्षशिलां प्रवेशितः॥
२६३.०२७. राज्ञश्चाशोकस्य महान् व्याधिरुत्पन्नः।
२६३.०२७. तस्य मुखादुच्चारो निर्गन्त्मारब्धः।
२६३.०२८. सर्वरोमकूपेभ्यश्चाशुचि प्रघरति।
२६३.०२८. न च शक्यते चिकित्सितुम्।
२६३.०२८. ततो राज्ञा अभिहितम्--कुणालमानयत, राज्ये प्रतिष्ठापयिष्यामीति।
२६३.०२९. किं ममेदृशेन जीवितेन प्रयोजनम्? श्रुत्वा च तिष्यरक्षिता चिन्तयति--यदि कुणालं राज्ये प्रतिष्ठास्यति, नास्ति मम जीवितम्।
२६३.०३१. तया अभिहितम्--अहं ते स्वस्थं करिष्यामि।
२६३.०३१. किं तु वैद्यानां प्रवेशः प्रतिषिध्यताम्।
२६३.०३२. यावद्राज्ञा वैद्यानां प्रवेशः प्रतिषिद्धः।
२६३.०३२. ततस्तिष्यरक्षितया वैद्यानामभिहितम्--यदि कश्चिदीदृशेन<२६४> व्याधिना स्पृष्टः स्त्री वा पुरुषो वा आगच्छति, मम दर्शयितव्यः।

२६४.००१. अन्यतमश्चाभीरस्तादृशेनैव व्याधिना स्पृष्टः।
२६४.००२. तस्य पत्न्या वैद्याय व्याधिर्निवेदितः।
२६४.००२. वैद्येनाभिहितम्--स एवागच्छतु आतुरः।
२६४.००३. व्याधिं दृष्ट्वा भैषज्यमुपदेक्ष्यामि।
२६४.००३. यावदाभीरो वैद्यसकाशामभिगतः।
२६४.००४. वैद्येन च तिष्यरक्षितायाः समीपमुपनीतः।
२६४.००४. ततस्तिष्यरक्षितया प्रतिगुप्ते प्रदेशे जीविताद्व्यपरोपितः।
२६४.००५. जीविताद्व्यपरोप्य कुक्षिं पाटयित्वा पश्यति च तस्य पक्वाशयस्थाने अन्त्रायां कृमिर्महान् प्रादुर्भूतः।
२६४.० अ यद्यूर्ध्वं गच्छति तेनाशुचीनि प्रघरति, अथाधो गच्छति, अधः प्रघरति।
२६४.००७. यावत्तत्र मरिचान् पेषयित्वा दत्तं न च म्रियत्
२६४.००७. एवं पिप्पली शृङ्गवेरं च्
२६४.००८. विस्तरेण यावत्पलाण्डुर्दत्तः।
२६४.००८. स्पृष्टश्च मृत उच्चारमार्गेण निर्गतः।
२६४.००८. एतच्च प्रकरणं तया रज्ञे निवेदितम्--देव पालाण्डुं परिमुङ्क्ष्व, स्वास्थ्यं भविष्यति।
२६४.००९. राजा आह--देवि, अहं क्षत्रियः।
२६४.०१०. कथं पलाण्डुं परिभक्षयामि? देव्युवाच--देव, परिभोक्तव्यं जीवितस्यार्थे, भैषज्यमेतत् ।
२६४.०११. राज्ञा परिभुक्तम्।
२६४.०११. स च कृमिर्मृतमुच्चारमार्गेण निर्गतः।
२६४.०११. स्वस्थीभूतश्च राजा।
२६४.०१२. तेन परितुष्टेन तिष्यरक्षिता वरेण प्रवारिता--किं ते वरं प्रयच्छामि? तया अभिहितम्--सप्ताहं देवो राज्यं प्रयच्छतु।
२६४.०१३. राजा आह--अहं को भविष्यामि? देव्युवाच--सप्ताहस्यात्ययाद्देव एव राजा भविष्यति।
२६४.०१४. यावद्राज्ञा तिष्यरक्षितायाः सप्ताहं राज्यं दत्तम्।
२६४.०१४. तस्या बुद्धिरुत्पन्ना--इदानीं मया अस्य कुणालस्य वैरं निर्यातितव्यम्।
२६४.०१५. तया कपटलेखो लिखितस्तक्षशिलकानां पौराणाम्--कुणालस्य नयनं विनाशयितव्यमिति।
२६४.०१६. आह च--
२६४.०१७. राजा ह्यशोको बलवान् प्रचण्ड आज्ञापयत्तक्षशिलाजनं हि।
२६४.०१९. उद्धार्यतां लोचनमस्य शत्रोर्मौर्यस्य वंशस्य कलङ्क एषः॥११६॥
२६४.०२१. राज्ञोऽशोक्स्य यत्र कार्यमाशु परिप्राप्यं भवति, दन्तमुद्रया मुद्रयति।
२६४.०२१. यावत्तिष्यरक्षिता शयितस्य राज्ञस्तं लेखं दन्तमुद्रया मुद्रयिष्यामीति राज्ञः सकाशमभिगता।
२६४.०२२. राजा च भीतः प्रतिबुद्धः।
२६४.०२३. देवी कथयति--किमिदमिति? राजा कथयति--देवि, स्वप्नं मेऽशोभनं दृष्टम्।
२६४.०२४. पश्यामि द्वौ गृध्रौ कुणालस्य नयनमुत्पाटयितुमिच्छतः।
२६४.०२४. देवी कथयति--स्वास्थ्यं कुमारस्येति।
२६४.०२५. एवं द्विरपि राजा भीतः प्रतिबुद्धः कथयति--देवि, स्वप्नो मे न शोभनो दृष्ट इति।
२६४.०२६. तिष्यरक्षिता कथयति--कीदृशः स्वप्न इति।
२६४.०२६. राजा आह--पश्यामि कुणालम्--दीर्घकेशनखश्मश्रुः पुरं प्रविष्टः।
२६४.०२७. देव्याह--स्वास्थ्यं कुमारस्येति।
२६४.०२७. यावत्तिष्यरक्षितया राज्ञः शयितस्य स लेखो दन्तमुद्रया मुद्रयित्वा तक्षशिलां प्रेषितः।
२६४.०२८. यावद्राज्ञा शयितेन स्वप्ने दृष्टं दन्ता विशीर्णाः।
२६४.०२९. ततो राजा तस्या एव रात्रेरत्यये नैमित्तिकानाहूय कथयति--कीदृश एषां स्वप्नानां विपाक इति? नैमित्तिकाः कथयति--देव, य ईदृशस्वप्नानि पश्यति।
२६४.०३०. आह च--
२६४.०३१. दन्ता यस्य विशीर्यन्ते स्वप्नान्ते प्रपतन्ति च्
२६४.०३२. चक्षुर्भेदं च पुत्रस्य पुत्रनाशं च पश्यति॥११७॥

२६५.००१. <२६५>श्रुत्वा च अशोकस्त्वरितंमुत्थायासनात्कृतञ्जलिश्चतुर्दिशं देवतां याचयितुमारब्धः।
२६५.००२. आह च--
२६५.००३. या देवता शास्तुरभिप्रसन्ना धर्मे च संघे च गणप्रधान्
२६५.००५. ये चापि लोके ऋषयो वरिष्ठा रक्षन्तु तेऽस्मत्तनयं कुणालम्॥११८॥
२६५.००७. स च लेखोऽनुपूर्वेण तक्षशिलामुपनीतः।
२६५.००७. अथ तक्षशिलाः पौरजानपदा लेखदर्शनात्कुणालस्य गुणविस्तरतुष्टा नोत्सहन्ते तदप्तियं निवेदितुम्।
२६५.००८. चिरं विचारयित्वा राजा दुष्टशीलः स्वपुत्रस्य न मर्षयति, प्रागेवास्माकं मर्षयति।
२६५.००९. आह च--
२६५.०१०. मुनिवृत्तस्य शान्तस्य सर्वभूतहितैषिणः।
२६५.०११. यस्य द्वेषः कुमारस्य कस्यान्यस्य भविष्यति॥११९॥
२६५.०१२. तैर्यावत्कुणालस्य निवेदितम्, लेखश्चोपनीतः।
२६५.०१२. ततः कुणालो वाचयित्वा कथयति--विश्रब्धं यथात्मप्रयोजनं क्रियतामिति।
२६५.०१३. यावच्चण्डाला उपनीताह्--कुणालस्य नयनमुत्पाटयथेति।
२६५.०१४. ते च कृताञ्जलिपुटा ऊचुह्--नोत्साहयामः।
२६५.०१४. कृतह्?
२६५.०१५. यो हि चन्द्रमसः कान्तिं मोहादभ्युद्धरेन्नरः।
२६५.०१६. स चन्द्रसदृशाद्वक्त्रात्तव नेत्रे समुद्धरेत् ॥१२०॥
२६५.०१७. ततः कुमारेण मकुटं दत्तम्।
२६५.०१७. अनया दक्षिणयोत्पाटयथेति।
२६५.०१७. तस्य तु कर्मणोऽवश्यं विपत्तव्यम्।
२६५.०१८. पुरुषो हि विकृतरूपोऽष्टादशाभिर्दौर्वर्णिकैः समन्वागतोऽभ्यागतः।
२६५.०१८. स कथयति--अहमुत्पाटयिष्यामीति।
२६५.०१९. यावत्कुणालस्य समीपं नीतः।
२६५.०१९. तस्मिंश्च समये कुणालस्य स्थविराणां वचनमामुखीभूतम्।
२६५.०२०. स तद्वचनमनुस्मृत्योवाच--
२६५.०२१. इमां विपत्तिं विज्ञाय तैरुक्तं तत्त्ववादिभिः।
२६५.०२२. पश्यानित्यमिदं सर्वं नास्ति कश्चिद्ध्रुवे स्थितः॥१२१॥
२६५.०२३. कल्याणमित्रास्ते मह्यं सुखकामा हितैषिणः।
२६५.०२४. यैरयं देशितो धर्मो वीतक्लेशैर्महात्मभिः॥१२२॥
२६५.०२५. अनित्यतां संपरिपश्यतो मे गुरूपदेशान्मनसि प्रकुर्वतः।
२६५.०२७. उत्पाटनेऽहं न बिभेमि सौम्य नेत्रद्वयस्यास्थिरतां हि पश्य् ।१२३॥
२६५.०२९. उत्पाटे वा न वा नेत्रे यथा वा मन्यते नृपः।
२६५.०३०. गृहीतसारं चक्षुर्मे ह्यनित्यादिभिराश्रयैः॥१२४॥
२६५.०३१. ततः कुणालस्तं पुरुषमुवाच--तेन हि भोः पुरुष, एकं तावन्नयनमुत्पाट्य मम हस्तेऽनुप्रयच्छ्
२६५.०३२. यावत्स पुरुषः कुणालस्य नयनमुत्पाटयितुं प्रवृत्तः।
२६५.०३२. ततोऽनेकानि प्राणिशतसहस्राणि विक्रोष्टुमारब्धानि--कष्टं भोः।

२६६.००१. <२६६>एषा हि निर्मला ज्योत्स्ना गगनात्पतते शशी।
२६६.००२. पुण्डरीकवनाच्चापि श्रीमन्नुत्पट्यतेऽम्बुजम्॥१२५॥
२६६.००३. तेषु प्राणिशतसहस्रेषु रुदत्सु कुणालस्यैव नयनमुत्पाट्य हस्ते दत्तम्।
२६६.००३. ततः कुणालस्तन्नयनं गृह्योवाच--
२६६.००५. रूपाणि कस्मान्न निरीक्षसे त्वं यथापुरा प्राकृत मांसपिण्ड्
२६६.००७. ते वञ्चितास्ते च विगर्हणीया आत्मेति ये त्वामबुधाः॥१२६॥
२६६.००९. सामग्रजं बुद्बदसंनिकाशं सुदुर्लभं निर्विषमस्वतन्त्रम्।
२६६.०११. एवं प्रवीक्षन्ति सदाप्रमत्ता ये त्वां न ते दुःखमनुप्रयान्ति॥१२७॥
२६६.०१३. एवमनुविचिन्तयता तेन सर्वभावेष्वनित्यताम्।
२६६.०१४. स्रोतापत्तिफलं प्राप्तं जनकायस्य पश्यतः॥१२८॥
२६६.०१५. ततः कुणालो दृष्टसत्यस्तं पुरुषमुवाच--इदानीं द्वितीयं विश्रब्धं नयनमुत्पाट्य हस्ते दत्त्
२६६.०१६. अथ कुणालो मांसचक्षुष्युद्धृते प्रज्ञाचक्षुषि च विशुद्धे कथयति--
२६६.०१७. उद्धृतं मांसचक्षुर्मे यद्यप्येतत्सुदुर्लभम्।
२६६.०१८. प्रज्ञाचक्षुर्विशुद्धं मे प्रतिलब्धमनिन्दितम्॥१२९॥
२६६.०१९. परित्यक्तोऽहं नृपतिना यद्यहं पुत्रसंज्ञया।
२६६.०२०. धर्मराजस्य पुत्रत्वमुपेतोऽस्मि महात्मनः॥१३०॥
२६६.०२१. एश्वर्याद्यद्यहं भ्रष्टं शोकदुःखनिबन्धनात् ।
२६६.०२२. धर्मैश्वर्यमवाप्तं मे दुःखशोकविनाशनम्॥१३१॥
२६६.०२३. यावत्कुणालेन श्रुतम्--नायं तातस्याशोकस्य कर्म, अपि तु तिष्यरक्षिताया अयं प्रयोग इति।
२६६.०२४. श्रुत्वा च कुणालः कथयति--
२६६.०२५. चिरं सुखं चैव सा तिष्यनांनी आयुर्बलं पालयते च देवी।
२६६.०२७. संप्रेषितोऽयं हि यया प्रयोगो यस्यानुभावेन कृतः स्वकार्थम्॥१३२॥
२६६.०२९. ततः काञ्चनमालया श्रुतम्--कुणालस्य नयनान्युत्पाटितानीति।
२६६.०२९. श्रुत्वा च भर्तृतया कुणालसमीपमुपसंक्रम्य पर्षदमवगाह्य कुणालमुद्धृतनयनं रुधिरावसिक्तगात्रं दृष्ट्वा सूर्च्छिता भूमौ पतिता।
२६६.०३१. यावज्जलसेकं कृत्वोत्थापिता।
२६६.०३१. ततः कथंचित्संज्ञामुपलभ्य सस्वरं प्ररुदन्त्युवाच--

२६७.००१. <२६७>नेत्राणि कान्तानि मनोहराणि ये मां निरीक्षञ्जनयन्ति तुष्टिम्।
२६७.००३. ते मे विपन्ना ह्यनिरीक्षणीयास्त्यजन्ति मे प्राणसमाः शरीरम्॥१३३॥
२६७.००५. ततः कुणालो भार्यामनुनयन्नुवाच--अलं रुदितेन्
२६७.००५. नार्हसि शोकमाश्रयितुम्।
२६७.००६. स्वयंकृतानामिह कर्मणां फलमुपस्थितम्।
२६७.००६. आह च--
२६७.००७. कर्मात्मकं लोकमिदं विदित्वा दुःखात्मकं चापि जनं हि मत्वा।
२६७.००९. मत्वा च लोकं प्रियविप्रयोगं कर्तुं प्रिये नार्हसि बाष्पमोक्षम्॥१३४॥
२६७.०११. ततः कुणालो भार्यया सह तक्षशिलाया निष्कासितः।
२६७.०११. स गर्भादानमुपादाय परमसुकुमारशरीरः।
२६७.०१२. न किंचिदुत्सहते कर्म कर्तुम्।
२६७.०१२. केवलं वीणां वादयति, गायति च्
२६७.०१३. ततो भैक्ष्यं लभत्
२६७.०१३. कुणालः पत्न्या सह भुङ्क्त्
२६७.०१३. ततः काञ्चनमाला येन मार्गेण पाटलिपुत्रादानीता, तमेव मार्गमनुस्मरन्ती भर्तृद्वितीया पाटलिपुत्रं गता।
२६७.०१४. यावदशोकस्य गृहमारब्धा प्रवेष्टुम्।
२६७.०१५. द्वारपालेन च निवारितौ।
२६७.०१५. यावद्राज्ञोऽशोकस्य यानशालायामवस्थितौ।
२६७.०१६. ततः कुणालो रात्र्याः प्रत्यूषसमये वीणां वादयितुमारब्धः।
२६७.०१६. यथा नयनान्युत्पाटितानि, सत्यदर्शनं च कृतम्, तदनुरूपं हितं च गीतं प्रारब्धम्।
२६७.०१७. आह च--
२६७.०१८. चक्षुरादीनि यः प्राज्ञः पश्यत्यायतनानि च्
२६७.०१९. ज्ञानदीपेन शुद्धेन स संसाराद्विमुच्यत् ।१३५॥
२६७.०२०. यदि तव भवदुःखपीडिता भवति दोषविनिश्रिता मतिः।
२६७.०२२. सुखमिह च यदीच्छसि ध्रुवं त्वरितमिहायतनानि संत्यजस्व् ।१३६॥
२६७.०२४. तस्य गीतशब्दो राज्ञा अशोकेन श्रुतः।
२६७.०२४. श्रुत्वा च राजा प्रीतमना उवाच--
२६७.०२५. गीतं कुणालेन मयि प्रसक्तं वीणास्वरं चैव श्रुतिश्चिरेण्
२६७.०२७. अभ्यागतोऽपीह गृहं नु कंचिन्न चेच्छति द्रष्टुमयं कुमारः॥१३७॥
२६७.०२९. अथ राजा अशोकोऽन्यतमपुरुषमाहूयोवाच--पुरुष, लक्ष्यते--
२६७.०३०. न खल्वेष किं गीतस्य कुणालसदृशो ध्वनिः।
२६७.०३१. कर्मण्यधैर्यतां चैव सूचयन्निव लक्ष्यत् ।१३८॥
२६७.०३२. तदनेनास्मि शब्देन धैर्यादाकम्पितो भृशम्।
२६७.०३३. कलभस्येव नष्टस्य प्रनष्टकलभः करी॥१३९॥

२६८.००१. <२६८>गच्छ, कुणालमानयस्वेति।
२६८.००१. यावत्पुरुषो यानशालां गतः।
२६८.००१. पश्यति कुणालमुद्धृतनयनं वातातपपरिदग्धगात्रम्।
२६८.००२. अप्रत्यभिज्ञाय च राजानमशोकमभिगम्योवाच--देव, न ह्येष कुणालः।
२६८.००३. अन्धक एष वनीपकः पत्न्या सह देवस्य यानशालायमवस्थितः।
२६८.००३. श्रुत्वा च राजा संविग्नश्चिन्तयामास--यथा मया स्वप्नान्यशोभनानि दृष्टानि, नियतं कुणालस्य नयनानि विनष्टानि भविष्यन्ति।
२६८.००५. आह च--
२६८.००६. स्वप्नान्तरे निमित्तानि यथा दृष्टानि मे पुरा।
२६८.००७. निःसंशयं कुणालस्य नेत्रे वै निधनं गत् ।१४०॥
२६८.००८. ततो राजा प्ररुदन्नुवाच--
२६८.००९. शीघ्रमानीयतामेष मत्समीपं वनीपकम्।
२६८.०१०. न हि मे शाम्यते चेतः सुतव्यसनचिन्तया॥१४१॥
२६८.०११. यावत्पुरुषो यानशालां गत्वा कुणालमुवाच--कस्य त्वं पुत्रः, किं च नाम? कुणालः प्राह--
२६८.०१३. अशोको नां राजासौ मौर्याणां कुलवर्धनः।
२६८.०१४. कृत्स्नेयं पृथिवी यस्य वशे वर्तनि किंकर् ।१४२॥
२६८.०१५. तस्य राज्ञस्त्वहं पुत्रः कुणाल इति विश्रुतः।
२६८.०१६. धार्मिकस्य तु पुत्रोऽहं बुद्धस्यादित्यबान्धवः॥१४३॥
२६८.०१७. ततः कुणालः पत्न्या सह राज्ञोऽशोकस्य समीपमानीतः।
२६८.०१७. अथ राजा अशोकह्{पश्यति} कुणालमुद्धृतनयनं वातातपपरिदग्धगात्रं रथ्याचोलकसंघातप्रत्यवरेण वाससा लक्ष्यालक्ष्यप्रच्छादितकौपीनम्।
२६८.०१९. स तमप्रत्याभिज्ञाय आकृतिमात्रकं दृष्ट्वा राजा कथयति--त्वं कुणाल इति? कुणालः प्राह--एवं देव, कुणालोऽस्मीति।
२६८.०२०. श्रुत्वा मूर्च्छितो भूमौ पतितः।
२६८.०२०. वक्ष्यति हि--
२६८.०२१. ततः कुणालस्य मुखं निरीक्ष्य नेत्रोद्धृतं शोकपरीतचेताः।
२६८.०२३. राजा ह्यशोकः पतितो धरण्यां हा पुत्रशोकेन हि दह्यमानः॥१४४॥
२६८.०२५. यावज्जलपरिषेकं कृत्वा राजानमुत्थापयित्वा आसने निषादितः।
२६८.०२५. अथ राजा कथंचित्संज्ञामुपलभ्य कुणालमुत्सङ्गे स्थापयामास्
२६८.०२६. वक्ष्यति हि--
२६८.०२७. ततो मुहूर्तं नृप आश्वसित्वा कण्ठे परिष्वज्य रसाश्रुकण्ठः।
२६८.०२८. मुहुः कुणालस्य मुखं प्रमृज्य बहूनि राजा विललाप तत्र् ।१४५॥
२६८.०३०. नेत्रे कुणालप्रतिमे विलोक्य सुतं कुणालेति पुरा बभाष्

२६९.००१. <२६९>तदस्य नेत्रे निधनं गते ते पुत्रं कुणालेति कथं च वक्ष्य् ।१४६॥
२६९.००३. आह च--
२६९.००४. कथय कथय साधु पुत्र तावद्वदनमिदं तव चारुनेत्रम्।
२६९.००६. गगनमिव विपन्नचन्द्रतारव्यपगतशोभमनीक्षकं कृतं त् ।१४७॥
२६९.००८. अकरुणहृदयेन तेन तात मुनिसदृशस्य न साधु साधुबुद्धेः।
२६९.०१०. नरवरनयनेष्ववैरवैरं प्रकृतमिदं मम भूरि शोकमूलम्॥१४८॥
२६९.०१२. वद सुवदन क्षिप्रमेतदर्थं व्रजति शरीरमिदं पुरा विनाशम्।
२६९.०१४. तव नयनविनाशशोकदग्धं वनमिव नागविमुक्तवज्रदग्धम्॥१४९॥
२६९.०१६. ततः कुणालः पितरं प्रणिपत्योवाच--
२६९.०१७. राजन्नतीतं खलु नैव शोच्यं किं न श्रुतं ते मुनिवाक्यमेतत् ।
२६९.०१९. यत्कर्मभिस्तेऽपि जिना न मुक्ताः प्रत्येकबुद्धाः सुदृढैस्तथैव् ।२५०॥
२६९.०२१. लब्धाः फलस्थाश्च पृथग्जनाश्च कृतानि कामान्यशुभानि देहिनाम्।
२६९.०२३. स्वयंकृतानामिह कर्माणां फलं कथं तु वक्ष्यामि परैरिदं कृतम्॥१५१॥
२६९.०२५. अहमेव महाराज कृतापराधश्च सापराधश्च्
२६९.०२६. विनिवर्तयामि योऽहं विनयामि विपत्तिजननानि॥१५२॥
२६९.०२७. न शस्त्रवज्राग्निविषाणि पन्नगाः कुर्वन्ति पीडां नभसोऽविकारिणः।
२६९.०२९. शरीरलक्ष्येण धृतेन पार्थिव पतन्ति दुःखान्यशिवानि देहिनाम्॥१५३॥
२६९.०३१. अथ राजा शोकाग्निना संतापितहृदय उवाच--
२६९.०३२. केनोद्धृतानि नयनानि सुतस्य मह्यं को जीवितं सुमधुरं त्यजितुं व्यवस्तः।

२७०.००१. <२७०>शोकानलो निपतितो हृदये प्रचण्डहाचक्ष्व पुत्र कस्य हरामि दण्डम्॥१५४॥
२७०.००३. यावद्राज्ञा अशोकेन श्रुतम्--तिष्यरक्षिताया अयं प्रयोग इति।
२७०.००३. श्रुत्वा राजा तिष्यरक्षितामाहूयोवाच--
२७०.००५. कथं हि धन्ये न निमज्जसे क्षितौ च्छिन्दामि शीर्षं परशुप्रहारैः।
२७०.००७. त्यजाम्यहं त्वामतिपापकारिणीमधर्मयुक्तां श्रियमात्मवानिव् ।१५५॥
२७०.००९. ततो राजा क्रोधाग्निना प्रज्वलितस्तिष्यरक्षितां निरीक्ष्योवाच--
२७०.०१०. उत्पाट्य नेत्रे परिपातयामि गात्रं किमस्या नखरैः सुतीक्ष्णैः।
२७०.०१२. जीवन्तिशूलामथ कारयामि च्छिन्दामि नासां क्रकचेन वास्याः॥१५६॥
२७०.०१४. क्षुरेण जिह्वामथ कर्तयामि विषेण पूर्णामथ घातयिष्य्
२७०.०१६. स इत्येवमादिवधप्रयोगं बहुप्रकारं ह्यवदन्नरेन्द्रः॥१५७॥
२७०.०१८. विज्ञापयामास गुरुं महात्मा।
२७०.०२०. अनार्यकर्मा यदि तिष्यरक्षिता त्वमार्यकर्मा भव मा वध स्त्रियम्॥१५८॥
२७०.०२२. फलं हि मैत्र्या सदृशं न विद्यते प्रभोस्तितक्षा सुगतेन वर्णिता।
२७०.०२४. पुनः प्रणस्य पितरं कुमारः कृताञ्जलिः सूनृतवाग्जगाद् ।१५९॥
२७०.०२६. राजन्न मे दुःखमलोऽस्ति कश्चित्तीव्रापलारेऽपि न मन्युतापः।
२७०.०२८. मनः प्रसन्नं यदि मे जनन्यां येनोद्धृते मे नयने स्वयं हि।
२७०.०३०. तत्तेन सत्येन ममास्तु तावन्नेत्रद्वयं प्राक्तनमेव सद्यः॥१६०॥
२७०.०३२. इत्युक्तमात्रे पूर्वाधिकप्रशोभिते नेत्रयुग्मे प्रादुर्बभूवतुः।
२७०.०३२. यावद्राज्ञा अशोकेन तिष्यरक्षिता अमर्षितेन जतुगृहं प्रवेशयित्वा दग्धा, तक्षशिलाश्च पौराः प्रघातिताः॥

२७१.००१. <२७१>भिक्षवः संशयजाताः सर्वसशयच्छेत्तारमायुष्मन्तं स्थविरोपगुप्तं पृच्छन्ति--किं कुणालेन कर्म कृतं यस्य कर्मणो विपाकेन नयनान्युत्पाटितानि? स्थविर उवाच--तेन ह्यायुष्मन्तः श्रूयताम्--
२७१.००३. भूतपूर्वमतीतेऽध्वनि वाराणस्यामन्यतमो लुब्धकः।
२७१.००४. स हिमवन्तं गत्वा मृगान् प्रघातयति।
२७१.००५. सोऽपरेण समयेन हिमवन्तं गतः।
२७१.००५. तत्र पाशनिपतितान्येकस्यां गुहायां प्रविष्टान्यासादितानि।
२७१.००६. तेन वागुरया सर्वे गृहीताः।
२७१.००६. तस्य बुद्धिरुत्पन्ना--यदि प्रघातयिष्यामि, मांसः क्लेदंमुपयास्यति।
२७१.००७. तेन पञ्चानां मृगशतानां नयनात्युत्पाटितानि॥
२७१.००८. किं मन्यध्वमायुष्मन्तह्? योऽसौ लुब्धकः, स एष कुणालः।
२७१.००८. यत्तत्रानेन बहूनां मृगशतानां नयनान्युत्पाटितानि, तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि नरकेषु दुःखमनुभूय ततः कर्मावशेषेण पञ्च जन्मशतानि तस्य नयनान्युत्पाटितानि॥
२७१.०११. किं कर्म कृतं यस्य कर्मणो विपाकेनोच्चे कुले उपपन्नः, प्रसादिकश्च संवृत्तः, सत्यदर्शनं च कृतम्?
२७१.०१३. तेन ह्यायुच्मन्तः श्रूयताम्--भूतपूर्वमतीतेऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उदपादि।
२७१.०१४. यदा क्रकुच्छन्दः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य अशोकेन राज्ञा चतूरत्नमयं स्तूपं कारितम्।
२७१.०१६. यदा राजा अशोकः कालगतः, अश्राद्धो राजा राज्यं प्रतिष्ठितः।
२७१.०१६. तानि रत्नान्यदत्तादायिकैर्हृतानि।
२७१.०१७. पांशुकाष्टं चावशिष्टम्।
२७१.०१७. अत्र जनकायो गत्वा विशीर्णं दृष्ट्वा शोचितुमारब्धः।
२७१.०१८. तस्मिंश्च समयेऽन्यतमश्च श्रेष्ठिपुत्रः।
२७१.०१८. तेनोक्रह्--किमर्थं रुद्यत इति? तैरभिहितम्--क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य स्तूपं चतूरत्नमयमासीत्, स इदानीं विशीर्ण इति।
२७१.०२०. ततस्तेन च तत्र क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य कायप्रमाणिका प्रतिमा बभूव विशीर्णा, सा अभिसंस्कृता, सम्यक्प्रणिधानं च कृतम्--यादृशः क्रकुच्छन्दः शास्ता, ईदृशमेव शास्तारमारागयेयं मा विरागयेयमिति॥
२७१.०२३. किं मन्यध्वमायुष्मन्तह्? योऽसौ श्रेष्ठिपुत्रः, स एष कुणालः।
२७१.०२३. यत्रानेन क्रकुच्छन्दस्य स्तूपमभिसंस्कृतम्, तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः।
२७१.०२४. यत्प्रतिमा अभिसंस्कृता, तेन कर्मणो विपाकेन कुणाकः प्रासादिकः समृत्तः।
२७१.०२५. यत्प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन कुणालेन शाक्यमुनिः सम्यक्सम्बुद्धस्तादृश एव शास्ता समारागितो न विरागितः, सत्यदर्शनं च कृतम्॥


२७१.०२८. इति श्रीदिव्यावदाने कुणालावदानं सप्तविंशतिमं समाप्तम्॥


                    • अवदान २८ **********


२७२.००१. दिव्२८ वीतशोकावदानम्।

२७२.००२. यदा राज्ञा अशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा, तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं पञ्चवार्षिकं च कृतम्।
२७२.००३. त्रीणि शतसहस्ताणि भिक्षूणां भोजितानि यत्रैकोऽर्हतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च्
२७२.००४. (स)समुद्रायां पृथिव्यां जनकाया यद्भूयसा भगवच्छासनेऽभिप्रसन्नाः।
२७२.००५. तस्य भ्राता वीतशोको नाम तीर्थ्याभिप्रसन्नः।
२७२.००५. स तीर्थ्यैर्विग्राहितह्--नास्ति श्रमणशाक्यपुत्रीयाणां मोक्ष इति।
२७२.००६. एते हि सुखाभिरताः परिखेदभीरवश्चेति।
२७२.००७. यावद्राज्ञा अशोकेनोच्यते--वीतशोक, मा त्वमनायतनेऽप्रसादमुत्पादय, अपि तु बुद्धधर्मसंघे प्रसादमुत्पादय्
२७२.००८. एष आयतनगतः प्रसाद इति।
२७२.००८. अथ राजा अशोकोऽपरेण समयेन मृगवधाय निर्गतः।
२७२.००९. तत्र वीतशोकेनारण्ये ऋषिर्दृष्टः पञ्चातपेनावस्थितः।
२७२.०१०. स च कष्टतपः सारसंज्ञी।
२७२.०१०. तेनाभिगम्य पादाभिवन्दनं कृत्वा स ऋषिः पृष्टह्--भगवन्, कियच्चित्रं ते इहारण्ये प्रतिवसतह्? स उवाच--द्वादश वर्षाणीति।
२७२.०११. वीतशोकः कथयति--कस्तवाहारह्? स ऋषिरुवाच--फलमूलानि।
२७२.०१२. किं प्रावरणम्? दर्भचीवराणि।
२७२.०१२. का शय्या? तृणसंस्तरणम्।
२७२.०१३. वीतशोक उवाच--भगवन्, किं दुःखं बाधते? ऋषिरुवाच--इमे मृगा ऋतुकाले संवसन्ति।
२७२.०१४. यदा मृगानां संवासो दृष्टो भवति, तस्मिन् समये रागेण परिदह्यामि।
२७२.०१५. वीतशोक उवाच--अस्य कष्टेन तपसा रागोऽद्यापि न बाध्यते, प्रागेव श्रमणाः शाक्यपुत्रीयाः स्वास्तीर्णासनशयनोपसेविनः।
२७२.०१६. कुत एषां रागप्रहाणं भविष्यति? आह च--
२७२.०१७. कष्टेऽस्मिन् विजने वने निवसतां वाय्वम्बुमूलाशिनां रागो नैव जितो यदीह ऋषिणा कालप्रकर्षेण हि।
२७२.०१९. भुक्तवान्नं सधृतं प्रभूतपिशितं दध्युत्तमालंकृतं शाक्येष्विन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागर् ।१॥
२७२.०२१. सर्वथा वञ्जितो राजा अशोको यच्छ्रमणेषु शाक्यपुत्रीयेषु कारां करोति।
२७२.०२१. एतच्च वचनं श्रुत्वा राजा उपायज्ञोऽमात्यानुवाच--अयं वीतशोकस्तीर्थ्याभिप्रसन्नः।
२७२.०२२. उपायेन भगवच्छासनेऽभिप्रसादयितव्यः।
२७२.०२३. अमात्या आहुह्--देव, किमाज्ञापयसि? राजा आह--यदा अहं राजा अलंकारं मौलिं पट्टं चापनयित्वा स्नानशालां प्रविष्टो भवामि, तदा यूयं वीतशोकस्योपायेन मौलिं पट्टं च बद्ध्वा सिंहासने निषादयिष्यथ्
२७२.०२५. एवमस्तु इति।
२७२.०२५. यावद्राजा राजालंकारं मौलिं पट्टं चापनयित्वा स्नानशालायां प्रविष्टः, ततोऽमात्यैर्वीतशोक उच्यते--राज्ञोऽशोकस्यात्ययात्त्वं राजा भविष्यसि।
२७२.०२७. इमं तावद्राजालंकारं प्रवरमौलिं पट्टं च बद्ध्वा सिंहासने निषीदयिष्यामह्--किं शोभसे न वेति।
२७२.०२८. तैस्तदाभरणमौलिं पट्टं च बद्ध्वा सिंहासने निषादितो राज्ञश्च निवेदितम्।
२७२.०२९. ततो राजा अशोको वीतशोकं राजालंकारं मौलिपट्टबद्धं च सिंहासनोपविष्टं दृष्ट्वा कथयति--अध्याप्यहं जीवामि।
२७२.०३०. त्वं राजा संवृत्तः।
२७२.०३०. ततो राज्ञा अभिहितम्--कोऽत्र? ततो यावद्वध्यघातका नीलाम्बरवसनाः प्रलम्बकेशा घण्टाशब्दपाणयो राज्ञः पादयोर्निपत्योवाच--देव, किमाज्ञापयसि? राजा आह--वीतशोको मया परित्यक्त इति।

२७३.००१. <२७३>यावद्वीतशोक उच्यते--सशस्त्रैर्वध्यघातैरस्माभिः परिवृतोऽसीति।
२७३.००१. ततोऽमात्या राज्ञः पादयोर्निपल्योवाच--देव, मर्षय वीतशोकम्।
२७३.००२. देवस्यैष भ्राता।
२७३.००२. ततो राज्ञा अभिहितम्--सप्ताहमस्य मर्षयामि।
२७३.००३. भ्राता चैषः।
२७३.००३. मम भ्रातुः स्नेहादस्य सप्ताहं राज्यं प्रयच्छामि।
२७३.००३. यावत्तूर्यशतानि संप्रवादितानि, जयशब्दैश्चानन्दितम्, प्राणिशतसहस्रैश्चाञ्जलिः कृतः, स्त्रीशतैश्च परिवृतः।
२७३.००५. वध्यघातकाश्च द्वारि तिष्ठन्ति।
२७३.००५. दिवसे गते वीतशोकस्याग्रतः स्थित्वा आरोचयन्ति--निर्गतं वीतशोक एकं दिवसम्।
२७३.००६. षडहान्यवशिष्टानि।
२७३.००६. एवं द्वितीये दिवस्
२७३.००६. विस्तरेण यावत्सप्ताहदिवसे वीतशोको राजालंकारविभूषितो राज्ञोऽशोकस्य समीपमुपनीतः।
२७३.००७. ततो राज्ञा अशोकेनाभिहितम्--वीतशोक, कञ्चित्सुगीतं सुनृत्यं सुवादितमिति ? वीतशोक उवाच--न मे दृष्टं वा स्याच्छ्रुतं वेति।
२७३.००९. आह च--
२७३.०१०. येन श्रुतं भवेद्गीतं नृत्यं चापि निरीक्षितम्।
२७३.०११. रसाश्चास्वादिता येन स भूयात्तव निर्णयम्॥२॥
२७३.०१२. राजा आह--वीतशोक, इदं मया राज्यं सप्ताहं तव दत्तम्, तूर्यशतानि संप्रवादितानि, जयशब्दैश्चानन्दितम्, अञ्जलिशतानि प्रगृहीतानि, स्त्रीशतैश्च परिचीर्णः।
२७३.०१३. कथं त्वं कथयसि--नैव मे दृष्टं न श्रुतमिति? वीतशोक उवाच--
२७३.०१५. न मे दृष्टं नृत्यं न च नृप श्रुतो गीतनिनदो न मे गन्धा घ्राता न खलु रसा मेऽद्य विदिताः।
२७३.०१७. न मे स्पृष्टः स्पर्शः कनकमणिहाराङ्गजनितः समूहो नारीणां मरणपरिबद्धेन मनसा॥३॥
२७३.०१९. स्त्रियो नृत्तं गीतं भवशयनान्यासनविधिर्वयो रूपं लक्ष्मीर्बहुविविधरत्ना च वसुधा।
२७३.०२१. निरानन्दा शून्या मम नृप वरशय्या गतसुखा स्थितान् दृष्ट्वा द्वारे वधकपुरुषान्नीलवसनान्॥४॥
२७३.०२३. श्रुत्वा घण्टारवं घोरं नीलाम्बरधरस्य हि।
२७३.०२४. भयं मे मरणाज्जातं पार्थिवेन्द्र सुदारुणम्॥५॥
२७३.०२५. मृत्युशल्यपरीतोऽहं नाश्रौषीद्गीतमुत्तमम्।
२७३.०२६. नाद्राक्षं नृपते नृत्तं न च भोक्तुं मनःस्पृहा॥६॥
२७३.०२७. मृत्युज्वरगृहीतस्य न मे स्वप्नोऽपि विद्यत्
२७३.०२८. कृत्स्ना मे रजनी याता मृत्युमेवानुचिन्तयन्॥७॥
२७३.०२९. राजा आह--वीतशोक, मा तावत्तवैकजन्मिकस्य मरणभयात्तव राजश्रियं प्राप्य हर्षो नोत्पन्नः।
२७३.०३०. किं पुनर्भिक्षवो जन्मशतमरणभयभीताः सर्वाण्युपपत्त्यायतनानि दुःखान्यनुसृतानि पश्यन्ति।
२७३.०३१. नरके तावच्छरीरसंतापकृतमग्निदाहदुःखं च, तिर्यक्षु अन्योन्यभक्षणपरित्रासदुःखम्, प्रेतेषु क्षुत्तर्षदुःखम्, पर्येष्टिसमुदाचारदुःखं मनुष्येषु, च्यवनपतनभ्रंशदुःखम्<२७४> देवेषु।

२७४.००१. एभिः पञ्चभिर्दुःखैस्त्रैलोक्यमनुषक्तम्।
२७४.००१. शारीरमानसैर्दुःखैरुत्पीडिता वधकभूतान् स्कन्धान् पश्यन्ति, शून्यग्रामभूतान्यायतनानि, चौरिभूतानि विषयाणि, कृत्स्नं च त्रैधातुकमनित्यताग्निना प्रदीप्तं पश्यन्ति।
२७४.००३. तेषां रागाः कथमुत्पद्यते? आह च--
२७४.००४. मा तावदेकजन्मिकस्य मरणभयात्तव न जायते हर्षः।
२७४.००५. मनसि विषयैर्मनोज्ञैः सततं खलु पश्यमानस्य् ।८॥
२७४.००६. किं पुनर्जन्मशतानां मरणभयमनागतं विचिन्तयताम्।
२७४.००७. मनसि भविष्यति हर्षो भिक्षूणां भोजनाद्येषु ॥९॥
२७४.००८. तेषां तु वस्त्रशयनासनभोजनादि मोक्षोऽभियुक्तमनसां जनयेत सङ्गम्।
२७४.०१०. पश्यन्ति ये वधकशत्रुनिभं शरीरमादीप्तवेश्मसदृशांश्च भवाननित्यान् ॥१०॥
२७४.०१२. कथं च तेषां न भवेद्विमोक्षो मोक्षार्थिनां जन्मपरान्मुखानाम्।
२७४.०१४. येषां मनः सर्वसुखाश्रयेषु व्यावर्तते पद्मदलादिवाम्भः॥११॥
२७४.०१६. यदा वीतशोको राज्ञा अशोकेनोपायेन भगवच्छासनेऽभिप्रसादितः, स कृतकरपुट उवाच--देव, एषोऽहं तं भगवन्तं तथागतमर्हन्तं सम्यक्सम्बुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं चेति।
आह च--
२७४.०१९. एष व्रजामि शरणं विबुद्धनवकमलविमलनिभनेत्रम्।
२७४.०२०. बुधविबुधमनुजमहितं जिनं विरागं च संघं च् ।१२॥िति।
२७४.०२१. अथ राजा अशोको वीतशोकं कण्ठे परिष्वज्योवाच--न त्वं मया परित्यक्तः, अपि तु बुद्धशासनाभिप्रसादार्थं तव मया एष उपायः प्रदर्शितः।
२७४.०२२. ततो वीतशोको गन्धपुष्पमाल्यादिवादित्रसमुदयेन भगवतश्चैत्यानर्चयति, सद्धर्मं च शृणोति, संघे च कारां कुरुत्
२७४.०२४. स कुर्कुटारामं गतः।
२७४.०२४. तत्र यशो नां स्थविरोऽर्हन् षडभिज्ञः।
२७४.०२४. स तस्य पुरतो निषण्णो धर्मश्रवणाय्
२७४.०२५. स्थविरश्च तमवलोलयितुमारब्धः।
२७४.०२५. स पश्यति वीतशोकमुपचितहेतुकं चरमभविकम्।
२७४.०२६. तेनैवाश्रयेनार्हत्त्वं प्राप्तव्यम्।
२७४.०२६. तेन तस्य प्रव्रज्याया वर्णो भाषितः।
२७४.०२७. तस्य श्रुत्वा स्पृहा जाता--प्रव्रजेयं भगवच्छासन्
२७४.०२७. तत उत्थाय कृताञ्जलिः स्थवितमुवाच--लभेयाहं स्वख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
२७४.०२८. चरेयमहं भवतोऽन्तिके ब्रह्मचर्यम्।
२७४.०२९. स्थविर उवाच--वत्स, राजानमशोकमनुज्ञापयस्वेति।
२७४.०२९. ततो वीतशोको येन राजा अशोकस्तेनोपसंक्रम्य कृताञ्जलिरुवाच--देव, अनुजानीहि माम्।
२७४.०३०. प्रव्रजिष्यामि स्वाख्याते धर्मविनये सम्यगेव श्रद्धया अगारादनगारिकाम्।
२७४.०३१. आह च--

२७५.००१. <२७५>उद्भ्रान्तोऽस्मि निरङ्कुशो राजा इव व्यावर्तितो विभ्रमात्त्वद्बुद्धिप्रभवाङ्कुशेन विधिवद्बुद्धोपदेशैरहम्।
२७५.००१. एकं त्वमर्हसि मे वरं प्रदर्शितुं त्वं पार्थिवानां पते लोकालोकवरस्य शासनवरे लिङ्गं शिभं धारयेत् ॥१३॥
२७५.००५. श्रुत्वा च राजा साश्रुकण्ठो वीतशोकं कण्ठे परिष्वज्योवाच--वीतशोक, अलमनेन व्यवसायेन्
२७५.००६. प्रव्रज्य खलु वैवर्णिकाभ्युपगतावसः, पांशुकूलं प्रवरणं परिजनोज्ज्ञितम्, आहारो भैष्यं परकुले, शयनासनं वृक्षमूले तृणसंस्तरः पर्णसंस्तरः, व्याबाधे खल्वपि भैषज्यमसुलभं पूतिमूत्रं च भोजनम्।
२७५.००८. त्वं च सुकुमारः शीतोष्णक्षुत्पिपासानां दुःखानामसहिष्णुः।
२७५.००९. प्रसीद, निवर्तय मानसम्।
२७५.००९. वीतशोक उवाच--देव,
२७५.०१०. नैव हि जाने तं नूनं विषयतृषितोऽनायासविहतः प्रव्रज्यां प्राप्तुकामो न रिपुहृतबलो नैवार्थकृपणः।
२७५.०१२. दुःखार्तं मृत्युनेष्टं व्यसनपरिगतं दृष्ट्वा जगदिदं पन्थानं जन्मभीरुः शिवमभयमहं गन्तुं व्यवसितः॥१४॥
२७५.०१४. श्रुत्वा च राजा अशोकः सत्वरं प्ररुदितुमारब्धः।
२७५.०१४. अथ वीतशोको राजानमनुनयन्नुवाच--देव,
२७५.०१६. संसारदोलामभिरुह्य लोलं यदा निपातो नियतः प्रजानाम्।
२७५.०१८. किमर्थमागच्छति विक्रिया ते सर्वेण सर्वस्य यदा वियोगः॥१५॥
२७५.०२०. राजा आह--वीतशोक, भैक्षे तावदभ्यासः क्रियताम्।
२७५.०२०. राजकुले वृक्षवाटिकायां तस्य तृणसंस्तरः संस्तृतः, भोजनं चास्य दत्तम्।
२७५.०२१. सोऽन्तःपुरं पर्यटति, महार्हं चाहारं न लभत्
२७५.०२२. ततो राज्ञा अन्तःपुरिका अभिहिता--प्रव्रजितसारूप्यमस्याहारमनुप्रयच्छतेति।
२७५.०२२. तेन यावदभिदूषिता पूतिकुल्माषा लब्धाः।
२७५.०२३. तांश्च परिभोक्तुमारब्धः।
२७५.०२३. दृष्ट्वा राज्ञा अशोकेन निवारितः।
२७५.०२४. तस्य बुद्धिरुत्पन्ना--यदीह प्रव्रजिष्यामि, आकीर्णो भविष्यामि।
२७५.०२५. ततो विदेहेषु जनपदेषु गत्वा प्रव्रजितः।
२७५.०२६. ततस्तेन युज्यता यावदर्हत्त्वं प्राप्तम्।
२७५.०२६. अथायुष्मतो वीतशोकस्यार्हत्त्वं प्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिन एतदभवत्--अस्ति खलु मे--पूर्वं राज्ञोऽशोकस्य गृहद्वारमनुप्राप्तः।
२७५.०२८. ततो दौवारिकमुवाच--गच्छ, राज्ञोऽशोकस्य निवेदय--वीतशोको द्वारि तिष्ठति देवं द्रष्टुकाम इति।
२७५.०२९. ततो दौवारिको राजानमशोकमभिगम्योवाच--देव, दिष्ट्या वृद्धिः।
२७५.०३०. वीतशोकोऽभ्यागतो द्वारि तिष्ठति देवं द्रष्टुकामः।
२७५.०३०. ततो राज्ञा अभिहितम्--गच्छ, शीघ्रं प्रवेशयेति।
२७५.०३१. यावद्वीतशोको राजकुलं प्रविष्टः।
२७५.०३१. दृष्ट्वा च रजा अशोकः संहासनादुत्थाय मूलनिकृत्त इव द्रुमः सर्वशरीरेणायुष्मन्तं वीतशोकं निरीक्षमानः प्ररुदन्नुवाच--

२७६.००१. <२७६>भूतेषु संसर्गगतेषु नित्यं दृष्ट्वापि मां नैति यथा विकारम्।
२७६.००३. विवेकवेगाधिगतस्य शङ्के प्रज्ञारसस्यातिरसस्य तृप्तः॥१६॥
२७६.००५. अथ राज्ञोऽशोकस्य राधगुप्तो नामाग्रामात्यः।
२७६.००५. स पश्यति--आयुष्मतो वीतशोकस्य पांशुकूलं च चीवरं मृण्मयं पात्रं यावदन्नं भैक्ष्यं लूहप्रणीतम्।
२७६.००६. दृष्ट्वा च राज्ञः पादयोर्निपत्य कृताञ्जलिरुवाच--देव, यथा अयमल्पेच्छः संतुष्टश्च, नियतमयं कृतकरणीयो भविष्यति, प्रीतिरुत्पाद्येत्
२७६.००८. कृतह्?
२७६.००९. भैक्षान्नभोजनं यस्य पांशुकूलं च चीवरम्।
२७६.०१०. निवासो वृक्षमूलं च तस्यानियतं कथम्॥१७॥
२७६.०११. निराश्रवं यस्य मनो विशालं निरामयं चोपचितं शरीरम्।
२७६.०१३. स्वच्छन्दतो जीवितसाधनं च नित्योत्सवं तस्य मनुष्यलोक् ।१८॥
२७६.०१५. श्रुत्वा ततो राजा प्रीतमना उवाच--
२७६.०१६. अपहाय मौर्यवंशं मगधपुरं सर्वरत्ननिचयं च्
२७६.०१७. दृष्ट्वा वंशानिवहं प्रहीणमदमानमोहसारम्भम्॥१९॥
२७६.०१८. अत्युद्धृतमिव मन्ये यशसा पूतं पुरमिव महं च्
२७६.०१९. प्रतिपद्यतां त्वया दशबलधरशासनमुदारेण् ।२०॥
२७६.०२०. अथ राजा अशोकः सर्वाङ्गेन परिगृह्य प्रज्ञप्त एवासने निषादयामास, प्रणीतेन चाहारेण स्वहस्तं संतर्पयति।
२७६.०२१. भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रमायुष्मतो वीतशोकस्य पुरतो निषण्णो धर्मश्रवणाय्
२७६.०२२. अथायुष्मान् वीतशोको राजानमशोकं धर्म्यया कथया संदर्शयन्नुवाच--
२७६.०२४. अप्रमादेन संपाद्य राज्यैश्वर्यं प्रवर्तताम्।
२७६.०२५. दुर्लभा त्रीणि रत्नानि नित्यं पूजय पार्थिव् ।२१॥
२७६.०२६. स यावधर्म्यया कथया संहर्षयित्वा संप्रस्थितः॥
२७६.०२७. अथ राजा अशोकः कृतकरपुटः पञ्चभिरमात्यशतैः परिवृतोऽनेकैश्च पौरजनपदसहस्रैः परिवृतः पुरस्कृत आयुष्मन्तं वीतशोकमनुव्रजितुमारब्धः।
२७६.०२८. वक्ष्यति हि--
२७६.०२९. भ्राता ज्येष्ठेन राज्ञा तु गौरवेणानुगम्यत्
२७६.०३०. प्रव्रज्यायाः खलु श्लाध्यं संदृष्टिकमिदं फलम्॥२२॥

२७७.००१. <२७७>तत आयुष्मान् वीतशोकः स्वगुणानुद्भावयन् पश्यतः सर्वजनकायस्य ऋद्ध्या वैहायसमुत्पत्य प्रक्रान्तः।
२७७.००२. अथ राजा अशोकः कृतकरपुटः प्राणिशतसहस्रैः परिवृतः पुरस्कृतो गगनतलावसक्तदृष्टिरायुष्मन्तं वीतशोकं निरीक्षमाण उवाच--
२७७.००४. स्वजनस्नेहनिःसङ्गो विहंग इव गच्छसि।
२७७.००५. श्रीरागनिगदैर्बद्धानस्मान् प्रत्यादिशान्निव् ।२३॥
२७७.००६. आत्मायत्तस्य शान्तस्य महःसंकेतचारिणः।
२७७.००७. ध्यानस्य फलमेतच्च रागान्धैर्यन्न दृश्यत् ।२४॥
२७७.००८. अपि च्
२७७.००९. ऋद्ध्या खल्ववभर्त्सताः परमया श्रीगर्वितास्ते वयं बुद्ध्या खल्वपि नामिताः शिरसिताः प्रज्ञाभिमानोदयम्।
२७७.०११. प्राप्तार्थेन फलान्धबुद्धिमनसः संवेजितास्ते वयं संक्षेपेण सबाष्पदुर्दिनमुखाः स्थाने विमुक्ता वयम्॥२५॥
२७७.०१३. तत्रायुष्मान् वीतशोकः प्रत्यन्तिमेषु जनपदेषु शय्यासनाय निर्गतः।
२७७.०१३. तस्य च महान् व्याधिरुत्पन्नः।
२७७.०१४. श्रुत्वा च राज्ञा अशोकेन भैषज्यमुपस्थायिकाश्च विसर्जिताः।
२७७.०१४. तस्य तेन व्याधिना स्पृष्टस्य शिरः खुस्तमभवत् ।
२७७.०१५. यदा च व्याधिर्विगतः, तस्य विरूटानि शिरसि रोमाणि।
२७७.०१६. तेन वैद्योपस्थायकाश्च विसर्जिताः।
२७७.०१६. तस्य च गोरसप्राय आहारोऽनुसेव्यत्
२७७.०१६. स घोषं गत्वा भैक्ष्यं पर्यटति।
२७७.०१७. तस्मिंश्च समये पुण्ड्रवर्धननगरे निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपातिता चित्रार्पिता।
२७७.०१८. उपासकेनाशोकस्य राज्ञो निवेदितम्।
२७७.०१८. श्रुत्वा च राज्ञा अभिहितम्--शीघ्रमानीयताम्।
२७७.०१९. तस्योर्ध्वं योजनं यक्षाः शृण्वन्ति, अधो योजनं नागाः।
२७७.०१९. यावत्तं तत्क्षणेन यक्षैरुपनीतम्।
२७७.०२०. दृष्ट्वा च राज्ञा रुषितेनाभिहितम्--पुण्ड्रवर्धने सर्वे आजीविकाः प्रघातयितव्याः।
२७७.०२१. यावदेकदिवसेऽष्टादशसहस्राण्याजीविकानां प्रघातितानि।
२७७.०२१. ततः पाटलिपुत्रे भूयोऽन्येन निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपातिता चित्रार्पिता।
२७७.०२२. श्रुत्वा च राज्ञा अमर्षितेन स निर्ग्रन्थोपासकः सबन्धुवर्गो गृहं प्रवेशायित्वा अग्निना दग्धः।
२७७.०२३. आज्ञप्तं च--यो मे निर्ग्रन्थस्य शिरो दास्यति, तस्य दीनारं दास्यामीति।
२७७.०२४. घोषितम्।
२७७.०२४. स चायुष्मान् वीतशोक आभीरस्य गृहे रात्रिं वासमुपगतः।
२७७.०२५. तस्य च व्याधिना क्लिष्टस्य लूहानि चीवराणि, दीर्घकेशनखश्मश्रुः।
२७७.०२६. आभीर्या बुद्धिरुत्पन्ना--निर्ग्रन्थोऽयमस्माकं गृहे रात्रिं वासमुपगतः।
२७७.०२७. स्वामिनमुवाच--आर्यपुत्र, संपन्नोऽयमस्माकं दीनारः।
२७७.०२७. इमं निर्ग्रन्थं प्रघातयित्वा शिरो राज्ञोऽशोकस्योपनामयेयमिति।
२७७.०२८. ततः स आभीरोऽसिं निष्कोषं कृत्वा आयुष्मन्तं वीतशोकमभिगतः।
२७७.०२९. आयुष्मता च वीतशोकेन पूर्वान्ते ज्ञानं क्षिप्तम्।
२७७.०२९. पश्यति स्वयंकृतानां कर्मणां फलमिदमुपस्थितम्।
२७७.०३०. ततः कर्मप्रतिशरणो भूत्वा अवस्थितः।
२७७.०३०. तेन तथास्याभीरेण शिरश्छिन्नम्।
२७७.०३१. राज्ञोऽशोकस्योपनीतम्--दीनारं प्रयच्छेति।
२७७.०३१. दृष्ट्वा च राज्ञा अशोकेन परिज्ञातम्--विरलानि चास्य शिरसि रोमाणि न व्यक्तिमुपगच्छन्ति।
२७७.०३२. ततो वैद्या उपस्थायका आनीताः।
२७७.०३२. तैर्दृष्ट्वा <२७८>अभिहितम्--देव, वीतशोकस्यैतच्छिरः।

२७८.००१. श्रुत्वा राजा मूर्च्छितो भूमौ पतितः।
२७८.००१. यावज्जलसेकं दत्वा स्थापितः।
२७८.००२. अमात्यैश्चाभिहितम्--देव, वीतरागाणामप्यत्र पीडा।
२७८.००२. दीयतां सर्वसत्त्वेष्वभयप्रदानम्।
२७८.००३. यावद्राज्ञा अभयप्रदानं दत्तम्--न भूयः कश्चित्प्रघातयितव्यः॥
२७८.००४. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारमायुष्मन्तमुपगुप्तं पृच्छन्ति--किं कर्म कृतमायुष्मता वीतशोकेन यस्य कर्मणो विपाकेन शस्त्रेण प्रघातितह्? स्थविर उवाच--तेन ह्यायुष्मन्तः कर्माणि कृतानि पूर्वमन्यासु जातिषु।

२७८.००६. श्रूयताम्--
२७८.००७. भुतपूर्वं भिक्षवोऽतीतेऽध्वनि अन्यतमो लुब्धो मृगान् प्रघातयित्वा जीविकां कल्पयति।
२७८.००८. अटव्यामुदपानम्।
२७८.००८. स तत्र लुब्धो गत्वा पाशान् यन्त्रांश्च स्थापयित्वा मृगान् प्रघातयति।
२७८.००९. अस्ति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्त्
२७८.००९. विस्तरः।
२७८.००९. अन्यतरः प्रत्येकबुद्धस्तस्मिन्नुदपाने आहारकृत्यं कृत्वा उदपानादुत्तीर्य वृक्षमूले पर्यङ्केन निषण्णः।
२७८.०१०. तस्य गन्धेन मृगास्तस्मिन्नुदपाने नाभ्यागताः।
२७८.०११. स लुब्ध आगत्य पश्यति--नेइव मृगा उदपानमभ्यागताः।
२७८.०१२. पदानुसारेण च तं प्रत्येकबुद्धमभिगतः।
२७८.०१२. दृष्ट्वा चास्य बुद्धिरुत्पन्ना--अनेनैष आदीनव उत्पादितः।
२७८.०१३. तेनासिं निष्कोषं कृत्वा स प्रत्येकबुद्धः प्रघातितः॥
२७८.०१४. किं मन्यध्वे आयुष्मन्तह्? योऽसौ लुब्धः स एष वीतशोकः।
२७८.०१४. यत्रानेन मेगाः प्रघातिताः, तस्य कर्मणो विपाकेन महान् व्याधिरुत्पन्नः।
२७८.०१५. यत्प्रत्येकबुद्धः शस्त्रेण प्रघातितः, तस्य कर्मणो विपाकेन बहूनि वर्षसहस्राणि नरकेषु दुःखमनुभूय पञ्च जन्मशतानि मनुष्येषूपपन्नः शस्त्रेण प्रघातितः।
२७८.०१७. तत्कर्मावशेषेणैतर्हि अर्हत्प्राप्तोऽपि शस्त्रेण प्रघातितः॥
२७८.०१८. किं कर्म कृतं येनोच्चकुले उपपन्नः, अर्हत्त्वं च प्राप्तम्? स्थविर उवाच--काश्यपे सम्यक्सम्बुद्धे प्रव्रजितोऽभूत्प्रदानरुचिः।
२७८.०१९. तेन दायकदानपतयः संघभक्तं कारापितास्तर्पणानि यवागूपानानि निमन्त्रणकानि।
२७८.०२०. स्तूपेषु च च्छत्राण्यवरोपितानि, ध्वजाः पताकाः।
२७८.०२१. गन्धमाल्यपुष्पवादित्रसमुदयेन पूजाः कृताः।
२७८.०२१. तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः।
२७८.०२२. यावद्दशवर्षसहस्राणि ब्रह्मचर्यं चरित्वा सम्यक्प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनार्हत्त्वं प्राप्तमिति॥


२७८.०२४. इति श्रीदिव्यावदाने वीतशोकावदानमष्टाविंशतिमम्॥


                    • अवदान २९ **********


२७९.००१. दिव्२९ अशोकावदानम्।

२७९.००२. यदा राज्ञा अशोकेन अर्धामलकदानेन भगवच्छासने श्रद्धा प्रतिलब्धा, स भिक्षूनुवाच--केन भगवच्छासने प्रभूतं दानं दत्तम्? भिक्षव ऊचुह्--अनाथपिण्डदेन गृहपतिना।
२७९.००४. राजा आह--कियत्तेन भगवच्छासने दानं दत्तम्? भिक्षव ऊचुह्--कोटिशतं तेन भगवच्छासने दानं दत्तम्।
२७९.००५. श्रुत्वा च राजा अशोकश्चिन्तयति--तेन गृहपतिना भूत्वा कोटिशतं भगवछासने दानं दत्तम्।
२७९.००६. तेनाभिहितम्--अहमपि कोटिशतं भगवच्छासने दानं दास्यामि।
२७९.००७. तेन यावच्चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, सर्वत्र च शतसहस्राणि दत्तानि--जातौ, बोधौ, धर्मचक्रे, परिनिर्वाणे च, सर्वत्र शतसहस्रं दत्तम्।
२७९.००८. पञ्चवार्षिकं कृतम्।
२७९.००९. तत्र च चत्वारि शतसहस्राणि दत्तानि, त्रीणि शतसहस्राणि भिक्षूणां भोजितानि यत्रेकर्महतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च्
२७९.०१०. कोशं स्थापयित्वा महापृथिवीमन्तःपुरामात्यगणमात्मानं कुणालं च आर्यसंघे निर्यातयित्वा चत्वारि शतसहस्राणि दत्त्वा निष्क्रीतवान्।
२७९.०१२. षण्णवतिकोट्यो भगवच्छासने दानं दत्तम्।
२७९.०१२. स यावद्ग्लानीभूतः।
२७९.०१२. अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः।
२७९.०१३. तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तम्।
२७९.०१४. तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर्निपत्य कृताञ्जलिरुवाच--
२७९.०१५. यच्छत्रुसंघैः प्रबलैः समेत्य नोद्वीक्षितं चण्डदिवाकराभम्।
२७९.०१७. पद्माननश्रीशतसम्प्रपीतं कस्मात्सबाष्पं तव देव वक्त्रम्॥१॥
२७९.०१९. राजा आह--राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि, किं तु शोचामि--आर्यैर्यद्विप्रयुक्ष्यामि।
२७९.०२१. नाहं पुनः सर्वगुणोपपन्नं संघं समक्षं नरदेवपूजितम्।
२७९.०२३. संपूजयिष्यामि वरान्नपानैरेतं विचिन्त्याश्रुविमोक्षणम्॥२॥
२७९.०२५. अपि च राधगुप्त, अयं मे मनोरथो बभूव--कोटिशतं भगवच्छासने दानं दास्यामीति, स च मेऽभिप्रायो न परिपूर्णः।
२७९.०२६. ततो राज्ञा अशोकेन चत्वारः कोट्यः परिपूरयिष्यामीति हिरण्यसुवर्णं कुर्कुटारामं प्रषयितुमारब्धः॥
२७९.०२८. तस्मिंश्च समये कुणालस्य संपदिर्नाम पुत्रो युवराज्ये प्रवर्तत्
२७९.०२८. तस्यामात्यैरभिहितम्--कुमार, अशोको राजा स्वल्पकालावस्थायी।
२७९.०२९. इदं च द्रव्यं कुर्कुटारामं प्रेष्यत्
२७९.०२९. कोशबलिनश्च राजानः।
२७९.०३०. निवारयितव्यः।
२७९.०३०. यावत्कुमारेण भाण्डागारिकः प्रतिषिद्धः।
२७९.०३०. यदा राज्ञोऽशोकस्याप्रतिषिद्धा (तस्य) सुवर्णभाजने आहारमुपनाम्यत्
२७९.०३१. भुक्त्वा तानि सुवर्णभाजनानि <२८०>कुर्कुटारामं प्रेषयति।

२८०.००१. तस्य सुवर्णभाजनं प्रतिषिद्धम्।
२८०.००१. रूप्यभाजने आहारमुपनाम्यते, तान्यपि कुर्कुटारामं प्रेषयति।
२८०.००२. ततो रूप्यभाजनमपि प्रतिषिद्धम्, यावल्लोहभाजन आहारमुपनाम्यत्
२८०.००३. तान्यपि राजा अशोकः कुर्कुटारामं प्रेषयति।
२८०.००३. तस्य यावन्मृद्भाजन आहारमुपनाम्यत्
२८०.००४. तस्मिंश्च समये राज्ञोऽशोकस्य अर्धामलकं करान्तरगतम्।
२८०.००४. अथ राजा अशोकः संविग्नोऽमात्यान् पौरांश्च संनिपात्य कथयति--कः साम्प्रतं पृथिव्यामीश्वरह्? ततोऽमात्य उत्थायासनाद्येन राजा अशोकस्तेनाञ्जलिं प्रणम्योवाच--देव, पृथिव्यामीश्वरः।
२८०.००६. अथ राजा अशोकः साश्रुदुर्दिननयनवदनोऽमात्यानुवाच--
२८०.००८. दाक्षिण्यादनृतं हि किं कथयत भ्रष्टाधिराज्या वयं शेषं त्वामलकार्धमित्यवसितं यत्र प्रभुत्वं मम्
२८०.०१०. एश्वर्यं धिग्नार्यमुद्धतनदीतोयप्रवेशोपमं मर्त्येन्द्रस्य ममापि यत्प्रतिभयं दारिद्र्यमभ्यागतम्॥३॥
२८०.०१२. अथवा को भगवतो वाक्यमन्यथा करिष्यति? संपत्तयो हि सर्वा विपत्तिनिधना इति प्रतिज्ञातं यदवितथवादिना गौतमेन, न हि तद्विसंवदति॥
२८०.०१४. प्रतिशिष्यतेऽस्मन्ने चिरादाज्ञा मम यावती यथा मनसा।
२८०.०१५. साद्यैव महाद्रिशिलातलविहतनदीवत्प्रतिनिवृत्ता ॥४॥
२८०.०१६. आज्ञाप्य व्यवधूतडिम्बडमरामेकातपत्रां महीमुत्पाट्य प्रतिगर्वितानरिगणानाश्वास्य दीनातुरान्।
२८०.०१८. भ्रष्टस्वायतनो न भाति कृपणः संप्रत्यशोको नृपह्छिन्नाम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा॥५॥
२८०.०२०. ततो राजा अशोकः समीपो गतं पुरुषमाहूयोवाच--भद्रमुख, पूर्वगुणानुरागाद्भ्रष्टैश्वर्यस्यापि मम इमं तावदपश्चिमं व्यापारं कुरु।
२८०.०२१. इदं ममार्धामलकं ग्रहाय कुर्कुटारामं गत्वा संघे निर्यातय्
२८०.०२२. मद्वचनाच्च संघस्य पादाभिवन्दनं कृत्वा वक्तव्यम्--जम्बुद्वीपैश्वर्यस्य राज्ञ एष साम्प्रतं विभव इति।
२८०.०२३. इदं तावदपश्चिमं दानं तथा परिभोक्तव्यं यथा मे संघगता दक्षिणा विस्तीर्णा स्यादिति।
२८०.०२४. आह च--
२८०.०२५. इदं प्रदानं चरमं ममाद्य राज्यं च तं चैव गतं स्वभावम्।
२८०.०२७. आरोग्यवैद्योषधिवर्जितस्य त्राता न मेऽस्त्यार्यगणाद्बहिर्धा॥६॥
२८०.०२९. ततथा भुज्यतां येन प्रदानं मम पश्चिमम्।
२८०.०३०. यथा संघगता मेऽद्य विस्तीर्णा दक्षिणा भवेत् ॥७॥
२८०.०३१. एवं देवेति स्पुरुषो राज्ञोऽशोकस्य प्रतिश्रुत्य तदर्धामलकं कुरुकुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं संघे निर्यातयन्नुवाच--

२८१.००१. <२८१>एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः।
२८१.००३. भाग्यच्छिद्रमवेक्ष्य सोऽद्य नृपतिः स्वैः कर्माभिर्वञ्चितः संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः॥८॥
२८१.००५. भक्त्यवनतेन शिरसा प्रणम्य संघाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिह्नितम्।
२८१.००६. ततः संघस्थविरो भिक्षूनुवाच--भदन्ता भवन्तः, शक्यमिदानीं संवेगमुत्पादयितुम्।
२८१.००७. कुतह्? एवं ह्युक्तं भगवता--परविपत्तिः संवेजनीयं स्थानमिति।
२८१.००७. कस्येदानीं सहृदयस्य संवेगो नोत्पद्यते? कुतह्?
२८१.००९. त्यागशूरो नरेन्द्रोऽसावशोको मौर्यकुञ्जरः।
२८१.०१०. जम्बुद्वीपेश्वरो भूत्वा जातोऽर्धामलकेश्वरः॥९॥
२८१.०११. मृत्यैः स भूमिपतिरद्य हृताधिकारो दानं प्रयच्छति किलामलकार्धमेतत् ।
२८१.०१३. श्रीभोगाविस्तरमदैरतिगर्वितानां प्रत्यादिशन्निव मनांसि पृथग्जनानाम्॥१०॥
२८१.०१५. यावत्तदर्धामलकं चूर्णयित्वा यूषे प्रक्षिप्य संघे चारितम्।
२८१.०१५. ततो राजा अशोको राधगुप्तमुवाच--कथय राधगुप्त, कः साम्प्रतं पृथिव्यामीश्वरह्? अथ राधगुप्तोऽशोकस्य पादयोर्निपत्य कृताञ्जलिरुवाच--देवः पृथिव्यामीश्वरः।
२८१.०१७. अथ राजा अशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य संघाय अञ्जलिं कृत्वोवाच--एष इदानीं महत्कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसंघे निर्यातयामि।
२८१.०१९. आह च--
२८१.०२०. इमां समुद्रोत्तमनीलकञ्चुकामनेकरत्नाकरभूषिताननाम्।
२८१.०२२. ददाम्यहं भूतधरां समन्दरां संघाय तस्मिन्नुपभुज्यते फलम्॥११॥
२८१.०२४. अपि च्
२८१.०२५. दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं काङ्क्षामि द्रुतवारिवेगचपलं प्रागेव राजश्रियम्।
२८१.०२७. दानस्यास्य फलं तु भक्तिमहतो यन्मेऽस्ति तेनाप्नुयां चित्तैश्वर्यमहार्यमार्यमहितं नायाति यद्विक्रियाम्॥१२॥
२८१.०२९. यावत्पत्राभिलिखितं कृत्वा दन्तमुद्रया मुद्रितम्।
२८१.०२९. ततो राजा महापृथिवीं संघे दत्वा कालगतः।
२८१.०३०. यावदमात्यैर्नीलपीताभिः शिबिकाभिर्निर्हारित्वा शरीरपूजां कृत्वा राजानं प्रतिष्ठापयिष्याम इति, यावद्राधगुप्तेनाभिहितम्।
२८१.०३१. राज्ञा अशोकेन महापृथिवी संघे निर्यातिता <२८२>इति।

२८२.००१. ततोऽमात्यैरभिहितम्--किमर्थमिति? राधगुप्त उवाच--एष राज्ञोऽशोकस्य मनोरथे बभूव--कोटिशतं भगवच्छासेन दानं दास्यामीति।
२८२.००२. तेन षण्णवितिकोट्यो दत्ता यावद्राज्ञ्या प्रतिषिद्धा।
२८२.००३. तदभिप्रायेण राज्ञा महापृथिवी संघे दत्ता।
२८२.००३. यावदमात्यैश्चतस्रः कोट्यो भगवच्छासने दत्त्वा पृथिवीं निष्क्रीय संपदी राज्ये प्रतिष्ठापितः।
२८२.००४. संपदेर्बृहस्पतिः पुत्रः, बृहस्पतेर्वृषसेनः, वृषसेनस्य पुष्यधर्मा, पुष्यधर्मणः पुष्यमित्रः।
२८२.००५. सोऽमात्यानामन्त्रयते--क उअपायः स्याद्यदस्माकं नाम चिरं तिष्ठेत्? नैरभिहितम्--देवस्य च वंशादशोको नांना राजा बभूवेति।
२८२.००६. तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्।
२८२.००७. यावद्भगवच्छासनं प्राप्यते, तावत्तस्य यशः स्थास्यति।
२८२.००८. देवोऽपि चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयतु।
२८२.००८. राजा आह--महेशाख्यो राजा अशोको बभूव्
२८२.००९. अन्यः कश्चिदुपाय इति? तस्य ब्राह्मणपुरोहितः पृथग्जनोऽश्राद्धः।
२८२.०१०. तेनाभिहितम्--देव, द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति।
२८२.०१०. यावद्राजा पुष्यमित्रश्चतुरङ्गबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुक्कुटारामं निर्गतः।
२८२.०११. द्वारे च सिंहनादो मुक्तः।
२८२.०१२. यावत्स राजा भीतः पाटलिपुत्रं प्रविष्टः।
२८२.०१२. एवं द्विरपि त्रिरपि।
२८२.०१२. यावद्भिक्षूंश्च संघमाहूय कथयति--भगवच्छासनं नाशायिष्यामीति।
२८२.०१३. किमिच्छथ स्तूपं संघारामान् वा? भिक्षुभिः परिगृहीताः।
२८२.०१४. यावत्पुष्यमित्रो यावत्संघारामं भिक्षूंश्च प्रघातयन् प्रस्थितः।
२८२.०१५. स यावच्छाकलमनुप्राप्तः।
२८२.०१५. तेनाभिहितम्--यो मे श्रमणशिरो दास्यति, तस्याहं दीनारशतं दास्यामि।
२८२.०१६. धर्मराजिकावार्हद्बुद्ध्या(?) शिरो दातुमारब्धम्।
२८२.०१६. श्रुत्वा च राजा अर्हत्प्रघातयितुमारब्धः।
२८२.०१७. स च निरोधं समापन्नः।
२८२.०१७. तस्य परोपकर्मो न क्रमत्
२८२.०१७. स यत्नमुत्सृज्य यावत्कोष्ठकं गतः।
२८२.०१८. दंष्ठ्रानिवासी यक्षश्चिन्तयति--इदं भगवच्छासनं विनश्यति।
२८२.०१८. अहं च शिक्षां धारयामि।
२८२.०१९. न मया शक्यं कस्यचिदप्रियं कर्तुम्।
२८२.०१९. तस्य दुहिता कृमिशेन यक्षेण याच्यते, न चानुप्रयच्छति--त्वं पापकर्मकारीति।
२८२.०२०. यावत्सा दुहिता तेन कृमिशस्य दत्ता भगवच्छासनपरित्राणार्यं परिग्रहपरिपालनार्थं च्
२८२.०२१. पुष्यमित्रस्य राज्ञः पृष्ठतो यक्षो महान् प्रमाणे यूयम्(?)।
२८२.०२२. तस्यानुभावात्स राजा न प्रतिहन्यत्
२८२.०२२. यावद्दंष्ट्रानिवासी यक्षस्तं पुष्यमित्रानुबन्धयक्षं ग्रहाय पर्वतचर्येऽचरत् ।
२८२.०२३. यावद्दक्षिणा महासमुद्रं गतः।
२८२.०२३. कृमिशेन च यक्षेण महान्तं पर्वतमानयित्वा पुष्यमित्रो राजा सबलवाहनोऽवष्टब्धः।
२८२.०२४. तस्य मुनिहत इति संज्ञा व्यवस्थापिता।
२८२.०२४. यदा पुष्यमित्रो राजा प्रघातितस्तदा मौर्यवंशः समुच्छिन्नः॥


२८२.०२६. इति श्रीदिव्यावदाने अशोकावदानं समाप्तम्॥


                    • अवदान ३० **********


२८३.००१. दिव्३० सुधनकुमारावदानम्।

२८३.००२. पुनरपि महाराज यन्मया अनुत्तरसम्यक्सम्बोधिप्राप्तये दानानि दत्तानि, पुण्यानि कृतानि, वीर्यपारमिता च परिरिपूता, अनुत्तरा सम्यक्सम्बोधिर्नाराधिता, तच्छ्रूयताम्॥
२८३.००३. भूतपूर्वं महारज पञ्चालविषये राजनौ बभूवतुः, उत्तरपाञ्चालो दक्षिणपाञ्चालश्च्
२८३.००५. तत्रोत्तरपाञ्चालो महाधनो नांना दस्तिनापुरे राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च शान्तकलिकलहडिम्बड्मरतस्करदुर्भिक्षरोगापगतं शलीक्षुगोमहिषीसम्पन्नम्।
२८३.००७. धार्मिको धर्मराजो धर्मेण राज्यं कारयति।
२८३.००७. तस्मिंश्च नगरे महाह्रद उत्पलकुमुदपुण्ड्रीकसम्पन्नो हंसकारण्डवचक्रवाकोपशोभितो रमणीयः।
२८३.००८. तत्र च ह्रदे जन्मचित्रको नां नागपोतः प्रतिवसति।
२८३.००९. स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
२८३.०१०. अतीव शस्यसम्पत्तिर्भवति।
२८३.०१०. शस्यवती वसुमती।
२८३.०१०. सुभिक्षान्नपानो देशः।
२८३.०११. दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणकृपणवनीपकोपभोज्यः।
२८३.०११. दक्षिणपाञ्चालस्तु राजा अधर्मभूयिष्ठश्चण्डो रभसः कर्कशोऽधर्मेण राज्यं कारयति, नित्यं दण्डेन घातनधारणबन्धनहिडिनिगडोपरोधन राष्ट्रनिवासिनां त्रासयति।
२८३.०१३. अधर्मभूयिष्ठतया चास्य देवो न कालेन कालं सम्यग्वारिधारमुत्सृजति।
२८३.०१४. ततोऽसौ महाजनकायः संत्रस्तः स्वत्रस्तः स्वजीवितापेक्षया राष्ट्रपरित्यागं कृत्वा उत्तरपाञ्चालस्यैव राज्ञो विषयं गत्वा प्रतिवसति।
२८३.०१५. यावदपरेण समयेन दक्षिणपाञ्चालो राजा मृगयाव्यपदेशेन जनपदान् व्यवलोकनाय निर्गतः।
२८३.०१६. यावत्पश्यति ग्रामनगराणि शून्यानि, उद्यानदेवकुलानि भिन्नप्रभग्नानि।
२८३.०१७. स जनकायः क्व गत इति कथयति।
२८३.०१८. अमात्याः कथयत्न्ति--देव, उत्तरपाञ्चालस्य राज्ञो विषयं गतः।
२८३.०१८. किमर्थम्? देव, अभयं प्रयच्छ, कथयामः।
२८३.०१९. दत्तं भवतु।
२८३.०१९. ततस्ते कथयन्ति--देव, उत्तरपाञ्चालो राजा धर्मेण राज्यं कारयति।
२८३.०२०. तस्य जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्च आकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगताः शालीक्षुगोमहिषीसम्पन्नाः।
२८३.०२२. दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणवनीपकोपभोज्यः।
२८३.०२२. देवस्तु चण्डो रभसः कर्कशो नित्यं ताडनघातनधारणबन्धननिगडोपरोध(न) राष्ट्रं त्रासयति।
२८३.०२३. यतोऽसौ जनकायः संत्रस्तः संवेगमापन्न उत्तरपाञ्चालस्य राज्ञो विषयं गतः।
२८३.०२४. दक्षिणपाञ्चालो राजा कथयति--भवन्तः, कोऽसावुपायः स्यादेनासौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसेत्? अमात्या आहुह्--यदि देव उत्तरपाञ्चालवद्धर्मेण राज्यं कारयसि, मैत्रचित्तोऽनुकम्पाचित्तश्च राष्ट्रं पालयसि, नचिरादसौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसेत् ।
२८३.०२७. दक्षिणपाञ्चालो राजा कथयति--भवन्तः, यद्येवम्, अहमप्युत्तरपाञ्चालवद्धर्मेण राज्यं कारयामि, मैत्रचित्तो हितचित्तोऽनुकम्पाचित्तश्च राष्ट्रं पालयामि।
२८३.०२९. यूयं तथा कुरुत, यथा असौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसतीति।
२८३.०३०. अमात्या आहुह्--देव, अपरोऽपि तत्रानुशंसोऽस्ति।
२८३.०३१. तस्मिन्नगरे महाग्रद उत्पलकुमुदपुण्डरीकसंछन्नो हंसकारण्डवचक्रवाकोपशोभितह्<२८४>।

२८४.००१. तत्र जन्मचित्रको नाम नागपोतकः प्रतिवसति।
२८४.००१. स कालेन कालं सम्यग्वारिधारमनुप्रयच्छति।
२८४.००२. अतीव शस्यसम्पत्तिर्भवति।
२८४.००२. तेंस्तस्य शस्यवती वसुमती, सुभिक्षान्नपानश्च देशः।
२८४.००३. राजा आह--कोऽसौ उपायः स्याद्येनासौ नागपोत इहानीयेत? अमात्या आहुह्--देव, विद्यामन्त्रधारिण्ः, तानानयेति।
२८४.००४. ते समन्विष्यन्ताम्।
२८४.००४. ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा स्वविजिते घण्टावघोषणं कारितम्--य उत्तरपाञ्चालराजविषयाज्जन्मचित्रकं नाम नागपोतकमानयति, तस्येमं सुवर्णपिटकं दास्यामि, महता च सत्कारेण सत्करिष्यामीति।
२८४.००७. यावदन्यतमोऽहितुण्डिकोऽमात्यानां सकाशं गत्वा कथयति--ममेदं सुवर्णपिटकमनुप्रयच्छत्
२८४.००८. अहं जन्मचित्रं नाम नागपितकमपहृत्यानयामीति।
२८४.००९. अमात्याः कथयन्ति--एष गृहाण्
२८४.००९. स कथयति--यो युष्माकं श्रद्धयितः प्रत्ययितश्च, तस्य हस्ते तिष्ठतु।
२८४.०१०. आनीते जन्मचित्रे नागपोतके ग्रहीष्यामीति।
२८४.०१०. एवं कुरुष्वेति।
२८४.०१०. ततोऽसौ अहितुण्डिकः प्रत्ययितस्य पुरुषस्य हस्ते सुवर्णपिटकं स्थापयित्वा हस्तिनापुरं गतः।
२८४.०१२. तेनासौ ह्रदः समन्ततो व्यवलोकितः।
२८४.०१२. निमित्तीकृतह्--असौ ज्ञ्मचित्रो नागपोतक एतस्मिन् प्रदेशे तिष्ठतीति।
२८४.०१३. ततो बल्युपहारनिमित्तं पुनः प्रत्यागतः।
२८४.०१३. अमात्यानां कथयति--बल्युपहारमेनं प्रयच्छत्
२८४.०१४. सप्तमे दिवसे तं नागपोतकमपहृत्य आनयामीति।
२८४.०१४. स चाहितुण्डिकस्तेन संलक्षितह्--ममासावपहरणायागतः।
२८४.०१५. सप्तमे दिवसे मामपहरिष्यति।
२८४.०१५. मातापितृवियोगजं मे दुःखं भविष्यतीति।
२८४.०१६. किं करोमि, किं शरणं प्रपद्येयमिति।
२८४.०१६. तस्य ह्रदस्य नातिदूरे द्वौ लुब्धकौ प्रतिवसतः, सारको हलकः।
२८४.०१७. तौ ह्रदमाश्रित्य जीविकां कल्पयतः।
२८४.०१७. ये स्थलगताः प्राणिनो मृगशरभसूकरादयस्तं ह्रदमुपसर्पन्ति, तान् प्रघातयतः, येऽपि जलगता मत्स्यकच्छपमण्डूकादयः।
२८४.०१९. तत्र सारकः कालगतः, हलको जीवति।
२८४.०१९. जन्मचित्रो नागपोतः संलक्षयति--कोऽन्योऽस्ति मम शरणमृते हलकात्लुब्धकात्? ततो मनुष्यवेषमास्थाय हलकस्य लुब्धकस्य सकाशं गतः।
२८४.०२१. गत्वा कथयति--भोः पुरुष, किं त्वं जानीषे कस्यानुभावाद्धनस्य राज्ञो जनपदा ऋद्धाश्च स्फीताश्च सुभिक्षाकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगताः शालीक्षुगोमहिषीसम्पन्ना इति? स कथयति--जाने स राजा धार्मिको धर्मेण राज्यं कारयति, मैत्रचित्तो हितचित्तोऽनुक्म्पाचित्तश्च राष्ट्रं पालयतीति।
२८४.०२५. अस्मिन् प्रदेशे जन्मचित्रको नाम नागपितकः प्रतिवसति।
२८४.०२६. स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
२८४.०२७. अतीव शस्यसम्पत्तिर्भवति।
२८४.०२७. शस्यवती वसुमती, सुभिक्षान्नपानश्च देश इति।
२८४.०२८. जन्मचित्रः कथयति--तं नागपोतकमितो विषयादपहरेत्, तस्य नागपोतकस्य किं स्यात्? न शोभनं स्यात्, मातापितृवियोगजं दुःखं स्याद्राज्ञो राष्ट्रस्य च्
२८४.०३०. योऽपहरति, तस्य किं त्वं कुर्याह्? स आह--जीविताद्व्यपरोपयेयम्।
२८४.०३०. जानीषे त्वं कतरोऽसौ नागपोतक इति? न जान्
२८४.०३१. अहमेवासौ नागः।
२८४.०३१. दक्षिणपाञ्चालवैषयिकेनाहितुण्डिकेनापहृत्य नीयेत्
२८४.०३२. स बल्युपहारविधानार्थं गतः।
२८४.०३२. सप्तमे दिवसे आगमिष्यति।

२८५.००१. <२८५>आगत्य अस्य ह्रदस्य चतसृषु दिक्षु खदिरशलाकान्निखन्य नानारङ्गैः सूत्रैर्वेष्टयित्वा मन्त्रानावर्तयिष्यति।
२८५.००२. तत्र त्वया प्रच्छन्ने संनिकृष्टे स्थातव्यम्।
२८५.००२. यदा तेनायमेवम्रूपः प्रयोगः कृतो भवति, तदा ह्रदमध्यात्क्वथमानं पानीयमुत्थास्यति अहं चोत्थास्यामि।
२८५.००३. तदा त्वयासौ अहितुण्डिकः शरेण मर्मणि ताडयितव्यः, आशु चोपसंक्रम्य वक्तव्यह्--मन्त्रानुपसंहर्
२८५.००४. मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति।
२८५.००५. यद्यसौ मन्त्राननुपसंहृत्य प्राणैर्वियोक्ष्यते, मृतं तेऽहं यावज्जीवं मन्त्रपाशब्द्धः स्यामिति।
२८५.००६. लुब्धकः प्राह--यदि तवैकस्यैवं गुणः स्यात्, तथाप्यहमेवं कुर्याम्, प्रागेव सराजकस्य राष्ट्रस्य्
२८५.००७. गच्छ, अहं ते त्रातेति।
२८५.००८. ततस्तेन नागपोतकेन तस्यैकपार्श्वे गुप्तस्थानमुपदर्शितम्।
२८५.००८. यावदसौ लुब्धकः सप्तमे दिवसे प्रतिगुप्ते प्रदेशे आत्मानं गोपयित्वा अवस्थितः।
२८५.००९. स चाहितुण्डिक आगत्य बल्युपहारं कर्तुमारब्धः।
२८५.०१०. तेन चतसृषु दिक्षु चत्वारः खदिरकीलका निखाताः।
२८५.०१०. नानारङ्गैः सूत्रैर्वेष्टयित्वा मन्त्रा आवर्तिताः।
२८५.० अतस्तस्मात्पानीयं क्वथितुमारब्धम्।
२८५.०११. लुब्धकेन च शरेण मर्मणि ताडितः।
२८५.०१२. निष्कोशं चासिं कृत्वा अभिहितह्--त्वमस्मद्विषयनिवासिनं नागपोतमपहरसि।
२८५.०१३. मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयामीति।
२८५.०१३. ततोऽहितुण्डिकेन दुःखवेदनाभिभूतेन मरणभयभीतेन मन्त्रा व्यावर्तिताः।
२८५.०१४. तत्समनन्तरं च लुब्धकेन जीविताद्व्यपरोपितः।
२८५.०१५. ततो नागो मन्त्रपाशविनिर्मुक्तो ह्रदादभ्युद्गम्य लुब्धकं परिष्वक्तवान्, एवं चाह--त्वं मे माता, त्वं मे पिता, यन्मया त्वामागम्य मातापितृवियोगजं दुःखं नोत्पन्नम्।
२८५.०१७. आगच्छ, भवनं गच्छामः।
२८५.०१७. तेनासौ भवनं नीतः, नानाविधेन चान्नपानेन संतर्पितः, रत्नानि चोपदर्शितानि, मातापित्रोश्च निवेदितः।
२८५.०१८. अम्ब तात--एष मे सुहृच्छरणं बान्धवः।
२८५.०१९. अस्यानुभावाद्युष्माभिः सह वियोगो न जात इति।
२८५.०१९. ताभ्यामसौ वरेण प्रवारितो विविधानि च रत्नानि दत्तानि।
२८५.०२०. स तान्यादाय तस्माध्रदाद्व्युथितः।
२८५.०२०. तस्य च ह्रदस्य नातिदूरे पुष्पफलसलिलसम्पन्ने नानाशकुनिकूजिते ऋषेरग्रमाश्रमपदम्।
२८५.०२१. तत्र च नागपोतकेन सार्धं वृत्तकं तत्सर्वं विस्तरेण समाख्यातम्।
२८५.०२२. तत ऋषिः कथयति--किं रत्नैः किं वा ते सुवर्णेन? तस्य भवनेऽमोघो नां पाशस्तिष्ठति, तं याचस्व्
२८५.०२३. ततो लुब्धकोऽमोघपाशे संजाततृष्णहृषिवचनमुपश्रुत्य पुनरपि नागभवनं गतः।
२८५.०२४. यावत्पश्यति भवनद्वारे तममोघपाशम्।
२८५.०२५. तस्यैतदभवत्--एष स पाशो यो मया प्रार्थनीयः।
२८५.०२५. इति विदित्वा नागभवनं प्रविष्टः।
२८५.०२५. ततो जन्मचित्रेण नागपोतकेन अन्यैश्च नागैः ससम्भ्रमैः प्रतिसंमोदितो रत्नैश्च प्रवारितः।
२८५.०२६. स कथयति--अलं मम रत्नैः।
२८५.०२७. किं तु एतममोघपाशं प्रयच्छथेति।
२८५.०२७. स नाग आह--तवानेन किं प्रयोजनम्? यदा गरुत्मतोपद्रुता भवामः, तदा अनेनात्मानं रक्षामः।
२८५.०२८. लुब्धक आह--युष्माकमेष कदाचित्कर्हिचित्गरुत्मतोपद्रुतानामुपयोगं गच्छति।
२८५.०२९. मम तु अनेन सततमेव प्रयोजनम्।
२८५.०३०. यदस्ति कृतमुपकृतं च, अनुप्रयच्छेति।
२८५.०३०. जन्मचित्रस्य नागपोतकस्यैतदभवत्--ममानेन बहूपकृतम्।
२८५.०३१. मातापितरौ अवलोक्य ददामीति।
२८५.०३१. तेन्मातापितरौ अवलोक्य स पाशो दत्तः।
२८५.०३२. ततोऽसौ लुब्धकः पृथिवीलब्धप्रख्येन सुखसौमनस्येनाप्यायितमना अमोघपाशमादाय नागभवनादभ्युद्गम्य स्वगृहं गतः॥

२८६.००१. <२८६>यावदपरेण समयेन धनो राजा देव्या सार्धं क्रीडति रमते परिचारयति।
२८६.००१. तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता।
२८६.००२. स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अनेकधनसमुदितं मे गृहम्।
२८६.००३. न मे पुत्रो न दुहिता।
२८६.००३. ममात्ययात्स्वकुलवंशच्छेदे राष्ट्रापहारः सर्वसन्तस्वापतेयमपुत्रमिति कृत्वा अन्यराजविधेयो भविष्यतीति।
२८६.००४. स श्रमणब्राह्मणसुहृत्सम्बन्धिबान्धवैरुच्यते--देव, किमसि चिन्तापरह्? स एतत्प्रकरणं विस्तरेणारोचयति।
२८६.००६. ते कथयति--देवताराधनं कुरु, पुत्रस्ते भविष्यतीति।
२८६.००६. सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरवासवादीनन्यांश्च देवताविशेषानायाचते, तद्यथा--आरामदेवता वनदेवता चत्वरदेवता शृङ्गाटकदेवता बलिप्रतिग्राहिकाः।
२८६.००८. सहजाः सहधर्मिका नित्यावुबद्धा अपि देवता आयाचत्
२८६.००९. अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति।
२८६.००९. तच्च नेइवम्।
२८६.०१०. यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत्, तद्यथा राज्ञश्चक्रवर्तिनः।
२८६.०१०. अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च्
२८६.०११. कतमेषां त्रयाणाम्? मातापितरौ रक्तौ भवतः संनिपतितौ।
२८६.०१२. माता चास्य कल्या भवति ऋतुमती च्
२८६.०१२. गन्धर्वः प्रत्युपस्थितो भवति।
२८६.०१३. एषा त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च्
२८६.०१३. स चैवमायाचनपरस्तिष्ठति।
२८६.०१४. अन्यतमश्च भद्रकल्पिको बोधिसत्त्वस्तस्याग्रमहिष्या अवक्रान्तः।
२८६.०१५. पञ्चावेणीया धर्मा एकत्ये पण्डितजातीये मातृग्राम्
२८६.०१५. कतमे पञ्च? रक्तं पुरुषं जानाति विरक्तं जानाति।
२८६.०१६. कालं जानाति क्रतुं जानाति।
२८६.०१६. गर्भमवक्रान्तं जानाति।
२८६.०१६. यस्य सकाशाद्गर्भमवक्रामति तमपि जानाति।
२८६.०१७. दारकं जानाति, दारिकां जानाति।
२८६.०१७. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति।
२८६.०१८. सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति।
२८६.०१८. सा आत्तमनाः स्वामिन्नारोचयति--दिष्ट्या वर्धस्व आर्यपुत्र्
२८६.०१९. आपन्नसत्त्वास्मि संवृत्ता।
२८६.०१९. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति।
२८६.०२०. सोऽप्यात्तमनात्तमनाः पूर्वं कायमुन्नमय्य दक्षिणं बाहुमभिप्रसार्य उदानमुदानयति--अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्।
२८६.०२२. जातो मे स्यान्नावजातः।
२८६.०२२. कृत्यानि मे कुर्वीत् ।
२८६.०२२. प्रतिभरेत् ।
२८६.०२२. दायाद्यं मे प्रतिपद्येत्
२८६.०२३. कुलवंशो मे चिरस्थितिकः स्यात् ।
२८६.०२३. अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नांना दक्षिणामादेक्ष्यति--इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छतु इति।
२८६.०२५. आपन्नसत्त्वां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति तिक्ताम्ललवणमधुर्कटुकषायविवर्जितैराहारैः।
२८६.०२६. हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्।
२८६.०२७. न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय्
२८६.०२८. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता।
२८६.०२९. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोणः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः।
२८६.०३०. तस्य जातौ आनन्दभेर्यस्ताडिताः।
२८६.०३१. श्रुत्वा राजा कथयति--किमेतदिति।
२८६.०३१. अन्तःपुरिकाभी राज्ञे निवेदितम्--देव, दिष्ट्या वर्धस्व्
२८६.०३२. पुत्रस्ते जात इति।
२८६.०३२. ततो राज्ञा तं सर्वं नगरमपगतपाषाणशर्करकठल्लम् <२८७>व्यवस्थितम्, चन्दनवारिसिक्तमुच्छ्रतध्वजपताकं सुरभिधूपघटिकोपनिबुद्धं नानापुष्पाभिकीर्णरमणीयम्।

२८७.००२. आज्ञा च दत्ता--श्रमणब्राह्मणकृपणवनीपकेभ्यो दानं प्रयच्छत, सर्वबन्धनमोक्षं च कुरुतेति।
२८७.००३. तस्यैवं त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातकर्म करोति।
२८७.००४. तस्य जातिमहं कृत्वा नामधेयं व्यवस्थापितुमारब्धम्--किं भवतु दारक्स्य नामेति? अमात्याः कथयन्ति--अयं दारको धनस्य राज्ञः पुत्रः, भवतु दारकस्य सुधनो नामेति।
२८७.००५. तस्य सुधन इति नामधेयं व्यवस्ह्तापितम्।
२८७.००६. सुधनो दारकोऽष्टाभ्यो धात्रीभ्योऽनुदत्तो द्वाभ्यामंसधात्रीभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्।
२८७.००७. सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवतीतेन सर्पिषा सर्पिमण्डैर्वा अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
२८७.००९. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥
२८७.०१०. स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां वस्त्रपरीक्षायाम्।
२८७.०१२. सोऽष्टासु परीक्षासु घटको वाचकः पण्डितः पटुप्रचारः संवृत्तः।
२८७.०१२. स यानि तानि भवन्ति राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तस्यथा--हस्तिग्रीवायामश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणेऽङ्कुशग्रहे पाशग्रहे छेद्ये भेद्ये मुष्टिबन्धे पदबन्धे दूरवेधे शब्दवेधे मर्मवेधेऽक्षुण्णवेधे दृढप्रहारितायाम्।
२८७.०१६. पञ्चस्थानेषु कृतावी संवृत्तः।
२८७.०१७. तस्य पित्रा त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयसम्।
२८७.०१७. त्रीणि वासगृहाणि मापितानि, हैमन्तिकं ग्रैष्मिकं वार्षिकम्।
२८७.०१८. त्रीण्युद्यानानि मापितानि, हैमन्तिकं ग्रैष्मिकं वार्षिकम्।
२८७.०१९. ततः सुधनकुमार उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति॥
२८७.०२१. यावदपरेण समयेन हलको लुब्धको मृगयामन्वेषमाणस्तेन तेनानुविचरन्नन्यतमं पर्वतमनुप्राप्तः।
२८७.०२२. तस्य च पर्वतस्याधस्तादृषेराश्रमपदं पश्यति पुष्पफलसम्पन्नं नानापक्षिगणविचारितम्।
२८७.०२३. महान्तं च ह्रदमुत्पलकुमुदपुण्डरीकसंछन्नं हंसकारण्डवचक्रवाकोपशोभितम्।
२८७.०२४. स तमाश्रमपदं परिभ्रमितुमारब्धः।
२८७.०२४. यावत्तमृषिं पश्यति दीर्घकेशश्मश्रुनखरोमाणं वातापकर्षितशरीरं चीवरवल्कलधारिणमन्यतमवृक्षमूलाश्रयतृणकुटिकाकृतनिलयम्।
२८७.०२५. दृष्ट्वा च पुनः पादाभिवन्दनं कृत्वा कृताञ्जलिपुटः पप्रच्छ--भगवन्, कियच्चिरमस्मिन् प्रदेशे तव प्रतिवसतह्? चत्वारिंशद्वर्षाणि।
२८७.०२७. अस्ति त्वया इयता कालेनास्मिन् प्रदेशे कश्चिदाश्चर्याद्भुतधर्मो दृष्टः श्रुतो वा? प्रशान्तात्मा ऋषिर्मन्दं मन्दमुवाच--भद्रमुख, दृष्टस्तेऽयं ह्रदह्? दृष्टो भगवन्।
२८७.०२९. एषा ब्रह्मसभा नाम पुष्किरिणी उत्पलपद्मकुमुदपुण्डरीकसंछन्ना नानापक्षिगणनिषेविता हिमरजततुषारगौराम्बुसम्पूर्णा सुरभिकुसुमपूर्णतोया।
२८७.०३०. अस्यां पुष्किरिण्यां पञ्चदशम्यां मनोहरा नाम द्रुमस्य किन्नरराजस्य दुहिता पञ्चकिन्नरीशतपरिवारा नानाविधस्नानोद्वर्तनैरागत्य स्नाति।
२८७.०३२. स्नानकाले चास्या मधुरगीतवादितशब्देन मृगपक्षिणोऽवह्रियन्त्

२८८.००१. अहमपि तं शब्दं श्रुत्वा महता प्रीतिसौमनस्येन सप्ताहमतिनामयामि।
२८८.००१. एतदाश्चर्यं भद्रमुख मया दृष्टमिति।
२८८.००२. अथ हलकस्य लुब्धकस्यैतदभवत्--शोभनोऽयं मया अमोघः पाशो नागाल्लब्धो मनोहरायाः किन्नर्याः क्षेप्स्यामीति।
२८८.००३. सोऽपरेण समयेन पूर्णपञ्चदश्याममोघं पाशमादाय ह्रदतीरसमीपे पुष्पफलविटपगहनमाश्रित्य अवधानतत्परोऽवस्ह्तितः।
२८८.००४. यावन्मनोहरा किन्नरी पञ्चशतपरिवारिता तादृश्यैव विभूत्या ब्रह्मसभां पुष्किरिणीमवतीर्णा स्नातुम्।
२८८.००५. तत्समन्तरं च हलकेन लुब्धकेन अमोघः पाशः क्षिप्तः, येन मनोहरा किन्नरी बद्धा।
२८८.००६. तया अमोघपाशश्रितया ह्रदे महाहतनादः कृतो भीषणश्च शब्दो निश्चारितः, यं श्रुत्वा परिशिष्टः किन्नरिगण इतश्चामुतश्च संभ्रान्तो मनोहरां निरीक्षितुमारब्धः।
२८८.००८. पश्यन्ति बद्धाम्।
२८८.००८. दृष्ट्वा च पुनर्भीता निष्पलायिताः।
२८८.००९. अद्राक्षीत्स लुब्धकस्तां परमरूपदर्शनीयाम्।
२८८.००९. दृष्ट्वा च पुनरुपश्लिष्टो ग्रहीष्यामीति।
२८८.०१०. सा आह--हा हतास्मि, हा मन्दभाग्या, ममोदृशीमवस्थामाप्ताम्।
२८८.०११. मा नैषीस्त्वं हि मा स्प्राक्षीर्नैतत्त्व सुचेष्टितम्।
२८८.०१२. राजभोग्या सुरूपाहं न साधु ग्रहणं तव् ।१॥ इति।
२८८.०१३. लुब्धकः प्राह--यदि त्वां न गृह्णामि, निष्पलायस्
२८८.०१३. सा कथयति--नाहं निष्पलाय्
२८८.०१४. यदि न श्रद्दधासि, इमं चूडामणिं गृहाण्
२८८.०१४. अस्यानुभावेनाहमुपरिविहायसा गच्छामीति।
२८८.०१५. लुब्धकः कथयति--कथं जाने? तया शिरस्थश्चूडामणिर्दत्त उक्तश्च--एष चूडामणिर्यस्य हस्ते, तस्याहं वशा भवामि।
२८८.०१६. ततो लुब्धकेनासौ चूडामणिर्गृहीतः, पाशबद्धां चैनां संप्रस्ह्तितः॥
२८८.०१७. तेन खलु समयेन सुधनराजकुमारो मृगयानिर्गतः।
२८८.०१७. अद्राक्षीत्स लुब्धकः सुधनं राजकुमारमभिरूपं दर्शनीयं प्रासादिकम्।
२८८.०१८. दृष्ट्वा च पुनरस्यैतदभवत्--अयं च राजकुमारः, इयं च परमदर्शनीया।
२८८.०१९. यद्येनां द्रक्ष्यति, बलाद्ग्रहीष्यति।
२८८.०१९. यन्न्वहमेनां प्राभृतन्यायेन स्वयमेवोपनयेयम्।
२८८.०२०. ततस्तां पाशब्द्धामादाय येन राजकुमारस्तेनोपसंक्रान्तः।
२८८.०२०. उपसंक्रम्य पादयोर्निपत्य कथयति--इदं मम देवस्य स्त्रीरत्नं प्राभृतमानीतम्, प्रतिगृह्यतामिति।
२८८.०२१. अद्राक्षीत्सुधनकुमारो मनोहरां किन्नरीमभिरूपां दर्शनीयां प्रासादिकां परमशुभवर्णपुष्कलतया समन्वागतां सर्वगुणसमुदितामष्टादशाभिः स्त्रीलक्षणैः समलंकृतां जनपदकल्याणां काञ्चनकलशकूर्मपीनोन्नतकठिनसहितसुजातवृत्तप्रगल्भमानस्तनीमभिनीलरक्तांशुकविसृतायतनवकमलसदृशनयनां सुभ्रुवमायततुङ्गनासां विद्रूममणिरत्नविंवफलसंस्थानसदृशाधरोष्ठीं सुदृढपरिपूर्णगण्डपार्श्वामत्यर्थरतिकरकपोलतिलकानुपूर्वचरितां संगतभ्रुवारविन्दविकचसदृशपरिपूर्णविमलशशिवपुषं
प्रलम्बबाहुं गम्भीरतिवलिकसंततमध्यां स्तनभारावनाम्यमानपूर्वार्धां रथाङ्गसंस्थितसुजातजघनां कदलीगर्भसदृशकरानुपूर्वावस्थितसुजातकरभोरुं सुनिगूढसुरचितसर्वाङ्गसुन्दरशिरां सहितमणिपीडासम्रक्तकरतलप्रहर्षनूपुरवलयाम्
हारर्धहारनिर्घोषविमलशितगतिमायतनीलसूक्ष्मकेशीं सचीवरप्रभ्रष्टकाञ्चीगुणां नूपुरावच्छादितपादां क्षामोदरीम्।
२८८.०३०. तां प्रतिकीर्णहारामुत्तप्तजाम्बूनदचारुपूर्णां दृष्ट्वा कुमारः सहसा पपात विद्धो दृढरागशरेण्
२८८.०३१. तत्र स रागवराहदवदहनपतङ्गसदृशेन जलचन्द्रचञ्चलविमलोज्ज्वलस्वभावेन दुर्ग्राह्यतरेण नदीतरङ्गज्ञषमकरसुरभिगमनेन <२८९>गरुडपवनजवसमगतिना तूलपरिवर्तनलघुतरेण वानरावस्थितचपलोद्भ्रान्ततरेण सतताभ्यासक्लेशनिषेवणरागसुखास्वादलोभेन सर्वक्लेशविषमदुर्गप्रपातनिःसङ्गेन परमसलीलेन चित्तेन तद्भूतानुगतया अयोनिशोमनस्कारधनुर्विसृतैः सम्योगाभिलषितपरमरहस्यशब्देन कामशरेण हृदये विद्ध्

२८९.००४. आह च--
२८९.००५. दृष्ट्वा च तां सुधन इन्दुसमान्वक्त्रां प्रावृडघनान्तरविनिश्चरितेव विद्युत्
२८९.००७. तत्स्नेहमन्मथविलाससमुद्भवेन सद्यः स चेतसि नु रागशरेण विद्धः॥२॥
२८९.००९. स तामतिमनोहरां गृहीत्वा हस्तिनापुरं गतः।
२८९.००९. स च लुब्धः पञ्चग्रामवरेणाच्छादितः।
२८९.०१०. ततः सुधनो राजकुमारो मनोहरया रूपयौवनगुणेन सुघनः कुमारोनेकैश्चोपचारशतैस्तथा अपहृतो यथा मुहूर्तमपि तां न जहाति।
२८९.०११. यावदपरेण समयेन जेतवनाद्द्वौ ब्राह्मणौ अभ्यागतौ।
२८९.०१२. तत्रैको राजानां संश्रितः, द्वितीयः सुधनं कुमारम्।
२८९.०१२. यो राजानं संश्रितः, स राज्ञा पुरोहितः स्थापितो भोगैश्च संविभक्तः।
२८९.०१३. यस्तु सुधनं कुमारम्, स भोगमात्रेण संविभक्तः।
२८९.०१४. स कथयति--यथा तव सहायो ब्राह्मणो मम पित्रा पौरोहित्येऽवस्थापितः, एवमहं त्वामपि पौरोहित्ये स्थापयामीति।
२८९.०१६. एष च वृत्तान्तस्तेन ब्राह्मणेन कर्णपरम्परया श्रुतः।
२८९.०१६. तस्यैतदभवत्--अहं तथा करिष्ये, यथा कुमारो राज्यमेव नासादयिष्यति, कुतस्तं पुरोहितं स्थापयिष्यतीति? यावदपरेण समयेन तस्य राज्ञो विजितेऽन्यतमः कार्वटिकः प्रतिविरुद्धः, तस्य समुच्छित्तये एको दण्डः प्रेषितः।
२८९.०१९. स हतविहतविध्वस्तः प्रत्यागतः।
२८९.०१९. एवं यावत्सप्त, ये दण्डाः प्रेषिताः, तेऽपि हस्तविध्वस्ताः प्रत्यागताः।
२८९.०२०. अमात्यै राजा विज्ञापितः सर्वोऽसौ आहूयतामिति।
२८९.०२२. ब्राह्मण पुरोहितः संलक्षयति--अयं स कुमारस्य वधोपायकाल इति।
२८९.०२२. तेन राजा विज्ञप्तह्--देव, नैवमसौ शक्यः संनामयितुम्।
२८९.०२३. राजा कथयति--किं मया स्वयं गन्तव्यम्? पुरोहितः कथयति--किमर्थं देवः स्वयं गच्छति? अयं सुधनः कुमारो युवा बलदर्पयुक्तः।
२८९.०२५. एष दण्डसहायः प्रेष्यतामिति।
२८९.०२५. राजा कथयति--एवमस्त्विति।
२८९.०२५. ततो राजा कुमारमाहूय कथयति--गच्छ कुमार, दण्डसहायः कार्वटिकं संनामय्
२८९.०२६. एवं देवेति सुधनः कुमारो राज्ञः प्रतिश्रुत्य अन्तःपुरं प्रविष्टः।
२८९.०२७. मनोहरादर्शनाच्चास्य सर्वं विस्मृतम्।
२८९.०२७. पुनरपि राज्ञा अभिहितह्--पुनरपि तद्दर्शनात्सर्वं विस्मृतम्।
२८९.०२८. पुरोहितेन चाभिहितह्--देव, सुधनः कुमारो मनोहरया अतीव सक्तो न शक्यते प्रेषयितुम्।
२८९.०२९. राजा कथयति--साधनं सज्जं क्रियताम्।
२८९.०२९. निर्गतः कुमारोऽन्तःपुरात्प्रेषयितव्यो यथा मनोहरायाः सकाशं न प्रतिवसतीति।
२८९.०३०. एवं देवेति अमात्यै राज्ञः प्रतिश्रुत्य बलौघो हस्त्यश्वरथपदातिसम्पन्नोऽनकप्रहरणोपकरणयुक्तः सज्जीकृतः।
२८९.०३२. ततः कुमारो निर्गतहुक्तह्--गच्छ कुमार, सज्जो बलौघ इति।
२८९.०३२. स कथयति--देव, गमिष्यामि <२९०>मनोहरां दृष्ट्वा।

२९०.००१. राजा कथयति--कुमार न द्रष्टव्या, कालोऽतिवर्तत्
२९०.००१. स कथयति--तावद्यदि एवम्, मातरं दृष्ट्वा गच्छामि।
२९०.००२. गच्छ कुमारो अवलोक्य जननीम्।
२९०.००२. स मनोहरसन्तकं चूडामणिमादाय मातुःसकाशमुपसंक्रान्तः।
२९०.००३. पादयोर्निपत्य कथयति--अम्ब, अहं कार्वटिकं संनामनाय गच्छामि।
२९०.००५. दुहिता शक्रकल्पस्य किन्नरेन्द्रस्य मानिनी।
२९०.००६. पाल्या विरहशोकार्ता मद्वात्सल्यधिया॥३॥
२९०.००७. अयं चूडामणि सुगुप्तं स्थापयितव्यः।
२९०.००७. न कदाचिन्मनोहराया दातव्योऽन्यत्र प्राणवियोगादिति।
२९०.००८. स एवं मातरं पितरं संदिश्य अभिवाद्य च नानायोधबलौघतूर्यनिर्नादितैः संप्रस्थितः।
२९०.००९. अनुपूर्वेण जनपदानतिक्रम्य तस्य कार्वटिकस्य नातिदूरेऽन्यतं वृक्षमूलं निश्रित्य वासमुपगतः।
२९०.०१०. तेन खलु समयेन वैश्रवणो महाराजोऽनेकयक्षपरिवारोऽनेकयक्षशतसहस्रपरिवारः।
२९०.०११. तेन यक्षाणां यक्षसमितिं संप्रस्थितः।
२९०.०११. तस्य तेन पथा गच्छतः खगपथेन यानमवस्थितम्।
२९०.०१२. तस्यैतदभवत्--बहुशोऽहमनेन पथा समतिक्रान्तः।
२९०.०१२. न च मे कदाचिद्यानं प्रतिहतम्।
२९०.०१३. कोऽत्र हेतुर्येनेदानीं प्रतिहत इति? पश्यति सुधनं कुमारम्।
२९०.०१३. तस्यैतदभवत्--अयं भद्रकल्पिको बोधिसत्त्वः खेदमापत्स्यति युद्धायाभिप्रस्थितः।
२९०.०१४. साहाय्यमस्य करणीयम्।
२९०.०१५. कार्वटिकः संनामयितव्यः।
२९०.०१५. न च कस्यचित्प्राणिनः पीडा करणीयेति विदित्वा पाञ्चिकं महायक्षसेनापतिमामन्त्रयते--एहि त्वं पाञ्चिक, सुधनस्य कुमारस्य कार्वटिकमयुद्धेन संनामय्
२९०.०१७. न च ते कस्यचित्प्राणिनः पीडा कर्तव्येति।
२९०.०१७. तथेति पाञ्चिकेन यक्षसेनापतिना वैश्रवणस्य महाराजस्य प्रतिश्रुत्य दिव्यश्चतुरङ्गो बलकायो निर्मितह्--तालमात्रप्रमाणाः पुरुषः, पर्वतप्रमाणा हस्तिनः, हस्तिप्रमाणा अश्वाः।
२९०.०१९. ततो नानाविधखङ्गमुशलतोमरपाशचक्रशरपरश्वधादिशस्त्रविशेषेण नानावादित्रसंक्षोभेण च महाभयमुपदर्शयन्महता बलौधेन पाञ्चिकोऽनुप्राप्तः।
२९०.०२१. हस्त्यश्वरथनिर्घोषान्नानावादित्रनिद्वनात् ।
२९०.०२२. यक्षाणां स्वप्रभावाच्च प्राकारः प्रपपात वै॥४॥
२९०.०२३. ततस्ते कर्वटनिवासिनस्तं बलौघं दृष्ट्वा तच्च प्राकारपतनं परं विषादमापन्नाः पप्रच्छुह्--कुत एष बलौघ आगच्छतीति? ते कथयन्ति--शीघ्रं द्वाराणि मुञ्चत्
२९०.०२४. एष पृष्ठतः कुमार आगच्छति।
२९०.०२५. तस्य च बलौघो यदि चिरं विधारयिष्यथ, सर्वथा न भविष्यथेति।
२९०.०२६. ते कथयन्ति--
२९०.०२७. व्युत्पन्ना न वयं राज्ञो न कुमारस्य धीमतः।
२९०.०२८. नृपपौरुषकेभ्यो स्म भीताः संत्रासमागताः॥५॥
२९०.०२९. तैर्द्वाराणि मुक्तानि।
२९०.०२९. तत उच्छ्रितध्वजपताकापूर्णकलशा नानाविधतूर्यनिर्नादितैः सुधनं कुमारं प्रत्युद्गताः।
२९०.०३०. तेन च समाश्वासिताः, तदभिप्रायश्च राजभटः स्थापितः।
२९०.०३०. निपकाश्च निगृहीताः।
२९०.०३१. करप्रत्यायाश्च निबद्धाः।
२९०.०३१. ततस्तं कर्वटकं स्फीतीकृत्य सुधनकुमारह्<२९१>प्रतिनिवृत्तः।

२९१.००१. धनेन च राज्ञा तामेव रात्रिं स्वप्नो दृष्टह्--गृध्रेणागत्य राज्ञ उदरं स्फोटयित्वा अन्त्राण्याकृष्य सर्वं तन्नगरमन्त्रैर्वेष्टितम्, सप्त रत्नानि गृहं प्रवेश्यमानानि दृष्टानि।
२९१.००२. ततो राजा भीतस्त्रस्तः संविग्न आहृष्टरोमकूपो लघुकध्वेवोत्थाय महाशयने निषद्य करे कपोकं दत्त्वा चिन्तापरो व्यवस्थितह्--मा हैव मे अतोनिदानं राज्यच्च्युतिर्भविष्यति, जीवितस्य वा अन्तराय इति।
२९१.००५. स प्रभातायां रजन्यां स्वप्नं ब्राह्मणाय पुरोहिताय निवेदयामास्
२९१.००५. स संलक्षयति--यादृशो देवेन स्वप्नो दृष्टः, नियतं कुमारेण कर्वटको निर्जितः।
२९१.००६. वितथनिर्देशः करणीयः।
२९१.००७. इति कृत्वा कथयति--देव, न शोभनः स्वप्नः।
२९१.००७. नियतमतोनिदानं राज्याच्च्युतिर्भविष्यति, जीवितस्यान्तराय इति।
२९१.००८. केवलं तु अत्रास्ति प्रतिकारः, स च ब्राह्मणकमन्त्रेषु दृष्टः।
२९१.००८. कोऽसौ प्रतिकारह्? देव, उद्याने पुष्करिणी पुरुषप्रमाणिका कर्तव्या।
२९१.००९. तत सुधया प्रलेप्तव्या।
२९१.०१०. सुसंमृष्टां कृत्वा क्षुद्रमृगाणां रुधिरेण पूरयितव्या।
२९१.०१०. ततो देवेन स्नानप्रयतेन तां पुष्करिणीमेकेन सोऽआनेनावतरितव्यम्, एकेनावतीर्य द्वितीयेनोत्तरितव्यम्, द्वितीयेनोत्तीर्य तृतीयेनावतरितव्यम्, तृतीयेनावतीर्य चतुर्थेनोत्तरितव्यम्।
२९१.०१२. ततश्चतुर्भिर्ब्राह्मणैर्वेदवेदाङ्गपारगैर्देवस्य पादयोर्जिह्वया निर्लेढव्यम्, किन्नरवसया च धूपो देयः।
२९१.०१३. एवं देवो विधूतपापश्चिरं राज्यं पालयिष्यतीति।
२९१.०१४. राजा कथयति--सर्वमेतच्छक्यं यदिदं किन्नरमेदमतीव दुर्लभम्।
२९१.०१४. पुरोहितः कथयति--देव, यदेव दुर्लभं तदेव सुलभम्।
२९१.०१५. राजा कथयति--यथा कथम्? पुरोहितः कथयति--देव, नन्वियं मनोहरा किन्नरी।
२९१.०१६. राजा कथयति--पुरोहित, मा मैवं वद्
२९१.०१६. कुमारस्यात्र प्राणाः प्रतिष्ठिताः।
२९१.०१७. स कथयति--ननु देवेन श्रुतम्--
२९१.०१८. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
२९१.०१९. ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥६॥
२९१.०२०. दृढेनाद्ध्यात्मना(?) राज्यं कुमारस्यास्य धीमतः।
२९१.०२१. शक्ष्यसि ह्यपरां कर्तुं घातयैनां मनोहराम्॥७॥ इति।
२९१.०२२. आत्माभिनन्दिनो न किंचिन्न प्रतिपद्यन्त इति तेनाधिवासितम्।
२९१.०२२. ततो यथोपदिष्टं पुरोहितेन कारयितुमारब्धम्।
२९१.०२३. पुष्करिणी खाता सुधयोपलिप्ता क्षुद्रमृगरुधिरमुपावर्तायितुमारब्धम्।
२९१.०२४. स च प्रयोगः सुधनस्यान्तःपुरजनेनोपलब्धः।
२९१.०२४. ताः प्रीतिमनसः संवृत्ताह्--वयं रूपयौवनसम्पन्नाः।
२९१.०२५. इदानीमस्माकं सुधनः कुमारः परिचारयिष्यतीति।
२९१.०२६. ताः प्रमुदिता दृष्ट्वा मनोहरा पृच्छति--किं यूयमतीव प्रहर्षिता इव? यावदपरया स वृत्तान्तो विस्तरेण मनोहराया निवेदितः।
२९१.०२७. ततो मनोहरा संजातदुःखदौर्मनस्या येन सुधनस्य कुमारस्य जननी तेनोपसंक्रान्ता।
२९१.०२८. उपसंक्रम्य पादयोर्निपत्य करुणदीनविलम्बितैरक्षरैरेतमर्थं निवेदयामास्
२९१.०२९. सा कथयति--यद्येवं स्वागतमिदं कुरु विचारयिष्यामीति।
२९१.०२९. मनोहरया आगम्य पुनरपि समाख्यातम्।
२९१.०३०. तया अपि विचारितम्।
२९१.०३०. पश्यति भूतम्।
२९१.०३०. ततस्तया स चूडामणिर्वस्त्राणि च मनोहरायै दत्तानि, उक्ता च--पुत्रिके, प्राप्ते काले आगन्तव्यम्।
२९१.०३१. एवं ममोपालम्भो न भवतीति।
२९१.०३२. ततो राजा यथादिष्टेन क्रमेण स्नानप्रयतो रुधिरपूर्णां पुष्किरिणिमवतीर्योत्तीर्णह्<२९२>।

२९२.००१. ततोऽस्य ब्राह्मणैर्जिह्वया पादौ निलीढौ, अवस्थितह्--आनीयतां किन्नरीति च समादिष्टम्।
२९२.००२. तत्समनन्तरमेव मनोहरा गगनतलमुत्प्लुत्य गाथां भाषते--
२९२.००३. स्पर्शसंगमनं मह्यं रमितं च म्
२९२.००४. नागीव बन्धनान्मुक्ता एषा गच्छामि साम्प्रतम्॥८॥ इति।
२९२.००५. राज्ञा दृष्टा वायुपथेन गच्छन्ती।
२९२.००५. स भीतः पुरोहितमामन्त्रयते--यदर्थं कृतो यत्नः, स न संपन्नः, मनोहरा किन्नरी निष्पलायितेति।
२९२.००६. पुरोहितः कथयति--देव, सिद्धार्थोऽपगतपापो देवः साम्प्रतमिति।
२९२.००७. ततो मनोहरायाः खगपथेन गच्छन्त्या एतदभवत्--यदहमेतामवस्थां प्राप्ता, तत्तस्य ऋषेर्ब्यपदेशात् ।
२९२.००८. यदि तेन नाख्यातमभविष्यत्, नाहं ग्रहण गता अभविष्यत् ।
२९२.००९. तेन हि यस्यामि तावदस्यैव ऋषेः सकाशामिति।
२९२.००९. सा तस्याश्रमपदं गता।
२९२.००९. पादाभिवन्दनं कृत्वा तमृषिमुवाच--महर्षे, तव व्यपदेशादहं ग्रहणं गता, मनुष्यस्य संस्पर्शश्च संप्राप्तः।
२९२.०११. जीवितान्तरायश्चैतत्संवृत्तः।
२९२.०११. तद्विज्ञापयामि--यदि यदा कदाचित्सुधनः कुमार आगच्छति मां समन्वेषमाणः, तस्येमामङ्गुलिमुद्रां दातुर्महसि।
२९२.०१२. एवं च वक्तव्यम्--कुमार, विषमाः पन्थानो दुर्गमाः, खेदमापत्स्यसे, निर्वतस्वेति।
२९२.०१३. यदि निर्वायमाणो न रिष्ठेत्, तस्य मार्गं व्यपदेष्टुमर्हसि--कुमार, मनोहरया समाख्यातम्--उत्तरे दिग्भागे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य अपरे त्रयः, तानतिक्रम्य हिमवान् पर्वतराजः, तस्योत्तरेणोत्कलकपर्वतः, तत उत्कूलको जलपथ एकधारको वज्रकः कामरूपी।
२९२.०१७. तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कीलकाः, वज्रके पक्षिराजेन प्रवेशः।
२९२.०१८. एभिरुपायैस्ते पर्वता अतिक्रमणीयाः, यन्त्राणि च भुङ्क्तव्यानि।
२९२.०१९. अजवक्त्रमेण्ढकः पुरुषो राक्षसरूपी पिङ्गलागुहायां लालास्रोतसा महानजगरो वेगेन प्रधावति।
२९२.०२०. स ते विक्रमेण हन्तव्यः।
२९२.०२०. अरान्तरगतां नाभीं यत्र पश्येत्तत्र किटिभकश्च्
२९२.०२२. अयं भुक्तेन बाणेन हन्तव्यो मम कारणात् ।
२९२.०२३. यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्।
२९२.०२४. तयोः शृङ्गमेकं भङ्क्त्वा मार्गं प्रतिलप्स्यस्।९॥
२९२.०२५. आयसौ पुरुशौ दृष्ट्वा शस्त्रपाणी महाभयौ।
२९२.०२६. तयोरेकं पादयित्वा मार्गं प्रतिलप्स्यस्।१०॥
२९२.०२७. संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं मुखम्।
२९२.०२८. यदा पश्येत्तत्र कीलकं ललाटे तस्या निखानयेत् ॥११॥
२९२.०२९. शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः।
२९२.०३०. हरिपिङ्गलकेशाक्षो दारुणो यत्र राक्षसः॥१२॥
२९२.०३१. कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः।
२९२.०३२. नद्यश्च बहवस्तार्या नक्रग्रहसमाकुलाः॥१३॥

२९३.००१. <२९३>रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च्
२९३.००२. रङ्गायां राक्षसीकोपः पतङ्गायाममनुष्यकाः।
२९३.००३. तपन्त्यां ग्राहबहुलत्वं चित्रायां कामरूपिणः॥१४॥
२९३.००४. रुदन्त्यां किन्नरीचेट्यो हसन्त्यां किन्नरस्नुषा।
२९३.००५. आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः॥१५॥
२९३.००६. रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः।
२९३.००७. तपन्त्यां ग्राहमुखबन्धं चित्रायां विविधगीतम्॥१६॥
२९३.००८. रुदन्त्यां सौमनस्ये समुत्तारम्, हसन्त्यां तूष्णीभावयोगेन, अशीविषायां सर्पविषमन्त्रयोगेन, वेत्रनद्यां तीक्ष्णशस्त्रसम्पातयोगेन समुत्तारः।
२९३.००९. नदीः समतिक्रम्य पञ्च यक्षशतानि गुल्मकम्।
२९३.०१०. तद्धैर्यमास्थाय विद्राब्यम्।
२९३.०१०. ततो द्रुमस्य किन्नरराजस्य भवनमिति।
२९३.०१०. ततो मनोहरा तमृषिमेवमुक्त्वा पादाभिवन्दनं कृत्वा प्रक्रान्ता॥
२९३.०१२. यावत्सुधनः कुमारस्तं कर्वटकं संनाम्य गृहीतप्राभृतो हस्तिनापुरमनुप्राप्तः।
२९३.०१२. श्रुत्वा च राजा परां प्रीतिमुपगतः।
२९३.०१३. ततः कुमारो मार्गश्रमं प्रतिविनोद्य पितुः सकाशं गतः।
२९३.०१३. प्रणामं कृत्वा पुरस्तान्निषण्णः।
२९३.०१४. राज्ञा परमया संतोषणया संभाषितः, उक्तश्च--कुमार, शिवेन त्वमागतह्? देव, तव प्रसादात्कर्वटकः संनामितः, निपका गृहीताः, चिन्तकः स्थापितः।
२९३.०१५. इमे तु करप्रत्ययाः।
२९३.०१६. पण्यागारश्च स्थाप्यतामिति।
२९३.०१७. राजा कथयति--कुमार तिष्ठ, प्राभृतं सहिता एव भोक्ष्यामः।
२९३.०१८. देव गच्छामि, चिरं दृष्टा मे मनोहरा।
२९३.०१८. अलं कुमार अद्य गमनेन्
२९३.०१८. तिष्ठ, श्वो गामिष्यसीति।
२९३.०१९. सोऽनवबुध्यमान एवमाह--तात, अद्यैव मया अवश्यं गन्तव्यम्।
२९३.०१९. राजा तूष्णीमवस्थितः।
२९३.०२०. ततः कुमारः स्वगृहं गतः।
२९३.०२०. यावत्पश्यति श्रिया वर्जितमन्तःपुरद्वारम्।
२९३.०२०. स चिन्तापरः प्रविश्य मनोहरां न पश्यति।
२९३.०२१. इतश्चामुतश्च संभ्रान्तः शून्यहृदयः शब्दं कर्तुमारब्धह्--मनोहरे मनोहरे इति।
२९३.०२२. यावदन्तःपुरं संनिपतितम्।
२९३.०२२. ताः स्त्रियः क्षेपं कर्तुमारब्धाः।
२९३.०२२. विद्धोऽसौ हृदयशल्येन सुतरां प्रष्टुमारब्धः।
२९३.०२३. ताभिर्यथाभूतं समाख्यातम्।
२९३.०२३. स शोकेन संप्रमुह्यत्
२९३.०२३. ताः स्त्रियः कथयन्ति--देव, अस्मिन्नन्तःपुरे तत्प्रविशिष्टतराः स्त्रियः सन्ति, किमर्थं शोकः क्रियते? स पितुर्नैर्गुण्यमुपश्रुत्य कृतघ्नतां च, मातुः सकाशमुपसंक्रान्तः।
२९३.०२५. पादयोर्निपत्य कथयति--अम्ब,
२९३.०२६. मनोहरां न पश्यामि मनोरथगुणैर्युताम्।
२९३.०२७. साधुरूपसमायुक्ता क्व गता मे मनोहरा॥१७॥
२९३.०२८. मनसा संप्रधावामि मनो मे संप्रमुह्यत्
२९३.०२९. हृदयं दह्यते चैव रहितस्य तया भृशम्॥१८॥
२९३.०३०. मनोभिरामा च मनोहरा च मनोनुकूला च मनोरतिश्च्

२९४.००१. <२९४>संतप्तदेहोऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम्॥१९॥ इति।
२९४.००३. सा कथयति--पुत्र, कृच्छ्रसंकटसम्बाधप्राप्ता मनोहरेति मया प्रतिमुक्ता।
२९४.००३. अम्ब, यथा कथम्? तया यथावृत्तं विस्तरेण समाख्यातम्।
२९४.००४. स पितुर्नैर्गुण्यमकृतज्ञतां च ज्ञात्वा कथयति--कुत्र गता कतरेण वा पथेति? सा कथयति--
२९४.००६. एषोऽसौ पर्वतशैल ऋषिसंघनिषेवितः।
२९४.००७. उषितो धर्मराजेन यत्र याता मनोहरा॥२०॥ इति।
२९४.००८. स मनोहरावियोगदुःखार्तः कृच्छ्रं विललाप, करुणं परिदेवते--
२९४.००९. मनोहरां न पश्यामि मनोरथगुणैर्युताम्।
२९४.०१०. साधुरूपसमायुक्ता क्व गता मे मनोहरा॥२१॥
२९४.०११. मनसा संप्रधावामि मनो मे संप्रमुह्यत्
२९४.०१२. हृदयं दह्यते चैव रहितस्य तया भृशम्॥२२॥
२९४.०१३. मनोभिरामा च मनोहरा च मनोनुकूला च मनोरतिश्च्
२९४.०१५. संतप्तदेहोऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम्॥२३॥ इति।
२९४.०१७. ततो मात्रा अभिहितह्--पुत्र, सन्त्यस्मिन्नन्तःपुरे तद्विशिष्टतराः स्त्रियः।
२९४.०१७. किमर्थं शोकस्त्रियत इति? कुमारः कथयति--कुतो मे रतिरनुप्राप्यतामिति? स तया समाश्वास्यमानोऽपि शोकसंतापसंतप्तस्तस्याः प्रवृत्तिं समन्वेषमाण इतश्चामुतश्च परिभ्रमितुमारब्धः।
२९४.०१९. तस्य बुद्धिरुत्पन्ना--यत एव लब्धस्तमेव तावत्पृच्छामि।
२९४.०२०. स हलकस्य सकाशं गतः पृच्छति--मनोहरा कुतस्त्वया लब्धेति? स कथयति--अमुष्मिन् प्रदेशे ऋषिः प्रतिवसति।
२९४.०२१. तस्याश्रमपदे ब्रह्मसभा नाम पुष्किरिणी।
२९४.०२२. तस्यां स्नातुमवतीर्णा ऋषिव्यपदेशेन लब्धेति।
२९४.०२२. स संलक्षयति--ऋषिरिदानीमभिगन्तव्यः, तस्मात्प्रवृत्तिर्भविष्यतीति।
२९४.०२३. एष च वृत्तान्तो राज्ञा श्रुतह्--मनोहरावियोगात्कुमारोऽतीव विक्लव इति।
२९४.०२४. ततो राज्ञा अभिहितह्--कुमार, किमसि विक्लवह्? इदानीं तद्विशिष्टतरमन्तःपुरं व्यवस्थापयिष्यामीति।
२९४.०२५. स कथयति--तात, न शक्यं मया तामनानीय अन्तःपुरस्थेन भवितुम्।
२९४.०२६. स राज्ञा बह्वप्युच्यमानो न निवर्तत्
२९४.०२६. ततो राज्ञा नगरप्राकारशृङ्गेष्वारक्षकाः पुरुषाः स्थापिताः, यथा कुमारो न निष्कासतीति।
२९४.०२७. कुमारः कृत्स्नां रात्रिं जागर्तुकामः।
२९४.०२८. उक्तं च--पञ्चेमे रात्र्या अल्पं स्वपन्ति बहु जागार्ति।
२९४.०२८. कतमे पञ्च पुरुषाह्? स्त्रियामवेक्ष्य(पेक्षा?)वान् प्रतिबद्धचित्तः।
२९४.०२९. स्त्रीपुरुष उत्कोशः, ऋणी, चौरसेनापतिः, भिक्षुश्चालब्धवीर्य इति।
२९४.०३०. अथ कुमारस्यैतदभवत्--यदि द्वारेण यास्यामि, राजा द्वारपालकान् रक्षकांश्च दण्डेनोत्सादयिष्यति।
२९४.०३१. यन्न्वहमरक्षितेन पथा गच्छेयमिति।
२९४.०३१. स रात्र्या व्युत्थाय नीलोत्पलमालाबद्धशिरा<२९५> येन रक्षिणः पुरुषा न सन्ति, तेन तां मालां ध्वजे बद्ध्वा अवतीर्णः।

२९५.००१. चन्द्रश्चोदितः।
२९५.००२. ततोऽसौ चन्द्रमवेक्ष्य मनोहराविरहित एवं विललाप--
२९५.००३. भोः पूर्णचन्द्र रजनीकर तारराज त्वं रोहिणीनयनकान्त सुसार्थवाह्
२९५.००५. कच्चित्प्रिया मम मनोहरणैकदक्षा दृष्टा त्वया भुवि मनोहरनामधेया॥२४॥ इति।
२९५.००७. अनुभूतपूर्वरतिमनुस्मरञ्जगाम्
२९५.००७. ददर्श मृगीम्।
२९५.००७. तामप्युवाच--
२९५.००८. हे त्वं कुरङ्गि तृणवारिपलाशभक्षे स्वस्त्यस्तु ते चर सुखं न मृगारिरस्मि।
२९५.०१०. दीर्घेक्षणा मृगवधूकमनीयरूपा दृष्टा त्वया मम मनोहरनामधेया॥२५॥
२९५.०१२. स तामतिक्रम्य अन्यतमं प्रदेशं गतो ददर्श वनं नानापुष्पफलोपशोभितं भ्रमरैरुपभुज्यमानसारम्।
२९५.०१३. ततोऽन्यतमं भ्रमरमुवाच--
२९५.०१४. नीलाञ्जनाचलसुवर्ण मधुद्विरेफ वंशान्तराम्बुरुहमध्यकृताधिवास्
२९५.०१६. वर्णाधिमात्रसदृशायतकेशहस्ता दृष्टा त्वया मम मनोहरनामधेया॥२६॥
२९५.०१८. तस्मादपि प्रदेशादतिक्रान्तः पश्यत्याशीविषम्।
२९५.०१८. दृष्ट्वा चाह--
२९५.०१९. भोः कृष्णसर्प तनुपल्लवलोलजिह्व वक्त्रान्तरोत्पतितधूमकलापवक्त्र्
२९५.०२१. रागाग्निना तव समो न विषाग्निरुग्रो दृष्टा त्वया मम मनोहरनामधेया॥२७॥
२९५.०२३. तमपि प्रदेशं समतिक्रान्तो ददर्शापरं कोकिलाभिनादितम्।
२९५.०२३. दृष्ट्वा च पुनस्तं कोकिलमुवाच--
२९५.०२५. भोः कोकिलोत्तम वनान्तरवृक्षवासिन्नारी मनोहर पतत्रिगणस्य राजन्।
२९५.०२७. नीलोत्पलामकसमायतचारुनेत्रा दृष्टा त्वया मम मनोहरनामधेया॥२८॥
२९५.०२९. तमपि प्रदेशं समतिक्रान्तो ददर्शाशोकवृक्षं सर्वपरिफुल्लम्।
२९५.०३०. मङ्गल्यनामान्तरनामयुक्त सर्वद्रुमाणामधिराजतुल्य्

२९६.००१. <२९६>मनोहराशोक विभूर्च्छितं मामेषोऽञ्जलिस्ते कुरु वीतशोकम्॥२९॥
२९६.००३. स एवं विक्लवोऽनुपूर्वेण तस्य ऋषेराश्रमपदमनुप्राप्तः।
२९६.००३. स तमृषिं सविनयं प्रणिपत्योवाच--
२९६.००५. चीराजिनाम्बरधर क्षमया विशिष्ट मूलाङ्कुरामलकबिल्वकपित्थभक्त्
२९६.००७. वन्दे ऋषे नतशिरा वद मे लघु त्वं दृष्टा त्वया मम मनोहरनामधेया॥३०॥
२९६.००९. ततः स ऋषिः सुधनं कुमारं स्वागतवचनासनदानक्रियादिपुरःसरः प्रतिसंमोद्य उवाच--
२९६.०११. दृष्टा सा परिपूर्णचन्द्रवदना नीलोत्पलाभास्वरा रूपेण प्रियदर्शना सुबदना नीलञ्चतभ्रूलता।
२९६.०१३. त्वं स्वस्थो भुवि भुज्यतां हि विविधं मूलं फलं च प्रभो पञ्चात्स्वस्ति गमिष्यसीति मनसा नात्रास्ति मे संशयः॥३१॥
२९६.०१५. इदं ह्यवोचद्वचनं च सुभ्रूः कुमार तृष्णा त्वयि बाधते म्
२९६.०१७. महच्च दुःखं वसतां वनेषु यातां रमां द्रक्ष्यसि निष्चयेन् ।३२॥ इति।
२९६.०१९. इयं च तया अङ्गुलिमुद्रिका दत्ता।
२९६.०१९. कथयति च-- कुमार, विषमाः पन्थानो दुर्गमाः।
२९६.०२०. खेदमापत्स्यसे, निवर्तस्वेति।
२९६.०२०. यदि च निवार्यमाणो न तिष्ठेत्, तस्य मार्गमुपदेष्टुमर्हसि।
२९६.०२१. कुमार, इदं च तया समाख्यातम्--उत्तरे दिग्भागे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य हिमवान् पर्वतराजः।
२९६.०२२. तत्प्रदेशेन त्वया इमानि भैषज्यानि समुदानेतव्यानि--तद्यथा सूदया नामौषधिस्तया घृतं पक्त्वा पातव्यम्।
२९६.०२३. तेन च ते न तृषा न बुभुक्षा, स्मृतिबलं च वर्धयति।
२९६.०२४. वानरः समुदानेतव्यः, मन्त्रमध्येतव्यम्, सशरं धनुर्ग्रहीतव्यम्, मणयोऽवभासात्मकाहगदो विषघातकोऽयस्कीलास्त्रयो वीणा च्
२९६.०२६. हिमवतः पर्वराजस्योत्तरेणोत्कीलकः पर्वतः।
२९६.०२६. ततः कूलको जलपथः खदिरक एकधारको वज्रकः कामरूपी।
२९६.०२७. उत्कीलक एरावतकोऽधोबाणः प्रमोक्षक एते पर्वताः।
२९६.०२७. सर्वे ते समतिक्रमणीयाः।
२९६.०२८. तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कोलकाः, वज्रके पक्षिराजेन प्रवेशः।
२९६.०२९. एभिरुपायैस्ते सर्वे पर्वताः समतिक्रमणीयाः, यन्त्राणि च भङ्क्तव्यानि।
२९६.०२९. अजवक्त्रो मेण्ढकः पुरुषो राक्षसीरूपी पिङ्गलायां गुहायां लालास्रोतसा महता अजगरो वेगेन प्रधावति।
२९६.०३१. स ते विक्रमेण हन्तव्यः।
२९६.०३१. अरान्तरगतां नाभीं यत्र पश्येत्तत्र किटिभकश्च्

२९७.००१. <२९७>अयं मुक्तेन बाणेन हन्तव्यो मम कारणात् ।
२९७.००२. यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्।
२९७.००३. तयोः शृङ्गमेकं भङ्क्त्वा भार्गं प्रतिलप्स्यस्।३३॥
२९७.००४. आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ।
२९७.००५. तयोरेकं ताडयित्वा मार्गं प्रतिलप्स्यस्।३४॥
२९७.००६. संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं सुखम्।
२९७.००७. यदा पश्येत्तदा कीलं ललाटो तस्या निखानयेत् ॥३५॥
२९७.००८. शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः।
२९७.००९. हरिपिङ्गलकेशाक्षो दारुणो यक्षराक्षसः॥३६॥
२९७.०१०. कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः।
२९७.०११. नद्यश्च बहवस्तार्या नक्रग्रहसमाकुलाः॥३७॥
२९७.०१२. रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च्
२९७.०१३. रङ्गायां राक्षसीकोपः पतङ्गायाममानुषाः।
२९७.०१४. तपन्त्यां ग्राहबहुत्वं चित्रायां कामरूपिणः॥३८॥
२९७.०१५. रुदन्त्यां किन्नरीचेट्यो हसन्त्यां किन्नरीस्नुषा।
२९७.०१६. आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः॥३९॥
२९७.०१७. रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः।
२९७.०१८. तपन्त्यां ग्राहमुखबन्धश्चित्रायां विविधं गीतम्॥४०॥
२९७.०१९. रुदन्त्यां सौमनस्येन समुत्तारः।
२९७.०१९. हसन्त्यां तूष्णीभावेन, आशीविषायां सर्वविषमन्त्रप्रयोगेण समुत्तारः, वेत्रनद्यां तीक्ष्णशस्त्रसम्पातयोगेन समुत्तारः।
२९७.०२०. नदीमतिक्रम्य पञ्च यक्षशतानि गुल्मकस्थानम्।
२९७.०२१. तद्धैर्यमास्थाय विद्राव्यम्।
२९७.०२१. ततो द्रुमस्य किन्नरराजस्य भवनमिति॥
२९७.०२२. ततः सुधनः कुमारो यथोपदिष्टानौषधिमन्त्रागदप्रयोगान् समुदानीय तस्य ऋषेः पादाभिवन्दनं कृत्वा प्रक्रान्तः।
२९७.०२३. ततस्तेन यथोपदिष्टाः सर्वे समुदानीताः स्थापवित्वा वानरम्।
२९७.०२४. ततस्तानादाय पुनरपि तस्य ऋषेः सकाशमुपसंक्रान्तः।
२९७.०२४. उक्तश्च--अलं कुमार, किमनेन व्यवसायेन? किं मनोहरया? त्वमेकाकी असहायः शिरीरसंशयमवप्स्यसीति।
२९७.०२५. कुमारः प्राह--महर्षे, अवश्यमेवाहं प्रयास्यामीति।
२९७.०२६. कुतह्?
२९७.०२७. चन्द्रस्य खे विचरतः क्व सहायभावो दंष्ट्राबलेन बलिनश्च मृगाधिपस्य्
२९७.०२९. अग्नेश्च दावदहने क्व सहायभावहस्मद्विधस्य च सहायबलेन किं स्यात् ॥४१॥

२९८.००१. <२९८>किं भो महार्णवजलं न विगाहितव्यं किं सर्पदष्ट इति नैव चिकित्सनीयः॥
२९८.००३. वीर्यं भजेत्सुमहदूर्जितसत्त्वदृष्टं यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः॥४२॥ इति।
२९८.००५. ततः सुधनः कुमारो मनोहरोपदिष्टेन संप्रस्थितः।
२९८.००५. अनुपूर्वेण पर्वतनदीगुहाप्रपातादीनि भैषज्यमन्त्रागदप्रयोगेण विनिर्जित्य द्रुमस्य किन्नरराजस्य भवनसमीपं गतः।
२९८.००७. कुमारोऽपश्यन्नगरमदूरं श्रीमदुद्यानोपशोभितं नानापुष्पफलोपेतं नानाविहगसेवितं तडागदीर्घिकावापिकिन्नरैः समुपावृतम्।
२९८.००८. किन्नरीस्तत्र चापश्यत्पानीयार्थमुपगताः।
२९८.००८. ततस्ताः सुधनकुमारेणाभिहिताह्--किमनेन बहुना पानीयेन क्रियत इति? ताः कथयन्ति--अस्ति द्रुमस्य किन्नरराजस्य दुहिता मनोहरा नाम्
२९८.०१०. सा मनुष्यहस्तगता बभूव्
२९८.०१०. तस्याः स मनुष्यगन्धो नश्यति।
२९८.०११. सुधनः कुमारः पृच्छति--किमेते घटाः समस्ताः सर्वे तस्या उपरि निपात्यन्ते, आहोस्विदनुपूर्वेणेति? ताः कथयन्ति--अनुपूर्व्या।
२९८.०१२. स संलक्षयति--शोभनोऽयमुपायः।
२९८.०१३. इमामङ्गुलिमुद्रामेकस्मिन् घटे प्रक्षिपामीति।
२९८.०१३. तेनैकस्याः किन्नर्या घटेऽनालक्षितं प्रक्षिप्ता।
२९८.०१४. सा च किन्नरी अभिहिता--अनेन त्वया घटेन मनोहरा तत्प्रथमतरं स्नापयितव्या।
२९८.०१४. सा संलक्षयति--नूनमत्र कार्येण भवितव्यम्।
२९८.०१५. ततस्तयासौ घटः प्रथमतरं मनोहराया मूर्ध्नि निपातितो यावदङ्गुलिमुद्रा उत्सङ्गे निपतिता।
२९८.०१६. सा मनोहरया प्रत्यभिज्ञाता।
२९८.०१६. ततः किन्नरीं पृच्छति--मा तत्र कश्चिन्मनुष्योऽभ्यागतह्? सा आह--उभ्याग्तः।
२९८.०१७. गच्छ, एनं प्रच्छन्नं प्रवेशय्
२९८.०१८. तया प्रवेशितः, सुगुप्ते प्रदेशे स्थापितः।
२९८.०१८. ततो मनोहरा पितुः पादयोर्निपत्य कथयति--तात, यद्यसौ सुधनः कुमार आगच्छेत्, येनाहं हृता, तस्य त्वं किं कुर्याह्? स कथयति--तमहं खण्डशतं कृत्वा चतसृषु शिक्षु क्षिपेयम्।
२९८.०२०. मनुष्योऽसौ, किं तेनेति।
२९८.०२०. मनोहरा कथयति--तात, मनुष्यभूतस्य कुत इहागमनम्? अहमेवं ब्रवीमीति।
२९८.०२१. ततो द्रुमस्य किन्नरराजस्य पर्यवस्थानो विगतः।
२९८.०२२. ततो विगतपर्यवस्थानः कथयति--यद्यसौ कुमार आगच्छेत्, तस्याहं त्वां सर्वालंकारविभूषितां प्रभूतचित्रोपकरणैः किन्नरीसहस्रपरिवृतां भार्यार्थं दद्यामिति।
२९८.०२४. ततो मनोहरया हृष्टतुष्टप्रमुदितया सुधनं कुमारो दिव्यालंकारविभूषितो द्रुमस्य किन्नरराजस्योपदर्शितः।
२९८.०२५. ततो द्रुमः किन्न्नरराजः सुधनं कुमारं ददर्श अभिरूपं दर्शनीयं प्रसादिकं परमया शुभवर्णपुष्कलतया समन्वागतम्।
२९८.०२६. दृष्ट्वा च पुनः परं विस्मयमुपगतः।
२९८.०२७. ततस्तस्य जिज्ञासां कर्तुकामेन सौवर्णाः स्तम्भा उच्छ्रिताः, सप्त तालाः, सप्त भेर्यः, सप्त सूकराः।
२९८.०२८. आह च--
२९८.०२९. त्वया कान्त्या जितास्तावदेते किन्नरदारकाः।
२९८.०३०. संदर्शितप्रभावस्तु दिव्यसम्बन्धमर्हसि॥४३॥
२९८.०३१. अत्यायतं शरवणं कृत्वोद्धृत्य शरं क्षणात् ।
२९८.०३२. व्युप्तमन्यूनमुच्चित्य पुनर्देहि तिलाटकम्॥४४॥

२९९.००१. <२९९>संदर्शय धनुर्वेदे दृटलक्षादिकौशलम्।
२९९.००२. ततः कीर्तिपताकेयं तवायत्ता मनोहरा॥४५॥
२९९.००३. सुधनकुमारो बोधिसत्त्वः।
२९९.००३. कुशलाश्च भवन्ति बोधिसत्त्वास्तेषु शिल्पस्थानकर्मस्थानेषु।
२९९.००४. देवताश्चैषामौत्सुक्यमापत्स्यन्ते अविघ्नभावाय्
२९९.००४. ततो बोधिसत्त्वो नृत्तगीतवीणापणवसुघोषकवल्लरीमृदङ्गादिनानाविधेन दैवतोपसंहृतेन वादित्रविशेषेण समन्तादापूर्यमाणेऽनेकैः किन्नरसहस्रैः पतिवृतः।
२९९.००७. शतक्रतुसमादिष्टैर्यक्षैः सूकररूपिभिः।
२९९.००८. उत्पाटिते शरवने समे व्युप्तं तिलाडकम्॥४६॥
२९९.००९. एकीकृतं समुच्चित्य शक्रसृष्टैः पिपीलकैः।
२९९.०१०. कुमारः किन्नरेन्द्राय विस्मिताय न्यवेदयत् ॥४७॥
२९९.०११. नीलोत्पलदलाभेनासिना गृहीतेन पश्यतो द्रुमस्य किन्नरराजस्य सौवर्णस्तम्भसमीपं गत्वा तान् स्तम्भान् कदलीच्छेदेन खण्डखण्डं छेत्तुमारब्धः।
२९९.०१२. ततस्तांस्तिलशोऽवकीर्य सप्त तालान् सप्त भेरीः सप्त च सूकरान् बाणेन विध्य सुमेरुवदकम्प्योऽवस्थितः।
२९९.०१३. ततो गगनतलस्थाभिर्देवताभिश्च किन्नरशतसहस्रैर्हाहाकारकिलिकिलाप्रक्ष्वेडोच्चैर्नादो मुक्तः, यं दृष्ट्वा च किन्नरराजः परं विस्मयमुपगतः।
२९९.०१५. ततः किन्नरीसहस्रस्य मनोहरासमानरूपस्य मध्ये मनोहरां स्थापयित्वा सुधनः कुमारोऽभिहितह्--एहि कुमार, प्रत्यभिजानासि मनोहरामिति? ततः सुधनः कुमारस्तां प्रत्यभिज्ञाय गाथाभिगीतेनोक्तवान्--
२९९.०१८. यथा द्रुमस्य दुहिता ममेह त्वं मनोहरा।
२९९.०१९. शीघ्रमेतेन सत्येन पदं व्रज मनोहर् ।४८॥
२९९.०२०. ततः सा द्रुतपदमभिक्रान्ता।
२९९.०२०. किन्नराः कथयन्ति--देव, अयं सुधनः कुमारो बलवीर्यपराक्रमसमन्वितो मनोहरायाः प्रतिरूपः।
२९९.०२१. किमर्थं विप्रलभ्य? दीयतामस्य मनोहरेति।
२९९.०२२. ततो द्रुमः किन्नरराजः किन्नरगणेन संवर्णितः सुधनं किन्नराभिमेतेन महता सत्कारेण पुरस्कृत्य मनोहरां दिव्यालंकारविभूषितां वामेन पाणिना गृहीत्वा दक्षिणेन सौवर्णभृङ्गारं सुधनं कुमारमभिहितह्--कुमार, एषा ते मनोहरा किन्नरीपतिवृता भार्यार्थाय दत्ता।
२९९.०२४. अपरिचिता मानुषाः, यथैनां न परित्यक्षसीति।
२९९.०२५. परं तातेति सुधनः कुमारो द्रुमस्य किन्नरराजस्य प्रतिश्रुत्य किन्नरभवनस्थो मनोहरया सार्धं निष्पुरुषेण तूर्येण क्रीडते रमते परिचारयति।
२९९.०२७. सोऽपरेण समयेन स्वदेशमनुस्मृत्य मातापितृवियोगजेन दुःखेनात्याहतो मनोहराया निवेदयति--मातापितृवियोगजं मे दुःखं बाधत इति।
२९९.०२८. ततो मनोहरया एष वृत्तान्तो विस्तरेण पितुर्निवेदितः।
२९९.०२९. स कथयति--गच्छ कुमारेण सार्धम्।
२९९.०२९. अपक्रान्तया ते भवितव्यम्।
२९९.०२९. विप्रलम्भका मनुष्याः।
२९९.०३०. ततो द्रुमेण किन्नरराजेन प्रभूतं मणिमुक्तासुवर्णादीन् दत्त्वा अनुप्रेषितः।
२९९.०३०. स मनोहरया सार्धमुपरिविहायसा किन्नरखगपथेन संप्रस्थितः।
२९९.०३१. अनुपूर्वेण हस्तिनापुरनगरमनुप्राप्तह्<३००>।

३००.००१. ततो हस्तिनापुरं नगरं नानामनोहरेण सुरभिना गन्धविशेषेण सर्वा दिगामोदितम्।
३००.००२. श्रुत्वा धनेन राज्ञा आनन्दभेर्यस्ताडिताः, सर्वं च तन्नगरमपगतपाषाणशर्करकठल्लं कारितम्।
३००.००३. चन्दनवारिषिक्तमामुक्तपट्टदामकलापसमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णरमणीयम्।
३००.००४. ततः कुमारोऽनेकनरवरसहस्रपरिवृतो मनोहरया सार्धं हस्तिनापुरं नगरं प्रविष्टः।
३००.००५. ततो मार्गश्रमं प्रतिविनोद्य विविधानि रत्नान्यादाय पितुः सकाशमुपसंक्रान्तः।
३००.००६. पित्रा कण्ठे परिष्वक्तः।
३००.००६. पार्श्वे राजासने निषण्णः।
३००.००६. किन्नरनगरगमनागमनं च विस्तरेण समाख्यातम्।
३००.००७. ततो धनेन राज्ञा अतिबलवीर्यपराक्रम इति विदित्वा राज्याभिषेकेणाभिषिक्तः।
३००.००८. सुधनः कुमारः संलक्षयति--यन्मम मनोहरया सार्धं समागमः संवृत्तो राज्याभिषेकश्चानुप्राप्तः, तत्पूर्वकृतहेतुविशेषात् ।
३००.००९. यन्न्वहमिदानीं दानानि दद्याम्, पुण्यानि कुर्यामिति।
३००.०१०. तेन हस्तिनापुरे नगरे द्वादश वर्षाणि निर्गटो यज्ञ इष्टः॥
३००.०११. स्यात्खलु ते महाराज अन्यः स तेन कालेन समयेन सुधनः कुमारो वेति? न खल्वेवं द्रष्टव्यम्।
३००.०१२. अपि त्वहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तमानः सुधनो नाम राजा बभूव्
३००.०१३. यन्मया मनोहरानिमित्तं बलवीर्यपराक्रमो दर्शितः, द्वादश वर्षाणि निरर्गटो यज्ञ इष्टः, न तेन मया अनुत्तरा सम्यक्सम्बोधिरधिगता, किं तु तद्दानं तच्च वीर्यमनुत्तरायाः सम्यक्सम्बोदेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्॥
३००.०१६. इत्यवोचद्भगवान्।
३००.०१६. आत्तमनसस्ते च सर्वे लोका भगवतो भाषितमभ्यनन्दन्॥


३००.०१७. इति सुधनकुमारावदानं समाप्तम्॥