तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ७/प्रपाठकः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

7.5 प्रपाठक: 5
7.5.1 अनुवाक 1 संवत्सरसत्रकथनम्
1 गावो वा एतत् सत्त्रम् आसताशृङ्गाः सतीः शृङ्गाणि नो जायन्ता इति कामेन तासां दश मासा निषण्णा आसन्न् अथ शृङ्गाण्य् अजायन्त ता उद् अतिष्ठन् । अरात्स्मेति । अथ यासां नाजायन्त ताः संवत्सरम् आप्त्वोद् अतिष्ठन् । अरात्स्मेति यासां चाजायन्त यासां च न ता उभयीर् उद् अतिष्ठन् । अरात्स्मेति गोसत्त्रं वै
2 संवत्सरः । य एवं विद्वाꣳसः संवत्सरम् उपयन्त्य् ऋध्नुवन्त्य् एव तस्मात् तूपरा वार्षिकौ मासौ पर्त्वा चरति सत्त्राभिजितꣳ ह्य् अस्यै तस्मात् संवत्सरसदो यत् किं च गृहे क्रियते तद् आप्तम् अवरुद्धम् अभिजितं क्रियते समुद्रं वा एते प्र प्लवन्ते ये संवत्सरम् उपयन्ति यो वै समुद्रस्य पारं न पश्यति न वै स तत उदेति संवत्सरः
3 वै समुद्रस् तस्यैतत् पारं यद् अतिरात्रौ य एवं विद्वाꣳसः संवत्सरम् उपयन्त्य् अनार्ता एवोदृचम् गच्छन्ति । इयं वै पूर्वो ऽतिरात्रो ऽसाव् उत्तरः । मनः पूर्वो वाग् उत्तरः प्राणः पूर्वो ऽपान उत्तरः प्ररोधनम् पूर्व उदयनम् उत्तरः । ज्योतिष्टोमो वैश्वानरो ऽतिरात्रो भवति ज्योतिर् एव पुरस्ताद् दधते सुवर्गस्य लोकस्यानुख्यात्यै चतुर्विꣳशः प्रायणीयो भवति चतुर्विꣳशतिर् अर्धमासाः
4 संवत्सरः प्रयन्त एव संवत्सरे प्रति तिष्ठन्ति तस्य त्रीणि च शतानि षष्टिश् च स्तोत्रीयस् तावतीः संवत्सरस्य रात्रयः । उभे एव संवत्सरस्य रूपे आप्नुवन्ति ते सꣳस्थित्या अरिष्ट्या उत्तरैर् अहोभिश् चरन्ति षडहा भवन्ति षड् वा ऋतवः संवत्सरः । ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति गौश् चायुश् च मध्यत स्तोमौ भवतः संवत्सरस्यैव तन् मिथुनम् मध्यतः
5 दधति प्रजननाय ज्योतिर् अभितो भवति विमोचनम् एव तत् । छन्दाꣳस्य् एव तद् विमोकं यन्ति । अथो उभयतोज्योतिषैव षडहेन सुवर्गं लोकं यन्ति ब्रह्मवदिनो वदन्ति । आसते केन यन्तीति देवयानेन पथेति ब्रूयात् । छन्दाꣳसि वै देवयानः पन्था गायत्री त्रिष्टुब् जगती ज्योतिर् वै गायत्री गौस् त्रिष्टुग् आयुर् जगती यद् एते स्तोमा भवन्ति देवयानेनैव
6 तत् पथा यन्ति समानꣳ साम भवति देवलोको वै साम देवलोकाद् एव न यन्ति । अन्याअन्या ऋचो भवन्ति मनुष्यलोको वा ऋचः । मनुष्यलोकाद् एवान्यमन्यं देवलोकम् अभ्यारोहन्तो यन्ति । अभिवर्तो ब्रह्मसामम् भवति सुवर्गस्य लोकस्याभिवृत्त्यै । अभिजिद् भवति सुवर्गस्य लोकस्याभिजित्यै विश्वजिद् भवति विश्वस्य जित्यै मासिमासि पृष्ठान्य् उप यन्ति मासिमास्य् अतिग्राह्या गृह्यन्ते मासिमास्य् एव वीर्यं दधति मासाम् प्रतिष्ठित्यै । उपरिष्टान् मासाम् पृष्ठान्य् उप यन्ति तस्माद् उपरिष्टाद् ओषधयः फलं गृह्णन्ति ॥

7.5.2 अनुवाक 2 संवत्सरसत्रस्य दशमाससाध्यप्रयोगेण सह विकल्पकथनम्
1 गावो वा एतत् सत्त्रम् आसताशृङ्गाः सतीः शृङ्गाणि सिषासन्तीस् तासां दश मासा निषण्णा आसन् । अथ शृङ्गाण्य् अजायन्त ता अब्रुवन् । अरात्स्मोत् तिष्ठामाव तं कामम् अरुत्स्महि येन कामेन न्यषदामेति तासाम् उ त्वा अब्रुवन्न् अर्धा वा यावतीर् वा । आसमहा एवेमौ द्वादशौ मासौ संवत्सरꣳ सम्पाद्योत् तिष्ठामेति तासाम्
2 द्वादशे मासि शृङ्गाणि प्रावर्तन्त श्रद्धया वाऽश्रद्धया वा ता इमा यास् तूपराः । उभय्यो वाव ता आर्ध्नुवन् याश् च शृङ्गाण्य् असन्वन् याश् चोर्जम् अवारुन्धत । ऋध्नोति दशसु मासूत्तिष्ठन्न् ऋध्नोति द्वादशसु य एवं वेद पदेन खलु वा एते यन्ति विन्दति खलु वै पदेन यन् तद् वा एतद् ऋद्धम् अयनम् । तस्माद् एतद् गोसनि ॥
 
7.5.3 अनुवाक 3 पृष्ठ्यषडहविकल्पाभिधानम्
1 प्रथमे मासि पृष्ठान्य् उप यन्ति मध्यम उप यन्त्य् उत्तम उप यन्ति तद् आहुः । यां वै त्रिर् एकस्याह्न उपसीदन्ति दह्रं वै साऽपराभ्यां दोहाभ्यां दुहे ऽथ कुतः सा धोक्ष्यते यां द्वादश कृत्व उपसीदन्तीति संवत्सरꣳ सम्पाद्योत्तमे मासि सकृत् पृष्ठान्य् उपेयुस् तद् यजमाना यज्ञम् पशून् अव रुन्धते समुद्रं वै
2 एते ऽनवारम् अपारम् प्र प्लवन्ते ये संवत्सरम् उपयन्ति यद् बृहद्रथंतरे अन्वर्जेयुर् यथा मध्ये समुद्रस्य प्लवम् अन्वर्जेयुस् तादृक् तत् । अनुत्सर्गम् बृहद्रथंतराभ्याम् इत्वा प्रतिष्ठां गच्छन्ति सर्वेभ्यो वै कामेभ्यः संधिर् दुहे तद् यजमानाः सर्वान् कामान् अव रुन्धते ॥

7.5.4 अनुवाक 4 उत्तरपक्षप्रकारविशेषाभिधानम्
1 समान्य ऋचो भवन्ति मनुष्यलोको वा ऋचः । मनुष्यलोकाद् एव न यन्ति । अन्यदन्यत् साम भवति देवलोको वै साम देवलोकाद् एवान्यमन्यम् मनुष्यलोकम् प्रत्यवरोहन्तो यन्ति जगतीम् अग्रे उप यन्ति जगतीं वै छन्दाꣳसि प्रत्यवरोहन्त्य् आग्रयणं ग्रहा बृहत् पृष्ठानि त्रयस्त्रिꣳशꣳ स्तोमास् तस्माज् ज्यायाꣳसं कनीयान् प्रत्यवरोहति वैश्वकर्मणो गृह्यते विश्वान्य् एव तेन कर्माणि यजमाना अव रुन्धते । आदित्यः
2 गृह्यते । इयं वा अदितिः । अस्याम् एव प्रति तिष्ठन्ति । अन्योऽन्यो गृह्येते मिथुनत्वाय प्रजात्यै । अवान्तरं वै दशरात्रेण प्रजापतिः प्रजा असृजत यद् दशरात्रो भवति प्रजा एव तद् यजमानाः सृजन्ते । एताꣳ ह वा उदङ्कः शौल्बायनः सत्त्रस्यर्द्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यर्द्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ॥

7.5.5 अनुवाक 5 मात्सर्यप्रवृत्तगवामयनद्वय विशेषाभिधानम्
1 यदि सोमौ सꣳसुतौ स्याताम् महति रात्रियै प्रातरनुवाकम् उपाकुर्यात् पूर्वो वाचम् पूर्वो देवताः पूर्वश् छन्दाꣳसि वृङ्क्ते वृषण्वतीम् प्रतिपदं कुर्यात् प्रातःसवनाद् एवैषाम् इन्द्रं वृङ्क्ते । अथो खल्व् आहुः सवनमुखेसवनमुखे कार्येति सवनमुखात्सवनमुखाद् एवैषाम् इन्द्रं वृङ्क्ते संवेशायोपवेशाय गायत्रियास् त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूत्यै स्वाहा
छन्दाꣳसि वै संवेश उपवेशः । छन्दोभिर् एवैषां
2 छन्दाꣳसि वृङ्क्ते सजनीयꣳ शस्यम् । विहव्यꣳ शस्यम् अगस्त्यस्य कयाशुभीयꣳ शस्यम् एतावद् वा अस्ति यावद् एतत् । यावद् एवास्ति तद् एषां वृङ्क्ते यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन् यद् वै यज्ञस्यातिरिच्यते विष्णुं तच् छिपिविष्टम् अभ्य् अति रिच्यते तद् विष्णुः शिपिविष्टो ऽतिरिक्त एवातिरिक्तं दधाति । अथो अतिरिक्तेनैवातिरिक्तम् आप्त्वाव रुन्धते यदि मध्यंदिने दीर्येत वषट्कारनिधनꣳ साम कुर्युः । वषट्कारो वै यज्ञस्य प्रतिष्ठा प्रतिष्ठाम् एवैनद् गमयन्ति यदि तृतीयसवन एतद् एव ॥
 
7.5.6 अनुवाक 6 गवामयनगुणविकाररूपोत्सर्गाभिधानम्
1 षडहैर् मासान्त् सम्पाद्याहर् उत् सृजन्ति षडहैर् हि मासान्त् सम्पश्यन्ति । अर्धमासैर् मासान्त् सम्पाद्याहर् उत् सृजन्ति । अर्धमासैर् हि मासान्त् सम्पश्यन्ति । अमावास्यया मासान्त् सम्पाद्याहर् उत् सृजन्ति । अमावास्यया हि मासान्त् सम्पश्यन्ति पौर्णमास्या मासान्त् सम्पाद्याहर् उत् सृजन्ति पौर्णमास्या हि मासान्त् सम्पश्यन्ति यो वै पूर्ण आसिञ्चति परा स सिञ्चति यः पूर्णाद् उदचति
2 प्राणम् अस्मिन्त् स दधाति यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति संवत्सरायैव तत् प्राणं दधति तद् अनु सत्त्रिणः प्राणन्ति यद् अहर् नोत्सृजेयुर् यथा दृतिर् उपनद्धो विपतत्य् एवꣳ संवत्सरो वि पतेत् । आर्तिम् आर्छेयुः । यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति संवत्सरायैव तद् उदानं दधति तद् अनु सत्त्रिण उत्
3 अनन्ति नार्तिम् आर्छन्ति पूर्णमासे वै देवानाꣳ सुतः । यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति देवानाम् एव तद् यज्ञेन यज्ञम् प्रत्यवरोहन्ति वि वा एतद् यज्ञं छिन्दन्ति यत् षडहसंततꣳ सन्तम् अथाहर् उत्सृजन्ति प्राजापत्यम् पशुम् आलभन्ते प्रजापतिः सर्वा देवताः । देवताभिर् एव यज्ञꣳ सं तन्वन्ति यन्ति वा एते सवनाद् ये ऽहः
4 उत्सृजन्ति तुरीयं खलु वा एतत् सवनं यत् सांनाय्यम् । यत् सांनाय्यम् भवति तेनैव सवनान् न यन्ति समुपहूय भक्षयन्ति । एतत्सोमपीथा ह्य् एतर्हि यथायतनं वा एतेषाꣳ सवनभाजो देवता गच्छन्ति ये ऽहर् उत्सृजन्ति । अनुसवनम् पुरोडाशान् निर् वपन्ति यथायतनाद् एव सवनभाजो देवता अव रुन्धते । ऽष्टाकपालान् प्रातःसवन एकादशकपालान् माध्यंदिने सवने द्वादशकपालाꣳस् तृतीयसवने छन्दाꣳस्य् एवाप्त्वाव रुन्धते वैश्वदेवं चरुं तृतीयसवने निर् वपन्ति वैश्वदेवं वै तृतीयसवनम् । तेनैव तृतीयसवनान् न यन्ति ॥

7.5.7 अनुवाक 7 अहरुत्सर्गविशेषाभिधानम्
1 उत्सृज्या3ं नोत्सृज्या3म् इति मीमाꣳसन्ते ब्रह्मवादिनस् तद् व् आहुः । उत्सृज्यम् एवेति । अमावास्यायां च पौर्णमास्यां चोत्सृज्यम् इत्य् आहुः । एते हि यज्ञं वहत इति ते त्वाव नोत्सृज्ये इत्य् आहुर् ये अवान्तरं यज्ञम् भेजाते इति या प्रथमा व्यष्टका तस्याम् उत्सृज्यम् इत्य् आहुः । एष वै मासो विशर इति नाऽऽदिष्टम् ॥
2 उत् सृजेयुः । यद् आदिष्टम् उत्सृजेयुर् यादृशे पुनः पर्याप्लावे मध्ये षडहस्य सम्पद्येत षडहैर् मासान्त् सम्पाद्य यत् सप्तमम् अहस् तस्मिन्न् उत् सृज्येयुस् तद् अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेयुर् ऐन्द्रं दधीन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वैश्वदेवं द्वादशकपालम् अग्नेर् वै वसुमतः प्रातःसवनम् । यद् अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर्वपति देवताम् एव तद् भागिनीं कुर्वन्ति ।
3 सवनम् अष्टाभिर् उप यन्ति यद् ऐन्द्रं दधि भवतीन्द्रम् एव तद् भागधेयान् न च्यावयन्ति । इन्द्रस्य वै मरुत्वतो माध्यंदिनꣳ सवनम् । यद् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं निर्वपन्ति देवताम् एव तद् भागिनीं कुर्वन्ति सवनम् एकादशभिर् उप यन्ति विश्वेषां वै देवानाम् ऋभुमतां तृतीयसवनम् । यद् वैश्वदेवं द्वादशकपालं निर्वपन्ति देवता एव तद् भागिनीः कुर्वन्ति सवनं द्वादशभिः
4 उप यन्ति प्राजापत्यम् पशुम् आ लभन्ते यज्ञो वै प्रजापतिर् यज्ञस्याननुसर्गाय । अभिवर्त इतः षण् मासो ब्रह्मसामम् भवति ब्रह्म वा अभिवर्तः । ब्रह्मणैव तत् सुवर्गं लोकम् अभिवर्तयन्तो यन्ति प्रतिकूलम् इव हीतः सुवर्गो लोकः । इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा नो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहीत्य् अमुत आयताꣳ षण् मासो ब्रह्मसामम् भवति । अयं वै लोको ज्योतिः प्रजा ज्योतिः । इमम् एव तल् लोकम् पश्यन्तो ऽभिवदन्त आ यन्ति ॥

7.5.8 अनुवाक 8 सामविशेषकथनम्
1 देवानां वा अन्तं जग्मुषाम् इन्द्रियं वीर्यम् अपाक्रामत् तत् क्रोशेनावारुन्धत तत् क्रोशस्य क्रोशत्वम् । यत् क्रोशेन चात्वालस्यान्ते स्तुवन्ति यज्ञस्यैवान्तं गत्वेन्द्रियं वीर्यम् अव रुन्धते सत्त्रस्यर्द्ध्याऽऽहवनीयस्यान्ते स्तुवन्ति । अग्निम् एवोपद्रष्टारं कृत्वर्द्धिम् उप यन्ति प्रजापतेर्हृदयेन हविर्धाने ऽन्तः स्तुवन्ति प्रेमाणम् एवास्य गच्छन्ति श्लोकेन पुरस्तात् सदसः
2 स्तुवन्त्य् अनुश्लोकेन पश्चात् । यज्ञस्यैवान्तं गत्वा श्लोकभाजो भवन्ति नवभिर् अध्वर्युर् उद् गायति नव वै पुरुषे प्राणाः प्राणान् एव यजमानेषु दधाति सर्वा ऐन्द्रियो भवन्ति प्राणेष्व् एवेन्द्रियं दधति । अप्रतिहृताभिर् उद् गायति तस्मात् पुरुषः सर्वाण्य् अन्यानि शीर्ष्णो ऽङ्गानि प्रत्य् अचति शिर एव न पञ्चदशꣳ रथंतरम् भवतीन्द्रियम् एवाव रुन्धते सप्तदशम्
3 बृहद् अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायन्ते । एकविꣳशम् भद्रं द्विपदासु प्रतिष्ठित्यै पत्नय उप गायन्ति मिथुनत्वाय प्रजात्यै प्रजापतिः प्रजा असृजत सो ऽकामयत । आसाम् अहꣳ राज्यम् परीयाम् इति तासाꣳ राजनेनैव राज्यम् पर्य् ऐत् तद् राजनस्य राजनत्वम् । यद् राजनम् भवति प्रजानाम् एव तद् यजमाना राज्यम् परि यन्ति पञ्चविꣳशम् भवति प्रजापतेः
4 आप्त्यै पञ्चभिस् तिष्ठन्त स्तुवन्ति देवलोकम् एवाभि जयन्ति पञ्चभिर् आसीना मनुष्यलोकम् एवाभि जयन्ति दश सम् पद्यन्ते दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते पञ्चधा विनिषद्य स्तुवन्ति पञ्च दिशः । दिक्ष्वेव प्रति तिष्ठन्ति । एकैकयाऽस्तुतया समायन्ति दिग्भ्य एवान्नाद्यꣳ सम् भरन्ति ताभिर् उद्गातोद् गायति दिग्भ्य एवान्नाद्यम्
5 सम्भृत्य तेज आत्मन् दधते तस्माद् एकः प्राणः सर्वाण्य् अङ्गान्य् अवति । अथो यथा सुपर्ण उत्पतिष्यञ् छिर उत्तमं कुरुत एवम् एव तद् यजमानाः प्रजानाम् उत्तमा भवन्ति । आसन्दीम् उद्गाता रोहति साम्राज्यम् एव गच्छन्ति प्लेङ्खꣳ होता नाकस्यैव पृष्ठꣳ रोहन्ति कूर्चाव् अध्वर्युर् ब्रध्नस्यैव विष्टपं गच्छन्ति । एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठन्ति । अथो आक्रमणम् एव तत् सेतुं यजमानाः कुर्वते सुवर्गस्य लोकस्य समष्ट्यै ॥

7.5.9 अनुवाक 9 शततन्तुवीणादिकथनम्
1 अर्क्येण वै सहस्रशः प्रजापतिः प्रजा असृजत ताभ्य इलांदेनेरां लूताम् अवारुन्द्ध यद् अर्क्यम् भवति प्रजा एव तद् यजमानाः सृजन्ते । इलांदम् भवति प्रजाभ्य एव सृष्टाभ्य इरां लूताम् अव रुन्धते तस्माद् याꣳ समाꣳ सत्त्रꣳ समृद्धं क्षोधुकास् ताꣳ समाम् प्रजा इषꣳ ह्य् आसामूर्जम् आददते याꣳ समां व्यृद्धम् अक्षोधुकास् ताꣳ समाम् प्रजाः
2 न ह्य् आसाम् इषमूर्जम् आददते । उत्क्रोदं कुर्वते यथा बन्धान् मुमुचाना उत्क्रोदं कुर्वत एवम् एव तद् यजमाना देवबन्धान् मुमुचाना उत्क्रोदं कुर्वत इषमूर्जं आत्मन् दधानाः । वाणः शततन्तुर् भवति शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एवेन्द्रिये प्रति तिष्ठन्ति । आजिं धावन्त्य् अनभिजितस्याभिजित्यै दुन्दुभीन्त् समाघ्नन्ति परमा वा एषा वाग् या दुन्दुभौ परमाम् एव
3 वाचम् अव रुन्धते भूमिदुन्दुभिम् आ घ्नन्ति यैवेमां वाक् प्रविष्टा ताम् एवाव रुन्धते । अथो इमाम् एव जयन्ति सर्वा वाचो वदन्ति सर्वासां वाचाम् अवरुद्ध्यै । आर्द्रे चर्मन् व्यायच्छेते इन्द्रियस्यावरुद्ध्यै । आन्यः क्रोशति प्रान्यः शꣳसति य आक्रोशति पुनात्य् एवैनान्त् स यः प्रशꣳसति पूतेष्व् एवान्नाद्यं दधाति । 2़ ऋषिकृतं च
4 वा एते देवकृतं च पूर्वैर् मासैर् अव रुन्धते यद् भूतेच्छदाꣳ सामानि भवन्त्य् उभयस्यावरुद्ध्यै यन्ति वा एते मिथुनाद् ये संवत्सरम् उपयन्ति । अन्तर्वेदि मिथुनौ सम् भवतस् तेनैव मिथुनान् न यन्ति ॥

7.5.10 अनुवाक 10 अश्वमेधाङ्गमन्त्रकथनम्
1 चर्माव भिन्दन्ति पाप्मानम् एवैषाम् अव भिन्दन्ति माऽप रात्सीर् माऽति व्यात्सीर् इत्य् आह सम्प्रत्य् एवैषाम् पाप्मानम् अव भिन्दन्ति । उदकुम्भान् अधिनिधाय दास्यो मार्जालीयम् परि नृत्यन्ति पदो निघ्नतीर् इदम्मधुं गायन्त्यः । मधु वै देवानाम् परमम् अन्नाद्यम् परमम् एवान्नाद्यम् अव रुन्धते पदो नि घ्नन्ति महीयाम् एवैषु दधति ॥

7.5.11 अनुवाक 11 अश्वमेधाङ्गमन्त्रकथनम्
1 पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सम्प्लोष्यते स्वाहा सम्प्लवमानाय स्वाहा सम्प्लुताय स्वाहा मेघायिष्यते स्वाहा मेघायते स्वाहा मेघिताय स्वाहा मेघाय स्वाहा नीहाराय स्वाहा निहाकायै स्वाहा प्रासचाय स्वाहा प्रचलाकायै स्वाहा विद्योतिष्यते स्वाहा विद्योतमानाय स्वाहा संविद्योतमानाय स्वाहा स्तनयिष्यते स्वाहा स्तनयते स्वाहोग्रꣳ स्तनयते स्वाहा वर्षिष्यते स्वाहा वर्षते स्वाहाभिवर्षते स्वाहा परिवर्षते स्वाहा संवर्षते
2 स्वाहानुवर्षते स्वाहा शीकायिष्यते स्वाहा शीकायते स्वाहा शीकिताय स्वाहा प्रोषिष्यते स्वाहा प्रुष्णते स्वाहा परिप्रुष्णते स्वाहा । उद्ग्रहीष्यते स्वाहोद्ग्रृह्णते स्वाहोद्ग्रृहीताय स्वाहा विप्लोष्यते स्वाहा विप्लवमानाय स्वाहा विप्लुताय स्वाहा । आतप्स्यते स्वाहाऽऽतपते स्वाहोग्रम् आतपते स्वाहा । ऋग्भ्यः स्वाहा यजुर्भ्यः स्वाहा सामभ्यः स्वाहाङ्गिरोभ्यः स्वाहा वेदेभ्यः स्वाहा गाथाभ्यः स्वाहा नाराशꣳसीभ्यः स्वाहा रैभीभ्यः स्वाहा सर्वस्मै स्वाहा ॥
 
7.5.12 अनुवाक 12 अश्वमेधाङ्गमन्त्रकथनम्
1 दत्वते स्वाहाऽदन्तकाय स्वाहा प्राणिने स्वाहाऽप्राणाय स्वाहा मुखवते स्वाहाऽमुखाय स्वाहा नासिकवते स्वाहाऽनासिकाय स्वाहा । अक्षण्वते स्वाहाऽनक्षिकाय स्वाहा कर्णिने स्वाहाऽकर्णकाय स्वाहा शीर्षण्वते स्वाहाऽशीर्षकाय स्वाहा पद्वते स्वाहाऽपादकाय स्वाहा प्राणते स्वाहाऽप्राणते स्वाहा वदते स्वाहाऽवदते स्वाहा पश्यते स्वाहाऽपश्यते स्वाहा शृण्वते स्वाहाऽशृण्वते स्वाहा मनस्विने स्वाहा
2 अमनसे स्वाहा रेतस्विने स्वाहाऽरेतस्काय स्वाहा प्रजाभ्यः स्वाहा प्रजननाय स्वाहा लोमवते स्वाहाऽलोमकाय स्वाहा त्वचे स्वाहाऽत्वक्काय स्वाहा चर्मण्वते स्वाहाऽचर्मकाय स्वाहा लोहितवते स्वाहाऽलोहिताय स्वाहा माꣳसन्वते स्वाहाऽमाꣳसकाय स्वाहा स्नावभ्यः स्वाहाऽस्नावकाय स्वाहा । अस्थन्वते स्वाहाऽनस्थिकाय स्वाहा मज्जन्वते स्वाहाऽमज्जकाय स्वाहा । अङ्गिने स्वाहाऽनङ्गाय स्वाहा । आत्मने स्वाहाऽनात्मने स्वाहा सर्वस्मै स्वाहा ॥

7.5.13 अनुवाक 13 अश्वमेधाङ्गमन्त्रकथनम्
1 कस् त्वा युनक्ति स त्वा युनक्तु विष्णुस् त्वा युनक्तु । अस्य यज्ञस्यर्द्ध्यै मह्यꣳ संनत्यै । अमुष्मै कामाय । आयुषे त्वा प्राणाय त्वाऽपानाय त्वा व्यानाय त्वा व्युष्ट्यै त्वा रय्यै त्वा राधसे त्वा घोषाय त्वा पोषाय त्वाऽऽराद्घोषाय त्वा प्रच्युत्यै त्वा ॥

7.5.14 अनुवाक 14 अश्वमेधाङ्गमन्त्रकथनम्
1 अग्नये गायत्राय त्रिवृते राथंतराय वासन्तायाष्टाकपालः । इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रीष्मायैकादशकपालः । विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो द्वादशकपालः । मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविꣳशाभ्यां वैराजाभ्याꣳ शारदाभ्याम् पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुः सवित्र आतिच्छन्दसाय त्रयस्त्रिꣳशाय रैवताय शैशिराय द्वादशकपालः । अदित्यै विष्णुपत्न्यै चरुः । अग्नये वैश्वानराय द्वादशकपालः । अनुमत्यै चरुः काय एककपालः ॥
 
7.5.15 अनुवाक 15 अश्वमेधाङ्गमन्त्रकथनम्
1 यो वा अग्नाव् अग्निः प्रह्रियते यश् च सोमो राजा तयोर् एष आतिथ्यं यद् अग्नीषोमीयः । अथैष रुद्रो यश् चीयते यत् संचिते ऽग्नाव् एतानि हवीꣳषि न निर्वपेत् । एष एव रुद्रो ऽशान्त उपोत्थाय प्रजाम् पशून् यजमानस्याभि मन्येत यत् संचिते ऽग्नाव् एतानि हवीꣳषि निर्वपति भागधेयेनैवैनꣳ शमयति नास्य रुद्रो ऽशान्तः
2 उपोत्थाय प्रजाम् पशून् अभि मन्यते दश हवीꣳषि भवन्ति नव वै पुरुषे प्राणा नाभिर् दशमी प्राणान् एव यजमाने दधाति । अथो दशाक्षरा विराड् अन्नं विराड् विराज्य् एवान्नाद्ये प्रति तिष्ठति । ऋतुभिर् वा एष छन्दोभिः स्तोमैः पृष्ठैश् चेतव्य इत्य् आहुः । यद् एतानि हवीꣳषि निर्वपत्य् ऋतुभिर् एवैनं छन्दोभिः स्तोमैः पृष्ठैश् चिनुते दिशः सुषुवाणेन
3 अभिजित्या इत्य् आहुः । यद् एतानि हवीꣳषि निर्वपति दिशाम् अभिजित्यै । एतया वा इन्द्रं देवा अयाजयन् तस्माद् इन्द्रसवः । एतया मनुम् मनुष्यास् तस्मान् मनुसवः । यथेन्द्रो देवानां यथा मनुर् मनुष्याणाम् एवम् भवति य एवं विद्वान् एतयेष्ट्या यजते दिग्वतीः पुरोऽनुवाक्या भवन्ति सर्वासां दिशाम् अभिजित्यै ॥
 
7.5.16 अनुवाक 16 अश्वमेधाङ्गमन्त्रकथनम्
1 यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते द्यौर् महिमा नक्षत्राणि रूपम् आदित्यस् ते तेजस् तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥

7.5.17 अनुवाक 17 अश्वमेधाङ्गमन्त्रकथनम्
1 य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते पृथिवी महिमौषधयो वनस्पतयो रूपम् अग्निस् ते तेजस् तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥
 
7.5.18 अनुवाक 18 अश्वमेधाङ्गमन्त्रकथनम्
1 आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आऽस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् । दोग्ध्री धेनुः । वोढाऽनड्वान् आशुः सप्तिः पुरंधिर् योषा जिष्णू रथेष्ठाः सभेयो युवा । आऽस्य यजमानस्य वीरो जायताम् । निकामेनिकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् ॥

7.5.19 अनुवाक 19 अश्वमेधाङ्गमन्त्रकथनम्
1 आऽक्रान् वाजी पृथिवीम् अग्निं युजम् अकृत वाज्य् अर्वाऽक्रान् वाज्य् अन्तरिक्षं वायुं युजम् अकृत वाज्य् अर्वा द्यां वाज्य् आऽक्रꣳस्त सूर्यं युजम् अकृत वाज्य् अर्वा । अग्निस् ते वाजिन् युङ्ङ् अनु त्वा रभे स्वस्ति मा सम् पारय वायुस् ते वाजिन् युङ्ङ् अनु त्वाऽऽ रभे स्वस्ति मा सम् 2 पारयाऽऽदित्यस् ते वाजिन् युङ्ङ् अनु त्वा रभे स्वस्ति मा सम् पारय प्राणधृग् असि प्राणम् मे दृꣳह व्यानधृग् असि व्यानम् मे दृꣳहापानधृग् अस्य् अपानम् मे दृꣳह चक्षुर् असि चक्षुर् मयि धेहि श्रोत्रम् असि श्रोत्रम् मयि धेह्य् आयुर् अस्य् आयुर् मयि धेहि ॥

7.5.20 अनुवाक 20 अश्वमेधाङ्गमन्त्रकथनम्
1 जज्ञि बीजम् । वर्ष्टा पर्जन्यः पक्ता सस्यम् । सुपिप्पला ओषधयः स्वधिचरणेयम् । सूपसदनो ऽग्निः स्वध्यक्षम् अन्तरिक्षम् । सुपावः पवमानः सूपस्थाना द्यौः शिवम् असौ तपन् यथापूर्वम् अहोरात्रे पञ्चदशिनो ऽर्धमासास् त्रिꣳशिनो मासाः क्लृप्ता ऋतवः शान्तः संवत्सरः ॥

7.5.21 अनुवाक 21 अश्वमेधाङ्गमन्त्रकथनम्
1 आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः पौष्णश् चरुः । रौद्रश् चरुः । अग्नये वैश्वानराय द्वादशकपालो मृगाखरे यदि नाऽऽगच्छेत् । अग्नये ऽꣳहोमुचे ऽष्टाकपालः सौर्यम् पयः । वायव्य आज्यभागः ॥

7.5.22 अनुवाक 22 अश्वमेधाङ्गमन्त्रकथनम्
1 अग्नये ऽꣳहोमुचे ऽष्टाकपालः । इन्द्रायाꣳहोमुच एकादशकपालः । मित्रावरुणाभ्याम् आगोमुग्भ्याम् पयस्या वायोसावित्र आगोमुग्भ्यां चरुः । अश्विभ्याम् आगोमुग्भ्यां धानाः । मरुद्भ्य एनोमुग्भ्यः सप्तकपालः । विश्वेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालः । अनुमत्यै चरुः । अग्नये वैश्वानराय द्वादशकपालः । द्यावापृथिवीभ्याम् अꣳहोमुग्भ्यां द्विकपालः ॥

7.5.23 अनुवाक 23 अश्वमेधाङ्गमन्त्रकथनम्
1 अग्नये समनमत् पृथिव्यै समनमत् । यथाग्निः पृथिव्या समनमद् एवम् मह्यम् भद्राः संनतयः सं नमन्तु वायवे समनमद् अन्तरिक्षाय समनमत् । यथा वायुर् अन्तरिक्षेण सूर्याय समनमद् दिवे समनमत् । यथा सूर्यो दिवा चन्द्रमसे समनमन् नक्षत्रेभ्यः समनमत् । यथा चन्द्रमा नक्षत्रैः वरुणाय समनमद् अद्भ्यः समनमत् । यथा
2 वरुणो ऽद्भिः साम्ने समनमद् ऋचे समनमत् । यथा सामर्चा ब्रह्मणे समनमत् क्षत्राय समनमत् । यथा ब्रह्म क्षत्रेण राज्ञे समनमद् विशे समनमत् । यथा राजा विशा रथाय समनमद् अश्वेभ्यः समनमत् । यथा रथो ऽश्वैः प्रजापतये समनमद् भूतेभ्यः समनमत् । यथा प्रजापतिर् भूतैः समनमद् एवम् मह्यम् भद्राः संनतयः सं नमन्तु ॥

7.5.24 अनुवाक 24 अश्वमेधाङ्गमन्त्रकथनम्
1 ये ते पन्थानः सवितः पूर्व्यासो ऽरेणवो वितता अन्तरिक्षे । तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च देव ब्रूहि ॥ नमो ऽग्नये पृथिविक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि नमो वायवे ऽन्तरिक्षक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि नमः सूर्याय दिविक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि ॥

7.5.25 अनुवाक 25 अश्वमेधाङ्गमन्त्रकथनम्
1 यो वा अश्वस्य मेध्यस्य शिरो वेद शीर्षण्वान् मेध्यो भवति । उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश् चक्षुः । वातः प्राणः । चन्द्रमाः श्रोत्रम् । दिशः पादौ । अवान्तरदिशाः पर्शवः । अहोरात्रे निमेषः । अर्धमासाः पर्वाणि मासाः संधानानि । ऋतवो ऽङ्गानि संवत्सर आत्मा रश्मयः केशाः । नक्षत्राणि रूपम् । तारका अस्थानि नभो माꣳसानि । ओषधयो लोमानि वनस्पतयो वालाः । अग्निर् मुखम् । वैश्वानरो व्यात्तम् ।
2 समुद्र उदरम् अन्तरिक्षम् पायुः । द्यावापृथिवी आण्डौ ग्रावा शेपः सोमो रेतः । यज् जञ्जभ्यते तद् वि द्योतते यद् विधूनुते तत् स्तनयति यन् मेहति तद् वर्षति वाग् एवास्य वाग् अहर् वा अश्वस्य जायमानस्य महिमा पुरस्ताज् जायते रात्रिर् एनम् महिमा पश्चाद् अनु जायते । एतौ वै महिमानाव् अश्वम् अभितः सम् बभूवतुः । हयो देवान् अवहद् अर्वाऽसुरान् वाजी गन्धर्वान् अश्वो मनुष्यान् । समुद्रो वा अश्वस्य योनिः समुद्रो बन्धुः ॥  


7.5.1 अनुवाक 1 संवत्सरसत्रकथनम्
1
    गावो वा एतत् सत्त्रम् आसताशृङ्गाः सतीः
    शृङ्गाणि नो जायन्ता इति कामेन
    तासां दश मासा निषण्णा आसन्न् अथ शृङ्गाण्य् अजायन्त
    ता उद् अतिष्ठन् ।
    अरात्स्मेति ।
    अथ यासां नाजायन्त ताः संवत्सरम् आप्त्वोद् अतिष्ठन् ।
    अरात्स्मेति
    यासां चाजायन्त यासां च न ता उभयीर् उद् अतिष्ठन् ।
    अरात्स्मेति
    गोसत्त्रं वै

2
    संवत्सरः ।
    य एवं विद्वाꣳसः संवत्सरम् उपयन्त्य् ऋध्नुवन्त्य् एव
    तस्मात् तूपरा वार्षिकौ मासौ पर्त्वा चरति
    सत्त्राभिजितꣳ ह्य् अस्यै
    तस्मात् संवत्सरसदो यत् किं च गृहे क्रियते तद् आप्तम् अवरुद्धम् अभिजितं क्रियते
    समुद्रं वा एते प्र प्लवन्ते ये संवत्सरम् उपयन्ति
    यो वै समुद्रस्य पारं न पश्यति न वै स तत उदेति
    संवत्सरः

3
    वै समुद्रस्
    तस्यैतत् पारं यद् अतिरात्रौ
    य एवं विद्वाꣳसः संवत्सरम् उपयन्त्य् अनार्ता एवोदृचम् गच्छन्ति ।
    इयं वै पूर्वो ऽतिरात्रो ऽसाव् उत्तरः ।
    मनः पूर्वो वाग् उत्तरः
    प्राणः पूर्वो ऽपान उत्तरः
    प्ररोधनम् पूर्व उदयनम् उत्तरः ।
    ज्योतिष्टोमो वैश्वानरो ऽतिरात्रो भवति
    ज्योतिर् एव पुरस्ताद् दधते
    सुवर्गस्य लोकस्यानुख्यात्यै
    चतुर्विꣳशः प्रायणीयो भवति
   चतुर्विꣳशतिर् अर्धमासाः

4
    संवत्सरः
    प्रयन्त एव संवत्सरे प्रति तिष्ठन्ति
    तस्य त्रीणि च शतानि षष्टिश् च स्तोत्रीयस्
    तावतीः संवत्सरस्य रात्रयः ।
    उभे एव संवत्सरस्य रूपे आप्नुवन्ति
    ते सꣳस्थित्या अरिष्ट्या उत्तरैर् अहोभिश् चरन्ति
    षडहा भवन्ति
    षड् वा ऋतवः संवत्सरः ।
    ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति
   गौश् चायुश् च मध्यत स्तोमौ भवतः
    संवत्सरस्यैव तन् मिथुनम् मध्यतः

5
    दधति
    प्रजननाय
    ज्योतिर् अभितो भवति
    विमोचनम् एव तत् ।
    छन्दाꣳस्य् एव तद् विमोकं यन्ति ।
    अथो उभयतोज्योतिषैव षडहेन सुवर्गं लोकं यन्ति
    ब्रह्मवदिनो वदन्ति ।
    आसते केन यन्तीति
    देवयानेन पथेति ब्रूयात् ।
   छन्दाꣳसि वै देवयानः पन्था गायत्री त्रिष्टुब् जगती
    ज्योतिर् वै गायत्री गौस् त्रिष्टुग् आयुर् जगती
    यद् एते स्तोमा भवन्ति
    देवयानेनैव

6
    तत् पथा यन्ति
    समानꣳ साम भवति
    देवलोको वै साम
    देवलोकाद् एव न यन्ति ।
    अन्याअन्या ऋचो भवन्ति
    मनुष्यलोको वा ऋचः ।
    मनुष्यलोकाद् एवान्यमन्यं देवलोकम् अभ्यारोहन्तो यन्ति ।
    अभिवर्तो ब्रह्मसामम् भवति
    सुवर्गस्य लोकस्याभिवृत्त्यै ।
    अभिजिद् भवति
    सुवर्गस्य लोकस्याभिजित्यै
    विश्वजिद् भवति विश्वस्य जित्यै
    मासिमासि पृष्ठान्य् उप यन्ति
    मासिमास्य् अतिग्राह्या गृह्यन्ते
    मासिमास्य् एव वीर्यं दधति
    मासाम् प्रतिष्ठित्यै ।
    उपरिष्टान् मासाम् पृष्ठान्य् उप यन्ति
    तस्माद् उपरिष्टाद् ओषधयः फलं गृह्णन्ति ॥

7.5.2 अनुवाक 2 संवत्सरसत्रस्य दशमाससाध्यप्रयोगेण सह विकल्पकथनम्
1
    गावो वा एतत् सत्त्रम् आसताशृङ्गाः सतीः शृङ्गाणि सिषासन्तीस्
    तासां दश मासा निषण्णा आसन् ।
    अथ शृङ्गाण्य् अजायन्त
    ता अब्रुवन् ।
    अरात्स्मोत् तिष्ठामाव तं कामम् अरुत्स्महि येन कामेन न्यषदामेति
    तासाम् उ त्वा अब्रुवन्न् अर्धा वा यावतीर् वा ।
    आसमहा एवेमौ द्वादशौ मासौ संवत्सरꣳ सम्पाद्योत् तिष्ठामेति
    तासाम्

2
    द्वादशे मासि शृङ्गाणि प्रावर्तन्त श्रद्धया वाऽश्रद्धया वा
    ता इमा यास् तूपराः ।
    उभय्यो वाव ता आर्ध्नुवन् याश् च शृङ्गाण्य् असन्वन् याश् चोर्जम् अवारुन्धत ।
    ऋध्नोति दशसु मासूत्तिष्ठन्न् ऋध्नोति द्वादशसु य एवं वेद
    पदेन खलु वा एते यन्ति विन्दति खलु वै पदेन यन्
    तद् वा एतद् ऋद्धम् अयनम् ।
    तस्माद् एतद् गोसनि ॥

7.5.3 अनुवाक 3 पृष्ठ्यषडहविकल्पाभिधानम्
1
    प्रथमे मासि पृष्ठान्य् उप यन्ति मध्यम उप यन्त्य् उत्तम उप यन्ति
    तद् आहुः ।
    यां वै त्रिर् एकस्याह्न उपसीदन्ति दह्रं वै साऽपराभ्यां दोहाभ्यां दुहे ऽथ कुतः सा धोक्ष्यते यां द्वादश कृत्व उपसीदन्तीति
    संवत्सरꣳ सम्पाद्योत्तमे मासि सकृत् पृष्ठान्य् उपेयुस्
    तद् यजमाना यज्ञम् पशून् अव रुन्धते
    समुद्रं वै

2
    एते ऽनवारम् अपारम् प्र प्लवन्ते ये संवत्सरम् उपयन्ति
    यद् बृहद्रथंतरे अन्वर्जेयुर् यथा मध्ये समुद्रस्य प्लवम् अन्वर्जेयुस् तादृक् तत् ।
    अनुत्सर्गम् बृहद्रथंतराभ्याम् इत्वा प्रतिष्ठां गच्छन्ति
    सर्वेभ्यो वै कामेभ्यः संधिर् दुहे
    तद् यजमानाः सर्वान् कामान् अव रुन्धते ॥

7.5.4 अनुवाक 4 उत्तरपक्षप्रकारविशेषाभिधानम्
1
    समान्य ऋचो भवन्ति
    मनुष्यलोको वा ऋचः ।
    मनुष्यलोकाद् एव न यन्ति ।
    अन्यदन्यत् साम भवति
    देवलोको वै साम
    देवलोकाद् एवान्यमन्यम् मनुष्यलोकम् प्रत्यवरोहन्तो यन्ति
    जगतीम् अग्रे उप यन्ति
    जगतीं वै छन्दाꣳसि प्रत्यवरोहन्त्य् आग्रयणं ग्रहा बृहत् पृष्ठानि त्रयस्त्रिꣳशꣳ स्तोमास्
    तस्माज् ज्यायाꣳसं कनीयान् प्रत्यवरोहति
    वैश्वकर्मणो गृह्यते
    विश्वान्य् एव तेन कर्माणि यजमाना अव रुन्धते ।
    आदित्यः

2
    गृह्यते ।
    इयं वा अदितिः ।
    अस्याम् एव प्रति तिष्ठन्ति ।
    अन्योऽन्यो गृह्येते मिथुनत्वाय प्रजात्यै ।
    अवान्तरं वै दशरात्रेण प्रजापतिः प्रजा असृजत
    यद् दशरात्रो भवति प्रजा एव तद् यजमानाः सृजन्ते ।
    एताꣳ ह वा उदङ्कः शौल्बायनः सत्त्रस्यद्धिम् उवाच यद् दशरात्रः ।
    यद् दशरात्रो भवति सत्त्रस्यद्ध्यै ।
    अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ॥

7.5.5 अनुवाक 5 मात्सर्यप्रवृत्तगवामयनद्वय विशेषाभिधानम्
1
    यदि सोमौ सꣳसुतौ स्याताम् महति रात्रियै प्रातरनुवाकम् उपाकुर्यात्
    पूर्वो वाचम् पूर्वो देवताः पूर्वश् छन्दाꣳसि वृङ्क्ते वृषण्वतीम् प्रतिपदं कुर्यात्
    प्रातःसवनाद् एवैषाम् इन्द्रं वृङ्क्ते ।
    अथो खल्व् आहुः
    सवनमुखेसवनमुखे कार्येति
    सवनमुखात्सवनमुखाद् एवैषाम् इन्द्रं वृङ्क्ते
    संवेशायोपवेशाय गायत्रियास् त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूत्यै स्वाहा
    छन्दाꣳसि वै संवेश उपवेशः ।
    छन्दोभिर् एवैषां

2
    छन्दाꣳसि वृङ्क्ते
    सजनीयꣳ शस्यम् ।
    विहव्यꣳ शस्यम्
    अगस्त्यस्य कयाशुभीयꣳ शस्यम्
    एतावद् वा अस्ति यावद् एतत् ।
    यावद् एवास्ति तद् एषां वृङ्क्ते
    यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन्
    यद् वै यज्ञस्यातिरिच्यते विष्णुं तच् छिपिविष्टम् अभ्य् अति रिच्यते
    तद् विष्णुः शिपिविष्टो ऽतिरिक्त एवातिरिक्तं दधाति ।
    अथो अतिरिक्तेनैवातिरिक्तम् आप्त्वाव रुन्धते
    यदि मध्यंदिने दीर्येत वषट्कारनिधनꣳ साम कुर्युः ।
    वषट्कारो वै यज्ञस्य प्रतिष्ठा
   प्रतिष्ठाम् एवैनद् गमयन्ति
   यदि तृतीयसवन एतद् एव ॥

अनुवाक 6 गवामयनगुणविकाररूपोत्सर्गाभिधानम्
1
    षडहैर् मासान्त् सम्पाद्याहर् उत् सृजन्ति
    षडहैर् हि मासान्त् सम्पश्यन्ति ।
    अर्धमासैर् मासान्त् सम्पाद्याहर् उत् सृजन्ति ।
    अर्धमासैर् हि मासान्त् सम्पश्यन्ति ।
    अमावास्यया मासान्त् सम्पाद्याहर् उत् सृजन्ति ।
    अमावास्यया हि मासान्त् सम्पश्यन्ति
    पौर्णमास्या मासान्त् सम्पाद्याहर् उत् सृजन्ति
    पौर्णमास्या हि मासान्त् सम्पश्यन्ति
    यो वै पूर्ण आसिञ्चति परा स सिञ्चति
    यः पूर्णाद् उदचति

2
    प्राणम् अस्मिन्त् स दधाति
    यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति संवत्सरायैव तत् प्राणं दधति
    तद् अनु सत्त्रिणः प्राणन्ति
    यद् अहर् नोत्सृजेयुर् यथा दृतिर् उपनद्धो विपतत्य् एवꣳ संवत्सरो वि पतेत् ।
    आर्तिम् आर्छेयुः ।
    यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति संवत्सरायैव तद् उदानं दधति
    तद् अनु सत्त्रिण उत्

3
    अनन्ति
    नार्तिम् आर्छन्ति
    पूर्णमासे वै देवानाꣳ सुतः ।
    यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति देवानाम् एव तद् यज्ञेन यज्ञम् प्रत्यवरोहन्ति
    वि वा एतद् यज्ञं छिन्दन्ति यत् षडहसंततꣳ सन्तम् अथाहर् उत्सृजन्ति
    प्राजापत्यम् पशुम् आलभन्ते
    प्रजापतिः सर्वा देवताः ।
    देवताभिर् एव यज्ञꣳ सं तन्वन्ति
    यन्ति वा एते सवनाद् ये ऽहः

4
    उत्सृजन्ति
    तुरीयं खलु वा एतत् सवनं यत् सांनाय्यम् ।
    यत् सांनाय्यम् भवति तेनैव सवनान् न यन्ति
    समुपहूय भक्षयन्ति ।
    एतत्सोमपीथा ह्य् एतर्हि
    यथायतनं वा एतेषाꣳ सवनभाजो देवता गच्छन्ति ये ऽहर् उत्सृजन्ति ।
    अनुसवनम् पुरोडाशान् निर् वपन्ति
    यथायतनाद् एव सवनभाजो देवता अव रुन्धते ।
    ऽष्टाकपालान् प्रातःसवन एकादशकपालान् माध्यंदिने सवने द्वादशकपालाꣳस् तृतीयसवने
    छन्दाꣳस्य् एवाप्त्वाव रुन्धते
    वैश्वदेवं चरुं तृतीयसवने निर् वपन्ति
    वैश्वदेवं वै तृतीयसवनम् ।
   तेनैव तृतीयसवनान् न यन्ति ॥

7.5.7 अनुवाक 7 अहरुत्सर्गविशेषाभिधानम्
1
    उत्सृज्या3ं नोत्सृज्या3म् इति मीमाꣳसन्ते ब्रह्मवादिनस्
    तद् व् आहुः ।
    उत्सृज्यम् एवेति ।
    अमावास्यायां च पौर्णमास्यां चोत्सृज्यम् इत्य् आहुः ।
    एते हि यज्ञं वहत इति
    ते त्वाव नोत्सृज्ये इत्य् आहुर् ये अवान्तरं यज्ञम् भेजाते इति
    या प्रथमा व्यष्टका तस्याम् उत्सृज्यम् इत्य् आहुः ।
    एष वै मासो विशर इति
    नाऽऽदिष्टम् ॥

2
    उत् सृजेयुः ।
    यद् आदिष्टम् उत्सृजेयुर् यादृशे पुनः पर्याप्लावे मध्ये षडहस्य सम्पद्येत षडहैर् मासान्त् सम्पाद्य यत् सप्तमम् अहस् तस्मिन्न् उत् सृज्येयुस्
    तद् अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेयुर् ऐन्द्रं दधीन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वैश्वदेवं द्वादशकपालम्
    अग्नेर् वै वसुमतः प्रातःसवनम् ।
    यद् अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर्वपति देवताम् एव तद् भागिनीं कुर्वन्ति ।

3
    सवनम् अष्टाभिर् उप यन्ति
    यद् ऐन्द्रं दधि भवतीन्द्रम् एव तद् भागधेयान् न च्यावयन्ति ।
    इन्द्रस्य वै मरुत्वतो माध्यंदिनꣳ सवनम् ।
    यद् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं निर्वपन्ति देवताम् एव तद् भागिनीं कुर्वन्ति सवनम् एकादशभिर् उप यन्ति
    विश्वेषां वै देवानाम् ऋभुमतां तृतीयसवनम् ।
    यद् वैश्वदेवं द्वादशकपालं निर्वपन्ति देवता एव तद् भागिनीः कुर्वन्ति सवनं द्वादशभिः

4
उप यन्ति
प्राजापत्यम् पशुम् आ लभन्ते
यज्ञो वै प्रजापतिर् यज्ञस्याननुसर्गाय ।
अभिवर्त इतः षण् मासो ब्रह्मसामम् भवति
ब्रह्म वा अभिवर्तः ।
ब्रह्मणैव तत् सुवर्गं लोकम् अभिवर्तयन्तो यन्ति
प्रतिकूलम् इव हीतः सुवर्गो लोकः ।
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा नो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहीत्य् अमुत आयताꣳ षण् मासो ब्रह्मसामम् भवति ।
अयं वै लोको ज्योतिः प्रजा ज्योतिः ।
इमम् एव तल् लोकम् पश्यन्तो ऽभिवदन्त आ यन्ति ॥

7.5.8 अनुवाक 8 सामविशेषकथनम्
1
    देवानां वा अन्तं जग्मुषाम् इन्द्रियं वीर्यम् अपाक्रामत्
    तत् क्रोशेनावारुन्धत
    तत् क्रोशस्य क्रोशत्वम् ।
    यत् क्रोशेन चात्वालस्यान्ते स्तुवन्ति यज्ञस्यैवान्तं गत्वेन्द्रियं वीर्यम् अव रुन्धते
    सत्त्रस्यर्द्ध्याऽऽहवनीयस्यान्ते स्तुवन्ति ।
    अग्निम् एवोपद्रष्टारं कृत्वर्द्धिम् उप यन्ति
    प्रजापतेर्हृदयेन हविर्धाने ऽन्तः स्तुवन्ति
    प्रेमाणम् एवास्य गच्छन्ति
    श्लोकेन पुरस्तात् सदसः

2
    स्तुवन्त्य् अनुश्लोकेन पश्चात् ।
    यज्ञस्यैवान्तं गत्वा श्लोकभाजो भवन्ति
    नवभिर् अध्वर्युर् उद् गायति
    नव वै पुरुषे प्राणाः
    प्राणान् एव यजमानेषु दधाति
    सर्वा ऐन्द्रियो भवन्ति
    प्राणेष्व् एवेन्द्रियं दधति ।
    अप्रतिहृताभिर् उद् गायति
    तस्मात् पुरुषः सर्वाण्य् अन्यानि शीर्ष्णो ऽङ्गानि प्रत्य् अचति
    शिर एव न
   पञ्चदशꣳ रथंतरम् भवतीन्द्रियम् एवाव रुन्धते
   सप्तदशम्

3
    बृहद् अन्नाद्यस्यावरुद्ध्यै ।
    अथो प्रैव तेन जायन्ते ।
    एकविꣳशम् भद्रं द्विपदासु प्रतिष्ठित्यै
    पत्नय उप गायन्ति
    मिथुनत्वाय प्रजात्यै
    प्रजापतिः प्रजा असृजत
    सो ऽकामयत ।
    आसाम् अहꣳ राज्यम् परीयाम् इति
    तासाꣳ राजनेनैव राज्यम् पर्य् ऐत्
    तद् राजनस्य राजनत्वम् ।
    यद् राजनम् भवति प्रजानाम् एव तद् यजमाना राज्यम् परि यन्ति
   पञ्चविꣳशम् भवति प्रजापतेः

4
    आप्त्यै
    पञ्चभिस् तिष्ठन्त स्तुवन्ति देवलोकम् एवाभि जयन्ति
    पञ्चभिर् आसीना मनुष्यलोकम् एवाभि जयन्ति
    दश सम् पद्यन्ते दशाक्षरा विराड्
    अन्नं विराड्
    विराजैवान्नाद्यम् अव रुन्धते
    पञ्चधा विनिषद्य स्तुवन्ति
    पञ्च दिशः ।
    दिक्ष्वेव प्रति तिष्ठन्ति ।
    एकैकयाऽस्तुतया समायन्ति दिग्भ्य एवान्नाद्यꣳ सम् भरन्ति
    ताभिर् उद्गातोद् गायति
   दिग्भ्य एवान्नाद्यम्

5
    सम्भृत्य तेज आत्मन् दधते
    तस्माद् एकः प्राणः सर्वाण्य् अङ्गान्य् अवति ।
    अथो यथा सुपर्ण उत्पतिष्यञ् छिर उत्तमं कुरुत एवम् एव तद् यजमानाः प्रजानाम् उत्तमा भवन्ति ।
    आसन्दीम् उद्गाता रोहति साम्राज्यम् एव गच्छन्ति
    प्लेङ्खꣳ होता नाकस्यैव पृष्ठꣳ रोहन्ति
    कूर्चाव् अध्वर्युर् ब्रध्नस्यैव विष्टपं गच्छन्ति ।
    एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठन्ति ।
    अथो आक्रमणम् एव तत् सेतुं यजमानाः कुर्वते सुवर्गस्य लोकस्य समष्ट्यै ॥

7.5.9 अनुवाक 9 शततन्तुवीणादिकथनम्
1
    अर्क्येण वै सहस्रशः प्रजापतिः प्रजा असृजत
    ताभ्य इलांदेनेरां लूताम् अवारुन्द्ध
    यद् अर्क्यम् भवति प्रजा एव तद् यजमानाः सृजन्ते ।
    इलांदम् भवति प्रजाभ्य एव सृष्टाभ्य इरां लूताम् अव रुन्धते
    तस्माद् याꣳ समाꣳ सत्त्रꣳ समृद्धं क्षोधुकास् ताꣳ समाम् प्रजा इषꣳ ह्य् आसामूर्जम् आददते
    याꣳ समां व्यृद्धम् अक्षोधुकास् ताꣳ समाम् प्रजाः

2
    न ह्य् आसाम् इषमूर्जम् आददते ।
    उत्क्रोदं कुर्वते
    यथा बन्धान् मुमुचाना उत्क्रोदं कुर्वत एवम् एव तद् यजमाना देवबन्धान् मुमुचाना उत्क्रोदं कुर्वत इषमूर्जं आत्मन् दधानाः ।
    वाणः शततन्तुर् भवति
    शतायुः पुरुषः शतेन्द्रियः ।
    आयुष्य् एवेन्द्रिये प्रति तिष्ठन्ति ।
    आजिं धावन्त्य् अनभिजितस्याभिजित्यै
    दुन्दुभीन्त् समाघ्नन्ति
    परमा वा एषा वाग् या दुन्दुभौ
    परमाम् एव

3
    वाचम् अव रुन्धते
    भूमिदुन्दुभिम् आ घ्नन्ति
    यैवेमां वाक् प्रविष्टा ताम् एवाव रुन्धते ।
    अथो इमाम् एव जयन्ति
    सर्वा वाचो वदन्ति
    सर्वासां वाचाम् अवरुद्ध्यै ।
    आर्द्रे चर्मन् व्यायच्छेते
    इन्द्रियस्यावरुद्ध्यै ।
    आन्यः क्रोशति प्रान्यः शꣳसति
   य आक्रोशति पुनात्य् एवैनान्त् स
    यः प्रशꣳसति पूतेष्व् एवान्नाद्यं दधाति ।
2़ ऋषिकृतं च

4
    वा एते देवकृतं च पूर्वैर् मासैर् अव रुन्धते
    यद् भूतेच्छदाꣳ सामानि भवन्त्य् उभयस्यावरुद्ध्यै
    यन्ति वा एते मिथुनाद् ये संवत्सरम् उपयन्ति ।
    अन्तर्वेदि मिथुनौ सम् भवतस्
    तेनैव मिथुनान् न यन्ति ॥

7.5.10 अनुवाक 10 अश्वमेधाङ्गमन्त्रकथनम्
1
    चर्माव भिन्दन्ति
    पाप्मानम् एवैषाम् अव भिन्दन्ति
    माऽप रात्सीर् माऽति व्यात्सीर् इत्य् आह
    सम्प्रत्य् एवैषाम् पाप्मानम् अव भिन्दन्ति ।
    उदकुम्भान् अधिनिधाय दास्यो मार्जालीयम् परि नृत्यन्ति पदो निघ्नतीर् इदम्मधुं गायन्त्यः ।
    मधु वै देवानाम् परमम् अन्नाद्यम्
    परमम् एवान्नाद्यम् अव रुन्धते
    पदो नि घ्नन्ति
    महीयाम् एवैषु दधति ॥

7.5.11 अनुवाक 11 अश्वमेधाङ्गमन्त्रकथनम्
1
    पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा
    सम्प्लोष्यते स्वाहा सम्प्लवमानाय स्वाहा सम्प्लुताय स्वाहा
    मेघायिष्यते स्वाहा मेघायते स्वाहा मेघिताय स्वाहा मेघाय स्वाहा
    नीहाराय स्वाहा निहाकायै स्वाहा
    प्रासचाय स्वाहा प्रचलाकायै स्वाहा
    विद्योतिष्यते स्वाहा विद्योतमानाय स्वाहा संविद्योतमानाय स्वाहा
    स्तनयिष्यते स्वाहा स्तनयते स्वाहोग्रꣳ स्तनयते स्वाहा
    वर्षिष्यते स्वाहा वर्षते स्वाहाभिवर्षते स्वाहा परिवर्षते स्वाहा संवर्षते

2
    स्वाहानुवर्षते स्वाहा
    शीकायिष्यते स्वाहा शीकायते स्वाहा शीकिताय स्वाहा
    प्रोषिष्यते स्वाहा प्रुष्णते स्वाहा परिप्रुष्णते स्वाहा ।
    उद्ग्रहीष्यते स्वाहोद्ग्रृह्णते स्वाहोद्ग्रृहीताय स्वाहा
    विप्लोष्यते स्वाहा विप्लवमानाय स्वाहा विप्लुताय स्वाहा ।
    आतप्स्यते स्वाहाऽऽतपते स्वाहोग्रम् आतपते स्वाहा ।
    ऋग्भ्यः स्वाहा यजुर्भ्यः स्वाहा सामभ्यः स्वाहाङ्गिरोभ्यः स्वाहा
    वेदेभ्यः स्वाहा गाथाभ्यः स्वाहा नाराशꣳसीभ्यः स्वाहा रैभीभ्यः स्वाहा
    सर्वस्मै स्वाहा ॥

7.5.12 अनुवाक 12 अश्वमेधाङ्गमन्त्रकथनम्
1
    दत्वते स्वाहाऽदन्तकाय स्वाहा
    प्राणिने स्वाहाऽप्राणाय स्वाहा
    मुखवते स्वाहाऽमुखाय स्वाहा
    नासिकवते स्वाहाऽनासिकाय स्वाहा ।
    अक्षण्वते स्वाहाऽनक्षिकाय स्वाहा
    कर्णिने स्वाहाऽकर्णकाय स्वाहा
    शीर्षण्वते स्वाहाऽशीर्षकाय स्वाहा
    पद्वते स्वाहाऽपादकाय स्वाहा
    प्राणते स्वाहाऽप्राणते स्वाहा
    वदते स्वाहाऽवदते स्वाहा
    पश्यते स्वाहाऽपश्यते स्वाहा
   शृण्वते स्वाहाऽशृण्वते स्वाहा
    मनस्विने स्वाहा

2
    अमनसे स्वाहा
    रेतस्विने स्वाहाऽरेतस्काय स्वाहा
    प्रजाभ्यः स्वाहा प्रजननाय स्वाहा
    लोमवते स्वाहाऽलोमकाय स्वाहा
    त्वचे स्वाहाऽत्वक्काय स्वाहा
    चर्मण्वते स्वाहाऽचर्मकाय स्वाहा
    लोहितवते स्वाहाऽलोहिताय स्वाहा
    माꣳसन्वते स्वाहाऽमाꣳसकाय स्वाहा
    स्नावभ्यः स्वाहाऽस्नावकाय स्वाहा ।
    अस्थन्वते स्वाहाऽनस्थिकाय स्वाहा
    मज्जन्वते स्वाहाऽमज्जकाय स्वाहा ।
    अङ्गिने स्वाहाऽनङ्गाय स्वाहा ।
    आत्मने स्वाहाऽनात्मने स्वाहा
   सर्वस्मै स्वाहा ॥

7.5.13 अनुवाक 13 अश्वमेधाङ्गमन्त्रकथनम्
1
    कस् त्वा युनक्ति स त्वा युनक्तु
    विष्णुस् त्वा युनक्तु ।
    अस्य यज्ञस्यर्द्ध्यै मह्यꣳ संनत्यै ।
    अमुष्मै कामाय ।
    आयुषे त्वा प्राणाय त्वाऽपानाय त्वा व्यानाय त्वा
    व्युष्ट्यै त्वा
    रय्यै त्वा राधसे त्वा
    घोषाय त्वा पोषाय त्वाऽऽराद्घोषाय त्वा
    प्रच्युत्यै त्वा ॥

7.5.14 अनुवाक 14 अश्वमेधाङ्गमन्त्रकथनम्
1
    अग्नये गायत्राय त्रिवृते राथंतराय वासन्तायाष्टाकपालः ।
    इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रीष्मायैकादशकपालः ।
    विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो द्वादशकपालः ।
    मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविꣳशाभ्यां वैराजाभ्याꣳ शारदाभ्याम् पयस्या
    बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुः
    सवित्र आतिच्छन्दसाय त्रयस्त्रिꣳशाय रैवताय शैशिराय द्वादशकपालः ।
    अदित्यै विष्णुपत्न्यै चरुः ।
    अग्नये वैश्वानराय द्वादशकपालः ।
    अनुमत्यै चरुः
   काय एककपालः ॥

7.5.15 अनुवाक 15 अश्वमेधाङ्गमन्त्रकथनम्
1
    यो वा अग्नाव् अग्निः प्रह्रियते यश् च सोमो राजा तयोर् एष आतिथ्यं यद् अग्नीषोमीयः ।
    अथैष रुद्रो यश् चीयते
    यत् संचिते ऽग्नाव् एतानि हवीꣳषि न निर्वपेत् ।
    एष एव रुद्रो ऽशान्त उपोत्थाय प्रजाम् पशून् यजमानस्याभि मन्येत
    यत् संचिते ऽग्नाव् एतानि हवीꣳषि निर्वपति भागधेयेनैवैनꣳ शमयति नास्य रुद्रो ऽशान्तः

2
    उपोत्थाय प्रजाम् पशून् अभि मन्यते
    दश हवीꣳषि भवन्ति
    नव वै पुरुषे प्राणा नाभिर् दशमी
    प्राणान् एव यजमाने दधाति ।
    अथो दशाक्षरा विराड्
    अन्नं विराड्
    विराज्य् एवान्नाद्ये प्रति तिष्ठति ।
    ऋतुभिर् वा एष छन्दोभिः स्तोमैः पृष्ठैश् चेतव्य इत्य् आहुः ।
    यद् एतानि हवीꣳषि निर्वपत्य् ऋतुभिर् एवैनं छन्दोभिः स्तोमैः पृष्ठैश् चिनुते
    दिशः सुषुवाणेन

3
    अभिजित्या इत्य् आहुः ।
    यद् एतानि हवीꣳषि निर्वपति दिशाम् अभिजित्यै ।
    एतया वा इन्द्रं देवा अयाजयन् तस्माद् इन्द्रसवः ।
    एतया मनुम् मनुष्यास् तस्मान् मनुसवः ।
    यथेन्द्रो देवानां यथा मनुर् मनुष्याणाम् एवम् भवति य एवं विद्वान् एतयेष्ट्या यजते
    दिग्वतीः पुरोऽनुवाक्या भवन्ति
    सर्वासां दिशाम् अभिजित्यै ॥

7.5.16 अनुवाक 16 अश्वमेधाङ्गमन्त्रकथनम्
1
यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते द्यौर् महिमा नक्षत्राणि रूपम् आदित्यस् ते तेजस् तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥

7.5.17 अनुवाक 17 अश्वमेधाङ्गमन्त्रकथनम्
1
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते पृथिवी महिमौषधयो वनस्पतयो रूपम् अग्निस् ते तेजस् तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥

7.5.18 अनुवाक 18 अश्वमेधाङ्गमन्त्रकथनम्
1
    आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम्
    आऽस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् ।
    दोग्ध्री धेनुः ।
    वोढाऽनड्वान्
    आशुः सप्तिः
    पुरंधिर् योषा
    जिष्णू रथेष्ठाः
    सभेयो युवा ।
    आऽस्य यजमानस्य वीरो जायताम् ।
    निकामेनिकामे नः पर्जन्यो वर्षतु
    फलिन्यो न ओषधयः पच्यन्ताम् ।
    योगक्षेमो नः कल्पताम् ॥

7.5.19 अनुवाक 19 अश्वमेधाङ्गमन्त्रकथनम्
1
आऽक्रान् वाजी पृथिवीम् अग्निं युजम् अकृत वाज्य् अर्वाऽक्रान् वाज्य् अन्तरिक्षं वायुं युजम् अकृत वाज्य् अर्वा द्यां वाज्य् आऽक्रꣳस्त सूर्यं युजम् अकृत वाज्य् अर्वा ।
अग्निस् ते वाजिन् युङ्ङ् अनु त्वा रभे स्वस्ति मा सम् पारय वायुस् ते वाजिन् युङ्ङ् अनु त्वाऽऽ रभे स्वस्ति मा सम्

2
    पारयाऽऽदित्यस् ते वाजिन् युङ्ङ् अनु त्वा रभे स्वस्ति मा सम् पारय प्राणधृग् असि प्राणम् मे दृꣳह व्यानधृग् असि व्यानम् मे दृꣳहापानधृग् अस्य् अपानम् मे दृꣳह चक्षुर् असि चक्षुर् मयि धेहि श्रोत्रम् असि श्रोत्रम् मयि धेह्य् आयुर् अस्य् आयुर् मयि धेहि ॥

7.5.20 अनुवाक 20 अश्वमेधाङ्गमन्त्रकथनम्
1
    जज्ञि बीजम् ।
    वर्ष्टा पर्जन्यः
    पक्ता सस्यम् ।
    सुपिप्पला ओषधयः
    स्वधिचरणेयम् ।
    सूपसदनो ऽग्निः
    स्वध्यक्षम् अन्तरिक्षम् ।
    सुपावः पवमानः
    सूपस्थाना द्यौः
    शिवम् असौ तपन्
   यथापूर्वम् अहोरात्रे
    पञ्चदशिनो ऽर्धमासास्
    त्रिꣳशिनो मासाः
    क्लृप्ता ऋतवः
    शान्तः संवत्सरः ॥

7.5.21 अनुवाक 21 अश्वमेधाङ्गमन्त्रकथनम्
1
    आग्नेयो ऽष्टाकपालः
    सौम्यश् चरुः
    सावित्रो ऽष्टाकपालः
    पौष्णश् चरुः ।
    रौद्रश् चरुः ।
    अग्नये वैश्वानराय द्वादशकपालो मृगाखरे यदि नाऽऽगच्छेत् ।
    अग्नये ऽꣳहोमुचे ऽष्टाकपालः
    सौर्यम् पयः ।
    वायव्य आज्यभागः ॥

7.5.22 अनुवाक 22 अश्वमेधाङ्गमन्त्रकथनम्
1
    अग्नये ऽꣳहोमुचे ऽष्टाकपालः ।
    इन्द्रायाꣳहोमुच एकादशकपालः ।
    मित्रावरुणाभ्याम् आगोमुग्भ्याम् पयस्या
    वायोसावित्र आगोमुग्भ्यां चरुः ।
    अश्विभ्याम् आगोमुग्भ्यां धानाः ।
    मरुद्भ्य एनोमुग्भ्यः सप्तकपालः ।
    विश्वेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालः ।
    अनुमत्यै चरुः ।
    अग्नये वैश्वानराय द्वादशकपालः ।
    द्यावापृथिवीभ्याम् अꣳहोमुग्भ्यां द्विकपालः ॥

7.5.23 अनुवाक 23 अश्वमेधाङ्गमन्त्रकथनम्
1
    अग्नये समनमत् पृथिव्यै समनमत् ।
    यथाग्निः पृथिव्या समनमद् एवम् मह्यम् भद्राः संनतयः सं नमन्तु
    वायवे समनमद् अन्तरिक्षाय समनमत् ।
    यथा वायुर् अन्तरिक्षेण
    सूर्याय समनमद् दिवे समनमत् ।
    यथा सूर्यो दिवा
    चन्द्रमसे समनमन् नक्षत्रेभ्यः समनमत् ।
    यथा चन्द्रमा नक्षत्रैः
    वरुणाय समनमद् अद्भ्यः समनमत् ।
    यथा

2
    वरुणो ऽद्भिः
    साम्ने समनमद् ऋचे समनमत् ।
    यथा सामर्चा
    ब्रह्मणे समनमत् क्षत्राय समनमत् ।
    यथा ब्रह्म क्षत्रेण
    राज्ञे समनमद् विशे समनमत् ।
    यथा राजा विशा
    रथाय समनमद् अश्वेभ्यः समनमत् ।
    यथा रथो ऽश्वैः
   प्रजापतये समनमद् भूतेभ्यः समनमत् ।
   यथा प्रजापतिर् भूतैः समनमद् एवम् मह्यम् भद्राः संनतयः सं नमन्तु ॥

7.5.24 अनुवाक 24 अश्वमेधाङ्गमन्त्रकथनम्
1
ये ते पन्थानः सवितः पूर्व्यासो ऽरेणवो वितता अन्तरिक्षे । तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च देव ब्रूहि ॥
नमो ऽग्नये पृथिविक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि नमो वायवे ऽन्तरिक्षक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि नमः सूर्याय दिविक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि ॥

7.5.25 अनुवाक 25 अश्वमेधाङ्गमन्त्रकथनम्
1
    यो वा अश्वस्य मेध्यस्य शिरो वेद शीर्षण्वान् मेध्यो भवति ।
    उषा वा अश्वस्य मेध्यस्य शिरः
    सूर्यश् चक्षुः ।
    वातः प्राणः ।
    चन्द्रमाः श्रोत्रम् ।
    दिशः पादौ ।
    अवान्तरदिशाः पर्शवः ।
    अहोरात्रे निमेषः ।
    अर्धमासाः पर्वाणि
    मासाः संधानानि ।
    ऋतवो ऽङ्गानि
   संवत्सर आत्मा
   रश्मयः केशाः ।
    नक्षत्राणि रूपम् ।
    तारका अस्थानि
   नभो माꣳसानि ।
    ओषधयो लोमानि
    वनस्पतयो वालाः ।
    अग्निर् मुखम् ।
    वैश्वानरो व्यात्तम् ।

2
    समुद्र उदरम्
    अन्तरिक्षम् पायुः ।
    द्यावापृथिवी आण्डौ
    ग्रावा शेपः
    सोमो रेतः ।
    यज् जञ्जभ्यते तद् वि द्योतते
    यद् विधूनुते तत् स्तनयति
    यन् मेहति तद् वर्षति
    वाग् एवास्य वाग्
    अहर् वा अश्वस्य जायमानस्य महिमा पुरस्ताज् जायते रात्रिर् एनम् महिमा पश्चाद् अनु जायते ।
    एतौ वै महिमानाव् अश्वम् अभितः सम् बभूवतुः ।
   हयो देवान् अवहद् अर्वाऽसुरान् वाजी गन्धर्वान् अश्वो मनुष्यान् ।
    समुद्रो वा अश्वस्य योनिः समुद्रो बन्धुः ॥




ꣳ 2350, 2381, 775 म्̐ 2350, 2381, 784
This file has been copied from the following webpage, with fonts changed and necessary corrections made :

Taittiriya Samhitaa

This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita. Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.

उपरोक्त रोमन लिपि संस्करण के देवनागरी रूपान्तर के सम्पादन हेतु दो संस्करणों का उपयोग किया गया है –
तैत्तिरीय संहिता, सम्पादकः – धर्माधिकारी नारायणसूनुः त्रिविक्रमशर्मा (वैदिक संशोधन मण्डल, पुणे)
कृष्णयजुर्वेदीय तैत्तिरीय संहिता, सम्पादकः – वे.शा.रा.रा. काशीनाथशास्त्री आगाशे (आनन्दाश्रम संस्था, पुणे)
रोमन लिपि के संस्करण में तैत्तिरीय संहिता के मूल पाठ का व्यापक रूप से संधिविच्छेद किया गया है और वर्तमान देवनागरी संस्करण में भी उसे यथावत् रहने दिया गया है क्योंकि मूल पाठ का पुनः प्रतिस्थापन करना बहुत श्रमसाध्य होता। संहिता के मूल पाठ में यह पता लगाना प्रथम दृष्टि में कठिन होता है कि वाक्य का आरम्भ कहां से हुआ है और कहां वाक्य पूरा हो रहा है। रोमन लिपि संस्करण में इस कमी को दूर करने की चेष्टा की गई है और वाक्य के समाप्त होने पर नई पंक्ति का आरम्भ कर दिया गया है। वर्तमान संस्करण में निम्नलिखित महत्त्वपूर्ण संशोधन किए गए हैं –
रोमन लिपि के संस्करण में अवग्रहों की प्रायः उपेक्षा की गई है जिसे देवनागरी संस्करण में सुधारने का प्रयत्न किया गया है।
विभिन्न अनुवाकों के शीर्षकों को तैत्तिरीय संहिता के अन्य संस्करणों के आधार पर दिया गया है।
रोमन लिपि के संस्करण में जो टंकण की अशुद्धियां हैं, उन्हें दूर कर दिया गया है।
विपिन कुमार
7-5-2014ई.( वैशाख शुक्ल अष्टमी, विक्रम संवत् 2071)