तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ७/प्रपाठकः ४

विकिस्रोतः तः
Jump to navigation Jump to search

7.4 प्रपाठक: 4
7.4.1 अनुवाक 1 प्रथमचतुर्विंशरात्रकथनम्
VERSE: 1 बृहस्पतिर् अकामयत श्रन् मे देवा दधीरन् गच्छेयम् पुरोधाम् इति स एतं चतुर्विम्̇शतिरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै तस्मै श्रद् देवा अदधतागच्छत् पुरोधाम् । य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते श्रद् एभ्यो मनुष्या दधते गच्छन्ति पुरोधाम् । ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः ।
VERSE: 2 इमान् एव लोकान् अभ्यारोहन्ति । अभिपूर्वं त्र्यहा भवन्ति । अभिपूर्वम् एव सुवर्गं लोकम् अभ्यारोहन्ति । असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजो वै वीर्यं पृष्ठानि पशवश् छन्दोमाः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव
VERSE: 3 यन्ति अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति चतुर्विम्̇शतिरात्रो भवति चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः संवत्सरः सुवर्गो लोकः संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । अथो चतुर्विम्̇शत्यक्षरा गायत्री गायत्री ब्रह्मवर्चसम् । गायत्रियैव ब्रह्मवर्चसम् अव रुन्धते । अतिरात्राव् अभितो भवतः । ब्रह्मवर्चसस्य परिगृहीत्यै ॥

7.4.2 अनुवाक 2 द्वितीय चतुर्विंशरात्रकथनम्
VERSE: 1 यथा वै मनुष्या एवं देवा अग्र आसन् ते ऽकामयन्त । अवर्तिम् पाप्मानम् मृत्युम् अपहत्य दैवीम्̇ सम्̇सदं गच्छेमेति त एतं चतुर्विम्̇शतिरात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै ते ऽवर्तिम् पाप्मानम् मृत्युम् अपहत्य दैवीम्̇ सम्̇सदम् अगच्छन् य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते ऽवर्तिम् एव पाप्मानम् अपहत्य श्रियं गच्छन्ति श्रीर् हि मनुष्यस्य
VERSE: 2 दैवी सम्̇सद् । ज्योतिर् अतिरात्रो भवति सुवर्गस्य लोकस्यानुख्यात्यै पृष्ठ्यः षडहो भवति षड् वा ऋतवः संवत्सरस् तम् मासा अर्धमासा ऋतवः प्रविश्य दैवीम्̇ सम्̇सदम् अगच्छन् य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते संवत्सरम् एव प्रविश्य वस्यसीम्̇ सम्̇सदं गच्छन्ति त्रयस् त्रयस्त्रिम्̇शा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिम्̇शाः परस्तात् त्रयस्त्रिम्̇शैर् एवोभवयतो ऽवर्तिम् पाप्मानम् अपहत्य दैवीम्̇ सम्̇सदम् मध्यतः
VERSE: 3 गच्छन्ति पृष्ठानि हि दैवी सम्̇सद् । जामि वा एतत् कुर्वन्ति यत् त्रयस् त्रयस्त्रिम्̇शा अन्वञ्चः । मध्ये ऽनिरुक्तो भवति तेनाजामि । ऊर्ध्वानि पृष्ठानि भवन्त्य् ऊर्ध्वाश् छन्दोमाः । उभाभ्याम्̇ रूपाभ्याम्̇ सुवर्गं लोकं यन्ति । असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजो वै वीर्यम् पृष्ठानि पशवः
VERSE: 4 छन्दोमाः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति त्रयस् त्रयस्त्रिम्̇शा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिम्̇शाः परस्तान् मध्ये पृष्ठानि । उरो वै त्रयस्त्रिम्̇शा आत्मा पृष्ठानि । आत्मन एव तद् यजमानाः शर्म नह्यन्ते ऽनार्त्यै बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव
VERSE: 5 सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति प्रत्यङ् षडहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति त्रिवृतो ऽधि त्रिवृतम् उप यन्ति स्तोमानाम्̇ सम्पत्त्यै प्रभवाय ज्योतिर् अग्निष्टोमो भवति । अयं वाव स क्षयः । अस्माद् एव तेन क्षयान् न यन्ति चतुर्विम्̇शतिरात्रो भवति चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः संवत्सरः सुवर्गो लोकः संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । अथो चतुर्विम्̇शत्यक्षरा गायत्री गायत्री ब्रह्मवर्चसम् । गायत्रियैव ब्रह्मवर्चसम् अव रुन्धते । अतिरात्राव् अभितो भवतः । ब्रह्मवर्चसस्य परिगृहीत्यै ॥

7.4.3 अनुवाक 3 त्रिंशद्रात्रकथनम्
VERSE: 1 ऋक्षा वा इयम् अलोमकाऽऽसीत् साकामयत । ओषधीभिर् वनस्पतिभिः प्र जायेयेति सैतास् त्रिम्̇शतम्̇ रात्रीर् अपश्यत् ततो वा इयम् ओषधीभिर् वनस्पतिभिः प्राजायत ये प्रजाकामाः पशुकामाः स्युस् त एता आसीरन् प्रैव जायन्ते प्रजया पशुभिः । इयं वा अक्षुध्यत् सैतां विराजम् अपश्यत् ताम् आत्मन् धित्वान्नाद्यम् अवारुन्द्धौषधीः
VERSE: 2 वनस्पतीन् प्रजाम् पशून् तेनावर्धत स जेमानम् महिमानम् अगच्छत् । य एवं विद्वाम्̇स एता आसते विराजम् एवात्मन् धित्वान्नाद्यम् अव रुन्धते वर्धन्ते प्रजया पशुभिः । जेमानम् महिमानं गच्छन्ति ज्योतिर् अतिरात्रो भवति सुवर्गस्य लोकस्यानुख्यात्यै पृष्ठ्यः षडहो भवति षड् वा ऋतवः षट् पृष्ठानि पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । ते संवत्सर एव
VERSE: 3 प्रति तिष्ठन्ति त्रयस्त्रिम्̇शात् त्रयस्त्रिम्̇शम् उप यन्ति यज्ञस्य संतत्यै । अथो प्रजापतिर् वै त्रयस्त्रिम्̇शः प्रजापतिम् एवा रभन्ते प्रतिष्ठित्यै त्रिणवो भवति विजित्यै । एकविम्̇शो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते त्रिवृद् अग्निष्टुद् भवति पाप्मानम् एव तेन निर् दहन्ते ऽथो तेजो वै त्रिवृत् तेज एवात्मन् दधते पञ्चदश इन्द्रस्तोमो भवति । इन्द्रियम् एवाव
VERSE: 4 रुन्धते सप्तदशो भवति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायन्ते । एकविम्̇शो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते चतुर्विम्̇शो भवति चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः संवत्सरः सुवर्गो लोकः संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । अथो एष वै विषूवान् विषूवन्तो भवन्ति य एवं विद्वाम्̇स एता आसते चतुर्विम्̇शात् पृष्ठान्य् उप यन्ति संवत्सर एव प्रतिष्ठाय ॥
VERSE: 5 देवता अभ्यारोहन्ति त्रयस्त्रिम्̇शात् त्रयस्त्रिम्̇शम् उप यन्ति त्रयस्त्रिम्̇शद् वै देवताः । देवतास्व् एव प्रति तिष्ठन्ति त्रिणवो भवति । इमे वै लोकास् त्रिणवः । एष्व् एव लोकेषु प्रति तिष्ठन्ति द्वाव् एकविम्̇शौ भवतः प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते बहवः षोडशिनो भवन्ति तस्माद् बहवः प्रजासु वृषाणः । यद् एते स्तोमा व्यतिषक्ता भवन्ति तस्माद् इयम् ओषधीभिर् वनस्पतिभिर् व्यतिषक्ता ।
VERSE: 6 व्यतिषज्यन्ते प्रजया पशुभिर् य एवं विद्वाम्̇स एता आसते । अक्लृप्ता वा एते सुवर्गं लोकं यन्ति । उच्चावचान् हि स्तोमान् उपयन्ति यद् एत ऊर्ध्वाः क्लृप्ता स्तोमा भवन्ति क्लृप्ता एव सुवर्गं लोकं यन्त्य् उभयोर् एभ्यो लोकयोः कल्पते त्रिम्̇शद् एतास् त्रिम्̇शदक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते । अतिरात्राव् अभितो भवतः । अन्नाद्यस्य परिगृहीत्यै ॥

7.4.4 अनुवाक 4 द्वात्रिंशद्रात्राभिधानम्
VERSE: 1 प्रजापतिः सुवर्गं लोकम् ऐत् तं देवा येनयेन छन्दसाऽनु प्रायुञ्जत तेन नाऽऽप्नुवन् त एता द्वात्रिम्̇शतम्̇ रात्रीर् अपश्यन् द्वात्रिम्̇शदक्षरानुष्टुग् आनुष्टुभः प्रजापतिः स्वेनैव छन्दसा प्रजापतिम् आप्त्वाभ्यारुह्य सुवर्गं लोकम् आयन् य एवं विद्वाम्̇स एता आसते द्वात्रिम्̇शद् एताः । द्वात्रिम्̇शदक्षरानुष्टुग् आनुष्टुभः प्रजापतिः स्वेनैव छन्दसा प्रजापतिम् आप्त्वा श्रियं गच्छन्ति ।
VERSE: 2 श्रीर् हि मनुष्यस्य सुवर्गो लोकः । द्वात्रिम्̇शद् एताः । द्वात्रिम्̇शदक्षरानुष्टुग् वाग् अनुष्टुप् सर्वाम् एव वाचम् आप्नुवन्ति सर्वे वाचो वदितारो भवन्ति सर्वे हि श्रियं गच्छन्ति ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुर् इमान् एव लोकान् अभ्यारोहन्ति । अभिपूर्वं त्र्यहा भवन्ति । अभिपूर्वम् एव सुवर्गं लोकम् अभ्यारोहन्ति बृहद्रथंतराभ्यां यन्ति ।
VERSE: 3 इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचस् त्र्यहान् उपयन्ति प्रत्यङ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति द्वात्रिम्̇शद् एतास् तासां यास् त्रिम्̇शत् त्रिम्̇शदक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते ये द्वे अहोरात्रे एव ते उभाभ्याम्̇ रूपाभ्याम्̇ सुवर्गं लोकं यन्ति । अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥

7.4.5 अनुवाक 5 त्रयस्त्रिंशद्रात्रकथनम्
VERSE: 1 द्वे वाव देवसत्त्रे द्वादशाहश् च त्रयस्त्रिम्̇शदहश् च य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते साक्षाद् एव देवता अभ्यारोहन्ति यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति यद्य् अवविध्यति पापीयान् भवति यदि नावविध्यति सदृङ् य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते वि पाप्मना भ्रातृव्येणा वर्तन्ते ऽहर्भाजो वा एता देवा अग्र आऽहरन् ।
VERSE: 2 अहर् एको ऽभजताहर् एकस् ताभिर् वै ते प्रबाहुग् आर्ध्नुवन् य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते सर्व एव प्रबाहुग् ऋध्नुवन्ति सर्वे ग्रामणीयम् प्राप्नुवन्ति पञ्चाहा भवन्ति पञ्च वा ऋतवः संवत्सरः । ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति । अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्धते त्रीण्य् आश्विनानि भवन्ति त्रय इमे लोकाः । एषु
VERSE: 3 एव लोकेषु प्रति तिष्ठन्ति । अथो त्रीणि वै यज्ञस्येन्द्रियाणि तान्य् एवाव रुन्धते विश्वजिद् भवत्य् अन्नाद्यस्यावरुद्ध्यै सर्वपृष्ठो भवति सर्वस्याभिजित्यै वाग् वै द्वादशाहः । यत् पुरस्ताद् द्वादशाहम् उपेयुर् अनाप्तां वाचम् उपेयुर् उपदासुकैषां वाक् स्यात् । उपरिष्टाद् द्वादशाहम् उप यन्त्य् आप्ताम् एव वाचम् उप यन्ति तस्माद् उपरिष्टाद् वाचा वदामः । अवान्तरम्
VERSE: 4 वै दशरात्रेण प्रजापतिः प्रजा असृजत यद् दशरात्रो भवति प्रजा एव तद् यजमानाः सृजन्ते । एताम्̇ ह वा उदङ्कः शौल्बायनः सत्त्रस्यद्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यद्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः । द्व्यनीका वा एता रात्रयो यजमाना विश्वजित् सहातिरात्रेण पूर्वाः षोडश सहातिरात्रेणोत्तराः षोडश य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसत ऐषां द्व्यनीका प्रजा जायते । अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥

7.4.6 अनुवाक 6 षट्त्रिंशद्रात्रकथनम्
VERSE: 1 आदित्या अकामयन्त सुवर्गं लोकम् इयामेति ते सुवर्गं लोकं न प्राजानन् न सुवर्गं लोकम् आयन् त एतम्̇ षट्त्रिम्̇शद्रात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै ते सुवर्गं लोकम् प्राजानन्त् सुवर्गं लोकम् आयन् य एवं विद्वाम्̇सः षट्त्रिम्̇शद्रात्रम् आसते सुवर्गम् एव लोकम् प्र जानन्ति सुवर्गं लोकं यन्ति ज्योतिर् अतिरात्रः
VERSE: 2 भवति ज्योतिर् एव पुरस्ताद् दधते सुवर्गस्य लोकस्यानुख्यात्यै षडहा भवन्ति षड् वा ऋतवः । ऋतुष्व् एव प्रति तिष्ठन्ति चत्वारो भवन्ति चतस्रो दिशः । दिक्ष्व् एव प्रति तिष्ठन्ति । असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजो वै वीर्यम् पृष्ठानि पशवश् छन्दोमाः । ओजस्य् एव
VERSE: 3 वीर्ये प्रति तिष्ठन्ति षट्त्रिम्̇शद्रात्रो भवति षट्त्रिम्̇शदक्षरा बृहती बार्हताः पशवः । बृहत्यैव पशून् अव रुन्धते बृहती छन्दसाम्̇ स्वाराज्यम् आश्नुत । अश्नुवते स्वाराज्यं य एवं विद्वाम्̇सः षट्त्रिम्̇शद्रात्रम् आसते सुवर्गम् एव लोकं यन्ति । अतिरात्राव् अभितो भवतः सुवर्गस्य लोकस्य परिगृहीत्यै ॥
 
7.4.7 अनुवाक 7 एकोनपञ्चाशद्रात्रकथनम्
VERSE: 1 वसिष्ठो हतपुत्रो ऽकामयत विन्देय प्रजाम् अभि सौदासान् भवेयम् इति स एतम् एकस्मान्नपञ्चाशम् अपश्यत् तम् आहरत् तेनायजत ततो वै सो ऽविन्दत प्रजाम् अभि सौदासान् अभवत् । य एवं विद्वाम्̇स एकस्मान्नपञ्चाशम् आसते विन्दन्ते प्रजाम् अभि भ्रातृव्यान् भवन्ति
त्रयस् त्रिवृतो ऽग्निष्टोमा भवन्ति वज्रस्यैव मुखम्̇ सम्̇ श्यन्ति दश पञ्चदशा भवन्ति पञ्चदशो वज्रः ॥
VERSE: 2 वज्रम् एव भ्रातृव्येभ्यः प्र हरन्ति षोडशिमद् दशमम् अहर् भवति वज्र एव वीर्यं दधति द्वादश सप्तदशा भवन्ति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तैर् जायन्ते पृष्ठ्यः षडहो भवति षड् वा ऋतवः षट् पृष्ठानि पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । ते संवत्सर एव प्रति तिष्ठन्ति द्वादशैकविम्̇शा भवन्ति प्रतिष्ठित्यै । अथो रुचम् एवात्मन्
VERSE: 3 दधते बहवः षोडशिनो भवन्ति विजित्यै षड् आश्विनानि भवन्ति षड् वा ऋतवः । ऋतुष्व् एव प्रति तिष्ठन्ति । ऊनातिरिक्ता वा एता रात्रयः । ऊनास् तद् यद् एकस्यै न पञ्चाशद् अतिरिक्तास् तद् यद् भूयसीर् अष्टाचत्वारिम्̇शतः ।
ऊनाच् च खलु वा अतिरिक्ताच् च प्रजापतिः प्राजायत । ये प्रजाकामाः पशुकामाः स्युस् त एता आसीरन् प्रैव जायन्ते प्रजया पशुभिः । वैराजो वा एष यज्ञो यद् एकस्मान्नपञ्चाशः । य एवं विद्वाम्̇स एकस्मान्नपञ्चाशम् आसते विराजम् एव गच्छन्त्य् अन्नादा भवन्ति ।
अतिरात्राव् अभितो भवतः । अन्नाद्यस्य परिगृहीत्यै ॥
 
7.4.8 अनुवाक 8 संवत्सरसत्रदीक्षाकालः
VERSE: 1 संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन् । एषा वै संवत्सरस्य पत्नी यद् एकाष्टका । एतस्यां वा एष एताम्̇ रात्रिं वसति साक्षाद् एव संवत्सरम् आरभ्य दीक्षन्ते । आर्तं वा एते संवत्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवतः । व्यस्तं वा एते संवत्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवतः फल्गुनीपूर्णमासे दीक्षेरन् मुखं वा एतत्
VERSE: 2 संवत्सरस्य यत् फल्गुनीपूर्णमासः । मुखत एव संवत्सरम् आरभ्य दीक्षन्ते तस्यैकैव निर्या यत् साम्मेध्ये विषूवान्त् सम्पद्यते चित्रापूर्णमासे दीक्षेरन् मुखं वा एतत् संवत्सरस्य यच् चित्रापूर्णमासः । मुखत एव संवत्सरम् आरभ्य दीक्षन्ते तस्य न का चन निर्या भवति चतुरहे पुरस्तात् पौर्णमास्यै दीक्षेरन् तेषाम् एकाष्टकायां क्रयः सम् पद्यते तेनैकाष्टकां न छम्बट् कुर्वन्ति तेषाम्
VERSE: 3 पूर्वपक्षे सुत्या सम् पद्यते पूर्वपक्षम् मासा अभि सम् पद्यन्ते ते पूर्वपक्ष उत् तिष्ठन्ति तान् उत्तिष्ठत ओषधयो वनस्पतयो ऽनूत् तिष्ठन्ति तान् कल्याणी कीर्तिर् अनूत् तिष्ठति । अरात्सुर् इमे यजमाना इति तद् अनु सर्वे राध्नुवन्ति ॥

7.4.9 अनुवाक 9 दीक्षोपसत्कथनम्
VERSE: 1 सुवर्गं वा एते लोकं यन्ति ये सत्त्रम् उपयन्ति । अभीन्धत एव दीक्षाभिर् आत्मानम्̇ श्रपयन्त उपसद्भिः । द्वाभ्यां लोमावद्यन्ति द्वाभ्यां त्वचम् । द्वाभ्याम् असृत् । द्वाभ्याम् माम्̇सम् । द्वाभ्याम् अस्थि द्वाभ्याम् मज्जानम् आत्मदक्षिणं वै सत्त्रम् आत्मानम् एव दक्षिणां नीत्वा सुवर्गं लोकं यन्ति शिखाम् अनु प्र वपन्ते । ऋद्ध्यै । अथो रघीयाम्̇सः सुवर्गं लोकम् अयामेति ॥
 
7.4.10 अनुवाक 10 प्रायणीयाख्यप्रथमाहाभिधानम्
VERSE: 1 ब्रह्मवादिनो वदन्ति । अतिरात्रः परमो यज्ञक्रतूनां कस्मात् तम् प्रथमम् उप यन्तीति । एतद् वा अग्निष्टोमम् प्रथमम् उप यन्त्य् अथोक्थ्यम् अथ षोडशिनम् अथातिरात्रम् अनुपूर्वम् एवैतद् यज्ञक्रतून् उपेत्य तान् आलभ्य परिगृह्य सोमम् एवैतत् पिबन्त आसते ज्योतिष्टोमम् प्रथमम् उप यन्ति ज्योतिष्टोमो वै स्तोमानाम् मुखम् मुखत एव स्तोमान् प्र युञ्जते ते
VERSE: 2 सम्̇स्तुता विराजम् अभि सम् पद्यन्ते द्वे चर्चाव् अति रिच्येते एकया गौर् अतिरिक्त एकयायुर् ऊनः सुवर्गो वै लोको ज्योतिर् ऊर्ग् विराट् सुवर्गम् एव तेन लोकं यन्ति रथंतरं दिवा भवति रथंतरं नक्तम् इत्य् आहुर् ब्रह्मवादिनः केन तद् अजामीति सौभरं तृतीयसवने ब्रह्मसामम् बृहत् तन् मध्यतो दधति विधृत्यै तेनाजामि ॥

7.4.11 अनुवाक 11 मासगताहकथनम्
VERSE: 1 ज्योतिष्टोमम् प्रथमम् उप यन्ति । अस्मिन्न् एव तेन लोके प्रति तिष्ठन्ति गोष्टोमं द्वितीयम् उप यन्ति । अन्तरिक्ष एव तेन प्रति तिष्ठन्ति । आयुष्टोमं तृतीयम् उप यन्ति । अमुष्मिन्न् एव तेन लोके प्रति तिष्ठन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौः । असाव् आयुः । यद् एतान्त् स्तोमान् उपयन्त्य् एष्व् एव तल् लोकेषु सत्त्रिणः प्रतितिष्ठन्तो यन्ति ते सम्̇स्तुता विराजम्
VERSE: 2 अभि सम् पद्यन्ते द्वे चर्चाव् अति रिच्येते एकया गौर् अतिरिक्त एकयायुर् ऊनः सुवर्गो वै लोको ज्योतिर् ऊर्ग् विराड् ऊर्जम् एवाव रुन्धते ते न क्षुधार्तिम् आर्छन्ति । अक्षोधुका भवन्ति क्षुत्सम्बाधा इव हि सत्त्रिणः । अग्निष्टोमाव् अभितः प्रधी तौ उक्थ्या मध्ये नभ्यं तत् तद् एतत् परियद् देवचक्रम् । यद् एतेन
VERSE: 3 षडहेन यन्ति देवचक्रम् एव समारोहन्त्य् अरिष्ट्यै ते स्वस्ति सम् अश्नुवते षडहेन यन्ति षड् वा ऋतवः । ऋतुष्व् एव प्रति तिष्ठन्ति । उभयतोज्योतिषा यन्ति । उभयत एव सुवर्गे लोके प्रतितिष्ठन्तो यन्ति द्वौ षडहौ भवतस् तानि द्वादशाहानि सम् पद्यन्ते द्वादशो वै पुरुषो द्वे सक्थ्यौ द्वौ बाहू आत्मा च शिरश् च चत्वार्य् अङ्गानि स्तनौ द्वादशौ ।
VERSE: 4 तत् पुरुषम् अनु पर्यावर्तन्ते त्रयः षडहा भवन्ति तान्य् अष्टादशाहानि सम् पद्यन्ते नवान्यानि नवान्यानि नव वै पुरुषे प्राणास् तत् प्राणान् अनु पर्यावर्तन्ते चत्वारः षडहा भवन्ति तानि चतुर्विम्̇शतिर् अहानि सम् पद्यन्ते चतुर्विम्̇शतिर् अर्धमासाः संवत्सरस् तत् संवत्सरम् अनु पर्यावर्तन्ते । अप्रतिष्ठितः संवत्सर इति खलु वा आहुर् वर्षीयान् प्रतिष्ठाया इति । एतावद् वै संवत्सरस्य ब्राह्मणं यावन् मासः । मासिमास्य् एव प्रतितिष्ठन्तो यन्ति ॥

7.4.12 अनुवाक 12 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 मेषस् त्वा पचतैर् अवतु लोहितग्रीवश् छागैः शल्मलिर् वृद्ध्या पर्णो ब्रह्मणा प्लक्षो मेधेन न्यग्रोधश् चमसैर् उदुम्बर ऊर्जा गायत्री छन्दोभिस् त्रिवृत् स्तोमैः । अवन्ती स्थावन्तीस् त्वाऽवन्तु प्रियं त्वा प्रियाणां वर्षिष्ठम् आप्यानां निधीनां त्वा निधिपतिम्̇ हवामहे वसो मम ॥

7.4.13 अनुवाक 13 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 कूप्याभ्यः स्वाहा कूल्याभ्यः स्वाहा विकर्याभ्यः स्वाहा । अवट्याभ्यः स्वाहा खन्याभ्यः स्वाहा ह्रद्याभ्यः स्वाहा सूद्याभ्यः स्वाहा सरस्याभ्यः स्वाहा वैशन्तीभ्यः स्वाहा पल्वल्याभ्यः स्वाहा वर्ष्याभ्यः स्वाहा । अवर्ष्याभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा पृष्वाभ्यः स्वाहा स्यन्दमानाभ्यः स्वाहा स्थावराभ्यः स्वाहा नादेयीभ्यः स्वाहा सैन्धवीभ्यः स्वाहा समुद्रियाभ्यः स्वाहा सर्वाभ्यः स्वाहा ॥
7.4.14 अनुवाक 14 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 अद्भ्यः स्वाहा वहन्तीभ्यः स्वाहा परिवहन्तीभ्यः स्वाहा समन्तं वहन्तीभ्यः स्वाहा शीघ्रं वहन्तीभ्यः स्वाहा शीभं वहन्तीभ्यः स्वाहा । उग्रं वहन्तीभ्यः स्वाहा भीमं वहन्तीभ्यः स्वाहा । अम्भोभ्यः स्वाहा नभोभ्यः स्वाहा महोभ्यः स्वाहा सर्वस्मै स्वाहा ॥

7.4.15 अनुवाक 15 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 यो अर्वन्तं जिघाम्̇सति तम् अभ्यमीति वरुणः । परो मर्तः परः श्वा ॥ अहं च त्वं च वृत्रहन्त् सम् बभूव सनिभ्य आ । अरातीवा चिद् अद्रिवो ऽनु नौ शूर मम्̇सतै भद्रा इन्द्रस्य रातयः ॥ अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानम्̇ रजाम्̇सि । स्वेना हि वृत्रम्̇ शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥

7.4.16 अनुवाक 16 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 नमो राज्ञे नमो वरुणाय नमो ऽश्वाय नमः प्रजापतये नमो ऽधिपतये । अधिपतिर् अस्य् अधिपतिम् मा कुर्व् अधिपतिर् अहम् प्रजानाम् भूयासम् मां धेहि मयि धेहि । उपाकृताय स्वाहा । आलब्धाय स्वाहा हुताय स्वाहा ॥

7.4.17 अनुवाक 17 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृड । याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ । या देवेषु तनुवम् ऐरयन्त यासाम्̇ सोमो विश्वा रूपाणि वेद । ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र
VERSE: 2 गोष्ठे रिरीहि । प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः । शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सम्̇ सदेम । इह धृतिः स्वाहा । इह विधृतिः स्वाहा । इह रन्तिः स्वाहा । इह रमतिः स्वाहा महीमू षु सुत्रामाणम् ॥

7.4.18 अनुवाक 18 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 किम्̇ स्विद् आसीत् पूर्वचित्तिः किम्̇ स्विद् आसीद् बृहद् वयः । किम्̇ स्विद् आसीत् पिशंगिला किम्̇ स्विद् आसीत् पिलिप्पिला । द्यौर् आसीत् पूर्वचित्तिर् अश्व आसीद् बृहद् वयः । रात्रिर् आसीत् पिशंगिलाविर् आसीत् पिलिप्पिला । कः स्विद् एकाकी चरति क उ स्विज् जायते पुनः । किम्̇ स्विद् धिमस्य भेषजं किम्̇ स्विद् आवपनम् महत् । सूर्य एकाकी चरति
VERSE: 2 चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजम् भूमिर् आवपनम् महत् । पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम् । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ वेदिम् आहुः परम् अन्तम् पृथिव्या यज्ञम् आहुर् भुवनस्य नाभिम् । सोमम् आहुर् वृष्णो अश्वस्य रेतो ब्रह्मैव वाचः परमं व्योम ॥

7.4.19 अनुवाक 19 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 अम्बे अम्बाल्य् अम्बिके न मा नयति कश् चन । ससस्त्य् अश्वकः । सुभगे काम्पीलवासिनि सुवर्गे लोके सम् प्रोर्ण्वाथाम् । आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् । तौ सह चतुरः पदः सम् प्र सारयावहै । वृषा वाम्̇ रेतोधा रेतो दधातु । उत् सक्थ्योर् गृदं धेह्य् अञ्जिम् उदञ्जिम्म् अन्व् अज । य स्त्रीणां जीवभोजनो य आसाम्
VERSE: 2 बिलधावनः । प्रिय स्त्रीणाम् अपीच्यः । य आसां कृष्णे लक्ष्मणि सर्दिगृदिम् परावधीत् । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । ऊर्ध्वाम् एनाम् उच् छ्रयताद् वेणुभारं गिराव् इव । अथास्या मध्यम् एधताम्̇ शीते वाते पुनन्न् इव । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । यद् धरिणी यवम् अत्ति न
VERSE: 3 पुष्टम् पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । इयं यका शकुन्तिकाऽऽहलम् इति सर्पति । आहतं गभे पसो नि जल्गुलीति धाणिका । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः ।
VERSE: 4 प्र सुलामीति ते पिता गभे मुष्टिम् अतम्̇सयत् । दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूम्̇षि तारिषत् । आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
 
7.4.20 अनुवाक 20 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 भूर् भुवः सुवर् वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसादित्यास् त्वाञ्जन्तु जागतेन छन्दसा यद् वातो अपो अगमद् इन्द्रस्य तनुवम् प्रियाम् । एतम्̇ स्तोतर् एतेन पथा पुनर् अश्वम् आ वर्तयासि नः । लाजी3ञ् छाची3न् यशो ममा3म् । यव्यायै गव्याया एतद् देवा अन्नम् अत्तैतद् अन्नम् अद्धि प्रजापते युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः । रोचन्ते रोचना दिवि । युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा । केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । सम् उषद्भिर् अजायथाः ।

7.4.21 अनुवाक 21 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 प्राणाय स्वाहा व्यानाय स्वाहा । अपानाय स्वाहा स्नावभ्यः स्वाहा संतानेभ्यः स्वाहा परिसंतानेभ्यः स्वाहा पर्वभ्यः स्वाहा संधानेभ्यः स्वाहा शरीरेभ्यः स्वाहा यज्ञाय स्वाहा दक्षिणाभ्यः स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥

7.4.22 अनुवाक 22 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1 सिताय स्वाहा । असिताय स्वाहा । अभिहिताय स्वाहा । अनभिहिताय स्वाहा युक्ताय स्वाहा । अयुक्ताय स्वाहा सुयुक्ताय स्वाहा । उद्युक्ताय स्वाहा विमुक्ताय स्वाहा प्रमुक्ताय स्वाहा वञ्चते स्वाहा परिवञ्चते स्वाहा संवञ्चते स्वाहा । अनुवञ्चते स्वाहा । उद्वञ्चते स्वाहा । यते स्वाहा धावते स्वाहा तिष्ठते स्वाहा सर्वस्मै स्वाहा ॥

7.4.1 अनुवाक 1 प्रथमचतुर्विंशरात्रकथनम्
VERSE: 1
    बृहस्पतिर् अकामयत
    श्रन् मे देवा दधीरन् गच्छेयम् पुरोधाम् इति
    स एतं चतुर्विम्̇शतिरात्रम् अपश्यत्
    तम् आहरत्
    तेनायजत
    ततो वै तस्मै श्रद् देवा अदधतागच्छत् पुरोधाम् ।
    य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते श्रद् एभ्यो मनुष्या दधते गच्छन्ति पुरोधाम् ।
    ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति ।
    इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः ।

VERSE: 2
    इमान् एव लोकान् अभ्यारोहन्ति ।
    अभिपूर्वं त्र्यहा भवन्ति ।
    अभिपूर्वम् एव सुवर्गं लोकम् अभ्यारोहन्ति ।
    असत्त्रं वा एतद् यद् अच्छन्दोमम् ।
    यच् छन्दोमा भवन्ति तेन सत्त्रम् ।
    देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः ।
    ओजो वै वीर्यं पृष्ठानि पशवश् छन्दोमाः ।
    ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति
    बृहद्रथंतराभ्यां यन्ति ।
    इयं वाव रथंतरम् असौ बृहत् ।
   आभ्याम् एव

VERSE: 3
    यन्ति
    अथो अनयोर् एव प्रति तिष्ठन्ति ।
    एते वै यज्ञस्याञ्जसायनी स्रुती
    ताभ्याम् एव सुवर्गं लोकं यन्ति
    चतुर्विम्̇शतिरात्रो भवति
    चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः
    संवत्सरः सुवर्गो लोकः
    संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति ।
    अथो चतुर्विम्̇शत्यक्षरा गायत्री
    गायत्री ब्रह्मवर्चसम् ।
   गायत्रियैव ब्रह्मवर्चसम् अव रुन्धते ।
   अतिरात्राव् अभितो भवतः ।
   ब्रह्मवर्चसस्य परिगृहीत्यै ॥

7.4.2 अनुवाक 2 द्वितीय चतुर्विंशरात्रकथनम्
VERSE: 1
    यथा वै मनुष्या एवं देवा अग्र आसन्
    ते ऽकामयन्त ।
    अवर्तिम् पाप्मानम् मृत्युम् अपहत्य दैवीम्̇ सम्̇सदं गच्छेमेति
    त एतं चतुर्विम्̇शतिरात्रम् अपश्यन्
    तम् आहरन्
    तेनायजन्त
    ततो वै ते ऽवर्तिम् पाप्मानम् मृत्युम् अपहत्य दैवीम्̇ सम्̇सदम् अगच्छन्
    य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते ऽवर्तिम् एव पाप्मानम् अपहत्य श्रियं गच्छन्ति
   श्रीर् हि मनुष्यस्य

VERSE: 2
    दैवी सम्̇सद् ।
    ज्योतिर् अतिरात्रो भवति
    सुवर्गस्य लोकस्यानुख्यात्यै
    पृष्ठ्यः षडहो भवति
    षड् वा ऋतवः संवत्सरस्
    तम् मासा अर्धमासा ऋतवः प्रविश्य दैवीम्̇ सम्̇सदम् अगच्छन्
    य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते संवत्सरम् एव प्रविश्य वस्यसीम्̇ सम्̇सदं गच्छन्ति
    त्रयस् त्रयस्त्रिम्̇शा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिम्̇शाः परस्तात्
    त्रयस्त्रिम्̇शैर् एवोभवयतो ऽवर्तिम् पाप्मानम् अपहत्य दैवीम्̇ सम्̇सदम् मध्यतः

VERSE: 3
    गच्छन्ति
    पृष्ठानि हि दैवी सम्̇सद् ।
    जामि वा एतत् कुर्वन्ति यत् त्रयस् त्रयस्त्रिम्̇शा अन्वञ्चः ।
    मध्ये ऽनिरुक्तो भवति तेनाजामि ।
    ऊर्ध्वानि पृष्ठानि भवन्त्य् ऊर्ध्वाश् छन्दोमाः ।
    उभाभ्याम्̇ रूपाभ्याम्̇ सुवर्गं लोकं यन्ति ।
    असत्त्रं वा एतद् यद् अच्छन्दोमम् ।
    यच् छन्दोमा भवन्ति तेन सत्त्रम् ।
    देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः ।
   ओजो वै वीर्यम् पृष्ठानि पशवः

VERSE: 4
    छन्दोमाः ।
    ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति
    त्रयस् त्रयस्त्रिम्̇शा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिम्̇शाः परस्तान् मध्ये पृष्ठानि ।
    उरो वै त्रयस्त्रिम्̇शा आत्मा पृष्ठानि ।
    आत्मन एव तद् यजमानाः शर्म नह्यन्ते ऽनार्त्यै
    बृहद्रथंतराभ्यां यन्ति ।
    इयं वाव रथंतरम् असौ बृहत् ।
    आभ्याम् एव यन्ति ।
    अथो अनयोर् एव प्रति तिष्ठन्ति ।
    एते वै यज्ञस्याञ्जसायनी स्रुती
   ताभ्याम् एव

VERSE: 5
    सुवर्गं लोकं यन्ति
    पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति
    प्रत्यङ् षडहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै ।
    उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति
    त्रिवृतो ऽधि त्रिवृतम् उप यन्ति स्तोमानाम्̇ सम्पत्त्यै प्रभवाय
    ज्योतिर् अग्निष्टोमो भवति ।
    अयं वाव स क्षयः ।
    अस्माद् एव तेन क्षयान् न यन्ति
    चतुर्विम्̇शतिरात्रो भवति
    चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः
    संवत्सरः सुवर्गो लोकः
    संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति ।
    अथो चतुर्विम्̇शत्यक्षरा गायत्री
    गायत्री ब्रह्मवर्चसम् ।
    गायत्रियैव ब्रह्मवर्चसम् अव रुन्धते ।
    अतिरात्राव् अभितो भवतः ।
    ब्रह्मवर्चसस्य परिगृहीत्यै ॥

7.4.3 अनुवाक 3 त्रिंशद्रात्रकथनम्
VERSE: 1
    ऋक्षा वा इयम् अलोमकाऽऽसीत्
    साकामयत ।
    ओषधीभिर् वनस्पतिभिः प्र जायेयेति
    सैतास् त्रिम्̇शतम्̇ रात्रीर् अपश्यत्
    ततो वा इयम् ओषधीभिर् वनस्पतिभिः प्राजायत
    ये प्रजाकामाः पशुकामाः स्युस् त एता आसीरन्
    प्रैव जायन्ते प्रजया पशुभिः ।
    इयं वा अक्षुध्यत्
    सैतां विराजम् अपश्यत्
    ताम् आत्मन् धित्वान्नाद्यम् अवारुन्द्धौषधीः

VERSE: 2
    वनस्पतीन् प्रजाम् पशून्
    तेनावर्धत
    स जेमानम् महिमानम् अगच्छत् ।
    य एवं विद्वाम्̇स एता आसते विराजम् एवात्मन् धित्वान्नाद्यम् अव रुन्धते
    वर्धन्ते प्रजया पशुभिः ।
    जेमानम् महिमानं गच्छन्ति
    ज्योतिर् अतिरात्रो भवति सुवर्गस्य लोकस्यानुख्यात्यै
    पृष्ठ्यः षडहो भवति
    षड् वा ऋतवः षट् पृष्ठानि
    पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् ।
   ते संवत्सर एव

VERSE: 3
    प्रति तिष्ठन्ति
    त्रयस्त्रिम्̇शात् त्रयस्त्रिम्̇शम् उप यन्ति यज्ञस्य संतत्यै ।
    अथो प्रजापतिर् वै त्रयस्त्रिम्̇शः प्रजापतिम् एवा रभन्ते प्रतिष्ठित्यै
    त्रिणवो भवति विजित्यै ।
    एकविम्̇शो भवति प्रतिष्ठित्यै ।
    अथो रुचम् एवात्मन् दधते
    त्रिवृद् अग्निष्टुद् भवति
    पाप्मानम् एव तेन निर् दहन्ते ऽथो तेजो वै त्रिवृत् तेज एवात्मन् दधते
    पञ्चदश इन्द्रस्तोमो भवति ।
   इन्द्रियम् एवाव

VERSE: 4
    रुन्धते
    सप्तदशो भवति ।
    अन्नाद्यस्यावरुद्ध्यै ।
    अथो प्रैव तेन जायन्ते ।
    एकविम्̇शो भवति
    प्रतिष्ठित्यै ।
    अथो रुचम् एवात्मन् दधते
    चतुर्विम्̇शो भवति
    चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः
   संवत्सरः सुवर्गो लोकः
  संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति ।
   अथो एष वै विषूवान्
   विषूवन्तो भवन्ति य एवं विद्वाम्̇स एता आसते
   चतुर्विम्̇शात् पृष्ठान्य् उप यन्ति
   संवत्सर एव प्रतिष्ठाय ॥

VERSE: 5
    देवता अभ्यारोहन्ति
    त्रयस्त्रिम्̇शात् त्रयस्त्रिम्̇शम् उप यन्ति
    त्रयस्त्रिम्̇शद् वै देवताः ।
    देवतास्व् एव प्रति तिष्ठन्ति
    त्रिणवो भवति ।
    इमे वै लोकास् त्रिणवः ।
    एष्व् एव लोकेषु प्रति तिष्ठन्ति
    द्वाव् एकविम्̇शौ भवतः
    प्रतिष्ठित्यै ।
    अथो रुचम् एवात्मन् दधते
   बहवः षोडशिनो भवन्ति
    तस्माद् बहवः प्रजासु वृषाणः ।
    यद् एते स्तोमा व्यतिषक्ता भवन्ति
   तस्माद् इयम् ओषधीभिर् वनस्पतिभिर् व्यतिषक्ता ।

VERSE: 6
    व्यतिषज्यन्ते प्रजया पशुभिर् य एवं विद्वाम्̇स एता आसते ।
    अक्लृप्ता वा एते सुवर्गं लोकं यन्ति ।
    उच्चावचान् हि स्तोमान् उपयन्ति
    यद् एत ऊर्ध्वाः क्लृप्ता स्तोमा भवन्ति क्लृप्ता एव सुवर्गं लोकं यन्त्य् उभयोर् एभ्यो लोकयोः कल्पते
    त्रिम्̇शद् एतास्
    त्रिम्̇शदक्षरा विराड्
    अन्नं विराड्
    विराजैवान्नाद्यम् अव रुन्धते ।
    अतिरात्राव् अभितो भवतः ।
    अन्नाद्यस्य परिगृहीत्यै ॥

7.4.4 अनुवाक 4 द्वात्रिंशद्रात्राभिधानम्
VERSE: 1
    प्रजापतिः सुवर्गं लोकम् ऐत्
    तं देवा येनयेन छन्दसाऽनु प्रायुञ्जत तेन नाऽऽप्नुवन्
    त एता द्वात्रिम्̇शतम्̇ रात्रीर् अपश्यन्
     द्वात्रिम्̇शदक्षरानुष्टुग्
    आनुष्टुभः प्रजापतिः
    स्वेनैव छन्दसा प्रजापतिम् आप्त्वाभ्यारुह्य सुवर्गं लोकम् आयन्
    य एवं विद्वाम्̇स एता आसते द्वात्रिम्̇शद् एताः ।
     द्वात्रिम्̇शदक्षरानुष्टुग्
    आनुष्टुभः प्रजापतिः
    स्वेनैव छन्दसा प्रजापतिम् आप्त्वा श्रियं गच्छन्ति ।

VERSE: 2
    श्रीर् हि मनुष्यस्य सुवर्गो लोकः ।
    द्वात्रिम्̇शद् एताः ।
     द्वात्रिम्̇शदक्षरानुष्टुग्
    वाग् अनुष्टुप्
    सर्वाम् एव वाचम् आप्नुवन्ति
    सर्वे वाचो वदितारो भवन्ति
    सर्वे हि श्रियं गच्छन्ति
    ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति ।
    इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुर् इमान् एव लोकान् अभ्यारोहन्ति ।
    अभिपूर्वं त्र्यहा भवन्ति ।
    अभिपूर्वम् एव सुवर्गं लोकम् अभ्यारोहन्ति
    बृहद्रथंतराभ्यां यन्ति ।

VERSE: 3
    इयं वाव रथंतरम् असौ बृहत् ।
    आभ्याम् एव यन्ति ।
    अथो अनयोर् एव प्रति तिष्ठन्ति ।
    एते वै यज्ञस्याञ्जसायनी स्रुती
    ताभ्याम् एव सुवर्गं लोकं यन्ति
    पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचस् त्र्यहान् उपयन्ति
    प्रत्यङ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै ।
    उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति
    द्वात्रिम्̇शद् एतास्
   तासां यास् त्रिम्̇शत् त्रिम्̇शदक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते
    ये द्वे अहोरात्रे एव ते उभाभ्याम्̇ रूपाभ्याम्̇ सुवर्गं लोकं यन्ति ।
    अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥

7.4.5 अनुवाक 5 त्रयस्त्रिंशद्रात्रकथनम्
VERSE: 1
    द्वे वाव देवसत्त्रे द्वादशाहश् च त्रयस्त्रिम्̇शदहश् च
    य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते साक्षाद् एव देवता अभ्यारोहन्ति
    यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति
    यद्य् अवविध्यति पापीयान् भवति
    यदि नावविध्यति सदृङ्
    य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते वि पाप्मना भ्रातृव्येणा वर्तन्ते ऽहर्भाजो वा एता देवा अग्र आऽहरन् ।

VERSE: 2
    अहर् एको ऽभजताहर् एकस्
    ताभिर् वै ते प्रबाहुग् आर्ध्नुवन्
    य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते सर्व एव प्रबाहुग् ऋध्नुवन्ति
    सर्वे ग्रामणीयम् प्राप्नुवन्ति
    पञ्चाहा भवन्ति
    पञ्च वा ऋतवः संवत्सरः ।
    ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति ।
    अथो पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
    यज्ञम् एवाव रुन्धते
   त्रीण्य् आश्विनानि भवन्ति
   त्रय इमे लोकाः ।
    एषु

VERSE: 3
    एव लोकेषु प्रति तिष्ठन्ति ।
    अथो त्रीणि वै यज्ञस्येन्द्रियाणि
    तान्य् एवाव रुन्धते
    विश्वजिद् भवत्य् अन्नाद्यस्यावरुद्ध्यै
    सर्वपृष्ठो भवति
    सर्वस्याभिजित्यै
    वाग् वै द्वादशाहः ।
    यत् पुरस्ताद् द्वादशाहम् उपेयुर् अनाप्तां वाचम् उपेयुर् उपदासुकैषां वाक् स्यात् ।
    उपरिष्टाद् द्वादशाहम् उप यन्त्य् आप्ताम् एव वाचम् उप यन्ति तस्माद् उपरिष्टाद् वाचा वदामः ।
    अवान्तरम्

VERSE: 4
    वै दशरात्रेण प्रजापतिः प्रजा असृजत
    यद् दशरात्रो भवति प्रजा एव तद् यजमानाः सृजन्ते ।
    एताम्̇ ह वा उदङ्कः शौल्बायनः सत्त्रस्यद्धिम् उवाच यद् दशरात्रः ।
    यद् दशरात्रो भवति सत्त्रस्यद्ध्यै ।
    अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ।
    द्व्यनीका वा एता रात्रयो यजमाना विश्वजित्
    सहातिरात्रेण पूर्वाः षोडश सहातिरात्रेणोत्तराः षोडश
    य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसत ऐषां द्व्यनीका प्रजा जायते ।
    अतिरात्राव् अभितो भवतः
   परिगृहीत्यै ॥

7.4.6 अनुवाक 6 षट्त्रिंशद्रात्रकथनम्
VERSE: 1
    आदित्या अकामयन्त
    सुवर्गं लोकम् इयामेति
    ते सुवर्गं लोकं न प्राजानन् न सुवर्गं लोकम् आयन्
    त एतम्̇ षट्त्रिम्̇शद्रात्रम् अपश्यन्
    तम् आहरन्
    तेनायजन्त
    ततो वै ते सुवर्गं लोकम् प्राजानन्त् सुवर्गं लोकम् आयन्
    य एवं विद्वाम्̇सः षट्त्रिम्̇शद्रात्रम् आसते सुवर्गम् एव लोकम् प्र जानन्ति सुवर्गं लोकं यन्ति
    ज्योतिर् अतिरात्रः

VERSE: 2
    भवति
    ज्योतिर् एव पुरस्ताद् दधते
    सुवर्गस्य लोकस्यानुख्यात्यै
    षडहा भवन्ति
    षड् वा ऋतवः ।
    ऋतुष्व् एव प्रति तिष्ठन्ति
    चत्वारो भवन्ति
    चतस्रो दिशः ।
    दिक्ष्व् एव प्रति तिष्ठन्ति ।
    असत्त्रं वा एतद् यद् अच्छन्दोमम् ।
    यच् छन्दोमा भवन्ति तेन सत्त्रम् ।
    देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः ।
    ओजो वै वीर्यम् पृष्ठानि पशवश् छन्दोमाः ।
   ओजस्य् एव

VERSE: 3
    वीर्ये प्रति तिष्ठन्ति
    षट्त्रिम्̇शद्रात्रो भवति
    षट्त्रिम्̇शदक्षरा बृहती
    बार्हताः पशवः ।
    बृहत्यैव पशून् अव रुन्धते
    बृहती छन्दसाम्̇ स्वाराज्यम् आश्नुत ।
    अश्नुवते स्वाराज्यं य एवं विद्वाम्̇सः षट्त्रिम्̇शद्रात्रम् आसते सुवर्गम् एव लोकं यन्ति ।
    अतिरात्राव् अभितो भवतः सुवर्गस्य लोकस्य परिगृहीत्यै ॥

7.4.7 अनुवाक 7 एकोनपञ्चाशद्रात्रकथनम्
VERSE: 1
    वसिष्ठो हतपुत्रो ऽकामयत
    विन्देय प्रजाम् अभि सौदासान् भवेयम् इति
    स एतम् एकस्मान्नपञ्चाशम् अपश्यत्
    तम् आहरत्
    तेनायजत
    ततो वै सो ऽविन्दत प्रजाम् अभि सौदासान् अभवत् ।
    य एवं विद्वाम्̇स एकस्मान्नपञ्चाशम् आसते विन्दन्ते प्रजाम् अभि भ्रातृव्यान् भवन्ति
    त्रयस् त्रिवृतो ऽग्निष्टोमा भवन्ति
    वज्रस्यैव मुखम्̇ सम्̇ श्यन्ति
    दश पञ्चदशा भवन्ति
   पञ्चदशो वज्रः ॥

VERSE: 2
    वज्रम् एव भ्रातृव्येभ्यः प्र हरन्ति
    षोडशिमद् दशमम् अहर् भवति
    वज्र एव वीर्यं दधति
    द्वादश सप्तदशा भवन्ति ।
    अन्नाद्यस्यावरुद्ध्यै ।
    अथो प्रैव तैर् जायन्ते
    पृष्ठ्यः षडहो भवति
    षड् वा ऋतवः
    षट् पृष्ठानि
    पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् ।
    ते संवत्सर एव प्रति तिष्ठन्ति
   द्वादशैकविम्̇शा भवन्ति
    प्रतिष्ठित्यै ।
   अथो रुचम् एवात्मन्

VERSE: 3
    दधते
    बहवः षोडशिनो भवन्ति
    विजित्यै
    षड् आश्विनानि भवन्ति
    षड् वा ऋतवः ।
    ऋतुष्व् एव प्रति तिष्ठन्ति ।
    ऊनातिरिक्ता वा एता रात्रयः ।
    ऊनास् तद् यद् एकस्यै न पञ्चाशद् अतिरिक्तास् तद् यद् भूयसीर् अष्टाचत्वारिम्̇शतः ।
    ऊनाच् च खलु वा अतिरिक्ताच् च प्रजापतिः प्राजायत ।
   ये प्रजाकामाः पशुकामाः स्युस् त एता आसीरन्
   प्रैव जायन्ते प्रजया पशुभिः ।
    वैराजो वा एष यज्ञो यद् एकस्मान्नपञ्चाशः ।
    य एवं विद्वाम्̇स एकस्मान्नपञ्चाशम् आसते विराजम् एव गच्छन्त्य् अन्नादा भवन्ति ।
    अतिरात्राव् अभितो भवतः ।
   अन्नाद्यस्य परिगृहीत्यै ॥

7.4.8 अनुवाक 8 संवत्सरसत्रदीक्षाकालः
VERSE: 1
    संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन् ।
    एषा वै संवत्सरस्य पत्नी यद् एकाष्टका ।
    एतस्यां वा एष एताम्̇ रात्रिं वसति
    साक्षाद् एव संवत्सरम् आरभ्य दीक्षन्ते ।
    आर्तं वा एते संवत्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवतः ।
    व्यस्तं वा एते संवत्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवतः
    फल्गुनीपूर्णमासे दीक्षेरन्
    मुखं वा एतत्

VERSE: 2
    संवत्सरस्य यत् फल्गुनीपूर्णमासः ।
    मुखत एव संवत्सरम् आरभ्य दीक्षन्ते
    तस्यैकैव निर्या यत् साम्मेध्ये विषूवान्त् सम्पद्यते
    चित्रापूर्णमासे दीक्षेरन्
    मुखं वा एतत् संवत्सरस्य यच् चित्रापूर्णमासः ।
    मुखत एव संवत्सरम् आरभ्य दीक्षन्ते
    तस्य न का चन निर्या भवति
    चतुरहे पुरस्तात् पौर्णमास्यै दीक्षेरन्
    तेषाम् एकाष्टकायां क्रयः सम् पद्यते
    तेनैकाष्टकां न छम्बट् कुर्वन्ति
    तेषाम्

VERSE: 3
    पूर्वपक्षे सुत्या सम् पद्यते
    पूर्वपक्षम् मासा अभि सम् पद्यन्ते
    ते पूर्वपक्ष उत् तिष्ठन्ति
    तान् उत्तिष्ठत ओषधयो वनस्पतयो ऽनूत् तिष्ठन्ति
    तान् कल्याणी कीर्तिर् अनूत् तिष्ठति ।
    अरात्सुर् इमे यजमाना इति
    तद् अनु सर्वे राध्नुवन्ति ॥

7.4.9 अनुवाक 9 दीक्षोपसत्कथनम्
VERSE: 1
    सुवर्गं वा एते लोकं यन्ति ये सत्त्रम् उपयन्ति ।
    अभीन्धत एव दीक्षाभिर् आत्मानम्̇ श्रपयन्त उपसद्भिः ।
    द्वाभ्यां लोमावद्यन्ति द्वाभ्यां त्वचम् ।
    द्वाभ्याम् असृत् ।
    द्वाभ्याम् माम्̇सम् ।
    द्वाभ्याम् अस्थि
    द्वाभ्याम् मज्जानम्
    आत्मदक्षिणं वै सत्त्रम्
    आत्मानम् एव दक्षिणां नीत्वा सुवर्गं लोकं यन्ति
   शिखाम् अनु प्र वपन्ते ।
    ऋद्ध्यै ।
   अथो रघीयाम्̇सः सुवर्गं लोकम् अयामेति ॥

7.4.10 अनुवाक 10 प्रायणीयाख्यप्रथमाहाभिधानम्
VERSE: 1
    ब्रह्मवादिनो वदन्ति ।
    अतिरात्रः परमो यज्ञक्रतूनां कस्मात् तम् प्रथमम् उप यन्तीति ।
    एतद् वा अग्निष्टोमम् प्रथमम् उप यन्त्य् अथोक्थ्यम् अथ षोडशिनम् अथातिरात्रम्
    अनुपूर्वम् एवैतद् यज्ञक्रतून् उपेत्य तान् आलभ्य परिगृह्य सोमम् एवैतत् पिबन्त आसते
    ज्योतिष्टोमम् प्रथमम् उप यन्ति
    ज्योतिष्टोमो वै स्तोमानाम् मुखम्
    मुखत एव स्तोमान् प्र युञ्जते
    ते

VERSE: 2
    सम्̇स्तुता विराजम् अभि सम् पद्यन्ते
    द्वे चर्चाव् अति रिच्येते
    एकया गौर् अतिरिक्त एकयायुर् ऊनः
    सुवर्गो वै लोको ज्योतिर् ऊर्ग् विराट् सुवर्गम् एव तेन लोकं यन्ति
    रथंतरं दिवा भवति रथंतरं नक्तम् इत्य् आहुर् ब्रह्मवादिनः केन तद् अजामीति
    सौभरं तृतीयसवने ब्रह्मसामम् बृहत्
    तन् मध्यतो दधति विधृत्यै
    तेनाजामि ॥

7.4.11 अनुवाक 11 मासगताहकथनम्
VERSE: 1
    ज्योतिष्टोमम् प्रथमम् उप यन्ति ।
    अस्मिन्न् एव तेन लोके प्रति तिष्ठन्ति
    गोष्टोमं द्वितीयम् उप यन्ति ।
    अन्तरिक्ष एव तेन प्रति तिष्ठन्ति ।
    आयुष्टोमं तृतीयम् उप यन्ति ।
    अमुष्मिन्न् एव तेन लोके प्रति तिष्ठन्ति ।
    इयं वाव ज्योतिर् अन्तरिक्षं गौः ।
    असाव् आयुः ।
    यद् एतान्त् स्तोमान् उपयन्त्य् एष्व् एव तल् लोकेषु सत्त्रिणः प्रतितिष्ठन्तो यन्ति
    ते सम्̇स्तुता विराजम्

VERSE: 2
    अभि सम् पद्यन्ते
    द्वे चर्चाव् अति रिच्येते
    एकया गौर् अतिरिक्त एकयायुर् ऊनः
    सुवर्गो वै लोको ज्योतिर् ऊर्ग् विराड् ऊर्जम् एवाव रुन्धते
    ते न क्षुधार्तिम् आर्छन्ति ।
    अक्षोधुका भवन्ति
    क्षुत्सम्बाधा इव हि सत्त्रिणः ।
    अग्निष्टोमाव् अभितः प्रधी तौ
    उक्थ्या मध्ये नभ्यं तत्
    तद् एतत् परियद् देवचक्रम् ।
    यद् एतेन

VERSE: 3
    षडहेन यन्ति देवचक्रम् एव समारोहन्त्य् अरिष्ट्यै
    ते स्वस्ति सम् अश्नुवते
    षडहेन यन्ति
    षड् वा ऋतवः ।
    ऋतुष्व् एव प्रति तिष्ठन्ति ।
    उभयतोज्योतिषा यन्ति ।
    उभयत एव सुवर्गे लोके प्रतितिष्ठन्तो यन्ति
    द्वौ षडहौ भवतस्
    तानि द्वादशाहानि सम् पद्यन्ते
    द्वादशो वै पुरुषो द्वे सक्थ्यौ द्वौ बाहू आत्मा च शिरश् च चत्वार्य् अङ्गानि स्तनौ द्वादशौ ।

VERSE: 4
    तत् पुरुषम् अनु पर्यावर्तन्ते
    त्रयः षडहा भवन्ति
    तान्य् अष्टादशाहानि सम् पद्यन्ते
    नवान्यानि नवान्यानि
    नव वै पुरुषे प्राणास्
    तत् प्राणान् अनु पर्यावर्तन्ते
    चत्वारः षडहा भवन्ति
    तानि चतुर्विम्̇शतिर् अहानि सम् पद्यन्ते
    चतुर्विम्̇शतिर् अर्धमासाः संवत्सरस्
    तत् संवत्सरम् अनु पर्यावर्तन्ते ।
   अप्रतिष्ठितः संवत्सर इति खलु वा आहुर् वर्षीयान् प्रतिष्ठाया इति ।
   एतावद् वै संवत्सरस्य ब्राह्मणं यावन् मासः ।
   मासिमास्य् एव प्रतितिष्ठन्तो यन्ति ॥

7.4.12 अनुवाक 12 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
मेषस् त्वा पचतैर् अवतु लोहितग्रीवश् छागैः शल्मलिर् वृद्ध्या पर्णो ब्रह्मणा प्लक्षो मेधेन न्यग्रोधश् चमसैर् उदुम्बर ऊर्जा गायत्री छन्दोभिस् त्रिवृत् स्तोमैः ।
अवन्ती स्थावन्तीस् त्वाऽवन्तु प्रियं त्वा प्रियाणां वर्षिष्ठम् आप्यानां निधीनां त्वा निधिपतिम्̇ हवामहे वसो मम ॥

7.4.13 अनुवाक 13 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
    कूप्याभ्यः स्वाहा
    कूल्याभ्यः स्वाहा
    विकर्याभ्यः स्वाहा ।
    अवट्याभ्यः स्वाहा
    खन्याभ्यः स्वाहा
    ह्रद्याभ्यः स्वाहा
    सूद्याभ्यः स्वाहा
    सरस्याभ्यः स्वाहा
    वैशन्तीभ्यः स्वाहा
    पल्वल्याभ्यः स्वाहा
   वर्ष्याभ्यः स्वाहा ।
    अवर्ष्याभ्यः स्वाहा
   ह्रादुनीभ्यः स्वाहा
   पृष्वाभ्यः स्वाहा
    स्यन्दमानाभ्यः स्वाहा
   स्थावराभ्यः स्वाहा
    नादेयीभ्यः स्वाहा
   सैन्धवीभ्यः स्वाहा
    समुद्रियाभ्यः स्वाहा
    सर्वाभ्यः स्वाहा ॥

7.4.14 अनुवाक 14 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
    अद्भ्यः स्वाहा
    वहन्तीभ्यः स्वाहा
    परिवहन्तीभ्यः स्वाहा
    समन्तं वहन्तीभ्यः स्वाहा
    शीघ्रं वहन्तीभ्यः स्वाहा
    शीभं वहन्तीभ्यः स्वाहा ।
    उग्रं वहन्तीभ्यः स्वाहा
    भीमं वहन्तीभ्यः स्वाहा ।
    अम्भोभ्यः स्वाहा
    नभोभ्यः स्वाहा
   महोभ्यः स्वाहा
   सर्वस्मै स्वाहा ॥

7.4.15 अनुवाक 15 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
यो अर्वन्तं जिघाम्̇सति तम् अभ्यमीति वरुणः । परो मर्तः परः श्वा ॥
अहं च त्वं च वृत्रहन्त् सम् बभूव सनिभ्य आ । अरातीवा चिद् अद्रिवो ऽनु नौ शूर मम्̇सतै भद्रा इन्द्रस्य रातयः ॥
अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानम्̇ रजाम्̇सि । स्वेना हि वृत्रम्̇ शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥

7.4.16 अनुवाक 16 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
    नमो राज्ञे
    नमो वरुणाय
    नमो ऽश्वाय
    नमः प्रजापतये
    नमो ऽधिपतये ।
    अधिपतिर् अस्य् अधिपतिम् मा कुर्व् अधिपतिर् अहम् प्रजानाम् भूयासम्
    मां धेहि
    मयि धेहि ।
    उपाकृताय स्वाहा ।
    आलब्धाय स्वाहा
    हुताय स्वाहा ॥

7.4.17 अनुवाक 17 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृड ।
याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ ।
या देवेषु तनुवम् ऐरयन्त यासाम्̇ सोमो विश्वा रूपाणि वेद । ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र

VERSE: 2
    गोष्ठे रिरीहि ।
प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः । शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सम्̇ सदेम ।
इह धृतिः स्वाहा ।
इह विधृतिः स्वाहा ।
इह रन्तिः स्वाहा ।
इह रमतिः स्वाहा
महीमू षु
सुत्रामाणम् ॥

7.4.18 अनुवाक 18 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
किम्̇ स्विद् आसीत् पूर्वचित्तिः किम्̇ स्विद् आसीद् बृहद् वयः । किम्̇ स्विद् आसीत् पिशंगिला किम्̇ स्विद् आसीत् पिलिप्पिला ।
द्यौर् आसीत् पूर्वचित्तिर् अश्व आसीद् बृहद् वयः । रात्रिर् आसीत् पिशंगिलाविर् आसीत् पिलिप्पिला ।
कः स्विद् एकाकी चरति क उ स्विज् जायते पुनः । किम्̇ स्विद् धिमस्य भेषजं किम्̇ स्विद् आवपनम् महत् ।
सूर्य एकाकी चरति

VERSE: 2
    चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजम् भूमिर् आवपनम् महत् ।
पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम् । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
वेदिम् आहुः परम् अन्तम् पृथिव्या यज्ञम् आहुर् भुवनस्य नाभिम् । सोमम् आहुर् वृष्णो अश्वस्य रेतो ब्रह्मैव वाचः परमं व्योम ॥

7.4.19 अनुवाक 19 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
अम्बे अम्बाल्य् अम्बिके
न मा नयति कश् चन । ससस्त्य् अश्वकः ।
सुभगे काम्पीलवासिनि सुवर्गे लोके सम् प्रोर्ण्वाथाम् ।
आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ।
तौ सह चतुरः पदः सम् प्र सारयावहै ।
वृषा वाम्̇ रेतोधा रेतो दधातु ।
उत् सक्थ्योर् गृदं धेह्य् अञ्जिम् उदञ्जिम्म् अन्व् अज । य स्त्रीणां जीवभोजनो य आसाम्

VERSE: 2
बिलधावनः । प्रिय स्त्रीणाम् अपीच्यः । य आसां कृष्णे लक्ष्मणि सर्दिगृदिम् परावधीत् ।
अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः ।
ऊर्ध्वाम् एनाम् उच् छ्रयताद् वेणुभारं गिराव् इव । अथास्या मध्यम् एधताम्̇ शीते वाते पुनन्न् इव ।
अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः ।
यद् धरिणी यवम् अत्ति न

VERSE: 3
    पुष्टम् पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति ।
अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः ।
इयं यका शकुन्तिकाऽऽहलम् इति सर्पति । आहतं गभे पसो नि जल्गुलीति धाणिका ।
अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः ।
माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः ।

VERSE: 4
    प्र सुलामीति ते पिता गभे मुष्टिम् अतम्̇सयत् ।
 दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूम्̇षि तारिषत् ।
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥

7.4.20 अनुवाक 20 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
भूर् भुवः सुवर्
वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसादित्यास् त्वाञ्जन्तु जागतेन छन्दसा
यद् वातो अपो अगमद् इन्द्रस्य तनुवम् प्रियाम् । एतम्̇ स्तोतर् एतेन पथा पुनर् अश्वम् आ वर्तयासि नः ।
लाजी3ञ् छाची3न् यशो ममा3म् ।
यव्यायै गव्याया एतद् देवा अन्नम् अत्तैतद् अन्नम् अद्धि प्रजापते
युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः । रोचन्ते रोचना दिवि ।
युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा ।
केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । सम् उषद्भिर् अजायथाः ।

7.4.21 अनुवाक 21 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
    प्राणाय स्वाहा
    व्यानाय स्वाहा ।
    अपानाय स्वाहा
    स्नावभ्यः स्वाहा
    संतानेभ्यः स्वाहा
    परिसंतानेभ्यः स्वाहा
    पर्वभ्यः स्वाहा
    संधानेभ्यः स्वाहा
    शरीरेभ्यः स्वाहा
    यज्ञाय स्वाहा
    दक्षिणाभ्यः स्वाहा
    सुवर्गाय स्वाहा
    लोकाय स्वाहा
   सर्वस्मै स्वाहा ॥

7.4.22 अनुवाक 22 अश्वमेधाङ्गमन्त्रकथनम्
VERSE: 1
    सिताय स्वाहा ।
    असिताय स्वाहा ।
    अभिहिताय स्वाहा ।
    अनभिहिताय स्वाहा
    युक्ताय स्वाहा ।
    अयुक्ताय स्वाहा
    सुयुक्ताय स्वाहा ।
    उद्युक्ताय स्वाहा
    विमुक्ताय स्वाहा
    प्रमुक्ताय स्वाहा
    वञ्चते स्वाहा
   परिवञ्चते स्वाहा
    संवञ्चते स्वाहा ।
    अनुवञ्चते स्वाहा ।
    उद्वञ्चते स्वाहा ।
    यते स्वाहा
    धावते स्वाहा
   तिष्ठते स्वाहा
   सर्वस्मै स्वाहा ॥