तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः ५

विकिस्रोतः तः

6.5 प्रपाठक: 5
6.5.1 अनुवाक 1 उक्थ्यग्रहकथनम्
1 इन्द्रो वृत्राय वज्रम् उद् अयच्छत् स वृत्रो वज्राद् उद्यताद् अबिभेत् सो ऽब्रवीत् । मा मे प्र हार् अस्ति वा इदम् मयि वीर्यं तत् ते प्र दास्यामीति तस्मा उक्थ्यम् प्रायच्छत् तस्मै द्वितीयम् उद् अयच्छत् सो ऽब्रवीत् । मा मे प्र हार् अस्ति वा इदं मयि वीर्यं तत् ते प्र दास्यामीति ।
2 तस्मा उक्थ्यम् एव प्रायच्छत् तस्मै तृतीयम् उद् अयच्छत् तं विष्णुर् अन्व् अतिष्ठत जहीति सो ऽब्रवीत् । मा मे प्र हार् अस्ति वा इदम् मयि वीर्यं तत् ते प्र दास्यामीति तस्मा उक्थ्यम् एव प्रायच्छत् तं निर्मायम् भूतम् अहन् यज्ञो हि तस्य मायासीत् । यद् उक्थ्यो गृह्यत इन्द्रियम् एव
3 तद् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते । इन्द्राय त्वा बृहद्वते वयस्वत इत्य् आह । इन्द्राय हि स तम् प्रायच्छत् तस्मै त्वा विष्णवे त्वेत्य् आह यद् एव विष्णुर् अन्वतिष्ठत जहीति तस्माद् विष्णुम् अन्वाभजति त्रिर् निर् गृह्णाति त्रिर् हि स तं तस्मै प्रायच्छत् । एष ते योनिः पुनर्हविर् असीत्य् आह पुनःपुनः
4 ह्य् अस्मान् निर्गृह्णाति चक्षुर् वा एतद् यज्ञस्य यद् उक्थ्यस् तस्माद् उक्थ्यꣳ हुतꣳ सोमा अन्वायन्ति तस्माद् आत्मा चक्षुर् अन्व् एति तस्माद् एकं यन्तम् बहवो ऽनु यन्ति तस्माद् एको बहूनाम् भद्रो भवति तस्माद् एको बह्वीर् जाया विन्दते यदि कामयेताध्वर्युः । आत्मानं यज्ञयशसेनार्पयेयम् इत्य् अन्तराहवनीयं च हविर्धानं च तिष्ठन्न् अव नयेत् ।
5 आत्मानम् एव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयम् इत्य् अन्तरा सदोहविर्धाने तिष्ठन्न् अव नयेत् । यजमानम् एव यज्ञयशसेनार्पयति यदि कामयेत सदस्यान् यज्ञयशसेनार्पयेयम् इति सद आलभ्याव नयेत् सदस्यान् एव यज्ञयशसेनार्पयति ॥

6.5.2 अनुवाक 2 ध्रुवग्रहकथनम्
1 आयुर् वा एतद् यज्ञस्य यद् ध्रुवः । उत्तमो ग्रहाणां गृह्यते तस्माद् आयुः प्राणानाम् उत्तमम् मूर्धानं दिवो अरतिम् पृथिव्या इत्य् आह मूर्धानम् एवैनꣳ समानानां करोति वैश्वानरम् ऋताय जातम् अग्निम् इत्य् आह वैश्वानरꣳ हि देवतयाऽऽयुः । उभयतो वैश्वानरो गृह्यते तस्माद् उभयतः प्राणाः । अधस्ताच् चोपरिष्टाच् च । अर्धिनो ऽन्ये ग्रहा गृह्यन्ते ऽर्धी ध्रुवस् तस्माद्
2 अर्ध्य् अवाङ् प्राणो ऽन्येषाम् प्राणानाम् उपोप्ते ऽन्ये ग्रहाः साद्यन्ते ऽनुपोप्ते ध्रुवस् तस्माद् अस्थ्नान्याः प्रजाः प्रतितिष्ठन्ति माꣳसेनान्याः । असुरा वा उत्तरतः पृथिवीम् पर्याचिकीर्षन् तां देवा ध्रुवेणादृꣳहन् तद् ध्रुवस्य ध्रुवत्वम् । यद् ध्रुव उत्तरतः साद्यते धृत्यै । आयुर् वा एतद् यज्ञस्य यद् ध्रुव आत्मा होता यद् धोतृचमसे ध्रुवम् अवनयत्य् आत्मन्न् एव यज्ञस्य
3 आयुर् दधाति पुरस्ताद् उक्थस्यावनीय इत्य् आहुः पुरस्ताद् ध्य् आयुषो भुङ्क्ते मध्यतो ऽवनीय इत्य् आहुः । मध्यमेन ह्य् आयुषो भुङ्क्ते । उत्तरार्धे ऽवनीय इत्य् आहुः । उत्तमेन ह्य् आयुषो भुङ्क्ते वैश्वदेव्याम् ऋचि शस्यमानायाम् अव नयति वैश्वदेव्यो वै प्रजाः प्रजास्व् एवायुर् दधाति ॥

6.5.3 अनुवाक 3 ऋतुग्रहकथनम्
1 यज्ञेन वै देवाः सुवर्गं लोकम् आयन् ते ऽमन्यन्त मनुष्या नो ऽन्वाभविष्यन्तीति ते संवत्सरेण योपयित्वा सुवर्गं लोकम् आयन् तम् ऋषय ऋतुग्रहैर् एवानु प्राजानन् यद् ऋतुग्रहा गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै द्वादश गृह्यन्ते द्वादश मासाः संवत्सरः संवत्सरस्य प्रज्ञात्यै सह प्रथमौ गृह्येते सहोत्तमौ तस्माद् द्वौद्वाव् ऋतू उभयतोमुखम् ऋतुपात्रम् भवति कः
2 हि तद् वेद यत ऋतूनाम् मुखम् ऋतुना प्रेष्येति षट् कृत्व आह षड् वा ऋतवः । ऋतून् एव प्रीणाति । ऋतुभिर् इति चतुः । चतुष्पद एव पशून् प्रीणाति द्विः पुनर् ऋतुनाह द्विपद एव प्रीणाति । ऋतुना प्रेष्येति षट् कृत्व आहर्तुभिर् इति चतुस् तस्माच् चतुष्पादः पशव ऋतून् उप जीवन्ति द्विः
3 पुनर् ऋतुनाऽऽह तस्माद् द्विपादश् चतुष्पदः पशून् उप जीवन्ति । ऋतुना प्रेष्येति षट् कृत्व आहर्तुभिर् इति चतुर् द्विः पुनर् ऋतुनाऽऽह । आक्रमणम् एव तत् सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै नान्योऽन्यम् अनु प्र पद्येत यद् अन्यो ऽन्यम् अनुप्रपद्येतर्तुर् ऋतुम् अनु प्र पद्येतर्तवो मोहुकाः स्युः ।
4 प्रसिद्धम् एवाध्वर्युर् दक्षिणेन प्र पद्यते प्रसिद्धम् प्रतिप्रस्थातोत्तरेण तस्माद् आदित्यः षण् मासो दक्षिणेनैति षड् उत्तरेण । उपयामगृहीतो ऽसि सꣳसर्पो ऽस्य् अꣳहस्पत्याय त्वेत्य् आह । अस्ति त्रयोदशो मास इत्य् आहुस् तम् एव तत् प्रीणाति ॥

6.5.4 अनुवाक 4
1 सुवर्गाय वा एते लोकाय गृह्यन्ते यद् ऋतुग्रहाः । ज्योतिर् इन्द्राग्नी यद् ऐन्द्राग्नम् ऋतुपात्रेण गृह्णाति ज्योतिर् एवास्मा उपरिष्टाद् दधाति सुवर्गस्य लोकस्यानुख्यात्यै । ओजोभृतौ वा एतौ देवानां यद् इन्द्राग्नी यद् ऐन्द्राग्नो गृह्यत ओज एवाव रुन्द्धे वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै प्रजाः । असाव् आदित्यः शुक्रः । यद् वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति तस्माद् असाव् आदित्यः
2 सर्वाः प्रजाः प्रत्यङ्ङ् उद् एति तस्मात् सर्व एव मन्यते माम् प्रत्य् उद् अगाद् इति वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै प्रजाः । तेजः शुक्रः । यद् वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति प्रजास्व् एव तेजो दधाति ॥

6.5.5 अनुवाक 5 मरुत्वतीयमाहेन्द्रग्रहकथनम्
1 इन्द्रो मरुद्भिः सांविद्येन माध्यंदिने सवने वृत्रम् अहन् यन् माध्यंदिने सवने मरुत्वतीया गृह्यन्ते वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते
तस्य वृत्रं जघ्नुष ऋतवो ऽमुह्यन्त् स ऋतुपात्रेण मरुत्वतीयान् अगृह्णात् ततो वै स ऋतून् प्राजानात् । यद् ऋतुपात्रेण मरुत्वतीया गृह्यन्त ऋतूनाम् प्रज्ञात्यै वज्रं वा एतं यजमानो भ्रातृव्याय प्र हरति यन् मरुत्वतीया उद् एव प्रथमेन
2 यच्छति प्र हरति द्वितीयेन स्तृणुते तृतीयेन । आयुधं वा एतद् यजमानः सꣳस् कुरुते यन् मरुत्वतीया धनुर् एव प्रथमो ज्या द्वितीय इषुस् तृतीयः प्रत्य् एव प्रथमेन धत्ते वि सृजति द्वितीयेन विध्यति तृतीयेन । इन्द्रो वृत्रꣳ हत्वा पराम् परावतम् अगच्छत् । अपाराधम् इति मन्यमानः स हरितो ऽभवत् स एतान् मरुत्वतीयान् आत्मस्परणान् अपश्यत् तान् अगृह्णीत ।
3 प्राणम् एव प्रथमेनास्पृणुतापानं द्वितीयेनाऽऽत्मानं तृतीयेनात्मस्परणा वा एते यजमानस्य गृह्यन्ते यन् मरुत्वतीयाः प्राणम् एव प्रथमेन स्पृणुते ऽपानं द्वितीयेनाऽऽत्मानं तृतीयेन । इन्द्रो वृत्रम् अहन् तं देवा अब्रुवन् महान् वा अयम् अभूद् यो वृत्रम् अवधीद् इति तन् महेन्द्रस्य महेन्द्रत्वम् । स एतम् महेन्द्रम् उद्धारम् उद् अहरत वृत्रꣳ हत्वान्यासु देवतास्व् अधि यन् महेन्द्रो गृह्यत उद्धारम् एव तं यजमान उद् धरते ऽन्यासु प्रजास्व् अधि शुक्रपात्रेण गृह्णाति यजमानदेवत्यो वै महेन्द्रस् तेजः शुक्रो यन् माहेन्द्रꣳ शुक्रपात्रेण गृह्णाति यजमान एव तेजो दधाति ॥

6.5.6 अनुवाक 6 आदित्यग्रहकथनम्
1 अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत् तस्या उच्छेषणम् अददुस् तत् प्राश्नात् सा रेतो ऽधत्त तस्यै चत्वार आदित्या अजायन्त सा द्वितीयम् अपचत् साऽमन्यत । उच्छेषणान् म इमे ऽज्ञत यद् अग्रे प्राशिष्यामीतो मे वसीयाꣳसो जनिष्यन्त इति साग्रे प्राश्नात् सा रेतो ऽधत्त तस्यै व्यृद्धम् आण्डम् अजायत साऽऽदित्येभ्य एव
2 तृतीयम् अपचत् । भोगाय म इदꣳ श्रान्तम् अस्त्व् इति ते ऽब्रुवन् वरं वृणामहै यो ऽतो जायाता अस्माकꣳ स एको ऽसद् यो ऽस्य प्रजायाम् ऋध्याता अस्माकम् भोगाय भवाद् इति ततो विवस्वान् आदित्यो ऽजायत तस्य वा इयम् प्रजा यन् मनुष्यस् तास्व् एक एवर्द्धो यो यजते स देवानाम् भोगाय भवति देवा वै यज्ञात्
3 रुद्रम् अन्तर् आयन् । स आदित्यान् अन्वाक्रमत ते द्विदेवत्यान् प्रापद्यन्त तान् न प्रति प्रायच्छन् तस्माद् अपि वध्यम् प्रपन्नं न प्रति प्र यच्छन्ति तस्माद् द्विदेवत्येभ्य आदित्यो निर् गृह्यते यद् उच्छेषणाद् अजायन्त तस्माद् उच्छेषणाद् गृह्यते तिसृभिर् ऋग्भिर् गृह्णाति माता पिता पुत्रस् तद् एव तन् मिथुनम् उल्बं गर्भो जरायु तद् एव तत्
4 मिथुनम् पशवो वा एते यद् आदित्य ऊर्ग् दधि दध्ना मध्यतः श्रीणात्य् ऊर्जम् एव पशूनाम् मध्यतो दधाति शृतातङ्क्येन मेध्यत्वाय तस्माद् आमा पक्वं दुहे पशवो वा एते यद् आदित्यः परिश्रित्य गृह्णाति प्रतिरुध्यैवास्मै पशून् गृह्णाति पशवो वा एते यद् आदित्य एष रुद्रो यद् अग्निः परिश्रित्य गृह्णाति रुद्राद् एव पशून् अन्तर् दधाति ॥
5 एष वै विवस्वान् आदित्यो यद् उपाꣳशुसवनः स एतम् एव सोमपीथम् परि शय आ तृतीयसवनात् । विवस्व आदित्यैष ते सोमपीथ इत्य् आह विवस्वन्तम् एवादित्यꣳ सोमपीथेन सम् अर्धयति या दिव्या वृष्टिस् तया त्वा श्रीणामीति वृष्टिकामस्य श्रीणीयात् । वृष्टिम् एवाव रुन्द्धे यदि ताजक् प्रस्कन्देद् वर्षुकः पर्जन्यः स्यात् । यदि चिरम् अवर्षुकः । न सादयति । असन्नाद् धि प्रजाः प्रजायन्ते नानु वषट् करोति यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् । न हुत्वान्व् ईक्षेत यद् अन्वीक्षेत चक्षुर् अस्य प्रमायुकꣳ स्यात् तस्मान् नान्वीक्ष्यः ॥

6.5.7 अनुवाक 7 सावित्रवैश्वदेवग्रहकथनम्
1 अन्तर्यामपात्रेण सावित्रम् आग्रयणाद् गृह्णाति प्रजापतिर् वा एष यद् आग्रयणः प्रजानाम् प्रजननाय न सादयति । असन्नाद् धि प्रजाः प्रजायन्ते नानु वषट् करोति यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् । एष वै गायत्रो देवानां यत् सविता । एष गायत्रियै लोके गृह्यते यद् आग्रयणः । यद् अन्तर्यामपात्रेण सावित्रम् आग्रयणाद् गृह्णाति स्वाद् एवैनं योनेर् निर् गृह्णाति विश्वे
2 देवास् तृतीयꣳ सवनं नोद् अयच्छन् ते सवितारम् प्रातःसवनभागꣳ सन्तं तृतीयसवनम् अभि पर्यणयन् ततो वै ते तृतीयꣳ सवनम् उद् अयच्छन् यत् तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै सवितृपात्रेण वैश्वदेवं कलशाद् गृह्णाति वैश्वदेव्यो वै प्रजा वैश्वदेवः कलशः सविता प्रसवानाम् ईशे यत् सवितृपात्रेण वैश्वदेवं कलशाद् गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र
3 जनयति सोमे सोमम् अभि गृह्णाति रेत एव तद् दधाति सुशर्मासि सुप्रतिष्ठान इत्य् आह सोमे हि सोमम् अभिगृह्णाति प्रतिष्ठित्यै । एतस्मिन् वा अपि ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते सुशर्मासि सुप्रतिष्ठान इत्य् आह मनुष्येभ्य एवैतेन करोति बृहद् इत्य् आह देवेभ्य एवैतेन करोति नम इत्य् आह पितृभ्य एवैतेन करोति । एतावतीर् वै देवतास् ताभ्य एवैनꣳ सर्वाभ्यो गृह्णाति । एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्य इत्य् आह वैश्वदेवो ह्य् एषः

6.5.8 अनुवाक 8 पात्नीवतग्रहकथनम्
1 प्राणो वा एष यद् उपाꣳशुः । यद् उपाꣳशुपात्रेण प्रथमश् चोत्तमश् च ग्रहौ गृह्येते प्राणम् एवानु प्रयन्ति प्राणम् अनूद्यन्ति प्रजापतिर् वा एष यद् आग्रयणः प्राण उपाꣳशुः पत्नीः प्रजाः प्र जनयन्ति यद् उपाꣳशुपात्रेण पात्नीवतम् आग्रयणाद् गृह्णाति प्रजानाम् प्रजननाय तस्मात् प्राणम् प्रजा अनु प्र जायन्ते देवा वा इतइतः पत्नीः सुवर्गम्
2 लोकम् अजिगाꣳसन् ते सुवर्गं लोकं न प्राजानन् त एतम् पात्नीवतम् अपश्यन् तम् अगृह्णत ततो वै ते सुवर्गं लोकम् प्राजानन् यत् पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस् तं घृतं वज्रं कृत्वाऽघ्नन् तं निरिन्द्रियम् भूतम् अगृह्णन् तस्मात् स्त्रियो निरिन्द्रिया अदायादीर् अपि पापात् पुꣳस उपस्तितरम्
3 वदन्ति यद् घृतेन पात्नीवतꣳ श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति । उपयामगृहीतो ऽसीत्य् आह । इयं वा उपयामस् तस्माद् इमाम् प्रजा अनु प्र जायन्ते बृहस्पतिसुतस्य त इत्य् आह ब्रह्म वै देवानाम् बृहस्पतिः । ब्रह्मणैवास्मै प्रजाः प्र जनयति । इन्दो इत्य् आह रेतो वा इन्दुः । रेत एव तद् दधाति । इन्द्रियाव इति
4 आह प्रजा वा इन्द्रियम् प्रजा एवास्मै प्र जनयति । अग्ना3 इत्य् आह । अग्निर् वै रेतोधाः पत्नीव इत्य् आह मिथुनत्वाय सजूर् देवेन त्वष्ट्रा सोमम् पिबेत्य् आह त्वष्टा वै पशूनाम् मिथुनानाꣳ रूपकृत् । रूपम् एव पशुषु दधाति देवा वै त्वष्टारम् अजिघाꣳसन् । स पत्नीः प्रापद्यत तं न प्रति प्रायच्छन् तस्माद् अपि
5 वध्यम् प्रपन्नं न प्रति प्र यच्छन्ति तस्मात् पात्नीवते त्वष्ट्रे ऽपि गृह्यते न सादयति । असन्नाद् धि प्रजाः प्रजायन्ते नानु वषट् करोति यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् । यन् नानुवषट्कुर्याद् अशान्तम् अग्नीत् सोमम् भक्षयेत् । उपाꣳश्व् अनु वषट् करोति न रुद्रम् प्रजा अन्ववसृजति शान्तम् अग्नीत् सोमम् भक्षयति । अग्नीन् नेष्टुर् उपस्थम् आ सीद ॥
6 नेष्टः पत्नीम् उदानयेत्य् आह । अग्नीद् एव नेष्टरि रेतो दधाति नेष्टा पत्नियाम् उद्गात्रा सं ख्यापयति प्रजापतिर् वा एष यद् उद्गाता प्रजानाम् प्रजननाय । अप उप प्र वर्तयति रेत एव तत् सिञ्चति । ऊरुणोप प्र वर्तयति । ऊरुणा हि रेतः सिच्यते नग्नंक्रियोरुम् उप प्र वर्तयति यदा हि नग्न ऊरुर् भवत्य् अथ मिथुनी भवतः । अथ रेतः सिच्यते । अथ प्रजाः प्र जायन्ते ॥
 
6.5.9 अनुवाक 9 हारियोजनग्रहकथनम्
1 इन्द्रो वृत्रम् अहन् तस्य शीर्षकपालम् उद् औब्जत् स द्रोणकलशो ऽभवत् तस्मात् सोमः सम् अस्रवत् स हारियोजनो ऽभवत् तं व्यचिकित्सत् । जुहवानी3 मा हौषा3म् इति सो ऽमन्यत यद् धोष्याम्य् आमꣳ होष्यामि यन् न होष्यामि यज्ञवेशसं करिष्यामीति तम् अध्रियत होतुम् । सो ऽग्निर् अब्रवीत् । न मय्य् आमꣳ होष्यसीति तं धानाभिर् अश्रीणात् ॥
2 तꣳ शृतम् भूतम् अजुहोत् यद् धानाभिर् हारियोजनꣳ श्रीणाति शृतत्वाय शृतम् एवैनम् भूतं जुहोति बह्वीभिः श्रीणाति । एतावतीर् एवास्यामुष्मिम्̐ लोके कामदुघा भवन्ति । अथो खल्व् आहुः । एता वा इन्द्रस्य पृश्नयः कामदुघा यद् धारियोजनीर् इति तस्माद् बह्वीभिः श्रीणीयात् । ऋक्सामे वा इन्द्रस्य हरी सोमपानौ तयोः परिधय आधानम् । यद् अप्रहृत्य परिधीञ् जुहुयाद् अन्तराधानाभ्याम्
3 घासम् प्र यच्छेत् प्रहृत्य परिधीञ् जुहोति निराधानाभ्याम् एव घासम् प्र यच्छति । उन्नेता जुहोति यातयामेव ह्य् एतर्ह्य् अध्वर्युः स्वगाकृतः । यद् अध्वर्युर् जुहुयाद् यथा विमुक्तम् पुनर् युनक्ति तादृग् एव तत् । शीर्षन्न् अधिनिधाय जुहोति शीर्षतो हि स समभवत् । विक्रम्य जुहोति विक्रम्य हीन्द्रो वृत्रम् अहन् । समृद्ध्यै पशवो वै हारियोजनीः । यत् सम्भिन्द्याद् अल्पाः
4 एनम् पशवो भुञ्जन्त उप तिष्ठेरन् यन् न सम्भिन्द्याद् बहव एनम् पशवो ऽभुञ्जन्त उप तिष्ठेरन् मनसा सम् बाधते । उभयं करोति बहव एवैनम् पशवो भुञ्जन्त उप तिष्ठन्ते । उन्नेतर्य् उपहवम् इच्छन्ते य एव तत्र सोमपीथस् तम् एवाव रुन्धते । उत्तरवेद्यां नि वपति पशवो वा उत्तरवेदिः पशवो हारियोजनीः पशुष्व् एव पशून् प्रति ष्ठापयन्ति ॥
 
6.5.10 अनुवाक 10 आग्रयणादीनां पुनर्ग्रह कथनम्
1 ग्रहान् वा अनु प्रजाः पशवः प्र जायन्ते । उपाꣳश्वन्तर्यामाव् अजावयः शुक्रामन्थिनौ पुरुषाः । ऋतुग्रहान् एकशफाः । आदित्यग्रहं गावः । आदित्यग्रहो भूयिष्ठाभिर् ऋग्भिर् गृह्यते तस्माद् गावः पशूनाम् भूयिष्ठाः । यत् त्रिर् उपाꣳशुꣳ हस्तेन विगृह्णाति तस्माद् द्वौ त्रीन् अजा जनयत्य् अथावयो भूयसीः पिता वा एष यद् आग्रयणः पुत्रः कलशः । यद् आग्रयण उपदस्येत् कलशाद् गृह्णीयात् । यथा पिता
2 पुत्रं क्षित उपधावति तादृग् एव तत् । यत् कलश उपदस्येद् आग्रयणाद् गृह्णीयात् । यथा पुत्रः पितरं क्षित उपधावति तादृग् एव तत् । आत्मा वा एष यज्ञस्य यद् आग्रयणः । यद् ग्रहो वा कलशो वोपदस्येद् आग्रयणाद् गृह्णीयात् । आत्मन एवाधि यज्ञं निष् करोति । अविज्ञातो वा एष गृह्यते यद् आग्रयणः । स्थाल्या गृह्णाति वायव्येन जुहोति तस्मात्
3 गर्भैणाविज्ञातेन ब्रह्महा । अवभृथम् अव यन्ति परा स्थालीर् अस्यन्त्य् उद् वायव्यानि हरन्ति तस्मात् स्त्रियं जाताम् परास्यन्त्य् उत् पुमाꣳसꣳ हरन्ति यत्पुरोरुचम् आह यथा वस्यस आहरति तादृग् एव तत् । यद् ग्रहं गृह्णाति यथा वस्यस आहृत्य प्राह तादृग् एव तत् । यत् सादयति यथा वस्यस उपनिधायापक्रामति तादृग् एव तत् । यद् वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तत् । यद् ऋचा तद् दृढम् पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्यै ॥
 
6.5.11 अनुवाक 11 सोमपात्रस्तुतिः
1 प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते ऽमुम् एव तैर् लोकम् अभि जयति पराङ् इव ह्य् असौ लोकः । यानि पुनः प्रयुज्यन्त इमम् एव तैर् लोकम् अभि जयति पुनःपुनर् इव ह्य् अयं लोकः प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्य् अन्व् ओषधयः परा भवन्ति यानि पुनः
2 प्रयुज्यन्ते तान्य् अन्व् ओषधयः पुनर् आ भवन्ति प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्य् अन्व् आरण्याः पशवो ऽरण्यम् अप यन्ति यानि पुनः प्रयुज्यन्ते तान्य् अन्व् ग्राम्याः पशवो ग्रामम् उपावयन्ति यो वै ग्रहाणां निदानं वेद निदानवान् भवति । आज्यम् इत्य् उक्थं तद् वै ग्रहाणां निदानम् । यद् उपाꣳशु शꣳसति तत्
3 उपाꣳश्वन्तर्यामयोः । यद् उच्चैस् तद् इतरेषां ग्रहाणाम् एतद् वै ग्रहाणां निदानम् । य एवं वेद निदानवान् भवति यो वै ग्रहाणाम् मिथुनं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते स्थालीभिर् अन्ये ग्रहा गृह्यन्ते वायव्यैर् अन्ये । एतद् वै ग्रहाणाम् मिथुनम् । य एवं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते । इन्द्रस् त्वष्टुः सोमम् अभीषहाऽपिबत् स विष्वङ्
4 व्य् आर्च्छत् स आत्मन्न् आरमणं नाविन्दत् स एतान् अनुसवनम् पुरोडाशान् अपश्यत् तान् निर् अवपत् तैर् वै स आत्मन्न् आरमणम् अकुरुत तस्माद् अनुसवनम् पुरोडाशा निर् उप्यन्ते तस्माद् अनुसवनम् पुरोडाशानाम् प्राश्नीयाद् आत्मन्न् एवारमणं कुरुते नैनꣳ सोमो ऽति पवते ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिर् आप्यते ऽथ किं यज्ञस्य पाङ्क्तत्वम् इति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिर् आप्यते तद् यज्ञस्य पाङ्क्तत्वम् ॥



6.5.1 अनुवाक 1 उक्थ्यग्रहकथनम्
1
    इन्द्रो वृत्राय वज्रम् उद् अयच्छत्
    स वृत्रो वज्राद् उद्यताद् अबिभेत्
    सो ऽब्रवीत् ।
    मा मे प्र हार् अस्ति वा इदम् मयि वीर्यं तत् ते प्र दास्यामीति
    तस्मा उक्थ्यम् प्रायच्छत्
    तस्मै द्वितीयम् उद् अयच्छत्
    सो ऽब्रवीत् ।
    मा मे प्र हार् अस्ति वा इदं मयि वीर्यं तत् ते प्र दास्यामीति ।

2
    तस्मा उक्थ्यम् एव प्रायच्छत्
    तस्मै तृतीयम् उद् अयच्छत्
    तं विष्णुर् अन्व् अतिष्ठत
    जहीति
    सो ऽब्रवीत् ।
    मा मे प्र हार् अस्ति वा इदम् मयि वीर्यं तत् ते प्र दास्यामीति
    तस्मा उक्थ्यम् एव प्रायच्छत्
    तं निर्मायम् भूतम् अहन्
    यज्ञो हि तस्य मायासीत् ।
    यद् उक्थ्यो गृह्यत इन्द्रियम् एव

3
    तद् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते ।
    इन्द्राय त्वा बृहद्वते वयस्वत इत्य् आह ।
    इन्द्राय हि स तम् प्रायच्छत्
    तस्मै त्वा विष्णवे त्वेत्य् आह
    यद् एव विष्णुर् अन्वतिष्ठत
    जहीति तस्माद् विष्णुम् अन्वाभजति
    त्रिर् निर् गृह्णाति
    त्रिर् हि स तं तस्मै प्रायच्छत् ।
    एष ते योनिः पुनर्हविर् असीत्य् आह
    पुनःपुनः

4
    ह्य् अस्मान् निर्गृह्णाति
    चक्षुर् वा एतद् यज्ञस्य यद् उक्थ्यस्
    तस्माद् उक्थ्यꣳ हुतꣳ सोमा अन्वायन्ति
    तस्माद् आत्मा चक्षुर् अन्व् एति
    तस्माद् एकं यन्तम् बहवो ऽनु यन्ति
    तस्माद् एको बहूनाम् भद्रो भवति
    तस्माद् एको बह्वीर् जाया विन्दते
    यदि कामयेताध्वर्युः ।
    आत्मानं यज्ञयशसेनार्पयेयम् इत्य् अन्तराहवनीयं च हविर्धानं च तिष्ठन्न् अव नयेत् ।

5
    आत्मानम् एव यज्ञयशसेनार्पयति
    यदि कामयेत
    यजमानं यज्ञयशसेनार्पयेयम् इत्य् अन्तरा सदोहविर्धाने तिष्ठन्न् अव नयेत् ।
    यजमानम् एव यज्ञयशसेनार्पयति
    यदि कामयेत
    सदस्यान् यज्ञयशसेनार्पयेयम् इति सद आलभ्याव नयेत्
    सदस्यान् एव यज्ञयशसेनार्पयति ॥

6.5.2 अनुवाक 2 ध्रुवग्रहकथनम्
1
    आयुर् वा एतद् यज्ञस्य यद् ध्रुवः ।
    उत्तमो ग्रहाणां गृह्यते तस्माद् आयुः प्राणानाम् उत्तमम्
    मूर्धानं दिवो अरतिम् पृथिव्या इत्य् आह
    मूर्धानम् एवैनꣳ समानानां करोति
    वैश्वानरम् ऋताय जातम् अग्निम् इत्य् आह
    वैश्वानरꣳ हि देवतयाऽऽयुः ।
    उभयतो वैश्वानरो गृह्यते
    तस्माद् उभयतः प्राणाः ।
    अधस्ताच् चोपरिष्टाच् च ।
   अर्धिनो ऽन्ये ग्रहा गृह्यन्ते ऽर्धी ध्रुवस्
    तस्माद्

2
    अर्ध्य् अवाङ् प्राणो ऽन्येषाम् प्राणानाम्
    उपोप्ते ऽन्ये ग्रहाः साद्यन्ते ऽनुपोप्ते ध्रुवस्
    तस्माद् अस्थ्नान्याः प्रजाः प्रतितिष्ठन्ति माꣳसेनान्याः ।
    असुरा वा उत्तरतः पृथिवीम् पर्याचिकीर्षन्
    तां देवा ध्रुवेणादृꣳहन्
    तद् ध्रुवस्य ध्रुवत्वम् ।
    यद् ध्रुव उत्तरतः साद्यते धृत्यै ।
    आयुर् वा एतद् यज्ञस्य यद् ध्रुव आत्मा होता
    यद् धोतृचमसे ध्रुवम् अवनयत्य् आत्मन्न् एव यज्ञस्य

3
    आयुर् दधाति
    पुरस्ताद् उक्थस्यावनीय इत्य् आहुः
    पुरस्ताद् ध्य् आयुषो भुङ्क्ते
    मध्यतो ऽवनीय इत्य् आहुः ।
    मध्यमेन ह्य् आयुषो भुङ्क्ते ।
    उत्तरार्धे ऽवनीय इत्य् आहुः ।
    उत्तमेन ह्य् आयुषो भुङ्क्ते
    वैश्वदेव्याम् ऋचि शस्यमानायाम् अव नयति
    वैश्वदेव्यो वै प्रजाः
    प्रजास्व् एवायुर् दधाति ॥

6.5.3 अनुवाक 3 ऋतुग्रहकथनम्
1
    यज्ञेन वै देवाः सुवर्गं लोकम् आयन्
    ते ऽमन्यन्त
    मनुष्या नो ऽन्वाभविष्यन्तीति
    ते संवत्सरेण योपयित्वा सुवर्गं लोकम् आयन्
    तम् ऋषय ऋतुग्रहैर् एवानु प्राजानन्
    यद् ऋतुग्रहा गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै
    द्वादश गृह्यन्ते
    द्वादश मासाः संवत्सरः
    संवत्सरस्य प्रज्ञात्यै
    सह प्रथमौ गृह्येते सहोत्तमौ
    तस्माद् द्वौद्वाव् ऋतू
   उभयतोमुखम् ऋतुपात्रम् भवति
   कः

2
    हि तद् वेद यत ऋतूनाम् मुखम्
    ऋतुना प्रेष्येति षट् कृत्व आह
    षड् वा ऋतवः ।
    ऋतून् एव प्रीणाति ।
    ऋतुभिर् इति चतुः ।
    चतुष्पद एव पशून् प्रीणाति
    द्विः पुनर् ऋतुनाह
    द्विपद एव प्रीणाति ।
    ऋतुना प्रेष्येति षट् कृत्व आहर्तुभिर् इति चतुस्
    तस्माच् चतुष्पादः पशव ऋतून् उप जीवन्ति
    द्विः

3
    पुनर् ऋतुनाऽऽह
    तस्माद् द्विपादश् चतुष्पदः पशून् उप जीवन्ति ।
    ऋतुना प्रेष्येति षट् कृत्व आहर्तुभिर् इति चतुर् द्विः पुनर् ऋतुनाऽऽह ।
    आक्रमणम् एव तत्
    सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै
    नान्योऽन्यम् अनु प्र पद्येत
    यद् अन्यो ऽन्यम् अनुप्रपद्येतर्तुर् ऋतुम् अनु प्र पद्येतर्तवो मोहुकाः स्युः ।

4
    प्रसिद्धम् एवाध्वर्युर् दक्षिणेन प्र पद्यते प्रसिद्धम् प्रतिप्रस्थातोत्तरेण
    तस्माद् आदित्यः षण् मासो दक्षिणेनैति षड् उत्तरेण ।
    उपयामगृहीतो ऽसि सꣳसर्पो ऽस्य् अꣳहस्पत्याय त्वेत्य् आह ।
    अस्ति त्रयोदशो मास इत्य् आहुस्
    तम् एव तत् प्रीणाति ॥

6.5.4 अनुवाक 4 ?
1
    सुवर्गाय वा एते लोकाय गृह्यन्ते यद् ऋतुग्रहाः ।
    ज्योतिर् इन्द्राग्नी
    यद् ऐन्द्राग्नम् ऋतुपात्रेण गृह्णाति ज्योतिर् एवास्मा उपरिष्टाद् दधाति
    सुवर्गस्य लोकस्यानुख्यात्यै ।
    ओजोभृतौ वा एतौ देवानां यद् इन्द्राग्नी
    यद् ऐन्द्राग्नो गृह्यत ओज एवाव रुन्द्धे
    वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति
    वैश्वदेव्यो वै प्रजाः ।
    असाव् आदित्यः शुक्रः ।
    यद् वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति तस्माद् असाव् आदित्यः

2
    सर्वाः प्रजाः प्रत्यङ्ङ् उद् एति
    तस्मात् सर्व एव मन्यते
    माम् प्रत्य् उद् अगाद् इति
    वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति
    वैश्वदेव्यो वै प्रजाः ।
    तेजः शुक्रः ।
    यद् वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति प्रजास्व् एव तेजो दधाति ॥

6.5.5 अनुवाक 5 मरुत्वतीयमाहेन्द्रग्रहकथनम्
1
    इन्द्रो मरुद्भिः सांविद्येन माध्यंदिने सवने वृत्रम् अहन्
    यन् माध्यंदिने सवने मरुत्वतीया गृह्यन्ते वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते
    तस्य वृत्रं जघ्नुष ऋतवो ऽमुह्यन्त् स ऋतुपात्रेण मरुत्वतीयान् अगृह्णात्
    ततो वै स ऋतून् प्राजानात् ।
    यद् ऋतुपात्रेण मरुत्वतीया गृह्यन्त ऋतूनाम् प्रज्ञात्यै
    वज्रं वा एतं यजमानो भ्रातृव्याय प्र हरति यन् मरुत्वतीया उद् एव प्रथमेन

2
    यच्छति प्र हरति द्वितीयेन स्तृणुते तृतीयेन ।
    आयुधं वा एतद् यजमानः सꣳस् कुरुते यन् मरुत्वतीया धनुर् एव प्रथमो ज्या द्वितीय इषुस् तृतीयः
    प्रत्य् एव प्रथमेन धत्ते वि सृजति द्वितीयेन विध्यति तृतीयेन ।
    इन्द्रो वृत्रꣳ हत्वा पराम् परावतम् अगच्छत् ।
    अपाराधम् इति मन्यमानः
    स हरितो ऽभवत्
    स एतान् मरुत्वतीयान् आत्मस्परणान् अपश्यत्
    तान् अगृह्णीत ।

3
    प्राणम् एव प्रथमेनास्पृणुतापानं द्वितीयेनाऽऽत्मानं तृतीयेनात्मस्परणा वा एते यजमानस्य गृह्यन्ते यन् मरुत्वतीयाः
    प्राणम् एव प्रथमेन स्पृणुते ऽपानं द्वितीयेनाऽऽत्मानं तृतीयेन ।
    इन्द्रो वृत्रम् अहन्
    तं देवा अब्रुवन्
    महान् वा अयम् अभूद् यो वृत्रम् अवधीद् इति
    तन् महेन्द्रस्य महेन्द्रत्वम् ।
    स एतम् महेन्द्रम् उद्धारम् उद् अहरत वृत्रꣳ हत्वान्यासु देवतास्व् अधि
    यन् महेन्द्रो गृह्यत उद्धारम् एव तं यजमान उद् धरते ऽन्यासु प्रजास्व् अधि
    शुक्रपात्रेण गृह्णाति
    यजमानदेवत्यो वै महेन्द्रस् तेजः शुक्रो यन् माहेन्द्रꣳ शुक्रपात्रेण गृह्णाति यजमान एव तेजो दधाति ॥

6.5.6 अनुवाक 6 आदित्यग्रहकथनम्
1
    अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत्
    तस्या उच्छेषणम् अददुस्
    तत् प्राश्नात्
    सा रेतो ऽधत्त
    तस्यै चत्वार आदित्या अजायन्त
    सा द्वितीयम् अपचत्
    साऽमन्यत ।
    उच्छेषणान् म इमे ऽज्ञत यद् अग्रे प्राशिष्यामीतो मे वसीयाꣳसो जनिष्यन्त इति
    साग्रे प्राश्नात्
    सा रेतो ऽधत्त
    तस्यै व्यृद्धम् आण्डम् अजायत
    साऽऽदित्येभ्य एव

2
    तृतीयम् अपचत् ।
    भोगाय म इदꣳ श्रान्तम् अस्त्व् इति
    ते ऽब्रुवन्
    वरं वृणामहै यो ऽतो जायाता अस्माकꣳ स एको ऽसद् यो ऽस्य प्रजायाम् ऋध्याता अस्माकम् भोगाय भवाद् इति
    ततो विवस्वान् आदित्यो ऽजायत
    तस्य वा इयम् प्रजा यन् मनुष्यस्
    तास्व् एक एवर्द्धो यो यजते
    स देवानाम् भोगाय भवति
    देवा वै यज्ञात्

3
    रुद्रम् अन्तर् आयन् ।
    स आदित्यान् अन्वाक्रमत
    ते द्विदेवत्यान् प्रापद्यन्त
    तान् न प्रति प्रायच्छन्
    तस्माद् अपि वध्यम् प्रपन्नं न प्रति प्र यच्छन्ति
    तस्माद् द्विदेवत्येभ्य आदित्यो निर् गृह्यते
    यद् उच्छेषणाद् अजायन्त तस्माद् उच्छेषणाद् गृह्यते
    तिसृभिर् ऋग्भिर् गृह्णाति
    माता पिता पुत्रस् तद् एव तन् मिथुनम्
    उल्बं गर्भो जरायु तद् एव तत्

4
    मिथुनम्
    पशवो वा एते यद् आदित्य ऊर्ग् दधि
    दध्ना मध्यतः श्रीणात्य् ऊर्जम् एव पशूनाम् मध्यतो दधाति
    शृतातङ्क्येन
    मेध्यत्वाय
    तस्माद् आमा पक्वं दुहे
    पशवो वा एते यद् आदित्यः
    परिश्रित्य गृह्णाति
    प्रतिरुध्यैवास्मै पशून् गृह्णाति
    पशवो वा एते यद् आदित्य एष रुद्रो यद् अग्निः
    परिश्रित्य गृह्णाति रुद्राद् एव पशून् अन्तर् दधाति ॥

5
    एष वै विवस्वान् आदित्यो यद् उपाꣳशुसवनः
    स एतम् एव सोमपीथम् परि शय आ तृतीयसवनात् ।
    विवस्व आदित्यैष ते सोमपीथ इत्य् आह
    विवस्वन्तम् एवादित्यꣳ सोमपीथेन सम् अर्धयति
    या दिव्या वृष्टिस् तया त्वा श्रीणामीति वृष्टिकामस्य श्रीणीयात् ।
    वृष्टिम् एवाव रुन्द्धे
    यदि ताजक् प्रस्कन्देद् वर्षुकः पर्जन्यः स्यात् ।
    यदि चिरम् अवर्षुकः ।
    न सादयति ।
    असन्नाद् धि प्रजाः प्रजायन्ते
    नानु वषट् करोति
    यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् ।
    न हुत्वान्व् ईक्षेत
    यद् अन्वीक्षेत चक्षुर् अस्य प्रमायुकꣳ स्यात्
    तस्मान् नान्वीक्ष्यः ॥

6.5.7 अनुवाक 7 सावित्रवैश्वदेवग्रहकथनम्
1
    अन्तर्यामपात्रेण सावित्रम् आग्रयणाद् गृह्णाति
    प्रजापतिर् वा एष यद् आग्रयणः
    प्रजानाम् प्रजननाय
    न सादयति ।
    असन्नाद् धि प्रजाः प्रजायन्ते
    नानु वषट् करोति
    यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् ।
    एष वै गायत्रो देवानां यत् सविता ।
    एष गायत्रियै लोके गृह्यते यद् आग्रयणः ।
   यद् अन्तर्यामपात्रेण सावित्रम् आग्रयणाद् गृह्णाति स्वाद् एवैनं योनेर् निर् गृह्णाति
    विश्वे

2
    देवास् तृतीयꣳ सवनं नोद् अयच्छन्
    ते सवितारम् प्रातःसवनभागꣳ सन्तं तृतीयसवनम् अभि पर्यणयन्
    ततो वै ते तृतीयꣳ सवनम् उद् अयच्छन्
    यत् तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै
    सवितृपात्रेण वैश्वदेवं कलशाद् गृह्णाति
    वैश्वदेव्यो वै प्रजा
    वैश्वदेवः कलशः
    सविता प्रसवानाम् ईशे
    यत् सवितृपात्रेण वैश्वदेवं कलशाद् गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र

3
    जनयति
    सोमे सोमम् अभि गृह्णाति
    रेत एव तद् दधाति
    सुशर्मासि सुप्रतिष्ठान इत्य् आह
    सोमे हि सोमम् अभिगृह्णाति
    प्रतिष्ठित्यै ।
    एतस्मिन् वा अपि ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते
    सुशर्मासि सुप्रतिष्ठान इत्य् आह
    मनुष्येभ्य एवैतेन करोति
    बृहद् इत्य् आह
    देवेभ्य एवैतेन करोति
    नम इत्य् आह
    पितृभ्य एवैतेन करोति ।
    एतावतीर् वै देवतास्
    ताभ्य एवैनꣳ सर्वाभ्यो गृह्णाति ।
    एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्य इत्य् आह
    वैश्वदेवो ह्य् एषः

6.5.8 अनुवाक 8 पात्नीवतग्रहकथनम्
1
    प्राणो वा एष यद् उपाꣳशुः ।
    यद् उपाꣳशुपात्रेण प्रथमश् चोत्तमश् च ग्रहौ गृह्येते प्राणम् एवानु प्रयन्ति प्राणम् अनूद्यन्ति
    प्रजापतिर् वा एष यद् आग्रयणः प्राण उपाꣳशुः पत्नीः प्रजाः प्र जनयन्ति
    यद् उपाꣳशुपात्रेण पात्नीवतम् आग्रयणाद् गृह्णाति प्रजानाम् प्रजननाय
    तस्मात् प्राणम् प्रजा अनु प्र जायन्ते
    देवा वा इतइतः पत्नीः सुवर्गम्

2
    लोकम् अजिगाꣳसन्
    ते सुवर्गं लोकं न प्राजानन्
    त एतम् पात्नीवतम् अपश्यन्
    तम् अगृह्णत
    ततो वै ते सुवर्गं लोकम् प्राजानन्
    यत् पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै
    स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस्
    तं घृतं वज्रं कृत्वाऽघ्नन्
    तं निरिन्द्रियम् भूतम् अगृह्णन्
    तस्मात् स्त्रियो निरिन्द्रिया अदायादीर् अपि पापात् पुꣳस उपस्तितरम्

3
    वदन्ति
    यद् घृतेन पात्नीवतꣳ श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति ।
    उपयामगृहीतो ऽसीत्य् आह ।
    इयं वा उपयामस्
    तस्माद् इमाम् प्रजा अनु प्र जायन्ते
    बृहस्पतिसुतस्य त इत्य् आह
    ब्रह्म वै देवानाम् बृहस्पतिः ।
    ब्रह्मणैवास्मै प्रजाः प्र जनयति ।
    इन्दो इत्य् आह
   रेतो वा इन्दुः ।
    रेत एव तद् दधाति ।
    इन्द्रियाव इति

4
    आह
    प्रजा वा इन्द्रियम्
    प्रजा एवास्मै प्र जनयति ।
    अग्ना3 इत्य् आह ।
    अग्निर् वै रेतोधाः
    पत्नीव इत्य् आह
    मिथुनत्वाय
    सजूर् देवेन त्वष्ट्रा सोमम् पिबेत्य् आह
    त्वष्टा वै पशूनाम् मिथुनानाꣳ रूपकृत् ।
    रूपम् एव पशुषु दधाति
    देवा वै त्वष्टारम् अजिघाꣳसन् ।
    स पत्नीः प्रापद्यत
    तं न प्रति प्रायच्छन्
   तस्माद् अपि

5
    वध्यम् प्रपन्नं न प्रति प्र यच्छन्ति
    तस्मात् पात्नीवते त्वष्ट्रे ऽपि गृह्यते
    न सादयति ।
    असन्नाद् धि प्रजाः प्रजायन्ते
    नानु वषट् करोति
    यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् ।
    यन् नानुवषट्कुर्याद् अशान्तम् अग्नीत् सोमम् भक्षयेत् ।
    उपाꣳश्व् अनु वषट् करोति
    न रुद्रम् प्रजा अन्ववसृजति शान्तम् अग्नीत् सोमम् भक्षयति ।
    अग्नीन् नेष्टुर् उपस्थम् आ सीद ॥

6
    नेष्टः पत्नीम् उदानयेत्य् आह ।
    अग्नीद् एव नेष्टरि रेतो दधाति नेष्टा पत्नियाम्
    उद्गात्रा सं ख्यापयति
    प्रजापतिर् वा एष यद् उद्गाता
    प्रजानाम् प्रजननाय ।
    अप उप प्र वर्तयति
    रेत एव तत् सिञ्चति ।
    ऊरुणोप प्र वर्तयति ।
    ऊरुणा हि रेतः सिच्यते
    नग्नंक्रियोरुम् उप प्र वर्तयति
    यदा हि नग्न ऊरुर् भवत्य् अथ मिथुनी भवतः ।
    अथ रेतः सिच्यते ।
    अथ प्रजाः प्र जायन्ते ॥

6.5.9 अनुवाक 9 हारियोजनग्रहकथनम्
1
    इन्द्रो वृत्रम् अहन्
    तस्य शीर्षकपालम् उद् औब्जत्
    स द्रोणकलशो ऽभवत्
    तस्मात् सोमः सम् अस्रवत्
    स हारियोजनो ऽभवत्
    तं व्यचिकित्सत् ।
    जुहवानी3 मा हौषा3म् इति
    सो ऽमन्यत
    यद् धोष्याम्य् आमꣳ होष्यामि यन् न होष्यामि यज्ञवेशसं करिष्यामीति
    तम् अध्रियत होतुम् ।
    सो ऽग्निर् अब्रवीत् ।
   न मय्य् आमꣳ होष्यसीति
   तं धानाभिर् अश्रीणात् ॥

2
    तꣳ शृतम् भूतम् अजुहोत्
    यद् धानाभिर् हारियोजनꣳ श्रीणाति शृतत्वाय
    शृतम् एवैनम् भूतं जुहोति
    बह्वीभिः श्रीणाति ।
    एतावतीर् एवास्यामुष्मिम्̐ लोके कामदुघा भवन्ति ।
    अथो खल्व् आहुः ।
    एता वा इन्द्रस्य पृश्नयः कामदुघा यद् धारियोजनीर् इति
    तस्माद् बह्वीभिः श्रीणीयात् ।
    ऋक्सामे वा इन्द्रस्य हरी सोमपानौ
    तयोः परिधय आधानम् ।
    यद् अप्रहृत्य परिधीञ् जुहुयाद् अन्तराधानाभ्याम्

3
    घासम् प्र यच्छेत्
    प्रहृत्य परिधीञ् जुहोति निराधानाभ्याम् एव घासम् प्र यच्छति ।
    उन्नेता जुहोति
    यातयामेव ह्य् एतर्ह्य् अध्वर्युः स्वगाकृतः ।
    यद् अध्वर्युर् जुहुयाद् यथा विमुक्तम् पुनर् युनक्ति तादृग् एव तत् ।
    शीर्षन्न् अधिनिधाय जुहोति
    शीर्षतो हि स समभवत् ।
    विक्रम्य जुहोति
    विक्रम्य हीन्द्रो वृत्रम् अहन् ।
    समृद्ध्यै
    पशवो वै हारियोजनीः ।
    यत् सम्भिन्द्याद् अल्पाः

4
    एनम् पशवो भुञ्जन्त उप तिष्ठेरन्
    यन् न सम्भिन्द्याद् बहव एनम् पशवो ऽभुञ्जन्त उप तिष्ठेरन्
    मनसा सम् बाधते ।
    उभयं करोति
    बहव एवैनम् पशवो भुञ्जन्त उप तिष्ठन्ते ।
    उन्नेतर्य् उपहवम् इच्छन्ते
    य एव तत्र सोमपीथस् तम् एवाव रुन्धते ।
    उत्तरवेद्यां नि वपति
    पशवो वा उत्तरवेदिः
    पशवो हारियोजनीः
    पशुष्व् एव पशून् प्रति ष्ठापयन्ति ॥

6.5.10 अनुवाक 10 आग्रयणादीनां पुनर्ग्रह कथनम्
1
    ग्रहान् वा अनु प्रजाः पशवः प्र जायन्ते ।
    उपाꣳश्वन्तर्यामाव् अजावयः
    शुक्रामन्थिनौ पुरुषाः ।
    ऋतुग्रहान् एकशफाः ।
    आदित्यग्रहं गावः ।
    आदित्यग्रहो भूयिष्ठाभिर् ऋग्भिर् गृह्यते
    तस्माद् गावः पशूनाम् भूयिष्ठाः ।
    यत् त्रिर् उपाꣳशुꣳ हस्तेन विगृह्णाति
    तस्माद् द्वौ त्रीन् अजा जनयत्य् अथावयो भूयसीः
    पिता वा एष यद् आग्रयणः पुत्रः कलशः ।
    यद् आग्रयण उपदस्येत् कलशाद् गृह्णीयात् ।
    यथा पिता

2
    पुत्रं क्षित उपधावति तादृग् एव तत् ।
    यत् कलश उपदस्येद् आग्रयणाद् गृह्णीयात् ।
    यथा पुत्रः पितरं क्षित उपधावति तादृग् एव तत् ।
    आत्मा वा एष यज्ञस्य यद् आग्रयणः ।
    यद् ग्रहो वा कलशो वोपदस्येद् आग्रयणाद् गृह्णीयात् ।
    आत्मन एवाधि यज्ञं निष् करोति ।
    अविज्ञातो वा एष गृह्यते यद् आग्रयणः ।
    स्थाल्या गृह्णाति वायव्येन जुहोति तस्मात्

3
    गर्भैणाविज्ञातेन ब्रह्महा ।
    अवभृथम् अव यन्ति
    परा स्थालीर् अस्यन्त्य् उद् वायव्यानि हरन्ति
    तस्मात् स्त्रियं जाताम् परास्यन्त्य् उत् पुमाꣳसꣳ हरन्ति
    यत्पुरोरुचम् आह यथा वस्यस आहरति तादृग् एव तत् ।
    यद् ग्रहं गृह्णाति यथा वस्यस आहृत्य प्राह तादृग् एव तत् ।
    यत् सादयति यथा वस्यस उपनिधायापक्रामति तादृग् एव तत् ।
    यद् वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तत् ।
    यद् ऋचा तद् दृढम्
    पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्यै ॥

6.5.11 अनुवाक 11 सोमपात्रस्तुतिः
1
    प्रान्यानि पात्राणि युज्यन्ते नान्यानि
    यानि पराचीनानि प्रयुज्यन्ते ऽमुम् एव तैर् लोकम् अभि जयति
    पराङ् इव ह्य् असौ लोकः ।
    यानि पुनः प्रयुज्यन्त इमम् एव तैर् लोकम् अभि जयति
    पुनःपुनर् इव ह्य् अयं लोकः
    प्रान्यानि पात्राणि युज्यन्ते नान्यानि
    यानि पराचीनानि प्रयुज्यन्ते तान्य् अन्व् ओषधयः परा भवन्ति
    यानि पुनः

2
    प्रयुज्यन्ते तान्य् अन्व् ओषधयः पुनर् आ भवन्ति
    प्रान्यानि पात्राणि युज्यन्ते नान्यानि
    यानि पराचीनानि प्रयुज्यन्ते तान्य् अन्व् आरण्याः पशवो ऽरण्यम् अप यन्ति
    यानि पुनः प्रयुज्यन्ते तान्य् अन्व् ग्राम्याः पशवो ग्रामम् उपावयन्ति
    यो वै ग्रहाणां निदानं वेद निदानवान् भवति ।
    आज्यम् इत्य् उक्थं तद् वै ग्रहाणां निदानम् ।
    यद् उपाꣳशु शꣳसति तत्

3
    उपाꣳश्वन्तर्यामयोः ।
    यद् उच्चैस् तद् इतरेषां ग्रहाणाम्
    एतद् वै ग्रहाणां निदानम् ।
    य एवं वेद निदानवान् भवति
    यो वै ग्रहाणाम् मिथुनं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते
    स्थालीभिर् अन्ये ग्रहा गृह्यन्ते वायव्यैर् अन्ये ।
    एतद् वै ग्रहाणाम् मिथुनम् ।
    य एवं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते ।
    इन्द्रस् त्वष्टुः सोमम् अभीषहाऽपिबत्
    स विष्वङ्

4
    व्य् आर्च्छत्
    स आत्मन्न् आरमणं नाविन्दत्
    स एतान् अनुसवनम् पुरोडाशान् अपश्यत्
    तान् निर् अवपत्
    तैर् वै स आत्मन्न् आरमणम् अकुरुत
    तस्माद् अनुसवनम् पुरोडाशा निर् उप्यन्ते
    तस्माद् अनुसवनम् पुरोडाशानाम् प्राश्नीयाद् आत्मन्न् एवारमणं कुरुते नैनꣳ सोमो ऽति पवते
    ब्रह्मवादिनो वदन्ति
    नर्चा न यजुषा पङ्क्तिर् आप्यते ऽथ किं यज्ञस्य पाङ्क्तत्वम् इति
    धानाः करम्भः परिवापः पुरोडाशः पयस्या
    तेन पङ्क्तिर् आप्यते
    तद् यज्ञस्य पाङ्क्तत्वम् ॥