तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ५/प्रपाठकः ७

विकिस्रोतः तः
Jump to navigation Jump to search

5.7 प्रपाठक: 7

5.7.1 अनुवाक 1 चितिस्पर्शाद्यभिधानम्
1 यो वा अयथादेवतम् अग्निं चिनुत आ देवताभ्यो वृश्च्यते पापीयान् भवति यो यथादेवतं न देवताभ्य आ वृश्च्यते वसीयान् भवति । आग्नेय्या गायत्रिया प्रथमां चितिम् अभि मृशेत् त्रिष्टुभा द्वितीयां जगत्या तृतीयाम् अनुष्टुभा चतुर्थीम् पङ्क्त्या पञ्चमीम् । यथादेवतम् एवाग्निं चिनुते न देवताभ्य आ वृश्च्यते वसीयान् भवति । इडायै वा एषा विभक्तिः पशव इडा पशुभिर् एनम्
2 चिनुते यो वै प्रजापतये प्रतिप्रोच्याग्निं चिनोति नार्तिम् आर्छति । अश्वाव् अभितस् तिष्ठेतां कृष्ण उत्तरतः श्वेतो दक्षिणस् ताव् आलभ्येष्टका उप दध्यात् । एतद् वै प्रजापते रूपम् प्राजापत्यो ऽश्वः साक्षाद् एव प्रजापतये प्रतिप्रोच्याग्निं चिनोति नार्तिम् आर्छति । एतद् वा अह्नो रूपं यच् छ्वेतो ऽश्वो रात्रियै कृष्णः । एतद् अह्नः
3 रूपं यद् इष्टका रात्रियै पुरीषम् इष्टका उपधास्यञ् छ्वेतम् अश्वम् अभि मृशेत् पुरीषम् उपधास्यन् कृष्णम् अहोरात्राभ्याम् एवैनं चिनुते हिरण्यपात्रम् मधोः पूर्णं ददाति मधव्यो ऽसानीति सौर्या चित्रवत्यावेक्षते चित्रम् एव भवति मध्यंदिने । अश्वम् अव घ्रापयति । असौ वा आदित्य इन्द्र एष प्रजापतिः प्राजापत्यो ऽश्वस् तम् एव साक्षाद् ऋध्नोति ॥

5.7.2 अनुवाक 2 ऋषभेष्टकाद्यभिधानम्
1 त्वाम् अग्ने वृषभं चेकितानम् पुनर् युवानम् जनयन्न् उपागाम् । अस्थूरि णो गार्हपत्यानि सन्तु तिग्मेन नो ब्रह्मणा सम्̇ शिशाधि ॥ पशवो वा एते यद् इष्टकाश् चित्यांचित्याम् ऋषभम् उप दधाति मिथुनम् एवास्य तद् यज्ञे करोति प्रजननाय तस्माद् यूथे-यूथ ऋषभः ।
संवत्सरस्य प्रतिमां यां त्वा रात्र्य् उपासते । प्रजाम्̇ सुवीरां कृत्वा विश्वम् आयुर् व्यश्नवत् ॥ प्राजापत्याम्
2 एताम् उप दधातीयं वावैषैकाष्टका यद् एवैकाष्टकायाम् अन्नं क्रियते तद् एवैतयाव रुन्द्धे । एषा वै प्रजापतेः कामदुघा तयैव यजमानो ऽमुष्मिम्̐ लोके ऽग्निं दुहे येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः । येनाङ्गिरसो महिमानम् आनशुस् तेनैतु यजमानः स्वस्ति ॥ सुवर्गाय वा एष लोकाय
3 चीयते यद् अग्निः । येन देवा ज्योतिषोर्ध्वा उदायन्न् इत्य् उख्यम्̇ सम् इन्द्ध इष्टका एवैता उप धत्ते वानस्पत्याः सुवर्गस्य लोकस्य समष्ट्यै शतायुधाय शतवीर्याय शतोतये ऽभिमातिषाहे । शतं यो नः शरदो अजीतान् इन्द्रो नेषद् अति दुरितानि विश्वा ॥ ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिम् अजीतिम् आवहात् तस्मै नो देवाः
4 परि दत्तेह सर्वे ॥ ग्रीष्मो हेमन्त उत नो वसन्तः शरद् वर्षाः सुवितं नो अस्तु । तेषाम् ऋतूनाम्̇ शतशारदानां निवात एषां अभये स्याम ॥ इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । तेषां वयम्̇ सुमतौ यज्ञियानां ज्योग् अजीता अहताः स्याम ॥ भद्रान् नः श्रेयः सम् अनैष्ट देवास् त्वयावसेन सम् अशीमहि त्वा । स नो मयोभूः पितो
5 आ विशस्व शं तोकाय तनुवे स्योनः ॥ अज्यानीर् एता उप दधात्य् एता वै देवता अपराजितास् ता एव प्र विशति नैव जीयते ब्रह्मवादिनो वदन्ति यद् अर्धमासा मासा ऋतवः संवत्सर ओषधीः पचन्त्य् अथ कस्माद् अन्याभ्यो देवताभ्य आग्रयणं निर् उप्यत इति । एता हि तद् देवता उदजयन् यद् ऋतुभ्यो निर्वपेद् देवताभ्यः समदं दध्यात् । आग्रयणं निरुप्यैता आहुतीर् जुहोति । अर्धमासान् एव मासान् ऋतून्त् संवत्सरम् प्रीणाति न देवताभ्यः समदम् दधाति भद्रान् नः श्रेयः सम् अनैष्ट देवा इत्य् आह हुताद्याय यजमानस्यापराभावाय ॥

5.7.3 अनुवाक 3 वज्रिणीष्टकोपधानविधिः
1 इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तनूपा नः प्रतिस्पशः । यो नः पुरस्ताद् दक्षिणतः पश्चाद् उत्तरतो ऽघायुर् अभिदासत्य् एतम्̇ सो ऽश्मानम् ऋच्छतु ॥ देवासुराः संयत्ता आसन् ते ऽसुरा दिग्भ्य आबाधन्त तान् देवा इष्वा च वज्रेण चापानुदन्त यद् वज्रिणीर् उपदधातीष्वा चैव तद् वज्रेण च यजमानो भ्रातृव्यान् अप नुदते दिक्षूप
2 दधाति देवपुरा एवैतास् तनूपानीः पर्यूहते । अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आ गतम् ॥ ब्रह्मवादिनो वदन्ति यन् न देवतायै जुह्वत्य् अथ किंदेवत्या वसोर् धारेति । अग्निर् वसुस् तस्यैषा धारा विष्णुर् वसुस् तस्यैषा धारा । ऽऽआग्नावैष्णव्यर्चा वसोर् धारां जुहोति भागधेयेनैवैनौ सम् अर्धयति । अथो एताम्
3 एवाऽऽहुतिम् आयतनवतीं करोति यत्काम एनां जुहोति तद् एवाव रुन्द्धे रुद्रो वा एष यद् अग्निस् तस्यैते तनुवौ घोराऽन्या शिवाऽन्या यच् छतरुद्रीयं जुहोति यैवास्य घोरा तनूस् तां तेन शमयति यद् वसोर् धारां जुहोति यैवास्य शिवा तनूस् तां तेन प्रीणाति यो वै वसोर् धारायै
4 प्रतिष्ठां वेद प्रत्य् एव तिष्ठति यद् आज्यम् उच्छिष्येत तस्मिन् ब्रह्मौदनम् पचेत् तम् ब्राह्मणाश् चत्वारः प्राश्नीयुः । एष वा अग्निर् वैश्वानरो यद् ब्राह्मणः । एषा खलु वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियायाम् एवैनां तनुवाम् प्रति ष्ठापयति चतस्रो धेनूर् दद्यात् ताभिर् एव यजमानो ऽमुष्मिम्̐ लोके ऽग्निं दुहे ॥

5.7.4 अनुवाक 4 होमविशेषाणां राष्ट्रभृदिष्टकानां अभिधानम्
1 चित्तिं जुहोमि मनसा घृतेन । इत्य् आह । अदाभ्या वै नामैषाऽऽहुतिर् वैश्वकर्मणी नैनं चिक्यानम् भ्रातृव्यो दभ्नोति । अथो देवता एवाव रुन्द्धे । अग्ने तम् अद्य इति पङ्क्त्या जुहोति पङ्क्त्याहुत्या यज्ञमुखम् आरभते सप्त ते अग्ने समिधः सप्त जिह्वाः इत्य् आह होत्रा एवाव रुन्द्धे । अग्निर् देवेभ्यो ऽपाक्रामद् भागधेयम्
2 इच्छमानस् तस्मा एतद् भागधेयम् प्रायच्छन् । एतद् वा अग्नेर् अग्निहोत्रम् एतर्हि खलु वा एष जातो यर्हि सर्वश् चितः । जातायैवास्मा अन्नम् अपि दधाति स एनम् प्रीतः प्रीणाति वसीयान् भवति ब्रह्मवादिनो वदन्ति यद् एष गार्हपत्यश् चीयते ऽथ क्वास्याहवनीय इति । असाव् आदित्य इति ब्रूयात् । एतस्मिन् हि सर्वाभ्यो देवताभ्यो जुह्वति ॥
3 य एवं विद्वान् अग्निं चिनुते साक्षाद् एव देवता ऋध्नोति । अग्ने यशस्विन् यशसेमम् अर्पयेन्द्रावतीम् अपचितीम् इहा वह । अयम् मूर्धा परमेष्ठी सुवर्चाः समानानाम् उत्तमश्लोको अस्तु ॥ भद्रम् पश्यन्त उप सेदुर् अग्रे तपो दीक्षाम् ऋषयः सुवर्विदः । ततः क्षत्रम् बलम् ओजश् च जातं तद् अस्मै देवा अभि सं नमन्तु ॥ धाता विधाता परमा
4 उत संदृक् प्रजापतिः परमेष्ठी विराजा । स्तोमाश् छन्दाम्̇सि निविदो म आहुर् एतस्मै राष्ट्रम् अभि सं नमाम ॥ अभ्यावर्तध्वम् उप मेत साकम् अयम्̇ शास्ताधिपतिर् वो अस्तु । अस्य विज्ञानम् अनु सम्̇ रभध्वम् इमम् पश्चाद् अनु जीवाथ सर्वे ॥ राष्ट्रभृत एता उप दधाति । एषा वा अग्नेश् चिती राष्ट्रभृत् तयैवास्मिन् राष्ट्रं दधाति राष्ट्रम् एव भवति नास्माद् राष्ट्रम् भ्रम्̇शते ॥

5.7.5 अनुवाक 5 पुनःपरीन्धनाद्यभिधानम्
1 यथा वै पुत्रो जातो म्रियत एवं वा एष म्रियते यस्याग्निर् उख्य उद्वायति यन् निर्मन्थ्यं कुर्याद् वि छिन्द्याद् भ्रातृव्यम् अस्मै जनयेत् स एव पुनः परीध्यः स्वाद् एवैनं योनेर् जनयति नास्मै भ्रातृव्यं जनयति तमो वा एतं गृह्णाति यस्याग्निर् उख्य उद्वायति मृत्युस् तमः कृष्णं वासः कृष्णा धेनुर् दक्षिणा तमसा
2 एव तमो मृत्युम् अप हते हिरण्यं ददाति ज्योतिर् वै हिरण्यम् । ज्योतिषैव तमो ऽप हते । अथो तेजो वै हिरण्यम् । तेज एवात्मन् धत्ते सुवर् न घर्मः स्वाहा सुवर् नार्कः स्वाहा सुवर् न शुक्रः स्वाहा सुवर् न ज्योतिः स्वाहा सुवर् न सूर्यः स्वाहा । अर्को वा एष यद् अग्निर् असाव् आदित्यः
3 अश्वमेधः । यद् एता आहुतीर् जुहोत्य् अर्काश्वमेधयोर् एव ज्योतीम्̇षि सं दधाति । एष ह त्वा अर्काश्वमेधी यस्यैतद् अग्नौ क्रियते । आपो वा इदम् अग्रे सलिलम् आसीत् स एताम् प्रजापतिः प्रथमां चितिम् अपश्यत् ताम् उपाधत्त तद् इयम् अभवत् तं विश्वकर्माब्रवीत् । उप त्वायानीति नेह लोको ऽस्तीति
4 अब्रवीत् । स एतां द्वितीयां चितिम् अपश्यत् ताम् उपाधत्त तद् अन्तरिक्षम् अभवत् स यज्ञः प्रजापतिम् ब्रवीत् । उप त्वायानीति नेह लोको ऽस्तीत्य् अब्रवीत् स विश्वकर्माणम् अब्रवीत् । उप त्वायानीति केन मोपैष्यसीति दिश्याभिर् इत्य् अब्रवीत् तम् दिश्याभिर् उपैत् ता उपाधत्त ता दिशः ॥
5 अभवन् । स परमेष्ठी प्रजापतिम् अब्रवीत् । उप त्वायानीति नेह लोको ऽस्तीत्य् अब्रवीत् स विश्वकर्माणं च यज्ञं चाब्रवीत् । उप वाम् आयानीति नेह लोको ऽस्तीत्य् अब्रूताम् । स एतां तृतीयां चितिम् अपश्यत् ताम् उपाधत्त तद् असाव् अभवत् स आदित्यः प्रजापतिम् अब्रवीत् । उप त्वा
6 आयानीति। नेह लोको ऽस्तीत्य् अब्रवीत् स विश्वकर्माणं च यज्ञं चाब्रवीत् । उप वाम् आयानीति नेह लोको ऽस्तीत्य् अब्रूताम् । स परमेष्ठिनम् अब्रवीत् । उप त्वायानीति केन मोपैष्यसीति लोकम्पृणयेत्य् अब्रवीत् तं लोकम्पृणयोपैत् तस्माद् अयातयाम्नी लोकम्पृणा । अयातयामा ह्य् असौ
7 आदित्यस् । तान् ऋषयो ऽब्रुवन् । उप व आयामेति केन न उपैष्यथेति भूम्नेत्य् अब्रुवन् तान् द्वाभ्यां चितीभ्याम् उपायन् । स पञ्चचितीकः सम् अपद्यत य एवं विद्वान् अग्निं चिनुते भूयान् एव भवत्य् अभीमाँल्लोकाञ् जयति विदुर् एनं देवाः । अथो एतासाम् एव देवतानाम्̇ सायुज्यं गच्छति ॥

5.7.6 अनुवाक 6 व्रतचरणाद्यभिधानम्
1 वयो वा अग्निर् यद् अग्निचित् पक्षिणो ऽश्नीयात् तम् एवाग्निम् अद्याद् आर्तिम् आर्छेत् संवत्सरं व्रतं चरेत् संवत्सरम्̇ हि व्रतं नाति पशुर् वा एष यद् अग्निः । हिनस्ति खलु वै तम् पशुर् य एनम् पुरस्तात् प्रत्यञ्चम् उपचरति तस्मात् पश्चात् प्राङ् उपचर्य आत्मनो ऽहिम्̇सायै तेजो ऽसि तेजो मे यच्छ पृथिवीं यच्छ ।
2 पृथिव्यै मा पाहि ज्योतिर् असि ज्योतिर् मे यच्छान्तरिक्षं यच्छान्तरिक्षान् मा पाहि सुवर् असि सुवर् मे यच्छ दिवं यच्छ दिवो मा पाहि । इति आहैताभिर् वा इमे लोका विधृताः । यद् एता उपदधात्य् एषां लोकानां विधृत्यै स्वयमातृण्णा उपधाय हिरण्येष्टका उप दधातीमे वै लोकाः स्वयमातृण्णा ज्योतिर् हिरण्यम् । यत् स्वयमातृण्णा उपधाय
3 हिरण्येष्टका उपदधातीमान् एवैताभिर् लोकाञ् ज्योतिष्मतः कुरुते ऽथो एताभिर् एवास्मा इमे लोकाः प्र भान्ति यास् ते अग्ने सूर्ये रुच उद्यतो दिवम् आतन्वन्ति रश्मिभिः । ताभिः सर्वाभी रुचे जनाय नस् कृधि ॥ या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥ रुचं नो धेहि
4 ब्राह्मणेषु रुचम्̇ राजसु नस् कृधि । रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥ द्वेधा वा अग्निं चिक्यानस्य यश इन्द्रियं गच्छत्य् अग्निं वा चितम् ईजानं वा यद् एता आहुतीर् जुहोति । आत्मन्न् एव यश इन्द्रियं धत्ते । ईश्वरो वा एष आर्तिम् आर्तोर् यो ऽग्निं चिन्वन्न् अधिक्रामति तत् त्वा यामि ब्रह्मणा वन्दमानः । इति वारुण्यर्चा
5 जुहुयाच् छान्तिर् एवैषाग्नेर् गुप्तिर् आत्मनः । हविष्कृतो वा एष यो ऽग्निं चिनुते यथा वै हवि स्कन्दत्य् एवं वा एष स्कन्दति यो ऽग्निं चित्वा स्त्रियम् उपैति मैत्रावरुण्यामिक्षया यजेत मैत्रावरुणताम् एवोपैत्य् आत्मनो ऽस्कन्दाय यो वा अग्निम् ऋतुस्थां वेदर्तुर्ऋतुर् अस्मै कल्पमान एति प्रत्य् एव तिष्ठति संवत्सरो वा अग्निः
6 ऋतुस्थास् तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो वर्षाः पुच्छम्̇ शरद् उत्तरः पक्षो हेमन्तो मध्यम् पूर्वपक्षाश् चितयो ऽपरपक्षाः पुरीषम् अहोरात्राणीष्टका एष वा अग्निर् ऋतुस्था य एवं वेदर्तुर्ऋतुर् अस्मै कल्पमान एति प्रत्य् एव तिष्ठति प्रजापतिर् वा एतं ज्यैष्ठ्यकामो न्य् अधत्त ततो वै स ज्यैष्ठ्यम् अगच्छत् । य एवं विद्वान् अग्निं चिनुते ज्यैष्ठ्यम् एव गच्छति ॥

5.7.7 अनुवाक 7 आकूतिमन्त्राभिधानम्
1 यद् आकूतात् समसुस्रोद्धृदो वा मनसो वा सम्भृतं चक्षुषो वा । तम् अनु प्रेहि सुकृतस्य लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥ एतम्̇ सधस्थ परि ते ददामि यम् आवहाच् छेवधिं जातवेदाः । अन्वागन्ता यज्ञपतिर् वो अत्र तम्̇ सम जानीत परमे व्योमन् ॥ जानीताद् एनम् परमे व्योमन् देवाः सधस्था विद रूपम् अस्य । यद् आगच्छात्
2 पथिभिर् देवयानैर् इष्टापूर्ते कृणुताद् आविर् अस्मै ॥ सम् प्र च्यवध्वम् अनु सम् प्र याताग्ने पथो देवयानान् कृणुध्वम् । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥ प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥ यद् इष्टम् यत् परादानं यद् दत्तं या च दक्षिणा । तत्
3 अग्निर् वैश्वकर्मणः सुवर् देवेषु नो दधत् ॥ येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥ येनाग्ने दक्षिणा युक्ता यज्ञं वहन्त्य् ऋत्विजः । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥ येनाग्ने सुकृतः पथा मधोर् धारा व्यानशुः । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥ यत्र धारा अनपेता मधोर् घृतस्य च याः । तद् अग्निर् वैश्वकर्मणः सुवर् देवेषु नो दधत् ॥

5.7.8 अनुवाक 8 स्वयंचित्याद्यभिधानम्
1 यास् ते अग्ने समिधो यानि धाम या जिह्वा जातवेदो यो अर्चिः । ये ते अग्ने मेडयो य इन्दवस् तेभिर् आत्मानं चिनुहि प्रजानन् ॥ उत्सन्नयज्ञो वा एष यद् अग्निः किं वाहैतस्य क्रियते किं वा न यद् वा अध्वर्युर् अग्नेश् चिन्वन्न् अन्तरेत्य् आत्मनो वै तद् अन्तर् एति यास् ते अग्ने समिधो यानि
2 धामेत्य् आहैषा वा अग्नेः स्वयंचितिर् अग्निर् एव तद् अग्निं चिनोति नाध्वर्युर् आत्मनो ऽन्तर् एति चतस्र आशाः प्र चरन्त्व् अग्नय इमं नो यज्ञं नयतु प्रजानन् । घृतम् पिन्वन्न् अजरम्̇ सुवीरम् ब्रह्म समिद् भवत्य् आहुतीनाम् ॥ सुवर्गाय वा एष लोकायोप धीयते यत् कूर्मश् चतस्र आशाः प्र चरन्त्व् अग्नय इत्य् आह ।
3 दिश एवैतेन प्र जानातीमं नो यज्ञं नयतु प्रजानन्न् इत्य् आह सुवर्गस्य लोकस्याभिनीत्यै ब्रह्म समिद् भवत्य् आहुतीनाम् इत्य् आह ब्रह्मणा वै देवाः सुवर्गं लोकम् आयन् यद् ब्रह्मण्वत्योपदधाति ब्रह्मणैव तद् यजमानः सुवर्गं लोकम् एति प्रजापतिर् वा एष यद् अग्निस् तस्य प्रजाः पशवश् छन्दाम्̇सि रूपम्̇ सर्वान् वर्णान् इष्टकानां कुर्याद् रूपेणैव प्रजाम् पशूञ् छन्दाम्̇स्य् अव रुन्द्धे ऽथो प्रजाभ्य एवैनम् पशुभ्यश् छन्दोभ्यो ऽवरुद्ध्य चिनुते ॥

5.7.9 अनुवाक 9 अग्निग्रहणाद्यभिधानम्
1 मयि गृह्णाम्य् अग्रे अग्निम्̇ रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजाम् मयि वर्चो दधाम्य् अरिष्टाः स्याम तनुवा सुवीराः ॥ यो नो अग्निः पितरो हृत्स्व् अन्तर् अमर्त्यो मर्त्याम्̇ आविवेश । तम् आत्मन् परि गृह्णीमहे वयम् मा सो अस्माम्̇ अवहाय परा गात् ॥ यद् अध्वर्युर् आत्मन्न् अग्निम् अगृहीत्वाग्निं चिनुयाद् यो ऽस्य स्वो ऽग्निस् तम् अपि
2 यजमानाय चिनुयाद् अग्निं खलु वै पशवोऽनूप तिष्ठन्ते ऽपक्रामुका अस्मात् पशवः स्युर् मयि गृह्णाम्य् अग्रे अग्निम् इत्य् आहात्मन्न् एव स्वम् अग्निं दाधार नास्मात् पशवो ऽप क्रामन्ति ब्रह्मवादिनो वदन्ति यन् मृच् चापश् चाग्नेर् अनाद्यम् अथ कस्मान् मृदा चाद्भिश् चाग्निश् चीयत इति यद् अद्भिः संयौति ॥
3 आपो वै सर्वा देवता देवताभिर् एवैनम्̇ सम्̇ सृजति यन् मृदा चिनोतीयं वा अग्निर् वैश्वानरो ऽग्निनैव तद् अग्निं चिनोति ब्रह्मवादिनो वदन्ति यन् मृदा चाद्भिश् चाग्निश् चीयतेथ कस्माद् अग्निर् उच्यत इति यच् छन्दोभिश् चिनोत्य् अग्नयो वै छन्दाम्̇सि तस्माद् अग्निर् उच्यते ऽथो इयं वा अग्निर् वैश्वानरो यत्
4 मृदा चिनोति तस्माद् अग्निर् उच्यते हिरण्येष्टका उप दधाति ज्योतिर् वै हिरण्यं ज्योतिर् एवास्मिन् दधात्य् अथो तेजो वै हिरण्यं तेज एवात्मन् धत्ते यो वा अग्निम्̇ सर्वतोमुखं चिनुते सर्वासु प्रजास्व् अन्नम् अत्ति सर्वा दिशो ऽभि जयति गायत्रीम् पुरस्ताद् उप दधाति त्रिष्टुभं दक्षिणतो जगतीम् पश्चाद् अनुष्टुभम् उत्तरतः पङ्क्तिम् मध्य एष वा अग्निः सर्वतोमुखस् तं य एवं विद्वाम्̇श् चिनुते सर्वासु प्रजास्व् अन्नम् अत्ति सर्वा दिशो ऽभि जयत्य् अथो दिश्य् एव दिशम् प्र वयति तस्माद् दिशि दिक् प्रोता ॥
 
5.7.10 अनुवाक 10 पशुशीर्षाभिधानम्
1 प्रजापतिर् अग्निम् असृजत सो ऽस्मात् सृष्टः प्राङ् प्राद्रवत् तस्मा अश्वम् प्रत्य् आस्यत् स दक्षिणाऽवर्तत तस्मै वृष्णिम् प्रत्य् आस्यत् स प्रत्यङ्ङ् आवर्तत तस्मा ऋषभम् प्रत्य् आस्यत् स उदङ्ङ् आवर्तत तस्मै बस्तम् प्रत्य् आस्यत् स ऊर्ध्वो ऽद्रवत् तस्मै पुरुषम् प्रत्य् आस्यत् । यत् पशुशीर्षाण्य् उपदधाति सर्वत एवैनम्
2 अवरुध्य चिनुते । एता वै प्राणभृतश् चक्षुष्मतीर् इष्टका यत् पशुशीर्षाणि यत् पशुशीर्षाण्य् उपदधाति ताभिर् एव यजमानो ऽमुष्मिम्̐ लोके प्राणित्य् अथो ताभिर् एवास्मा इमे लोकाः प्र भान्ति मृदाभिलिप्योप दधाति मेध्यत्वाय पशुर् वा एष यद् अग्निर् अन्नम् पशवः । एष खलु वा अग्निर् यत् पशुशीर्षाणि यं कामयेत कनीयो ऽस्यान्नम्
3 स्याद् इतिसंतरां तस्य पशुशीर्षाण्य् उप दध्यात् कनीय एवास्यान्नम् भवति यं कामयेत समावद् अस्यान्नम्̇ स्याद् इति मध्यतस् तस्योप दध्यात् समावद् एवास्यान्नम् भवति
यं कामयेत भूयो ऽस्यान्नम्̇ स्याद् इत्य् अन्तेषु तस्य व्युदूह्योप दध्याद् अन्तत एवास्मा अन्नम् अव रुन्द्धे भूयो ऽस्यान्नम् भवति ॥

5.7.11 अनुवाक 11 अश्वमेधाङ्गमन्त्राभिधानम्
1 स्तेगान् दम्̇ष्ट्राभ्याम् मण्डूकाञ् जम्भ्येभिः । आदकां खादेन । ऊर्जम्̇ सम्̇सूदेन । अरण्यं जाम्बीलेन मृदम् बर्स्वेभिः शर्कराभिर् अवकाम् अवकाभिः शर्कराम् उत्सादेन जिह्वाम् अवक्रन्देन तालुम् । सरस्वतीं जिह्वाग्रेण ॥

5.7.12 अनुवाक 12 पूर्वोक्तद्वितीयानुवाकगतमन्त्राभिधानम्
1 वाजम्̇ हनूभ्याम् अप आस्येन । आदित्याञ्̇ छ्मश्रुभिः । उपयामम् अधरेणोष्ठेन सद् उत्तरेण । अन्तरेणानूकाशम् प्रकाशेन बाह्यम् । स्तनयित्नुं निर्बाधेन सूर्याग्नी चक्षुर्भ्याम् । विद्युतौ कनानकाभ्याम् अशनिम् मस्तिष्केण बलम् मज्जभिः ॥

5.7.13 अनुवाक 13 पूर्वोक्ततृतीयानुवाकगतमन्त्राभिधानम्
1 कूर्माञ् छफैः । अच्छलाभिः कपिञ्जलान् । साम कुष्ठिकाभिः । जवं जङ्घाभिः । अगदं जानुभ्याम् । वीर्यं कुहाभ्याम् भयम् प्रचालाभ्याम् । गुहोपपक्षाभ्याम् अश्विनाव् अम्̇साभ्याम् अदितिम्̇ शीर्ष्णा निर्ऋतिं निर्जाल्मकेन शीर्ष्णा ॥

5.7.14 अनुवाक 14 पूर्वोक्तचतुर्थानुवाकगतमन्त्राभिधानम्
1 योक्त्रं गृध्राभिः । युगम् आनतेन चित्तम् मन्याभिः संक्रोशान् प्राणैः प्रकाशेन त्वचम् पराकाशेनान्तराम् मशकान् केशैः । इन्द्रम्̇ स्वपसा वहेन बृहस्पतिम्̇ शकुनिसादेन रथम् उष्णिहाभिः ॥

5.7.15 अनुवाक 15 पूर्वोक्तपञ्चमानुवाकगतमन्त्राभिधानम्
1 मित्रावरुणौ श्रोणीभ्याम् इन्द्राग्नी शिखण्डाभ्याम् इन्द्राबृहस्पती ऊरुभ्याम् इन्द्राविष्णू अष्ठीवद्भ्याम् । सवितारम् पुच्छेन गन्धर्वाञ् छेपेन । अप्सरसो मुष्काभ्याम् पवमानम् पायुना पवित्रम् पोत्राभ्याम् आक्रमणम्̇ स्थूराभ्याम् प्रतिक्रमणं कुष्ठाभ्याम् ॥

5.7.16 अनुवाक 16 पूर्वोक्तषष्ठानुवाकगतमन्त्राभिधानम्
1 इन्द्रस्य क्रोडः । अदित्यै पाजस्यम् । दिशां जत्रवः । जीमूतान् हृदयौपशाभ्याम् अन्तरिक्षम् पुरितता नभ उदर्येण । इन्द्राणीम् प्लीह्ना वल्मीकान् क्लोम्ना गिरीन् प्लाशिभिः समुद्रम् उदरेण वैश्वानरम् भस्मना ॥

5.7.17 अनुवाक 17 पूर्वोक्तसप्तमानुवाकगतमन्त्राभिधानम्
1 पूष्णो वनिष्ठुः । अन्धाहे स्थूरगुदा सर्पान् गुदाभिः । ऋतून् पृष्टीभिः । दिवम् पृष्ठेन वसूनाम् प्रथमा कीकसा रुद्राणां द्वितीया । आदित्यानां तृतीया । अङ्गिरसां चतुर्थी साध्यानाम् पञ्चमी विश्वेषां देवानाम्̇ षष्ठी ॥

5.7.18 अनुवाक 18 पूर्वोक्तअष्टमानुवाकगतमन्त्राभिधानम्
1 ओजो ग्रीवाभिः । निर्ऋतिम् अस्थभिः । इन्द्रम्̇ स्वपसा वहेन रुद्रस्य विचलः स्कन्धः । अहोरात्रयोर् द्वितीयः । अर्धमासानां तृतीयः । मासां चतुर्थः । ऋतूनाम् पञ्चमः संवत्सरस्य षष्ठः ॥

5.7.19 अनुवाक 19 पूर्वोक्तनवमानुवाकगतमन्त्राभिधानम्
1 आनन्दं नन्दथुना कामम् प्रत्यासाभ्याम् भयम्̇ शितीमभ्याम् प्रशिषम् प्रशासाभ्याम् । सूर्याचन्द्रमसौ वृक्याभ्याम् । श्यामशबलौ मतस्नाभ्याम् । व्युष्टिम्̇ रूपेण निम्रुक्तिम् अरूपेण ॥
 
5.7.20 अनुवाक 20 पूर्वोक्तदशमानुवाकगतमन्त्राभिधानम्
1 अहर् माम्̇सेन रात्रिम् पीवसा । अपो यूषेण घृतम्̇ रसेन् श्यां वसया दूषीकाभिर् ह्रादुनिम् अश्रुभिः पृष्वाम् । दिवम्̇ रूपेण नक्षत्राणि प्रतिरूपेण पृथिवीं चर्मणा छवीं छव्या । उपाकृताय स्वाहा । आलब्धाय स्वाहा हुताय स्वाहा ॥

5.7.21 अनुवाक 21 पूर्वोक्तैकादशानुवाकगतमन्त्राभिधानम्
1 अग्नेः पक्षतिः सरस्वत्यै निपक्षतिः सोमस्य तृतीया । अपां चतुर्थी । ओषधीनाम् पञ्चमी संवत्सरस्य षष्ठी मरुताम्̇ सप्तमी बृहस्पतेर् अष्टमी मित्रस्य नवमी वरुणस्य दशमी । इन्द्रस्यैकादशी विश्वेषां देवानां द्वादशी द्यावापृथिव्योः पार्श्वम् । यमस्य पाटूरः ॥

5.7.22 अनुवाक 22 पूर्वोक्तद्वादशानुवाकगतमन्त्राभिधानम्
1 वायोः पक्षतिः सरस्वतो निपक्षतिः । चन्द्रमसस् तृतीया नक्षत्राणां चतुर्थी सवितुः पञ्चमी रुद्रस्य षष्ठी सर्पाणाम्̇ सप्तमी । अर्यम्णो ऽष्टमी त्वष्टुर् नवमी धातुर् दशमी । इन्द्राण्या एकादशी । अदित्यै द्वादशी द्यावापृथिव्योः पार्श्वम् । यम्यै पाटूरः ॥

5.7.23 अनुवाक 23 पूर्वोक्तत्रयोदशानुवाकगतमन्त्राभिधानम्
1 पन्थाम् अनूवृग्भ्याम् । संततिम्̇ स्नावन्याभ्याम् । शुकान् पित्तेन हरिमाणं यक्ना हलीक्ष्णान् पापवातेन कूश्माञ् छकभिः शवर्तान् ऊवध्येन शुनो विशसनेन सर्पाम्̐ लोहितगन्धेन वयाम्̇सि पक्वगन्धेन पिपीलिकाः प्रशादेन ॥

5.7.24 अनुवाक 24 पूर्वोक्तचतु्र्दशानुवाकगतमन्त्राभिधानम्
1 क्रमैर् अत्य् अक्रमीद् वाजी विश्वैर् देवैर् यज्ञियैः संविदानः स नो नय सुकृतस्य लोकं तस्य ते वयम्̇ स्वधया मदेम ॥

5.7.25 अनुवाक 25 अश्वमेधब्राह्मणोक्त द्यौस्त इति मन्त्राभिधानम्
1 द्यौस् ते पृष्ठम् पृथिवी सधस्थम् आत्मान्तरिक्षम् । समुद्रो योनिः सूर्यस् ते चक्षुः । वातः प्राणः । चन्द्रमाः श्रोत्रम् मासाश् चार्धमाषाश् च पर्वाणि । ऋतवोङ्गानि संवत्सरो महिमा ॥
 
5.7.26 अनुवाक 26 अश्वमेधब्राह्मणोक्त अग्निः पशुरिति मन्त्राभिधानम्
1 अग्निः पशुर् आसीत् तेनायजन्त स एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोकस् तं जेष्यसि । अथाव जिघ्र वायुः पशुर् आसीत् तेनायजन्त स एतं लोकम् अजयद् यस्मिन् वायुः स ते लोकस् तस्मात् त्वान्तर् एष्यामि यदि नावजिघ्रसि । आदित्यः पशुर् आसीत् तेनायजन्त स एतं लोकम् अजयद् यस्मिन्न् आदित्यः स ते लोकस् तं जेष्यसि यद्य् अवजिघ्रसि ॥  


5.7.1 अनुवाक 1
 चितिस्पर्शाद्यभिधानम्
1
    यो वा अयथादेवतम् अग्निं चिनुत आ देवताभ्यो वृश्च्यते पापीयान् भवति
    यो यथादेवतं न देवताभ्य आ वृश्च्यते वसीयान् भवति ।
    आग्नेय्या गायत्रिया प्रथमां चितिम् अभि मृशेत् त्रिष्टुभा द्वितीयां जगत्या तृतीयाम् अनुष्टुभा चतुर्थीम् पङ्क्त्या पञ्चमीम् ।
    यथादेवतम् एवाग्निं चिनुते न देवताभ्य आ वृश्च्यते वसीयान् भवति ।
    इडायै वा एषा विभक्तिः
    पशव इडा
    पशुभिर् एनम्

2
    चिनुते
    यो वै प्रजापतये प्रतिप्रोच्याग्निं चिनोति नार्तिम् आर्छति ।
    अश्वाव् अभितस् तिष्ठेतां कृष्ण उत्तरतः श्वेतो दक्षिणस्
    ताव् आलभ्येष्टका उप दध्यात् ।
    एतद् वै प्रजापते रूपम्
    प्राजापत्यो ऽश्वः
    साक्षाद् एव प्रजापतये प्रतिप्रोच्याग्निं चिनोति नार्तिम् आर्छति ।
    एतद् वा अह्नो रूपं यच् छ्वेतो ऽश्वो रात्रियै कृष्णः ।
    एतद् अह्नः

3
    रूपं यद् इष्टका रात्रियै पुरीषम्
    इष्टका उपधास्यञ् छ्वेतम् अश्वम् अभि मृशेत् पुरीषम् उपधास्यन् कृष्णम्
    अहोरात्राभ्याम् एवैनं चिनुते
    हिरण्यपात्रम् मधोः पूर्णं ददाति
    मधव्यो ऽसानीति
    सौर्या चित्रवत्यावेक्षते
    चित्रम् एव भवति मध्यंदिने ।
    अश्वम् अव घ्रापयति ।
    असौ वा आदित्य इन्द्र एष प्रजापतिः
   प्राजापत्यो ऽश्वस्
   तम् एव साक्षाद् ऋध्नोति ॥

5.7.2 अनुवाक 2
 ऋषभेष्टकाद्यभिधानम्
1
त्वाम् अग्ने वृषभं चेकितानम् पुनर् युवानम् जनयन्न् उपागाम् । अस्थूरि णो गार्हपत्यानि सन्तु तिग्मेन नो ब्रह्मणा सम्̇ शिशाधि ॥
    पशवो वा एते यद् इष्टकाश् चित्यांचित्याम् ऋषभम् उप दधाति मिथुनम् एवास्य तद् यज्ञे करोति प्रजननाय तस्माद् यूथे-यूथ ऋषभः ।
संवत्सरस्य प्रतिमां यां त्वा रात्र्य् उपासते । प्रजाम्̇ सुवीरां कृत्वा विश्वम् आयुर् व्यश्नवत् ॥
    प्राजापत्याम्

2
    एताम् उप दधातीयं वावैषैकाष्टका यद् एवैकाष्टकायाम् अन्नं क्रियते तद् एवैतयाव रुन्द्धे ।
    एषा वै प्रजापतेः कामदुघा तयैव यजमानो ऽमुष्मिम्̐ लोके ऽग्निं दुहे
येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः । येनाङ्गिरसो महिमानम् आनशुस् तेनैतु यजमानः स्वस्ति ॥
    सुवर्गाय वा एष लोकाय

3
    चीयते यद् अग्निः ।
    येन देवा ज्योतिषोर्ध्वा उदायन्न् इत्य् उख्यम्̇ सम् इन्द्ध इष्टका एवैता उप धत्ते वानस्पत्याः सुवर्गस्य लोकस्य समष्ट्यै
शतायुधाय शतवीर्याय शतोतये ऽभिमातिषाहे । शतं यो नः शरदो अजीतान् इन्द्रो नेषद् अति दुरितानि विश्वा ॥
ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिम् अजीतिम् आवहात् तस्मै नो देवाः

4
    परि दत्तेह सर्वे ॥
ग्रीष्मो हेमन्त उत नो वसन्तः शरद् वर्षाः सुवितं नो अस्तु । तेषाम् ऋतूनाम्̇ शतशारदानां निवात एषां अभये स्याम ॥
इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । तेषां वयम्̇ सुमतौ यज्ञियानां ज्योग् अजीता अहताः स्याम ॥
भद्रान् नः श्रेयः सम् अनैष्ट देवास् त्वयावसेन सम् अशीमहि त्वा । स नो मयोभूः पितो

5
    आ विशस्व शं तोकाय तनुवे स्योनः ॥
    अज्यानीर् एता उप दधात्य् एता वै देवता अपराजितास् ता एव प्र विशति नैव जीयते
    ब्रह्मवादिनो वदन्ति
    यद् अर्धमासा मासा ऋतवः संवत्सर ओषधीः पचन्त्य् अथ कस्माद् अन्याभ्यो देवताभ्य आग्रयणं निर् उप्यत इति ।
    एता हि तद् देवता उदजयन् यद् ऋतुभ्यो निर्वपेद् देवताभ्यः समदं दध्यात् ।
    आग्रयणं निरुप्यैता आहुतीर् जुहोति ।
    अर्धमासान् एव मासान् ऋतून्त् संवत्सरम् प्रीणाति न देवताभ्यः समदम् दधाति
    भद्रान् नः श्रेयः सम् अनैष्ट देवा इत्य् आह हुताद्याय यजमानस्यापराभावाय ॥

5.7.3 अनुवाक 3
वज्रिणीष्टकोपधानविधिः
1
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तनूपा नः प्रतिस्पशः । यो नः पुरस्ताद् दक्षिणतः पश्चाद् उत्तरतो ऽघायुर् अभिदासत्य् एतम्̇ सो ऽश्मानम् ऋच्छतु ॥
    देवासुराः संयत्ता आसन्
    ते ऽसुरा दिग्भ्य आबाधन्त
    तान् देवा इष्वा च वज्रेण चापानुदन्त
    यद् वज्रिणीर् उपदधातीष्वा चैव तद् वज्रेण च यजमानो भ्रातृव्यान् अप नुदते
    दिक्षूप

2
    दधाति
    देवपुरा एवैतास् तनूपानीः पर्यूहते ।
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आ गतम् ॥
    ब्रह्मवादिनो वदन्ति
    यन् न देवतायै जुह्वत्य् अथ किंदेवत्या वसोर् धारेति ।
    अग्निर् वसुस् तस्यैषा धारा
    विष्णुर् वसुस् तस्यैषा धारा ।
    ऽऽआग्नावैष्णव्यर्चा वसोर् धारां जुहोति
    भागधेयेनैवैनौ सम् अर्धयति ।
    अथो एताम्

3
    एवाऽऽहुतिम् आयतनवतीं करोति
    यत्काम एनां जुहोति तद् एवाव रुन्द्धे
    रुद्रो वा एष यद् अग्निस्
    तस्यैते तनुवौ घोराऽन्या शिवाऽन्या
    यच् छतरुद्रीयं जुहोति यैवास्य घोरा तनूस् तां तेन शमयति
    यद् वसोर् धारां जुहोति यैवास्य शिवा तनूस् तां तेन प्रीणाति
    यो वै वसोर् धारायै

4
    प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
    यद् आज्यम् उच्छिष्येत तस्मिन् ब्रह्मौदनम् पचेत्
    तम् ब्राह्मणाश् चत्वारः प्राश्नीयुः ।
    एष वा अग्निर् वैश्वानरो यद् ब्राह्मणः ।
    एषा खलु वा अग्नेः प्रिया तनूर् यद् वैश्वानरः
    प्रियायाम् एवैनां तनुवाम् प्रति ष्ठापयति
    चतस्रो धेनूर् दद्यात्
    ताभिर् एव यजमानो ऽमुष्मिम्̐ लोके ऽग्निं दुहे ॥

5.7.4 अनुवाक 4
होमविशेषाणां राष्ट्रभृदिष्टकानां अभिधानम्
1
चित्तिं जुहोमि मनसा घृतेन ।
    इत्य् आह ।
    अदाभ्या वै नामैषाऽऽहुतिर् वैश्वकर्मणी
    नैनं चिक्यानम् भ्रातृव्यो दभ्नोति ।
    अथो देवता एवाव रुन्द्धे ।
अग्ने तम् अद्य इति पङ्क्त्या जुहोति
    पङ्क्त्याहुत्या यज्ञमुखम् आरभते
सप्त ते अग्ने समिधः सप्त जिह्वाः इत्य् आह
   होत्रा एवाव रुन्द्धे ।
   अग्निर् देवेभ्यो ऽपाक्रामद् भागधेयम्

2
    इच्छमानस्
    तस्मा एतद् भागधेयम् प्रायच्छन् ।
    एतद् वा अग्नेर् अग्निहोत्रम्
    एतर्हि खलु वा एष जातो यर्हि सर्वश् चितः ।
    जातायैवास्मा अन्नम् अपि दधाति
    स एनम् प्रीतः प्रीणाति
    वसीयान् भवति
ब्रह्मवादिनो वदन्ति यद् एष गार्हपत्यश् चीयते ऽथ क्वास्याहवनीय इति ।
    असाव् आदित्य इति ब्रूयात् ।
   एतस्मिन् हि सर्वाभ्यो देवताभ्यो जुह्वति ॥

3
    य एवं विद्वान् अग्निं चिनुते साक्षाद् एव देवता ऋध्नोति ।
अग्ने यशस्विन् यशसेमम् अर्पयेन्द्रावतीम् अपचितीम् इहा वह । अयम् मूर्धा परमेष्ठी सुवर्चाः समानानाम् उत्तमश्लोको अस्तु ॥
    भद्रम् पश्यन्त उप सेदुर् अग्रे तपो दीक्षाम् ऋषयः सुवर्विदः । ततः क्षत्रम् बलम् ओजश् च जातं तद् अस्मै देवा अभि सं नमन्तु ॥
    धाता विधाता परमा

4
    उत संदृक् प्रजापतिः परमेष्ठी विराजा । स्तोमाश् छन्दाम्̇सि निविदो म आहुर् एतस्मै राष्ट्रम् अभि सं नमाम ॥
    अभ्यावर्तध्वम् उप मेत साकम् अयम्̇ शास्ताधिपतिर् वो अस्तु । अस्य विज्ञानम् अनु सम्̇ रभध्वम् इमम् पश्चाद् अनु जीवाथ सर्वे ॥
    राष्ट्रभृत एता उप दधाति ।
    एषा वा अग्नेश् चिती राष्ट्रभृत्
    तयैवास्मिन् राष्ट्रं दधाति
    राष्ट्रम् एव भवति
    नास्माद् राष्ट्रम् भ्रम्̇शते ॥

5.7.5 अनुवाक 5
पुनःपरीन्धनाद्यभिधानम्
1
यथा वै पुत्रो जातो म्रियत एवं वा एष म्रियते यस्याग्निर् उख्य उद्वायति
    यन् निर्मन्थ्यं कुर्याद् वि छिन्द्याद् भ्रातृव्यम् अस्मै जनयेत्
    स एव पुनः परीध्यः
    स्वाद् एवैनं योनेर् जनयति
    नास्मै भ्रातृव्यं जनयति
    तमो वा एतं गृह्णाति यस्याग्निर् उख्य उद्वायति
    मृत्युस् तमः
    कृष्णं वासः कृष्णा धेनुर् दक्षिणा
    तमसा

2
    एव तमो मृत्युम् अप हते
    हिरण्यं ददाति
    ज्योतिर् वै हिरण्यम् ।
    ज्योतिषैव तमो ऽप हते ।
    अथो तेजो वै हिरण्यम् ।
    तेज एवात्मन् धत्ते
सुवर् न घर्मः स्वाहा
सुवर् नार्कः स्वाहा
सुवर् न शुक्रः स्वाहा
सुवर् न ज्योतिः स्वाहा
सुवर् न सूर्यः स्वाहा ।
    अर्को वा एष यद् अग्निर् असाव् आदित्यः

3
    अश्वमेधः ।
    यद् एता आहुतीर् जुहोत्य् अर्काश्वमेधयोर् एव ज्योतीम्̇षि सं दधाति ।
    एष ह त्वा अर्काश्वमेधी यस्यैतद् अग्नौ क्रियते ।
आपो वा इदम् अग्रे सलिलम् आसीत्
    स एताम् प्रजापतिः प्रथमां चितिम् अपश्यत् ताम् उपाधत्त तद् इयम् अभवत्
    तं विश्वकर्माब्रवीत् ।
    उप त्वायानीति
    नेह लोको ऽस्तीति

4
    अब्रवीत् ।
    स एतां द्वितीयां चितिम् अपश्यत् ताम् उपाधत्त तद् अन्तरिक्षम् अभवत्
    स यज्ञः प्रजापतिम् ब्रवीत् ।
    उप त्वायानीति
    नेह लोको ऽस्तीत्य् अब्रवीत्
    स विश्वकर्माणम् अब्रवीत् ।
    उप त्वायानीति
    केन मोपैष्यसीति
    दिश्याभिर् इत्य् अब्रवीत्
   तम् दिश्याभिर् उपैत्
   ता उपाधत्त
    ता दिशः ॥

5
    अभवन् ।
    स परमेष्ठी प्रजापतिम् अब्रवीत् ।
    उप त्वायानीति
    नेह लोको ऽस्तीत्य् अब्रवीत्
    स विश्वकर्माणं च यज्ञं चाब्रवीत् ।
    उप वाम् आयानीति
    नेह लोको ऽस्तीत्य् अब्रूताम् ।
    स एतां तृतीयां चितिम् अपश्यत्
    ताम् उपाधत्त
   तद् असाव् अभवत्
   स आदित्यः प्रजापतिम् अब्रवीत् ।
  उप त्वा

6
    आयानीति।
    नेह लोको ऽस्तीत्य् अब्रवीत्
    स विश्वकर्माणं च यज्ञं चाब्रवीत् ।
    उप वाम् आयानीति
    नेह लोको ऽस्तीत्य् अब्रूताम् ।
    स परमेष्ठिनम् अब्रवीत् ।
    उप त्वायानीति
    केन मोपैष्यसीति
    लोकम्पृणयेत्य् अब्रवीत्
    तं लोकम्पृणयोपैत्
    तस्माद् अयातयाम्नी लोकम्पृणा ।
    अयातयामा ह्य् असौ

7
     आदित्यस् ।
    तान् ऋषयो ऽब्रुवन् ।
    उप व आयामेति
    केन न उपैष्यथेति
    भूम्नेत्य् अब्रुवन्
    तान् द्वाभ्यां चितीभ्याम् उपायन् ।
    स पञ्चचितीकः सम् अपद्यत
    य एवं विद्वान् अग्निं चिनुते भूयान् एव भवत्य् अभीमाँल्लोकाञ् जयति विदुर् एनं देवाः ।
    अथो एतासाम् एव देवतानाम्̇ सायुज्यं गच्छति ॥

5.7.6 अनुवाक 6
 व्रतचरणाद्यभिधानम्
1
वयो वा अग्निर् यद् अग्निचित् पक्षिणो ऽश्नीयात् तम् एवाग्निम् अद्याद् आर्तिम् आर्छेत्
    संवत्सरं व्रतं चरेत्
    संवत्सरम्̇ हि व्रतं नाति
पशुर् वा एष यद् अग्निः ।
    हिनस्ति खलु वै तम् पशुर् य एनम् पुरस्तात् प्रत्यञ्चम् उपचरति
    तस्मात् पश्चात् प्राङ् उपचर्य आत्मनो ऽहिम्̇सायै
तेजो ऽसि तेजो मे यच्छ पृथिवीं यच्छ ।

2
    पृथिव्यै मा पाहि ज्योतिर् असि ज्योतिर् मे यच्छान्तरिक्षं यच्छान्तरिक्षान् मा पाहि सुवर् असि सुवर् मे यच्छ दिवं यच्छ दिवो मा पाहि ।
    इति आहैताभिर् वा इमे लोका विधृताः ।
    यद् एता उपदधात्य् एषां लोकानां विधृत्यै
    स्वयमातृण्णा उपधाय हिरण्येष्टका उप दधातीमे वै लोकाः स्वयमातृण्णा ज्योतिर् हिरण्यम् ।
    यत् स्वयमातृण्णा उपधाय

3
    हिरण्येष्टका उपदधातीमान् एवैताभिर् लोकाञ् ज्योतिष्मतः कुरुते ऽथो एताभिर् एवास्मा इमे लोकाः प्र भान्ति
यास् ते अग्ने सूर्ये रुच उद्यतो दिवम् आतन्वन्ति रश्मिभिः । ताभिः सर्वाभी रुचे जनाय नस् कृधि ॥
    या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥
    रुचं नो धेहि

4
    ब्राह्मणेषु रुचम्̇ राजसु नस् कृधि । रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥
    द्वेधा वा अग्निं चिक्यानस्य यश इन्द्रियं गच्छत्य् अग्निं वा चितम् ईजानं वा
    यद् एता आहुतीर् जुहोति ।
    आत्मन्न् एव यश इन्द्रियं धत्ते ।
ईश्वरो वा एष आर्तिम् आर्तोर् यो ऽग्निं चिन्वन्न् अधिक्रामति
    तत् त्वा यामि ब्रह्मणा वन्दमानः ।
    इति वारुण्यर्चा

5
    जुहुयाच् छान्तिर् एवैषाग्नेर् गुप्तिर् आत्मनः ।
हविष्कृतो वा एष यो ऽग्निं चिनुते
    यथा वै हवि स्कन्दत्य् एवं वा एष स्कन्दति यो ऽग्निं चित्वा स्त्रियम् उपैति मैत्रावरुण्यामिक्षया यजेत मैत्रावरुणताम् एवोपैत्य् आत्मनो ऽस्कन्दाय
यो वा अग्निम् ऋतुस्थां वेदर्तुर्ऋतुर् अस्मै कल्पमान एति प्रत्य् एव तिष्ठति
    संवत्सरो वा अग्निः

6
    ऋतुस्थास् तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो वर्षाः पुच्छम्̇ शरद् उत्तरः पक्षो हेमन्तो मध्यम् पूर्वपक्षाश् चितयो ऽपरपक्षाः पुरीषम् अहोरात्राणीष्टका एष वा अग्निर् ऋतुस्था य एवं वेदर्तुर्ऋतुर् अस्मै कल्पमान एति प्रत्य् एव तिष्ठति
प्रजापतिर् वा एतं ज्यैष्ठ्यकामो न्य् अधत्त
    ततो वै स ज्यैष्ठ्यम् अगच्छत् ।
    य एवं विद्वान् अग्निं चिनुते ज्यैष्ठ्यम् एव गच्छति ॥

5.7.7 अनुवाक 7
आकूतिमन्त्राभिधानम्
1
यद् आकूतात् समसुस्रोद्धृदो वा मनसो वा सम्भृतं चक्षुषो वा । तम् अनु प्रेहि सुकृतस्य लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥
एतम्̇ सधस्थ परि ते ददामि यम् आवहाच् छेवधिं जातवेदाः । अन्वागन्ता यज्ञपतिर् वो अत्र तम्̇ सम जानीत परमे व्योमन् ॥
जानीताद् एनम् परमे व्योमन् देवाः सधस्था विद रूपम् अस्य । यद् आगच्छात्

2
    पथिभिर् देवयानैर् इष्टापूर्ते कृणुताद् आविर् अस्मै ॥
सम् प्र च्यवध्वम् अनु सम् प्र याताग्ने पथो देवयानान् कृणुध्वम् । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥
प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥
यद् इष्टम् यत् परादानं यद् दत्तं या च दक्षिणा । तत्

3
    अग्निर् वैश्वकर्मणः सुवर् देवेषु नो दधत् ॥
येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥
येनाग्ने दक्षिणा युक्ता यज्ञं वहन्त्य् ऋत्विजः । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥
येनाग्ने सुकृतः पथा मधोर् धारा व्यानशुः । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥
यत्र धारा अनपेता मधोर् घृतस्य च याः । तद् अग्निर् वैश्वकर्मणः सुवर् देवेषु नो दधत् ॥

5.7.8 अनुवाक 8
स्वयंचित्याद्यभिधानम्
1
यास् ते अग्ने समिधो यानि धाम या जिह्वा जातवेदो यो अर्चिः । ये ते अग्ने मेडयो य इन्दवस् तेभिर् आत्मानं चिनुहि प्रजानन् ॥
    उत्सन्नयज्ञो वा एष यद् अग्निः किं वाहैतस्य क्रियते किं वा न यद् वा अध्वर्युर् अग्नेश् चिन्वन्न् अन्तरेत्य् आत्मनो वै तद् अन्तर् एति यास् ते अग्ने समिधो यानि

2
    धामेत्य् आहैषा वा अग्नेः स्वयंचितिर् अग्निर् एव तद् अग्निं चिनोति नाध्वर्युर् आत्मनो ऽन्तर् एति
    चतस्र आशाः प्र चरन्त्व् अग्नय इमं नो यज्ञं नयतु प्रजानन् । घृतम् पिन्वन्न् अजरम्̇ सुवीरम् ब्रह्म समिद् भवत्य् आहुतीनाम् ॥
    सुवर्गाय वा एष लोकायोप धीयते यत् कूर्मश्
चतस्र आशाः प्र चरन्त्व् अग्नय इत्य् आह ।

3
    दिश एवैतेन प्र जानातीमं नो यज्ञं नयतु प्रजानन्न् इत्य् आह सुवर्गस्य लोकस्याभिनीत्यै ब्रह्म समिद् भवत्य् आहुतीनाम् इत्य् आह ब्रह्मणा वै देवाः सुवर्गं लोकम् आयन् यद् ब्रह्मण्वत्योपदधाति ब्रह्मणैव तद् यजमानः सुवर्गं लोकम् एति
    प्रजापतिर् वा एष यद् अग्निस् तस्य प्रजाः पशवश् छन्दाम्̇सि रूपम्̇ सर्वान् वर्णान् इष्टकानां कुर्याद् रूपेणैव प्रजाम् पशूञ् छन्दाम्̇स्य् अव रुन्द्धे ऽथो प्रजाभ्य एवैनम् पशुभ्यश् छन्दोभ्यो ऽवरुद्ध्य चिनुते ॥

5.7.9 अनुवाक 9
अग्निग्रहणाद्यभिधानम्
1
मयि गृह्णाम्य् अग्रे अग्निम्̇ रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजाम् मयि वर्चो दधाम्य् अरिष्टाः स्याम तनुवा सुवीराः ॥
    यो नो अग्निः पितरो हृत्स्व् अन्तर् अमर्त्यो मर्त्याम्̇ आविवेश । तम् आत्मन् परि गृह्णीमहे वयम् मा सो अस्माम्̇ अवहाय परा गात् ॥
    यद् अध्वर्युर् आत्मन्न् अग्निम् अगृहीत्वाग्निं चिनुयाद् यो ऽस्य स्वो ऽग्निस् तम् अपि

2
    यजमानाय चिनुयाद् अग्निं खलु वै पशवोऽनूप तिष्ठन्ते ऽपक्रामुका अस्मात् पशवः स्युर् मयि गृह्णाम्य् अग्रे अग्निम् इत्य् आहात्मन्न् एव स्वम् अग्निं दाधार नास्मात् पशवो ऽप क्रामन्ति
    ब्रह्मवादिनो वदन्ति यन् मृच् चापश् चाग्नेर् अनाद्यम् अथ कस्मान् मृदा चाद्भिश् चाग्निश् चीयत इति यद् अद्भिः संयौति ॥

3
    आपो वै सर्वा देवता देवताभिर् एवैनम्̇ सम्̇ सृजति यन् मृदा चिनोतीयं वा अग्निर् वैश्वानरो ऽग्निनैव तद् अग्निं चिनोति
    ब्रह्मवादिनो वदन्ति यन् मृदा चाद्भिश् चाग्निश् चीयतेथ कस्माद् अग्निर् उच्यत इति यच् छन्दोभिश् चिनोत्य् अग्नयो वै छन्दाम्̇सि तस्माद् अग्निर् उच्यते ऽथो इयं वा अग्निर् वैश्वानरो यत्

4
    मृदा चिनोति तस्माद् अग्निर् उच्यते
    हिरण्येष्टका उप दधाति ज्योतिर् वै हिरण्यं ज्योतिर् एवास्मिन् दधात्य् अथो तेजो वै हिरण्यं तेज एवात्मन् धत्ते
    यो वा अग्निम्̇ सर्वतोमुखं चिनुते सर्वासु प्रजास्व् अन्नम् अत्ति सर्वा दिशो ऽभि जयति गायत्रीम् पुरस्ताद् उप दधाति त्रिष्टुभं दक्षिणतो जगतीम् पश्चाद् अनुष्टुभम् उत्तरतः पङ्क्तिम् मध्य एष वा अग्निः सर्वतोमुखस् तं य एवं विद्वाम्̇श् चिनुते सर्वासु प्रजास्व् अन्नम् अत्ति सर्वा दिशो ऽभि जयत्य् अथो दिश्य् एव दिशम् प्र वयति तस्माद् दिशि दिक् प्रोता ॥

5.7.10 अनुवाक 10
पशुशीर्षाभिधानम्
1
    प्रजापतिर् अग्निम् असृजत
    सो ऽस्मात् सृष्टः प्राङ् प्राद्रवत् तस्मा अश्वम् प्रत्य् आस्यत्
    स दक्षिणाऽवर्तत तस्मै वृष्णिम् प्रत्य् आस्यत्
    स प्रत्यङ्ङ् आवर्तत तस्मा ऋषभम् प्रत्य् आस्यत्
    स उदङ्ङ् आवर्तत तस्मै बस्तम् प्रत्य् आस्यत्
    स ऊर्ध्वो ऽद्रवत् तस्मै पुरुषम् प्रत्य् आस्यत् ।
    यत् पशुशीर्षाण्य् उपदधाति सर्वत एवैनम्

2
    अवरुध्य चिनुते ।
    एता वै प्राणभृतश् चक्षुष्मतीर् इष्टका यत् पशुशीर्षाणि
    यत् पशुशीर्षाण्य् उपदधाति ताभिर् एव यजमानो ऽमुष्मिम्̐ लोके प्राणित्य् अथो ताभिर् एवास्मा इमे लोकाः प्र भान्ति
    मृदाभिलिप्योप दधाति मेध्यत्वाय
    पशुर् वा एष यद् अग्निर् अन्नम् पशवः ।
    एष खलु वा अग्निर् यत् पशुशीर्षाणि
    यं कामयेत
    कनीयो ऽस्यान्नम्

3
    स्याद् इतिसंतरां तस्य पशुशीर्षाण्य् उप दध्यात् कनीय एवास्यान्नम् भवति
    यं कामयेत
    समावद् अस्यान्नम्̇ स्याद् इति मध्यतस् तस्योप दध्यात् समावद् एवास्यान्नम् भवति
    यं कामयेत
    भूयो ऽस्यान्नम्̇ स्याद् इत्य् अन्तेषु तस्य व्युदूह्योप दध्याद् अन्तत एवास्मा अन्नम् अव रुन्द्धे भूयो ऽस्यान्नम् भवति ॥

5.7.11 अनुवाक 11
अश्वमेधाङ्गमन्त्राभिधानम्
1
    स्तेगान् दम्̇ष्ट्राभ्याम्
    मण्डूकाञ् जम्भ्येभिः ।
    आदकां खादेन ।
    ऊर्जम्̇ सम्̇सूदेन ।
    अरण्यं जाम्बीलेन
    मृदम् बर्स्वेभिः
    शर्कराभिर् अवकाम्
    अवकाभिः शर्कराम्
    उत्सादेन जिह्वाम्
    अवक्रन्देन तालुम् ।
    सरस्वतीं जिह्वाग्रेण ॥

अनुवाक 12
पूर्वोक्तद्वितीयानुवाकगतमन्त्राभिधानम्
1
    वाजम्̇ हनूभ्याम्
    अप आस्येन ।
    आदित्याञ्̇ छ्मश्रुभिः ।
    उपयामम् अधरेणोष्ठेन
    सद् उत्तरेण ।
    अन्तरेणानूकाशम्
    प्रकाशेन बाह्यम् ।
    स्तनयित्नुं निर्बाधेन
    सूर्याग्नी चक्षुर्भ्याम् ।
    विद्युतौ कनानकाभ्याम्
    अशनिम् मस्तिष्केण
    बलम् मज्जभिः ॥

5.7.13 अनुवाक 13
पूर्वोक्ततृतीयानुवाकगतमन्त्राभिधानम्
1
    कूर्माञ् छफैः ।
    अच्छलाभिः कपिञ्जलान् ।
    साम कुष्ठिकाभिः ।
    जवं जङ्घाभिः ।
    अगदं जानुभ्याम् ।
    वीर्यं कुहाभ्याम्
    भयम् प्रचालाभ्याम् ।
    गुहोपपक्षाभ्याम्
    अश्विनाव् अम्̇साभ्याम्
    अदितिम्̇ शीर्ष्णा
    निर्ऋतिं निर्जाल्मकेन शीर्ष्णा ॥

5.7.14 अनुवाक 14
पूर्वोक्तचतुर्थानुवाकगतमन्त्राभिधानम्
1
    योक्त्रं गृध्राभिः ।
    युगम् आनतेन
    चित्तम् मन्याभिः
    संक्रोशान् प्राणैः
    प्रकाशेन त्वचम्
    पराकाशेनान्तराम्
    मशकान् केशैः ।
    इन्द्रम्̇ स्वपसा वहेन
    बृहस्पतिम्̇ शकुनिसादेन
    रथम् उष्णिहाभिः ॥

5.7.15 अनुवाक 15
पूर्वोक्तपञ्चमानुवाकगतमन्त्राभिधानम्
1
    मित्रावरुणौ श्रोणीभ्याम्
    इन्द्राग्नी शिखण्डाभ्याम्
    इन्द्राबृहस्पती ऊरुभ्याम्
    इन्द्राविष्णू अष्ठीवद्भ्याम् ।
    सवितारम् पुच्छेन
    गन्धर्वाञ् छेपेन ।
    अप्सरसो मुष्काभ्याम्
    पवमानम् पायुना
    पवित्रम् पोत्राभ्याम्
    आक्रमणम्̇ स्थूराभ्याम्
    प्रतिक्रमणं कुष्ठाभ्याम् ॥

5.7.16 अनुवाक 16
पूर्वोक्तषष्ठानुवाकगतमन्त्राभिधानम्
1
    इन्द्रस्य क्रोडः ।
    अदित्यै पाजस्यम् ।
    दिशां जत्रवः ।
    जीमूतान् हृदयौपशाभ्याम्
    अन्तरिक्षम् पुरितता
    नभ उदर्येण ।
    इन्द्राणीम् प्लीह्ना
    वल्मीकान् क्लोम्ना
    गिरीन् प्लाशिभिः
    समुद्रम् उदरेण
    वैश्वानरम् भस्मना ॥

5.7.17 अनुवाक 17
पूर्वोक्तसप्तमानुवाकगतमन्त्राभिधानम्
1
    पूष्णो वनिष्ठुः ।
    अन्धाहे स्थूरगुदा
    सर्पान् गुदाभिः ।
    ऋतून् पृष्टीभिः ।
    दिवम् पृष्ठेन
    वसूनाम् प्रथमा कीकसा
    रुद्राणां द्वितीया ।
    आदित्यानां तृतीया ।
    अङ्गिरसां चतुर्थी
    साध्यानाम् पञ्चमी
    विश्वेषां देवानाम्̇ षष्ठी ॥

5.7.18 अनुवाक 18
पूर्वोक्तअष्टमानुवाकगतमन्त्राभिधानम्
1
    ओजो ग्रीवाभिः ।
    निर्ऋतिम् अस्थभिः ।
    इन्द्रम्̇ स्वपसा वहेन
    रुद्रस्य विचलः स्कन्धः ।
    अहोरात्रयोर् द्वितीयः ।
    अर्धमासानां तृतीयः ।
    मासां चतुर्थः ।
    ऋतूनाम् पञ्चमः
    संवत्सरस्य षष्ठः ॥

5.7.19 अनुवाक 19
पूर्वोक्तनवमानुवाकगतमन्त्राभिधानम्
1
    आनन्दं नन्दथुना
    कामम् प्रत्यासाभ्याम्
    भयम्̇ शितीमभ्याम्
    प्रशिषम् प्रशासाभ्याम् ।
    सूर्याचन्द्रमसौ वृक्याभ्याम् ।
    श्यामशबलौ मतस्नाभ्याम् ।
    व्युष्टिम्̇ रूपेण
    निम्रुक्तिम् अरूपेण ॥

5.7.20 अनुवाक 20
पूर्वोक्तदशमानुवाकगतमन्त्राभिधानम्
1
    अहर् माम्̇सेन
    रात्रिम् पीवसा ।
    अपो यूषेण
    घृतम्̇ रसेन्
    श्यां वसया
    दूषीकाभिर् ह्रादुनिम्
    अश्रुभिः पृष्वाम् ।
    दिवम्̇ रूपेण
    नक्षत्राणि प्रतिरूपेण
    पृथिवीं चर्मणा
    छवीं छव्या ।
    उपाकृताय स्वाहा ।
    आलब्धाय स्वाहा
    हुताय स्वाहा ॥

5.7.21 अनुवाक 21
पूर्वोक्तैकादशानुवाकगतमन्त्राभिधानम्
1
    अग्नेः पक्षतिः
    सरस्वत्यै निपक्षतिः
    सोमस्य तृतीया ।
    अपां चतुर्थी ।
    ओषधीनाम् पञ्चमी
    संवत्सरस्य षष्ठी
    मरुताम्̇ सप्तमी
    बृहस्पतेर् अष्टमी
    मित्रस्य नवमी
   वरुणस्य दशमी ।
   इन्द्रस्यैकादशी
    विश्वेषां देवानां द्वादशी
   द्यावापृथिव्योः पार्श्वम् ।
    यमस्य पाटूरः ॥

5.7.22 अनुवाक 22
पूर्वोक्तद्वादशानुवाकगतमन्त्राभिधानम्
1
    वायोः पक्षतिः
    सरस्वतो निपक्षतिः ।
    चन्द्रमसस् तृतीया
    नक्षत्राणां चतुर्थी
    सवितुः पञ्चमी
    रुद्रस्य षष्ठी
    सर्पाणाम्̇ सप्तमी ।
    अर्यम्णो ऽष्टमी
    त्वष्टुर् नवमी धातुर् दशमी ।
    इन्द्राण्या एकादशी ।
    अदित्यै द्वादशी
   द्यावापृथिव्योः पार्श्वम् ।
    यम्यै पाटूरः ॥

5.7.23 अनुवाक 23
पूर्वोक्तत्रयोदशानुवाकगतमन्त्राभिधानम्
1
    पन्थाम् अनूवृग्भ्याम् ।
    संततिम्̇ स्नावन्याभ्याम् ।
    शुकान् पित्तेन
    हरिमाणं यक्ना
    हलीक्ष्णान् पापवातेन
    कूश्माञ् छकभिः
    शवर्तान् ऊवध्येन
    शुनो विशसनेन
    सर्पाम्̐ लोहितगन्धेन
    वयाम्̇सि पक्वगन्धेन
   पिपीलिकाः प्रशादेन ॥

5.7.24 अनुवाक 24
पूर्वोक्तचतु्र्दशानुवाकगतमन्त्राभिधानम्
1
    क्रमैर् अत्य् अक्रमीद् वाजी विश्वैर् देवैर् यज्ञियैः संविदानः
    स नो नय सुकृतस्य लोकं तस्य ते वयम्̇ स्वधया मदेम ॥

5.7.25 अनुवाक 25
अश्वमेधब्राह्मणोक्त द्यौस्त इति मन्त्राभिधानम्
1
द्यौस् ते पृष्ठम्
पृथिवी सधस्थम्
आत्मान्तरिक्षम् ।
समुद्रो योनिः
सूर्यस् ते चक्षुः ।
वातः प्राणः ।
चन्द्रमाः श्रोत्रम्
मासाश् चार्धमाषाश् च पर्वाणि ।
ऋतवोङ्गानि
संवत्सरो महिमा ॥

5.7.26 अनुवाक 26
अश्वमेधब्राह्मणोक्त अग्निः पशुरिति मन्त्राभिधानम्
1
    अग्निः पशुर् आसीत्
    तेनायजन्त
    स एतं लोकम् अजयद् यस्मिन्न् अग्निः
    स ते लोकस्
    तं जेष्यसि ।
    अथाव जिघ्र
    वायुः पशुर् आसीत्
    तेनायजन्त
    स एतं लोकम् अजयद् यस्मिन् वायुः
    स ते लोकस्
    तस्मात् त्वान्तर् एष्यामि यदि नावजिघ्रसि ।
   आदित्यः पशुर् आसीत्
    तेनायजन्त
    स एतं लोकम् अजयद् यस्मिन्न् आदित्यः
   स ते लोकस्
    तं जेष्यसि यद्य् अवजिघ्रसि ॥