सामग्री पर जाएँ

तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ५/प्रपाठकः ३

विकिस्रोतः तः

5.3 प्रपाठक: 3
5.3.1 अनुवाक 1 द्वितीयचितिगताश्विन्यादीष्टकाचतुष्ट्याभिधानम्
1 उत्सन्नयज्ञो वा एष यद् अग्निः किं वाऽहैतस्य क्रियते किं वा न यद् वै यज्ञस्य क्रियमाणस्यान्तर्यन्ति पूयति वा अस्य तत् । आश्विनीर् उप दधाति । अश्विनौ वै देवानाम् भिषजौ ताभ्याम् एवास्मै भेषजं करोति पञ्चोप दधाति पाङ्क्तो यज्ञः । यावान् एव यज्ञस् तस्मै भेषजं करोति । ऋतव्या उप दधाति । ऋतूनां क्लृप्त्यै ॥
2 पञ्चोप दधाति पञ्च वा ऋतवः । यावन्त एवर्तवस् तान् कल्पयति समानप्रभृतयो भवन्ति समानोदर्कास् तस्मात् समाना ऋतवः । एकेन पदेन व्यावर्तन्ते तस्माद् ऋतवो व्यावर्तन्ते प्राणभृत उप दधाति । ऋतुष्व् एव प्राणान् दधाति तस्मात् समानाः सन्तं ऋतवो न जीर्यन्ति । अथो प्र जनयत्य् एवैनान् एष वै वायुर् यत् प्राणः । यद् ऋतव्या उपधाय प्राणभृतः
3 उपदधाति तस्मात् सर्वान् ऋतून् अनु वायुर् आ वरीवर्त्ति वृष्टिसनीर् उप दधाति वृष्टिम् एवाव रुन्द्धे यद् एकधोपदध्याद् एकम् ऋतुं वर्षेत् । अनुपरिहारꣳ सादयति तस्मात् सर्वान् ऋतून् वर्षति यत् प्राणभृत उपधाय वृष्टिसनीर् उपदधाति तस्माद् वायुप्रच्युता दिवो वृष्टिर् ईर्ते पशवो वै वयस्याः । नानामनसः खलु वै पशवो नानाव्रतास् ते ऽप एवाभि समनसः ॥
4 यं कामयेत । अपशुः स्याद् इति वयस्यास् तस्योपधायापस्या उप दध्याद् असंज्ञानम् एवास्मै पशुभिः करोति । अपशुर् एव भवति यं कामयेत पशुमान्त् स्याद् इत्य् अपस्यास् तस्योपधाय वयस्या उप दध्यात् संज्ञानम् एवास्मै पशुभिः करोति पशुमान् एव भवति चतस्रः पुरस्ताद् उप दधाति तस्माच् चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे ॥
5 मूर्धन्वतीर् भवन्ति तस्मात् पुरस्तान् मूर्धा पञ्च दक्षिणायाꣳ श्रोण्याम् उप दधाति पञ्चोत्तरस्यां तस्मात् पश्चाद् वर्षीयान् पुरस्तात्प्रवणः पशुः । बस्तो वय इति दक्षिणे ऽꣳस उप दधाति वृष्णिर् वय इत्य् उत्तरेऽ अꣳसाव् एव प्रति दधाति व्याघ्रो वय इति दक्षिणे पक्ष उप दधाति सिꣳहो वय इत्य् उत्तरे पक्षयोर् एव वीर्यं दधाति पुरुषो वय इति मध्ये तस्मात् पुरुषः पशूनाम् अधिपतिः ॥

5.3.2 अनुवाक 2 स्वयमातृण्णाद्यभिधानम्
1 इन्द्राग्नी अव्यथमानाम् इति स्वयमातृण्णाम् उप दधाति । इन्द्राग्निभ्यां वा इमौ लोकौ विधृतौ । अनयोर् लोकयोर् विधृत्यै । अधृतेव वा एषा यन् मध्यमा चितिः । अन्तरिक्षम् इव वा एषा । इन्द्राग्नी इत्य् आह । इन्द्राग्नी वै देवानाम् ओजोभृतौ । ओजसैवैनाम् अन्तरिक्षे चिनुते धृत्यै स्वयमातृण्णाम् उप दधाति । अन्तरिक्षं वै स्वयमातृण्णा । अन्तरिक्षम् एवोप धत्ते । अश्वम् उप
2 घ्रापयति प्राणम् एवास्यां दधाति । अथो प्राजापत्यो वा अश्वः प्रजापतिनैवाग्निं चिनुते स्वयमातृण्णा भवति प्राणानाम् उत्सृष्ट्यै । अथो सुवर्गस्य लोकस्यानुख्यात्यै । देवानां वै सुवर्गं लोकं यतां दिशः सम् अव्लीयन्त त एता दिश्या अपश्यन् ता उपादधत ताभिर् वै ते दिशो ऽदृꣳहन् यद् दिश्या उपदधाति दिशां विधृत्यै दश प्राणभृतः पुरस्ताद् उप ॥
3 दधाति नव वै पुरुषे प्राणा नाभिर् दशमी प्राणान् एव पुरस्ताद् धत्ते तस्मात् पुरस्तात् प्राणाः । ज्योतिष्मतीम् उत्तमां उप दधाति तस्मात् प्राणानां वाग् ज्योतिर् उत्तमाः । दशोप दधाति दशाक्षरा { विराड् ^ विराज् } विराट् छन्दसां ज्योतिः । ज्योतिर् एव पुरस्ताद् धत्ते तस्मात् पुरस्ताज् ज्योतिर् उपाऽऽस्महे छन्दाꣳसि पशुष्व् आजिम् अयुस् तान् बृहत्य् उद् अजयत् तस्माद् बार्हताः
4 पशव उच्यन्ते मा छन्द इति दक्षिणत उप दधाति तस्माद् दक्षिणावृतो मासाः पृथिवी छन्द इति पश्चात् प्रतिष्ठित्यै । अग्निर् देवतेत्य् उत्तरत ओजो वा अग्निर् ओज एवोत्तरतो धत्ते तस्माद् उत्तरतोऽभिप्रयायी जयति षट्त्रिꣳशत् सम् पद्यन्ते षट्त्रिꣳशदक्षरा बृहती बार्हताः पशवः । बृहत्यैवास्मै पशून् अव रुन्द्धे बृहती छन्दसाꣳ स्वाराज्यम् परीयाय यस्यैताः
5 उपधीयन्ते गच्छति स्वाराज्यम् । सप्त वालखिल्याः पुरस्ताद् उप दधाति सप्त पश्चात् सप्त वै शीर्षण्याः प्राणा द्वाव् अवाञ्चौ प्राणानाꣳ सवीर्यत्वाय मूर्धासि राड् इति पुरस्ताद् उप दधाति यन्त्री राड् इति पश्चात् प्राणान् एवास्मै समीचो दधाति ॥

5.3.3 अनुवाक 3 अक्ष्णयास्तोमीयादीनामभिधानम्
1 देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एता अक्ष्णयास्तोमीया अपश्यन् ता अन्यथाऽनूच्यान्यथोपादधत तद् असुरा नान्ववायन् ततो देवा अभवन् पराऽसुराः। यद् अक्ष्णयास्तोमीया अन्यथाऽनूच्यान्यथोपदधाति भ्रातृव्याभिभूत्यै भवत्य् आत्मना परास्य भ्रातृव्यो भवति । आशुस् त्रिवृद् इति पुरस्ताद् उप दधाति यज्ञमुखं वै त्रिवृत् ।
2 यज्ञमुखम् एव पुरस्ताद् वि यातयति व्योम सप्तदश इति दक्षिणतः । अन्नं वै व्योम । अन्नꣳ सप्तदशः । अन्नम् एव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नम् अद्यते धरुण एकविꣳश इति पश्चात् प्रतिष्ठा वा एकविꣳशः प्रतिष्ठित्यै भान्तः पञ्चदश इत्य् उत्तरतः । ओजो वै भान्तः
ओजः पञ्चदशः । ओज एवोत्तरतो धत्ते तस्माद् उत्तरतोऽभिप्रयायी जयति प्रतूर्तिर् अष्टादश इति पुरस्तात्
3 उप दधाति द्वौ त्रिवृताव् अभिपूर्वं यज्ञमुखे वि यातयति । अभिवर्तः सविꣳश इति दक्षिणतः । अन्नं वा अभिवर्तः । अन्नꣳ सविꣳशः । अन्नम् एव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नम् अद्यते वर्चो द्वाविꣳश इति पश्चात् । यद् विꣳशतिर् द्वे तेन विराजौ यद् द्वे प्रतिष्ठा तेन विराजोर् एवाभिपूर्वम् अन्नाद्ये प्रति तिष्ठति तपो नवदश इत्य् उत्तरतस् तस्मात् सव्यः
4 हस्तयोस् तपस्वितरः । योनिश् चतुर्विꣳश इति पुरस्ताद् उप दधाति चतुर्विꣳशत्यक्षरा गायत्री गायत्री यज्ञमुखम् । यज्ञमुखम् एव पुरस्ताद् वि यातयति गर्भाः पञ्चविꣳश इति दक्षिणतः । अन्नं वै गर्भाः । अन्नम् पञ्चविꣳशः । अन्नम् एव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नम् अद्यते । ओजस् त्रिणव इति पश्चात् । इमे वै लोकास् त्रिणवः । एष्व् एव लोकेषु प्रति तिष्ठति सम्भरणस् त्रयोविꣳश इति
5 उत्तरतस् तस्मात् सव्यो हस्तयोः सम्भार्यतरः क्रतुर् एकत्रिꣳश इति पुरस्ताद् उप दधाति वाग् वै क्रतुः । यज्ञमुखं वाक् । यज्ञमुखम् एव पुरस्ताद् वि यातयति ब्रध्नस्य विष्टपं चतुस्त्रिꣳश इति दक्षिणतः । असौ वा आदित्यो ब्रध्नस्य विष्टपम् ब्रह्मवर्चसम् एव दक्षिणतो धत्ते तस्माद् दक्षिणो ऽर्धो ब्रह्मवर्चसितरः प्रतिष्ठा त्रयस्त्रिꣳश इति पश्चात् प्रतिष्ठित्यै नाकः षट्त्रिꣳश इत्य् उत्तरतः सुवर्गो वै लोको नाकः सुवर्गस्य लोकस्य समष्ट्यै ॥

5.3.4 अनुवाक 4 अक्ष्णयास्तोमीयादीनामभिधानम्
1 अग्नेर् भागो ऽसीति पुरस्ताद् उप दधाति यज्ञमुखं वा अग्निः । यज्ञमुखं दीक्षा यज्ञमुखम् ब्रह्म यज्ञमुखं त्रिवृत् । यज्ञमुखम् एव पुरस्ताद् वि यातयति नृचक्षसाम् भागो ऽसीति दक्षिणतः शुश्रुवाꣳसो वै नृचक्षसः । अन्नं धाता जातायैवास्मा अन्नम् अपि दधाति तस्माज् जातो ऽन्नम् अत्ति जनित्रꣳ स्पृतꣳ सप्तदश स्तोम इत्य् आह । अन्नं वै जनित्रम् ॥
2 अन्नꣳ सप्तदशः । अन्नम् एव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नम् अद्यते मित्रस्य भागो ऽसीति पश्चात् प्राणो वै मित्रो ऽपानो वरुणः प्राणापानाव् एवास्मिन् दधाति दिवो वृष्टिर् वाता स्पृता एकविꣳश स्तोम इत्य् आह प्रतिष्ठा वा एकविꣳशः प्रतिष्ठित्यै । इन्द्रस्य भागो ऽसीत्य् उत्तरतः । ओजो वा इन्द्रः । ओजो विष्णुः । ओजः क्षत्रम् ओजः पञ्चदशः ॥
3 ओज एवोत्तरतो धत्ते तस्माद् उत्तरतोऽभिप्रयायी जयति वसूनाम् भागो ऽसीति पुरस्ताद् उप दधाति यज्ञमुखं वै वसवः । यज्ञमुखꣳ रुद्राः । यज्ञमुखं चतुर्विꣳशः । यज्ञमुखम् एव पुरस्ताद् वि यातयति । आदित्यानाम् भागो ऽसीति दक्षिणतः । अन्नं वा आदित्याः । अन्नम् मरुतः । अन्नं गर्भाः । अन्नम् पञ्चविꣳशः । अन्नम् एव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नम् अद्यते । अदित्यै भागः ॥
4 असीति पश्चात् प्रतिष्ठा वा अदितिः प्रतिष्ठा पूषा प्रतिष्ठा त्रिणवः प्रतिष्ठित्यै देवस्य सवितुर् भागो ऽसीत्य् उत्तरतः । ब्रह्म वै देवः सविता ब्रह्म बृहस्पतिः । ब्रह्म चतुष्टोमः । ब्रह्मवर्चसम् एवोत्तरतो धत्ते तस्माद् उत्तरो ऽर्धो ब्रह्मवर्चसितरः सावित्रवती भवति प्रसूत्यै तस्माद् ब्राह्मणानाम् उदीची सनिः प्रसूता धर्त्रश् चतुष्टोम इति पुरस्ताद् उप दधाति यज्ञमुखं वै धर्त्रः ॥
5 यज्ञमुखं चतुष्टोमः । यज्ञमुखम् एव पुरस्ताद् वि यातयति यावानाम् भागो ऽसीति दक्षिणतः । मासा वै यावा अर्धमासा अयावास् तस्माद् दक्षिणावृतो मासाः । अन्नं वै यावाः । अन्नम् प्रजाः । अन्नम् एव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नम् अद्यते । ऋभूणाम् भागो ऽसीति पश्चात् प्रतिष्ठित्यै विवर्तो ऽष्टाचत्वारिꣳश इत्य् उत्तरतः । अनयोर् लोकयोः सवीर्यत्वाय तस्माद् इमौ लोकौ समावद्वीर्यौ ॥
6 यस्य मुख्यवतीः पुरस्ताद् उपधीयन्ते मुख्य एव भवति । आस्य मुख्यो जायते यस्यान्नवतीर् दक्षिणतो ऽत्त्य् अन्नम् आस्यान्नादो जायते यस्य प्रतिष्ठावतीः पश्चात् प्रत्य् एव तिष्ठति यस्यौजस्वतीर् उत्तरत ओजस्व्य् एव भवति । आस्यौजस्वी जायते । अर्को वा एष यद् अग्निस् तस्यैतद् एव स्तोत्रम् एतच् छस्त्रम् । यद् एष विधा ॥
7 विधीयते ऽर्क एव तद् अर्क्य्àम् अनु वि धीयते । अत्त्य् अन्नम् आस्यान्नाद्यो जायते यस्यैषा विधा विधीयते य उ चैनाम् एवं वेद सृष्टीर् उप दधाति यथासृष्टम् एवाव रुन्द्धे न वा इदं दिवा न नक्तम् आसीद् अव्यावृत्तम् । ते देवा एता व्युष्टीर् अपश्यन् ता उपादधत ततो वा इदं व्यौच्छत् । यस्यैता उपधीयन्ते व्य् एवास्मा उच्छति । अथो तम एवाप हते ॥

5.3.5 अनुवाक 5 असपत्नविराडाख्येष्टकाभिधानम्
1 अग्ने जातान् प्र णुदा नः सपत्नान् इति पुरस्ताद् उप दधाति जातान् एव भ्रातृव्यान् प्र णुदते सहसा जातान् इति पश्चात् । जनिष्यमाणान् एव प्रति नुदते चतुश्चत्वारिꣳश स्तोम इति दक्षिणतः । ब्रह्मवर्चसं वै चतुश्चत्वारिꣳशः । ब्रह्मवर्चसम् एव दक्षिणतो धत्ते तस्माद् दक्षिणो ऽर्धो ब्रह्मवर्चसितरः षोडश स्तोम इत्य् उत्तरतः । ओजो वै षोडशः । ओज एवोत्तरतो धत्ते तस्मात्
2 उत्तरतोऽभिप्रयायी जयति वज्रो वै चतुश्चत्वारिꣳशो वज्रः षोडशः । यद् एते इष्टके उपदधाति जाताꣳश् चैव जनिष्यमाणाꣳश् च भ्रातृव्यान् प्रणुद्य वज्रम् अनु प्र हरति स्तृत्यै पुरीषवतीम् मध्य उप दधाति पुरीषं वै मध्यम् आत्मनः सात्मानम् एवाग्निं चिनुते सात्मामुष्मिँल्लोके भवति य एवं वेद । एता वा असपत्ना नामेष्टकाः । यस्यैता उपधीयन्ते ।
3 नास्य सपत्नो भवति पशुर् वा एष यद् अग्निः । विराजः उत्तमायां चित्याम् उप दधाति विराजम् एवोत्तमाम् पशुषु दधाति तस्मात् पशुमान् उत्तमां वाचं वदति दशदशोप दधाति सवीर्यत्वाय । अक्ष्णयोप दधाति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै यानि वै छन्दाꣳसि सुवर्ग्याण्य् आसन् तैर् देवाः सुवर्गं लोकम् आयन् तेनर्षयः
4 अश्राम्यन् ते तपो ऽतप्यन्त तानि तपसापश्यन् तेभ्य एता इष्टका निर् { अमिमत्। ^ अमिमत } ।
एवश् छन्दो वरिवश् छन्द इति ता उपादधत ताभिर् वै ते सुवर्गं लोकम् आयन् यद् एता इष्टका उपदधाति यान्य् एव छन्दाꣳसि सुवर्ग्याणि तैर् एव यजमानः सुवर्गं लोकम् एति यज्ञेन वै प्रजापतिः प्रजा असृजत ता स्तोमभागैर् एवासृजत यत्
5 स्तोमभागा उपदधाति प्रजा एव तद् यजमानः सृजते बृहस्पतिर् वा एतद् यज्ञस्य तेजः सम् अभरद् यद् स्तोमभागाः । यत् स्तोमभागा उपदधाति सतेजसम् एवाग्निं चिनुते बृहस्पतिर् वा एतां यज्ञस्य प्रतिष्ठाम् अपश्यद् यत् स्तोमभागाः । यत् स्तोमभागा उपदधाति यज्ञस्य प्रतिष्ठित्यै सप्तसप्तोप दधाति सवीर्यत्वाय तिस्रो मध्ये प्रतिष्ठित्यै ॥

5.3.6 अनुवाक 6 स्तोमभागाख्येष्टकाभिधानम्
1 रश्मिर् इत्य् एवादित्यम् असृजत प्रेतिर् इति धर्मम् अन्वितिर् इति दिवम् । संधिर् इत्य् अन्तरिक्षम् प्रतिधिर् इति पृथिवीम् । विष्टम्भ इति वृष्टिम् प्रवेत्य् अहर् अनुवेति रात्रिम् उशिग् इति वसून् प्रकेत इति रुद्रान् । सुदीतिर् इत्य् आदित्यान् ओज इति पितॄन् । तन्तुर् इति प्रजाः पृतनाषाड् इति पशून् रेवद् इत्य् ओषधीः अभिजिद् असि युक्तग्रावा
2 इन्द्राय त्वेन्द्रं जिन्वेत्य् एव दक्षिणतो वज्रम् पर्य् औहद् अभिजित्यै ताः प्रजा अपप्राणा असृजत तास्व् अधिपतिर् असीत्य् एव प्राणम् अदधात् । यन्तेत्य् अपानम् । सꣳसर्प इति चक्षुः । वयोधा इति श्रोत्रम् । ताः प्रजाः प्राणतीर् अपानतीः पश्यन्तीः शृण्वतीर् न मिथुनी अभवन् तासु त्रिवृद् असीत्य् एव मिथुनम् अदधात् ताः प्रजा मिथुनी
3 भवन्तीर् न प्राजायन्त ताः सꣳरोहो ऽसि नीरोहो ऽसीत्य् एव प्राजनयत् ताः प्रजाः प्रजाता न प्रत्य् अतिष्ठन् ता वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीत्य् एवैषु लोकेषु प्रत्य् अस्थापयत् ।
यद् आह वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीति प्रजा एव प्रजाता एषु लोकेषु प्रति ष्ठापयति सात्मान्तरिक्षꣳ रोहति सप्राणो ऽमुष्मिँल्लोके प्रति तिष्ठति । अव्यर्धुकः प्राणापानाभ्याम् भवति य एवं वेद ॥

5.3.7 अनुवाक 7 नाकसदादि पञ्चविधेष्टकाभिधानम्
1 नाकसद्भिर् वै देवाः सुवर्गं लोकम् आयन् तन् नाकसदां नाकसत्त्वम् । यन् नाकसद उपदधाति नाकसद्भिर् एव तद् यजमानः सुवर्गं लोकम् एति सुवर्गो वै लोको नाकः । यस्यैता उपधीयन्ते नास्मा अकम् भवति यजमानायतनं वै नाकसदः । यन् नाकसद उपदधात्य् आयतनम् एव तद् यजमानः कुरुते पृष्ठानां वा एतत् तेजः सम्भृतं यन् नाकसदः । यन् नाकसदः
2 उपदधाति पृष्ठानाम् एव तेजो ऽव रुन्द्धे पञ्चचोडा उप दधाति । अप्सरस एवैनम् एता भूता अमुष्मिँल्लोक उप शेरे । अथो तनूपानीर् एवैता यजमानस्य यं द्विष्यात् तम् उपदधद् ध्यायेत् । एताभ्य एवैनं देवताभ्य आ वृश्चति ताजग् आर्तिम् आर्छति । उत्तरा नाकसद्भ्य उप दधाति यथा जायाम् आनीय गृहेषु निषादयति तादृग् एव तत् ॥
3 पश्चात् प्राचीम् उत्तमाम् उप दधाति तस्मात् पश्चात् प्राची पत्न्य् अन्व् आस्ते स्वयमातृण्णां च विकर्णीं चोत्तमे उप दधाति प्राणो वै स्वयमातृण्णाऽऽयुर् विकर्णी प्राणं चैवायुश् च प्राणानाम् उत्तमौ धत्ते तस्मात् प्राणश् चायुश् च प्राणानाम् उत्तमौ नान्याम् उत्तराम् इष्टकाम् उप दध्यात् । यद् अन्याम् उत्तराम् इष्टकाम् उपदध्यात् पशूनाम्
4 च यजमानस्य च प्राणं चायुश् चापि दध्यात् तस्मान् नान्योत्तरेष्टकोपधेया स्वयमातृण्णाम् उप दधाति । असौ वै स्वयमातृण्णाऽमूम् एवोप धत्ते । अश्वम् उप घ्रापयति प्राणम् एवास्यां दधाति । अथो प्राजापत्यो वा अश्वः प्रजापतिनैवाग्निं चिनुते स्वयमातृण्णा भवति प्राणानाम् उत्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्यै । एषा वै देवानां विक्रान्तिर् यद् विकर्णी यद् विकर्णीम् उपदधाति देवानाम् एव विक्रान्तिम् अनु वि क्रमते । उत्तरत उप दधाति तस्माद् उत्तरतौपचारो ऽग्निः । वायुमती भवति समिद्ध्यै ॥

5.3.8 अनुवाक 8 छन्दोभिधेष्टकाभिधानम्
1 छन्दाꣳस्य् उप दधाति पशवो वै छन्दाꣳसि पशून् एवाव रुन्द्धे छन्दाꣳसि वै देवानां वामम् पशवः । वामम् एव पशून् अव रुन्द्धे । एताꣳ ह वै यज्ञसेनश् चैत्रियायणश् चितिं विदां चकार तया वै स पशून् अवारुन्द्ध यद् एताम् उपदधाति पशून् एवाव रुन्द्धे गायत्रीः पुरस्ताद् उप दधाति तेजो वै गायत्री तेज एव
2 मुखतो धत्ते मूर्धन्वतीर् भवन्ति मूर्धानम् एवैनꣳ समानानां करोति त्रिष्टुभ उप दधाति । इन्द्रियं वै { त्रिष्टुग् ^ त्रिष्टुभ् } इन्द्रियम् एव मध्यतो धत्ते जगतीर् उप दधाति जागता वै पशवः पशून् एवाव रुन्द्धे । अनुष्टुभ उप दधाति प्राणा वा { अनुष्टुप् ^ अनुष्टुभ् } प्राणानाम् उत्सृष्ट्यै बृहतीर् उष्णिहाः पङ्क्तीर् अक्षरपङ्क्तीर् इति विषुरूपाणि छन्दाꣳस्य् उप दधाति
विषुरूपा वै पशवः पशवः
3 छन्दाꣳसि विषुरूपान् एव पशून् अव रुन्द्धे विषुरूपम् अस्य गृहे दृश्यते यस्यैता उपधीयन्ते य उ चैनाम् एवं वेद । अतिच्छन्दसम् उप दधाति । अतिच्छन्दा वै सर्वाणि छन्दाꣳसि सर्वेभिर् एवैनं छन्दोभिश् चिनुते वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दाः । यत् अतिच्छन्दसम् उपदधाति वर्ष्मैवैनꣳ समानानां करोति द्विपदा उप दधाति द्विपाद् यजमानः प्रतिष्ठित्यै ॥
 
5.3.9 अनुवाक 9 सयुगादीष्टकात्रयाभिधानम्
1 सर्वाभ्यो वै देवताभ्यो ऽग्निश् चीयते यत् सयुजो नोपदध्याद् देवता अस्याग्निं वृञ्जीरन् यत् सयुज उपदधात्य् आत्मनैवैनꣳ सयुजं चिनुते नाग्निना व्यृध्यते । अथो यथा पुरुषः स्नावभिः संतत एवम् एवैताभिर् अग्निः संततः। अग्निना वै देवाः सुवर्गं लोकम् आयन् ता अमूः कृत्तिका अभवन् यस्यैता उपधीयन्ते सुवर्गम् एव
2 लोकम् एति गच्छति प्रकाशं चित्रम् एव भवति ॥
मण्डलेष्टका उप दधाति । इमे वै लोका मण्डलेष्टका इमे खलु वै लोका देवपुरा देवपुरा एव प्र विशति नार्तिम् आर्छत्य् अग्निं चिक्यानः॥
विश्वज्योतिष उप दधाति । इमान् एवैताभिर् लोकाञ् ज्योतिष्मतः कुरुते । अथो प्राणान् एवैता यजमानस्य दाध्रति । एता वै देवताः सुवर्ग्यास् ता एवान्वारभ्य सुवर्गं लोकम् एति ॥
 
5.3.10 अनुवाक 10 वृष्टिसन्यादीष्टकापञ्चकाभिधानम्
1 वृष्टिसनीर् उप दधाति वृष्टिम् एवाव रुन्द्धे यद् एकधोपदध्याद् एकम् ऋतुं वर्षेत् । अनुपरिहारꣳ सादयति तस्मात् सर्वान् ऋतून् वर्षति पुरोवातसनिर् असीत्य् आह । एतद् वै वृष्ट्यै रूपम् । रूपेणैव वृष्टिम् अव रुन्द्धे संयानीभिर् वै देवा इमाँल्लोकान्त् सम् अयुस् तत् संयानीनाꣳ संयानित्वम् । यत् संयानीर् उपदधाति यथाप्सु नावा संयात्य् एवम्
2 एवैताभिर् यजमान इमाँल्लोकान्त् सं याति प्लवो वा एषो ऽग्नेर् यत् संयानीः । यत् संयानिर् उपदधाति प्लवम् एवैतम् अग्नय उप दधाति । उत यस्यैतासूपहितास्व् आपो ऽग्निꣳ हरन्त्य् अहृत एवास्याग्निः। आदित्येष्टका उप दधाति । आदित्या वा एतम् भूत्यै प्रति नुदन्ते यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति । आदित्याः
3 एवैनम् भूतिं गमयन्ति । असौ वा एतस्यादित्यो रुचम् आ दत्ते यो ऽग्निं चित्वा न रोचते यद् आदित्येष्टका उपदधात्य् असाव् एवास्मिन्न् आदित्यो रुचं दधाति यथासौ देवानाꣳ रोचत एवम् एवैष मनुष्याणाꣳ रोचते ॥ घृतेष्टका उप दधाति । एतद् वा अग्नेः प्रियं धाम यद् घृतम् प्रियेणैवैनं धाम्ना सम् अर्धयति ।
4 अथो तेजसा अनुपरिहारꣳ सादयति । अपरिवर्गम् एवास्मिन् तेजो दधाति प्रजापतिर् अग्निम् अचिनुत स यशसा व्य् आर्ध्यत स एता यशोदा अपश्यत् ता उपाधत्त ताभिर् वै स यश आत्मन्न् अधत्त यद् यशोदा उपदधाति यश एव ताभिर् यजमान आत्मन् धत्ते पञ्चोप दधाति पाङ्क्तः पुरुषः । यावान् एव पुरुषस् तस्मिन् यशो दधाति ॥

5.3.11 अनुवाक 11 भूयस्कृदादीष्टकाषट्काभिधानम्
1 देवासुराः संयत्ता आसन् कनीयाꣳसो देवा आसन् भूयाꣳसो ऽसुरास् ते देवा एता इष्टका अपश्यन् ता उपादधत भूयस्कृद् असीत्य् एव भूयाꣳसो ऽभवन् वनस्पतिभिर् ओषधीभिः । वरिवस्कृद् असीतीमाम् अजयन् प्राच्य् असीति प्राचीं दिशम् अजयन् । ऊर्ध्वासीत्य् अमूम् अजयन् । अन्तरिक्षसद् अस्य् अन्तरिक्षे सीदेत्य् अन्तरिक्षम् अजयन् ततो देवा अभवन्
2 पराऽसुराः । यस्यैता उपधीयन्ते भूयान् एव भवति । अभीमाँल्लोकाञ् जयति भवत्य् आत्मना परास्य भ्रातृव्यो भवति । अप्सुषद् असि श्येनसद् असीत्य् आह । एतद् वा अग्ने रूपम् । रूपेणैवाग्निम् अव रुन्द्धे पृथिव्यास् त्वा द्रविणे सादयामीत्य् आह । इमान् एवैताभिर् लोकान् द्रविणावतः कुरुते ॥ आयुष्या उप दधाति । आयुर् एव
3 अस्मिन् दधाति । अग्ने यत् ते परꣳ हृन् नामेत्य् आह । एतद् वा अग्नेः प्रियं धाम प्रियम् एवास्य धामोपाप्नोति ताव् एहि सꣳ रभावहा इत्य् आह व्य् एवैनेन परि धत्ते पाञ्चजन्येष्व् अप्य् एध्य् अग्न इत्य् आह । एष वा अग्निः पाञ्चजन्यो यः पञ्चचितीकस् तस्माद् एवम् आह ॥ ऋतव्या उप दधाति । एतद् वा ऋतूनाम् प्रियं धाम यद् ऋतव्याः । ऋतूनाम् एव प्रियं धामाव रुन्द्धे सुमेक इत्य् आह संवत्सरो वै सुमेकः संवत्सरस्यैव प्रियं धामोपाप्नोति ॥

5.3.12 अनुवाक 12 अश्वमेधविधिः
1 प्रजापतेर् अक्ष्य् अश्वयत् तत् परापतत् तद् अश्वो ऽभवत् । यद् अश्वयत् तद् अश्वस्याश्वत्वम् । तद् देवा अश्वमेधेनैव प्रत्य् अदधुः । एष वै प्रजापतिꣳ सर्वं करोति यो ऽश्वमेधेन यजते सर्व एव भवति सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषजम् । सर्वं वा एतेन पाप्मानं देवा अतरन् । अपि वा एतेन ब्रह्महत्याम् अतरन् । सर्वम् पाप्मानम्
2 तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते य उ चैनम् एवं वेद । उत्तरं वै तत् प्रजापतेर् अक्ष्य् अश्वयत् तस्माद् अश्वस्योत्तरतो ऽव द्यन्ति दक्षिणतो ऽन्येषाम् पशूनाम् । वैतसः कटो भवति । अप्सुयोनिर् वा अश्वः। अप्सुजो वेतसः स्व एवैनं योनौ प्रति ष्ठापयति चतुष्टोम स्तोमो भवति सरड्ढ वा अश्वस्य सक्थ्य् आवृहत् तद् देवाश् चतुष्टोमेनैव प्रत्य् अदधुः । यच् चतुष्टोम स्तोमो भवत्य् अश्वस्य सर्वत्वाय ॥  


5.3.1 अनुवाक 1
द्वितीयचितिगताश्विन्यादीष्टकाचतुष्ट्याभिधानम्
 1
    उत्सन्नयज्ञो वा एष यद् अग्निः
    किं वाऽहैतस्य क्रियते किं वा न
    यद् वै यज्ञस्य क्रियमाणस्यान्तर्यन्ति पूयति वा अस्य तत् ।
    आश्विनीर् उप दधाति ।
    अश्विनौ वै देवानाम् भिषजौ
    ताभ्याम् एवास्मै भेषजं करोति
    पञ्चोप दधाति
    पाङ्क्तो यज्ञः ।
    यावान् एव यज्ञस् तस्मै भेषजं करोति ।
    ऋतव्या उप दधाति ।
    ऋतूनां क्लृप्त्यै ॥

 2
    पञ्चोप दधाति
    पञ्च वा ऋतवः ।
    यावन्त एवर्तवस्
    तान् कल्पयति
    समानप्रभृतयो भवन्ति समानोदर्कास्
    तस्मात् समाना ऋतवः ।
    एकेन पदेन व्यावर्तन्ते
    तस्माद् ऋतवो व्यावर्तन्ते
    प्राणभृत उप दधाति ।
    ऋतुष्व् एव प्राणान् दधाति
    तस्मात् समानाः सन्तं ऋतवो न जीर्यन्ति ।
    अथो प्र जनयत्य् एवैनान्
    एष वै वायुर् यत् प्राणः ।
    यद् ऋतव्या उपधाय प्राणभृतः

 3
    उपदधाति तस्मात् सर्वान् ऋतून् अनु वायुर् आ वरीवर्त्ति
    वृष्टिसनीर् उप दधाति
    वृष्टिम् एवाव रुन्द्धे यद् एकधोपदध्याद् एकम् ऋतुं वर्षेत् ।
    अनुपरिहारꣳ सादयति तस्मात् सर्वान् ऋतून् वर्षति
    यत् प्राणभृत उपधाय वृष्टिसनीर् उपदधाति तस्माद् वायुप्रच्युता दिवो वृष्टिर् ईर्ते
    पशवो वै वयस्याः ।
    नानामनसः खलु वै पशवो नानाव्रतास् ते ऽप एवाभि समनसः ॥

 4
    यं कामयेत ।
    अपशुः स्याद् इति वयस्यास् तस्योपधायापस्या उप दध्याद् असंज्ञानम् एवास्मै पशुभिः करोति ।
    अपशुर् एव भवति
    यं कामयेत
    पशुमान्त् स्याद् इत्य् अपस्यास् तस्योपधाय वयस्या उप दध्यात् संज्ञानम् एवास्मै पशुभिः करोति
    पशुमान् एव भवति
    चतस्रः पुरस्ताद् उप दधाति
    तस्माच् चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे ॥

 5
    मूर्धन्वतीर् भवन्ति
    तस्मात् पुरस्तान् मूर्धा
    पञ्च दक्षिणायाꣳ श्रोण्याम् उप दधाति पञ्चोत्तरस्यां तस्मात् पश्चाद् वर्षीयान् पुरस्तात्प्रवणः पशुः ।
    बस्तो वय इति दक्षिणे ऽꣳस उप दधाति वृष्णिर् वय इत्य् उत्तरेऽ
    अꣳसाव् एव प्रति दधाति
    व्याघ्रो वय इति दक्षिणे पक्ष उप दधाति सिꣳहो वय इत्य् उत्तरे
    पक्षयोर् एव वीर्यं दधाति
    पुरुषो वय इति मध्ये तस्मात् पुरुषः पशूनाम् अधिपतिः ॥

5.3.2 अनुवाक 2
स्वयमातृण्णाद्यभिधानम्
 1
    इन्द्राग्नी अव्यथमानाम् इति स्वयमातृण्णाम् उप दधाति ।
    इन्द्राग्निभ्यां वा इमौ लोकौ विधृतौ ।
    अनयोर् लोकयोर् विधृत्यै ।
    अधृतेव वा एषा यन् मध्यमा चितिः ।
    अन्तरिक्षम् इव वा एषा ।
    इन्द्राग्नी इत्य् आह ।
    इन्द्राग्नी वै देवानाम् ओजोभृतौ ।
    ओजसैवैनाम् अन्तरिक्षे चिनुते
    धृत्यै
    स्वयमातृण्णाम् उप दधाति ।
    अन्तरिक्षं वै स्वयमातृण्णा ।
    अन्तरिक्षम् एवोप धत्ते ।
   अश्वम् उप

 2
    घ्रापयति
    प्राणम् एवास्यां दधाति ।
    अथो प्राजापत्यो वा अश्वः
    प्रजापतिनैवाग्निं चिनुते
    स्वयमातृण्णा भवति
    प्राणानाम् उत्सृष्ट्यै ।
    अथो सुवर्गस्य लोकस्यानुख्यात्यै ।
    देवानां वै सुवर्गं लोकं यतां दिशः सम् अव्लीयन्त
    त एता दिश्या अपश्यन्
   ता उपादधत
   ताभिर् वै ते दिशो ऽदृꣳहन्
    यद् दिश्या उपदधाति
    दिशां विधृत्यै
    दश प्राणभृतः पुरस्ताद् उप ॥

 3
    दधाति
    नव वै पुरुषे प्राणा नाभिर् दशमी
    प्राणान् एव पुरस्ताद् धत्ते
    तस्मात् पुरस्तात् प्राणाः ।
    ज्योतिष्मतीम् उत्तमां उप दधाति
    तस्मात् प्राणानां वाग् ज्योतिर् उत्तमाः ।
    दशोप दधाति
    दशाक्षरा { विराड् ^ विराज् }
    विराट् छन्दसां ज्योतिः ।
    ज्योतिर् एव पुरस्ताद् धत्ते
    तस्मात् पुरस्ताज् ज्योतिर् उपाऽऽस्महे
    छन्दाꣳसि पशुष्व् आजिम् अयुस्
    तान् बृहत्य् उद् अजयत्
    तस्माद् बार्हताः

 4
    पशव उच्यन्ते
    मा छन्द इति दक्षिणत उप दधाति तस्माद् दक्षिणावृतो मासाः
    पृथिवी छन्द इति पश्चात् प्रतिष्ठित्यै ।
    अग्निर् देवतेत्य् उत्तरत ओजो वा अग्निर् ओज एवोत्तरतो धत्ते तस्माद् उत्तरतोऽभिप्रयायी जयति
    षट्त्रिꣳशत् सम् पद्यन्ते
    षट्त्रिꣳशदक्षरा बृहती
    बार्हताः पशवः ।
    बृहत्यैवास्मै पशून् अव रुन्द्धे
    बृहती छन्दसाꣳ स्वाराज्यम् परीयाय
   यस्यैताः

 5
    उपधीयन्ते गच्छति स्वाराज्यम् ।
    सप्त वालखिल्याः पुरस्ताद् उप दधाति सप्त पश्चात्
    सप्त वै शीर्षण्याः प्राणा द्वाव् अवाञ्चौ प्राणानाꣳ सवीर्यत्वाय
    मूर्धासि राड् इति पुरस्ताद् उप दधाति यन्त्री राड् इति पश्चात्
    प्राणान् एवास्मै समीचो दधाति ॥

5.3.3 अनुवाक 3
 अक्ष्णयास्तोमीयादीनामभिधानम्
 1
    देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
    ते देवा एता अक्ष्णयास्तोमीया अपश्यन्
    ता अन्यथाऽनूच्यान्यथोपादधत
    तद् असुरा नान्ववायन्
    ततो देवा अभवन् पराऽसुराः।
    यद् अक्ष्णयास्तोमीया अन्यथाऽनूच्यान्यथोपदधाति भ्रातृव्याभिभूत्यै
    भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
    आशुस् त्रिवृद् इति पुरस्ताद् उप दधाति
    यज्ञमुखं वै त्रिवृत् ।

 2
    यज्ञमुखम् एव पुरस्ताद् वि यातयति
    व्योम सप्तदश इति दक्षिणतः ।
    अन्नं वै व्योम ।
    अन्नꣳ सप्तदशः ।
    अन्नम् एव दक्षिणतो धत्ते
    तस्माद् दक्षिणेनान्नम् अद्यते
    धरुण एकविꣳश इति पश्चात् प्रतिष्ठा वा एकविꣳशः
    प्रतिष्ठित्यै
    भान्तः पञ्चदश इत्य् उत्तरतः ।
    ओजो वै भान्तः
  ओजः पञ्चदशः ।
    ओज एवोत्तरतो धत्ते
    तस्माद् उत्तरतोऽभिप्रयायी जयति
    प्रतूर्तिर् अष्टादश इति पुरस्तात्

 3
    उप दधाति
    द्वौ त्रिवृताव् अभिपूर्वं यज्ञमुखे वि यातयति ।
    अभिवर्तः सविꣳश इति दक्षिणतः ।
    अन्नं वा अभिवर्तः ।
    अन्नꣳ सविꣳशः ।
    अन्नम् एव दक्षिणतो धत्ते
    तस्माद् दक्षिणेनान्नम् अद्यते
    वर्चो द्वाविꣳश इति पश्चात् ।
    यद् विꣳशतिर् द्वे तेन विराजौ
    यद् द्वे प्रतिष्ठा तेन
    विराजोर् एवाभिपूर्वम् अन्नाद्ये प्रति तिष्ठति
    तपो नवदश इत्य् उत्तरतस्
   तस्मात् सव्यः

 4
    हस्तयोस् तपस्वितरः ।
    योनिश् चतुर्विꣳश इति पुरस्ताद् उप दधाति
    चतुर्विꣳशत्यक्षरा गायत्री
    गायत्री यज्ञमुखम् ।
    यज्ञमुखम् एव पुरस्ताद् वि यातयति
    गर्भाः पञ्चविꣳश इति दक्षिणतः ।
    अन्नं वै गर्भाः ।
    अन्नम् पञ्चविꣳशः ।
    अन्नम् एव दक्षिणतो धत्ते
   तस्माद् दक्षिणेनान्नम् अद्यते ।
  ओजस् त्रिणव इति पश्चात् ।
   इमे वै लोकास् त्रिणवः ।
    एष्व् एव लोकेषु प्रति तिष्ठति
    सम्भरणस् त्रयोविꣳश इति

 5
    उत्तरतस्
    तस्मात् सव्यो हस्तयोः सम्भार्यतरः
    क्रतुर् एकत्रिꣳश इति पुरस्ताद् उप दधाति
    वाग् वै क्रतुः ।
    यज्ञमुखं वाक् ।
    यज्ञमुखम् एव पुरस्ताद् वि यातयति
    ब्रध्नस्य विष्टपं चतुस्त्रिꣳश इति दक्षिणतः ।
    असौ वा आदित्यो ब्रध्नस्य विष्टपम्
    ब्रह्मवर्चसम् एव दक्षिणतो धत्ते
    तस्माद् दक्षिणो ऽर्धो ब्रह्मवर्चसितरः
    प्रतिष्ठा त्रयस्त्रिꣳश इति पश्चात्
    प्रतिष्ठित्यै
    नाकः षट्त्रिꣳश इत्य् उत्तरतः
    सुवर्गो वै लोको नाकः
    सुवर्गस्य लोकस्य समष्ट्यै ॥

5.3.4 अनुवाक 4 अक्ष्णयास्तोमीयादीनामभिधानम्
 1
    अग्नेर् भागो ऽसीति पुरस्ताद् उप दधाति
    यज्ञमुखं वा अग्निः ।
    यज्ञमुखं दीक्षा
    यज्ञमुखम् ब्रह्म
    यज्ञमुखं त्रिवृत् ।
    यज्ञमुखम् एव पुरस्ताद् वि यातयति
    नृचक्षसाम् भागो ऽसीति दक्षिणतः
    शुश्रुवाꣳसो वै नृचक्षसः ।
    अन्नं धाता
   जातायैवास्मा अन्नम् अपि दधाति
    तस्माज् जातो ऽन्नम् अत्ति
    जनित्रꣳ स्पृतꣳ सप्तदश स्तोम इत्य् आह ।
    अन्नं वै जनित्रम् ॥

 2
    अन्नꣳ सप्तदशः ।
    अन्नम् एव दक्षिणतो धत्ते
    तस्माद् दक्षिणेनान्नम् अद्यते
    मित्रस्य भागो ऽसीति पश्चात्
    प्राणो वै मित्रो ऽपानो वरुणः
    प्राणापानाव् एवास्मिन् दधाति
    दिवो वृष्टिर् वाता स्पृता एकविꣳश स्तोम इत्य् आह
    प्रतिष्ठा वा एकविꣳशः
    प्रतिष्ठित्यै ।
    इन्द्रस्य भागो ऽसीत्य् उत्तरतः ।
    ओजो वा इन्द्रः ।
    ओजो विष्णुः ।
    ओजः क्षत्रम्
    ओजः पञ्चदशः ॥

 3
    ओज एवोत्तरतो धत्ते
    तस्माद् उत्तरतोऽभिप्रयायी जयति
    वसूनाम् भागो ऽसीति पुरस्ताद् उप दधाति
    यज्ञमुखं वै वसवः ।
    यज्ञमुखꣳ रुद्राः ।
    यज्ञमुखं चतुर्विꣳशः ।
    यज्ञमुखम् एव पुरस्ताद् वि यातयति ।
    आदित्यानाम् भागो ऽसीति दक्षिणतः ।
    अन्नं वा आदित्याः ।
    अन्नम् मरुतः ।
    अन्नं गर्भाः ।
    अन्नम् पञ्चविꣳशः ।
    अन्नम् एव दक्षिणतो धत्ते
    तस्माद् दक्षिणेनान्नम् अद्यते ।
    अदित्यै भागः ॥

 4
    असीति पश्चात्
    प्रतिष्ठा वा अदितिः
    प्रतिष्ठा पूषा
    प्रतिष्ठा त्रिणवः
    प्रतिष्ठित्यै
    देवस्य सवितुर् भागो ऽसीत्य् उत्तरतः ।
    ब्रह्म वै देवः सविता
    ब्रह्म बृहस्पतिः ।
    ब्रह्म चतुष्टोमः ।
    ब्रह्मवर्चसम् एवोत्तरतो धत्ते
    तस्माद् उत्तरो ऽर्धो ब्रह्मवर्चसितरः
    सावित्रवती भवति
    प्रसूत्यै
    तस्माद् ब्राह्मणानाम् उदीची सनिः प्रसूता
    धर्त्रश् चतुष्टोम इति पुरस्ताद् उप दधाति
    यज्ञमुखं वै धर्त्रः ॥

 5
    यज्ञमुखं चतुष्टोमः ।
    यज्ञमुखम् एव पुरस्ताद् वि यातयति
    यावानाम् भागो ऽसीति
    दक्षिणतः ।
    मासा वै यावा अर्धमासा अयावास्
    तस्माद् दक्षिणावृतो मासाः ।
    अन्नं वै यावाः ।
    अन्नम् प्रजाः ।
    अन्नम् एव दक्षिणतो धत्ते
    तस्माद् दक्षिणेनान्नम् अद्यते ।
    ऋभूणाम् भागो ऽसीति पश्चात्
    प्रतिष्ठित्यै
    विवर्तो ऽष्टाचत्वारिꣳश इत्य् उत्तरतः ।
    अनयोर् लोकयोः सवीर्यत्वाय
    तस्माद् इमौ लोकौ समावद्वीर्यौ ॥

 6
    यस्य मुख्यवतीः पुरस्ताद् उपधीयन्ते मुख्य एव भवति ।
    आस्य मुख्यो जायते
    यस्यान्नवतीर् दक्षिणतो ऽत्त्य् अन्नम्
    आस्यान्नादो जायते
    यस्य प्रतिष्ठावतीः पश्चात् प्रत्य् एव तिष्ठति
    यस्यौजस्वतीर् उत्तरत ओजस्व्य् एव भवति ।
    आस्यौजस्वी जायते ।
    अर्को वा एष यद् अग्निस्
    तस्यैतद् एव स्तोत्रम् एतच् छस्त्रम् ।
    यद् एष विधा ॥

 7
    विधीयते ऽर्क एव तद् अर्क्य्àम् अनु वि धीयते ।
    अत्त्य् अन्नम् आस्यान्नाद्यो जायते यस्यैषा विधा विधीयते य उ चैनाम् एवं वेद
    सृष्टीर् उप दधाति
    यथासृष्टम् एवाव रुन्द्धे
    न वा इदं दिवा न नक्तम् आसीद् अव्यावृत्तम् ।
    ते देवा एता व्युष्टीर् अपश्यन्
    ता उपादधत
    ततो वा इदं व्यौच्छत् ।
    यस्यैता उपधीयन्ते व्य् एवास्मा उच्छति ।
    अथो तम एवाप हते ॥

5.3.5 अनुवाक 5
 असपत्नविराडाख्येष्टकाभिधानम्
 1
    अग्ने जातान् प्र णुदा नः सपत्नान् इति पुरस्ताद् उप दधाति
    जातान् एव भ्रातृव्यान् प्र णुदते
    सहसा जातान् इति पश्चात् ।
    जनिष्यमाणान् एव प्रति नुदते
    चतुश्चत्वारिꣳश स्तोम इति दक्षिणतः ।
    ब्रह्मवर्चसं वै चतुश्चत्वारिꣳशः ।
    ब्रह्मवर्चसम् एव दक्षिणतो धत्ते
    तस्माद् दक्षिणो ऽर्धो ब्रह्मवर्चसितरः
    षोडश स्तोम इत्य् उत्तरतः ।
   ओजो वै षोडशः ।
    ओज एवोत्तरतो धत्ते
   तस्मात्

 2
    उत्तरतोऽभिप्रयायी जयति
    वज्रो वै चतुश्चत्वारिꣳशो वज्रः षोडशः ।
    यद् एते इष्टके उपदधाति जाताꣳश् चैव जनिष्यमाणाꣳश् च भ्रातृव्यान् प्रणुद्य वज्रम् अनु प्र हरति
    स्तृत्यै
    पुरीषवतीम् मध्य उप दधाति
    पुरीषं वै मध्यम् आत्मनः
    सात्मानम् एवाग्निं चिनुते
    सात्मामुष्मिँल्लोके भवति य एवं वेद ।
    एता वा असपत्ना नामेष्टकाः ।
   यस्यैता उपधीयन्ते ।

 3
    नास्य सपत्नो भवति
    पशुर् वा एष यद् अग्निः ।
    विराजः उत्तमायां चित्याम् उप दधाति
    विराजम् एवोत्तमाम् पशुषु दधाति
    तस्मात् पशुमान् उत्तमां वाचं वदति
    दशदशोप दधाति सवीर्यत्वाय ।
    अक्ष्णयोप दधाति
    तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै
    यानि वै छन्दाꣳसि सुवर्ग्याण्य् आसन् तैर् देवाः सुवर्गं लोकम् आयन्
    तेनर्षयः

 4
    अश्राम्यन्
    ते तपो ऽतप्यन्त
    तानि तपसापश्यन्
    तेभ्य एता इष्टका निर् { अमिमत्। ^ अमिमत } ।
एवश् छन्दो वरिवश् छन्द इति
    ता उपादधत
    ताभिर् वै ते सुवर्गं लोकम् आयन्
    यद् एता इष्टका उपदधाति
    यान्य् एव छन्दाꣳसि सुवर्ग्याणि तैर् एव यजमानः सुवर्गं लोकम् एति
    यज्ञेन वै प्रजापतिः प्रजा असृजत
    ता स्तोमभागैर् एवासृजत
   यत्

 5
    स्तोमभागा उपदधाति प्रजा एव तद् यजमानः सृजते
    बृहस्पतिर् वा एतद् यज्ञस्य तेजः सम् अभरद् यद् स्तोमभागाः ।
    यत् स्तोमभागा उपदधाति सतेजसम् एवाग्निं चिनुते
    बृहस्पतिर् वा एतां यज्ञस्य प्रतिष्ठाम् अपश्यद् यत् स्तोमभागाः ।
    यत् स्तोमभागा उपदधाति यज्ञस्य प्रतिष्ठित्यै
    सप्तसप्तोप दधाति सवीर्यत्वाय
    तिस्रो मध्ये प्रतिष्ठित्यै ॥

5.3.6 अनुवाक 6
 स्तोमभागाख्येष्टकाभिधानम्
 1
    रश्मिर् इत्य् एवादित्यम् असृजत
    प्रेतिर् इति धर्मम्
    अन्वितिर् इति दिवम् ।
    संधिर् इत्य् अन्तरिक्षम्
    प्रतिधिर् इति पृथिवीम् ।
    विष्टम्भ इति वृष्टिम्
    प्रवेत्य् अहर्
    अनुवेति रात्रिम्
    उशिग् इति वसून्
   प्रकेत इति रुद्रान् ।
    सुदीतिर् इत्य् आदित्यान्
   ओज इति पितॄन् ।
    तन्तुर् इति प्रजाः
   पृतनाषाड् इति पशून्
    रेवद् इत्य् ओषधीः
    अभिजिद् असि युक्तग्रावा

 2
    इन्द्राय त्वेन्द्रं जिन्वेत्य् एव दक्षिणतो वज्रम् पर्य् औहद् अभिजित्यै
    ताः प्रजा अपप्राणा असृजत
    तास्व् अधिपतिर् असीत्य् एव प्राणम् अदधात् ।
    यन्तेत्य् अपानम् ।
    सꣳसर्प इति चक्षुः ।
    वयोधा इति श्रोत्रम् ।
    ताः प्रजाः प्राणतीर् अपानतीः पश्यन्तीः शृण्वतीर् न मिथुनी अभवन्
    तासु त्रिवृद् असीत्य् एव मिथुनम् अदधात्
    ताः प्रजा मिथुनी

 3
    भवन्तीर् न प्राजायन्त
    ताः सꣳरोहो ऽसि नीरोहो ऽसीत्य् एव प्राजनयत्
    ताः प्रजाः प्रजाता न प्रत्य् अतिष्ठन्
    ता वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीत्य् एवैषु लोकेषु प्रत्य् अस्थापयत् ।
    यद् आह
    वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीति प्रजा एव प्रजाता एषु लोकेषु प्रति ष्ठापयति
    सात्मान्तरिक्षꣳ रोहति
    सप्राणो ऽमुष्मिँल्लोके प्रति तिष्ठति ।
    अव्यर्धुकः प्राणापानाभ्याम् भवति य एवं वेद ॥

5.3.7 अनुवाक 7
नाकसदादि पञ्चविधेष्टकाभिधानम्
 1
    नाकसद्भिर् वै देवाः सुवर्गं लोकम् आयन्
    तन् नाकसदां नाकसत्त्वम् ।
    यन् नाकसद उपदधाति नाकसद्भिर् एव तद् यजमानः सुवर्गं लोकम् एति
    सुवर्गो वै लोको नाकः ।
    यस्यैता उपधीयन्ते नास्मा अकम् भवति
    यजमानायतनं वै नाकसदः ।
    यन् नाकसद उपदधात्य् आयतनम् एव तद् यजमानः कुरुते
    पृष्ठानां वा एतत् तेजः सम्भृतं यन् नाकसदः ।
    यन् नाकसदः

 2
    उपदधाति पृष्ठानाम् एव तेजो ऽव रुन्द्धे
    पञ्चचोडा उप दधाति ।
    अप्सरस एवैनम् एता भूता अमुष्मिँल्लोक उप शेरे ।
    अथो तनूपानीर् एवैता यजमानस्य
    यं द्विष्यात् तम् उपदधद् ध्यायेत् ।
    एताभ्य एवैनं देवताभ्य आ वृश्चति
    ताजग् आर्तिम् आर्छति ।
    उत्तरा नाकसद्भ्य उप दधाति
    यथा जायाम् आनीय गृहेषु निषादयति तादृग् एव तत् ॥

 3
    पश्चात् प्राचीम् उत्तमाम् उप दधाति तस्मात् पश्चात् प्राची पत्न्य् अन्व् आस्ते
    स्वयमातृण्णां च विकर्णीं चोत्तमे उप दधाति
    प्राणो वै स्वयमातृण्णाऽऽयुर् विकर्णी
    प्राणं चैवायुश् च प्राणानाम् उत्तमौ धत्ते
    तस्मात् प्राणश् चायुश् च प्राणानाम् उत्तमौ
    नान्याम् उत्तराम् इष्टकाम् उप दध्यात् ।
    यद् अन्याम् उत्तराम् इष्टकाम् उपदध्यात् पशूनाम्

 4
    च यजमानस्य च प्राणं चायुश् चापि दध्यात्
    तस्मान् नान्योत्तरेष्टकोपधेया
    स्वयमातृण्णाम् उप दधाति ।
    असौ वै स्वयमातृण्णाऽमूम् एवोप धत्ते ।
    अश्वम् उप घ्रापयति प्राणम् एवास्यां दधाति ।
    अथो प्राजापत्यो वा अश्वः प्रजापतिनैवाग्निं चिनुते
    स्वयमातृण्णा भवति प्राणानाम् उत्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्यै ।
    एषा वै देवानां विक्रान्तिर् यद् विकर्णी
    यद् विकर्णीम् उपदधाति देवानाम् एव विक्रान्तिम् अनु वि क्रमते ।
   उत्तरत उप दधाति
   तस्माद् उत्तरतौपचारो ऽग्निः ।
    वायुमती भवति
    समिद्ध्यै ॥

5.3.8 अनुवाक 8
छन्दोभिधेष्टकाभिधानम्
 1
    छन्दाꣳस्य् उप दधाति
    पशवो वै छन्दाꣳसि
    पशून् एवाव रुन्द्धे
    छन्दाꣳसि वै देवानां वामम् पशवः ।
    वामम् एव पशून् अव रुन्द्धे ।
    एताꣳ ह वै यज्ञसेनश् चैत्रियायणश् चितिं विदां चकार
    तया वै स पशून् अवारुन्द्ध
    यद् एताम् उपदधाति पशून् एवाव रुन्द्धे
    गायत्रीः पुरस्ताद् उप दधाति
   तेजो वै गायत्री
   तेज एव

 2
    मुखतो धत्ते
    मूर्धन्वतीर् भवन्ति
    मूर्धानम् एवैनꣳ समानानां करोति
    त्रिष्टुभ उप दधाति ।
    इन्द्रियं वै { त्रिष्टुग् ^ त्रिष्टुभ् }
    इन्द्रियम् एव मध्यतो धत्ते
    जगतीर् उप दधाति
    जागता वै पशवः
    पशून् एवाव रुन्द्धे ।
    अनुष्टुभ उप दधाति
   प्राणा वा { अनुष्टुप् ^ अनुष्टुभ् }
   प्राणानाम् उत्सृष्ट्यै
   बृहतीर् उष्णिहाः पङ्क्तीर् अक्षरपङ्क्तीर् इति विषुरूपाणि छन्दाꣳस्य् उप दधाति
    विषुरूपा वै पशवः
   पशवः

 3
    छन्दाꣳसि
    विषुरूपान् एव पशून् अव रुन्द्धे
    विषुरूपम् अस्य गृहे दृश्यते यस्यैता उपधीयन्ते य उ चैनाम् एवं वेद ।
    अतिच्छन्दसम् उप दधाति ।
    अतिच्छन्दा वै सर्वाणि छन्दाꣳसि
    सर्वेभिर् एवैनं छन्दोभिश् चिनुते
    वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दाः ।
    यत् अतिच्छन्दसम् उपदधाति वर्ष्मैवैनꣳ समानानां करोति
    द्विपदा उप दधाति
   द्विपाद् यजमानः
   प्रतिष्ठित्यै ॥

5.3.9 अनुवाक 9
सयुगादीष्टकात्रयाभिधानम्
 1
    सर्वाभ्यो वै देवताभ्यो ऽग्निश् चीयते
    यत् सयुजो नोपदध्याद् देवता अस्याग्निं वृञ्जीरन्
    यत् सयुज उपदधात्य् आत्मनैवैनꣳ सयुजं चिनुते नाग्निना व्यृध्यते ।
    अथो यथा पुरुषः स्नावभिः संतत एवम् एवैताभिर् अग्निः संततः।
    अग्निना वै देवाः सुवर्गं लोकम् आयन् ता अमूः कृत्तिका अभवन्
    यस्यैता उपधीयन्ते सुवर्गम् एव

 2
    लोकम् एति गच्छति प्रकाशं चित्रम् एव भवति ॥
    मण्डलेष्टका उप दधाति ।
    इमे वै लोका मण्डलेष्टका
    इमे खलु वै लोका देवपुरा
    देवपुरा एव प्र विशति नार्तिम् आर्छत्य् अग्निं चिक्यानः॥
    विश्वज्योतिष उप दधाति ।
    इमान् एवैताभिर् लोकाञ् ज्योतिष्मतः कुरुते ।
    अथो प्राणान् एवैता यजमानस्य दाध्रति ।
    एता वै देवताः सुवर्ग्यास्
    ता एवान्वारभ्य सुवर्गं लोकम् एति ॥

5.3.10 अनुवाक 10
वृष्टिसन्यादीष्टकापञ्चकाभिधानम्
 1
    वृष्टिसनीर् उप दधाति
    वृष्टिम् एवाव रुन्द्धे
    यद् एकधोपदध्याद् एकम् ऋतुं वर्षेत् ।
    अनुपरिहारꣳ सादयति तस्मात् सर्वान् ऋतून् वर्षति
    पुरोवातसनिर् असीत्य् आह ।
    एतद् वै वृष्ट्यै रूपम् ।
    रूपेणैव वृष्टिम् अव रुन्द्धे
    संयानीभिर् वै देवा इमाँल्लोकान्त् सम् अयुस्
    तत् संयानीनाꣳ संयानित्वम् ।
   यत् संयानीर् उपदधाति यथाप्सु नावा संयात्य् एवम्

 2
    एवैताभिर् यजमान इमाँल्लोकान्त् सं याति
    प्लवो वा एषो ऽग्नेर् यत् संयानीः ।
    यत् संयानिर् उपदधाति प्लवम् एवैतम् अग्नय उप दधाति ।
    उत यस्यैतासूपहितास्व् आपो ऽग्निꣳ हरन्त्य् अहृत एवास्याग्निः।
    आदित्येष्टका उप दधाति ।
    आदित्या वा एतम् भूत्यै प्रति नुदन्ते यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति ।
    आदित्याः

 3
    एवैनम् भूतिं गमयन्ति ।
    असौ वा एतस्यादित्यो रुचम् आ दत्ते यो ऽग्निं चित्वा न रोचते
    यद् आदित्येष्टका उपदधात्य् असाव् एवास्मिन्न् आदित्यो रुचं दधाति
    यथासौ देवानाꣳ रोचत एवम् एवैष मनुष्याणाꣳ रोचते ॥
    घृतेष्टका उप दधाति ।
    एतद् वा अग्नेः प्रियं धाम यद् घृतम्
    प्रियेणैवैनं धाम्ना सम् अर्धयति ।

 4
    अथो तेजसा
    अनुपरिहारꣳ सादयति ।
    अपरिवर्गम् एवास्मिन् तेजो दधाति
    प्रजापतिर् अग्निम् अचिनुत
    स यशसा व्य् आर्ध्यत
    स एता यशोदा अपश्यत्
    ता उपाधत्त
    ताभिर् वै स यश आत्मन्न् अधत्त
    यद् यशोदा उपदधाति यश एव ताभिर् यजमान आत्मन् धत्ते
    पञ्चोप दधाति
   पाङ्क्तः पुरुषः ।
    यावान् एव पुरुषस् तस्मिन् यशो दधाति ॥

5.3.11 अनुवाक 11
भूयस्कृदादीष्टकाषट्काभिधानम्
 1
    देवासुराः संयत्ता आसन्
    कनीयाꣳसो देवा आसन् भूयाꣳसो ऽसुरास्
    ते देवा एता इष्टका अपश्यन्
    ता उपादधत
    भूयस्कृद् असीत्य् एव भूयाꣳसो ऽभवन् वनस्पतिभिर् ओषधीभिः ।
    वरिवस्कृद् असीतीमाम् अजयन्
    प्राच्य् असीति प्राचीं दिशम् अजयन् ।
    ऊर्ध्वासीत्य् अमूम् अजयन् ।
    अन्तरिक्षसद् अस्य् अन्तरिक्षे सीदेत्य् अन्तरिक्षम् अजयन्
   ततो देवा अभवन्

 2
    पराऽसुराः ।
    यस्यैता उपधीयन्ते भूयान् एव भवति ।
    अभीमाँल्लोकाञ् जयति
    भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
    अप्सुषद् असि श्येनसद् असीत्य् आह ।
    एतद् वा अग्ने रूपम् ।
    रूपेणैवाग्निम् अव रुन्द्धे
    पृथिव्यास् त्वा द्रविणे सादयामीत्य् आह ।
    इमान् एवैताभिर् लोकान् द्रविणावतः कुरुते ॥
   आयुष्या उप दधाति ।
  आयुर् एव

 3
    अस्मिन् दधाति ।
    अग्ने यत् ते परꣳ हृन् नामेत्य् आह ।
    एतद् वा अग्नेः प्रियं धाम
    प्रियम् एवास्य धामोपाप्नोति
    ताव् एहि सꣳ रभावहा इत्य् आह
    व्य् एवैनेन परि धत्ते
    पाञ्चजन्येष्व् अप्य् एध्य् अग्न इत्य् आह ।
    एष वा अग्निः पाञ्चजन्यो यः पञ्चचितीकस्
    तस्माद् एवम् आह ॥
   ऋतव्या उप दधाति ।
    एतद् वा ऋतूनाम् प्रियं धाम यद् ऋतव्याः ।
    ऋतूनाम् एव प्रियं धामाव रुन्द्धे
   सुमेक इत्य् आह
   संवत्सरो वै सुमेकः
   संवत्सरस्यैव प्रियं धामोपाप्नोति ॥

5.3.12 अनुवाक 12
अश्वमेधविधिः
 1
    प्रजापतेर् अक्ष्य् अश्वयत्
    तत् परापतत्
    तद् अश्वो ऽभवत् ।
    यद् अश्वयत् तद् अश्वस्याश्वत्वम् ।
    तद् देवा अश्वमेधेनैव प्रत्य् अदधुः ।
    एष वै प्रजापतिꣳ सर्वं करोति यो ऽश्वमेधेन यजते
    सर्व एव भवति
    सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषजम् ।
    सर्वं वा एतेन पाप्मानं देवा अतरन् ।
   अपि वा एतेन ब्रह्महत्याम् अतरन् ।
   सर्वम् पाप्मानम्

 2
    तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते य उ चैनम् एवं वेद ।
    उत्तरं वै तत् प्रजापतेर् अक्ष्य् अश्वयत्
    तस्माद् अश्वस्योत्तरतो ऽव द्यन्ति दक्षिणतो ऽन्येषाम् पशूनाम् ।
    वैतसः कटो भवति ।
    अप्सुयोनिर् वा अश्वः।
    अप्सुजो वेतसः
    स्व एवैनं योनौ प्रति ष्ठापयति
    चतुष्टोम स्तोमो भवति
    सरड्ढ वा अश्वस्य सक्थ्य् आवृहत्
    तद् देवाश् चतुष्टोमेनैव प्रत्य् अदधुः ।
    यच् चतुष्टोम स्तोमो भवत्य् अश्वस्य सर्वत्वाय ॥