तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ५/प्रपाठकः २

विकिस्रोतः तः
Jump to navigation Jump to search

तैत्तिरीय संहिता
काण्ड 5 5.2 प्रपाठक: 2

5.2.1 अनुवाक 1 आसन्द्यां वह्निस्थापनं वात्सप्रेणोपस्थानं च
VERSE: 1
विष्णुमुखा वै देवाश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभ्य् अजयन् यद् विष्णुक्रमान् क्रमते विष्णुर् एव भूत्वा यजमानश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभि जयति विष्णोः क्रमो ऽस्य् अभिमातिहेत्य् आह गायत्री वै पृथिवी त्रैष्ठुभम् अन्तरिक्षम् । जागती द्यौः । आनुष्टुभीर् दिशः । छन्दोभिर् एवेमाँल्लोकान् यथापूर्वम् अभि जयति प्रजापतिर् अग्निम् असृजत सो ऽस्मात् सृष्टः ।
VERSE: 2
पराङ् ऐत् तम् एतयान्व् ऐत् । अक्रन्दत् इति तया वै सो ऽग्नेः प्रियं धामावारुन्द्ध यद् एताम् अन्वाहाग्नेर् एवैतया प्रियं धामाव रुन्द्धे । ईश्वरो वा एष पराङ् प्रदघो यो विष्णुक्रमान् क्रमते चतसृभिर् आ वर्तते चत्वारि छन्दाम्̇सि छन्दाम्̇सि खलु वा अग्नेः प्रिया तनूः प्रियाम् एवास्य तनुवम् अभि
VERSE: 3
पर्यावर्तते दक्षिणा पर्यावर्तते स्वम् एव वीर्यम् अनु पर्यावर्तते तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यावत्तरः । अथो आदित्यस्यैवावृतम् अनु पर्यावर्तते शुनःशेपम् आजीगर्तिं वरुणो ऽगृह्णात् स एताम् वारुणीम् अपश्यत् तया वै स आत्मानं वरुणपाशाद् अमुञ्चत् । वरुणो वा एतं गृह्णाति य उखाम् प्रतिमुञ्चते । उद् उत्तमं वरुण पाशम् अस्मद् इत्य् आह । आत्मानम् एवैतया
VERSE: 4 वरुणपाशान् मुञ्चति । आ त्वाहार्षम् इत्य् आह । आ ह्य् एनम्̇ हरति ध्रुवस् तिष्ठाविचाचलिर् इत्य् आह प्रतिष्ठित्यै विशस् त्वा सर्वा वाञ्छन्त्व् इत्य् आह विशैवैनम्̇ सम् अर्धयति । अस्मिन् राष्ट्रम् अधि श्रयेत्य् आह राष्ट्रम् एवास्मिन् ध्रुवम् अकर् यं कामयेत राष्ट्रम्̇ स्याद् इति तम् मनसा ध्यायेत् । राष्ट्रम् एव भवति ॥
VERSE: 5 अग्रे बृहन्न् उषसामूर्ध्वो अस्थाद् इत्य् आह । अग्रम् एवैनम्̇ समानानां करोति निर्जग्मिवान् तमस इत्य् आह तम एवास्माद् अप हन्ति ज्योतिषागाद् इत्य् आह ज्योतिर् एवास्मिन् दधाति चतसृभिः सादयति चत्वारि छन्दाम्̇सि छन्दोभिर् एव । अतिच्छन्दसोत्तमया वर्ष्म वा एष छन्दसां यद् अतिच्छन्दाः । वर्ष्मैवैनम्̇ समानानां करोति सद्वती
VERSE: 6 भवति सत्त्वम् एवैनं गमयति वात्सप्रेणोप तिष्ठते । एतेन वै वत्सप्रीर् भालन्दनो ऽग्नेः प्रियं धामावारुन्द्ध । अग्नेर् एवैतेन प्रियं धामाव रुन्द्धे । एकादशम् भवति । एकधैव यजमाने वीर्यं दधाति स्तोमेन वै देवा अस्मिम्̐ लोक आर्ध्नुवञ् छन्दोभिर् अमुष्मिन् । स्तोमस्येव खलु वा एतद् रूपं यद् वात्सप्रम् । यद् वात्सप्रेणोपतिष्ठते ।
VERSE: 7 इमम् एव तेन लोकम् अभि जयति यद् विष्णुक्रमान् क्रमते ऽमुम् एव तैर् लोकम् अभि जयति पूर्वेद्युः प्र क्रामत्य् उत्तरेद्युर् उप तिष्ठते तस्माद् योगे ऽन्यासाम् प्रजानाम् मनः क्षेमे ऽन्यासाम् । तस्माद् यायावरः क्षेम्यस्येशे तस्माद् यायावरः क्षेम्यम् अध्यवस्यति मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्यै ॥

5.2.2 अनुवाक 2 उख्याग्निनयनम्
VERSE: 1 अन्नपते ऽन्नस्य नो देहीत्य् आह । अग्निर् वा अन्नपतिः स एवास्मा अन्नम् प्र यच्छति । अनमीवस्य शुष्मिण इत्य् आह । अयक्ष्मस्येति वावैतद् आह प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पद इत्य् आह । आशिषम् एवैताम् आ शास्ते । उद् उ त्वा विश्वे देवा इत्य् आह प्राणा वै विश्वे देवाः ।
VERSE: 2 प्राणैर् एवैनम् उद् यच्छते । अग्ने भरन्तु चित्तिभिर् इत्य् आह यस्मा एवैनं चित्तायोद्यच्छते तेनैवैनम्̇ सम् अर्धयति चतसृभिर् आ सादयति चत्वारि छन्दाम्̇सि छन्दोभिर् एव । अतिच्छन्दसोत्तमया वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दा वर्ष्मैवैनम्̇ समानानां करोति सद्वती भवति सत्त्वम् एवैनं गमयति प्रेद् अग्ने ज्योतिष्मान्
VERSE: 3 याहीत्य् आह ज्योतिर् एवास्मिन् दधाति तनुवा वा एष हिनस्ति यम्̇ हिनस्ति मा हिम्̇सीस् तनुवा प्रजा इत्य् आह प्रजाभ्य एवैनम्̇ शमयति रक्षाम्̇सि वा एतद् यज्ञम्̇ सचन्ते यद् अन उत्सर्जति । अक्रन्दद् इत्य् अन्व् आह रक्षसाम् अपहत्यै । अनसा वहन्ति । अपचितिम् एवास्मिन् दधाति तस्माद् अनस्वी च रथी चातिथीनाम् अपचिततमौ ।
VERSE: 4 अपचितिमान् भवति य एवं वेद समिधाग्निं दुवस्यतेति घृतानुषिक्ताम् अवसिते समिधम् आ दधाति यथातिथय आगताय सर्पिष्वद् आतिथ्यं क्रियते तादृग् एव तत् । गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणः त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः । अप्सु भस्म प्र वेशयति । अप्सुयोनिर् वा अग्निः स्वाम् एवैनं योनिं गमयति तिसृभिः प्र वेशयति त्रिवृद् वै
VERSE: 5 अग्निः । यावान् एवाग्निः तम् प्रतिष्ठां गमयति परा वा एषो ऽग्निं वपति यो ऽप्सु भस्म प्रवेशयति ज्योतिष्मतीभ्याम् अव दधाति ज्योतिर् एवास्मिन् दधाति द्वाभ्याम् प्रतिष्ठित्यै परा वा एष प्रजाम् पशून् वपति यो ऽप्सु भस्म प्रवेशयति पुनर् ऊर्जा सह रय्येति पुनर् उदैति प्रजाम् एव पशून् आत्मन् धत्ते पुनस् त्वादित्याः
VERSE: 6 रुद्रा वसवः सम् इन्धताम् इत्य् आह । एता वा एतं देवता अग्रे सम् ऐन्धत ताभिर् एवैनम्̇ सम् इन्द्धे बोधा स बोधीत्य् उप तिष्ठते बोधयत्य् एवैनम् । तस्मात् सुप्त्वा प्रजाः प्र बुध्यन्ते यथास्थानम् उप तिष्ठते तस्माद् यथास्थानम् पशवः पुनर् एत्योप तिष्ठन्ते ॥

5.2.3 अनुवाक 3 गार्हपत्यचयनम्
VERSE: 1 यावती वै पृथिवी तस्यै यम आधिपत्यम् परीयाय यो वै यमं देवयजनम् अस्या अनिर्याच्याग्निं चिनुते यमायैनम्̇ स चिनुते । अपेतेत्य् अध्यवसाययति यमम् एव देवयजनम् अस्यै निर्याच्याऽऽत्मने ऽग्निं चिनुते । इष्वग्रेण वा अस्या अनामृतम् इच्छन्तो नाविन्दन् ते देवा एतद् यजुर् अपश्यन् । अपेतेति यद् एतेनाध्यवसाययति ॥
VERSE: 2 अनामृत एवाग्निं चिनुते । उद् धन्ति यद् एवास्या अमेध्यं तद् अप हन्ति । अपो ऽवोक्षति शान्त्यै सिकता नि वपति । एतद् वा अग्नेर् वैश्वानरस्य रूपम् । रूपेणैव वैश्वानरम् अव रुन्द्धे । ऊषान् नि वपति पुष्टिर् वा एषा प्रजननं यद् ऊषाः पुष्ट्याम् एव प्रजनने ऽग्निं चिनुते । अथो संज्ञान एव संज्ञानम्̇ ह्य् एतत्
VERSE: 3 पशूनां यद् ऊषाः । द्यावापृथिवी सहास्ताम् । ते वियती अब्रूताम् अस्त्व् एव नौ सह यज्ञियम् इति यद् अमुष्या यज्ञियम् आसीत् तद् अस्याम् अदधात् त ऊषा अभवन् यद् अस्या यज्ञियम् आसीत् तद् अमुष्याम् अदधात् तद् अदश् चन्द्रमसि कृष्णम् ऊषान् निवपन्न् अदो ध्यायेद् द्यावापृथिव्योर् एव यज्ञिये ऽग्निं चिनुते । अयम्̇ सो अग्निर् इति विश्वामित्रस्य
VERSE: 4 सूक्तम् भवति । एतेन वै विश्वामित्रो ऽग्नेः प्रियं धामावारुन्द्ध । अग्नेर् एवैतेन प्रियं धामाव रुन्द्धे छन्दोभिर् वै देवाः सुवर्गं लोकम् { आयञ् ^ आयन् } चतस्रः प्राचीर् उप दधाति चत्वारि छन्दाम्̇सि छन्दोभिर् एव तद् यजमानः सुवर्गं लोकम् एति तेषाम्̇ सुवर्गं लोकं यतां दिशः सम् अव्लीयन्त ते द्वे पुरस्तात् समीची उपादधत द्वे
VERSE: 5 पश्चात् समीची ताभिर् वै ते दिशो ऽदृम्̇हन् यद् द्वे पुरस्तात् समीची उपदधाति द्वे पश्चात् समीची दिशां विधृत्यै । अथो पशवो वै छन्दाम्̇सि पशून् एवास्मै समीचो दधाति । अष्टाव् उप दधाति । अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निः तं चिनुते । अष्टाव् उप दधाति । अष्टाक्षरा गायत्री गायत्री सुवर्गं लोकम् अञ्जसा वेद सुवर्गस्य लोकस्य
VERSE: 6 प्रज्ञात्यै त्रयोदश लोकम्पृणा उप दधाति । एकविम्̇शतिः सम् पद्यन्ते प्रतिष्ठा वा एकविम्̇शः प्रतिष्ठा गार्हपत्यः । एकविम्̇शस्यैव प्रतिष्ठां गार्हपत्यम् अनु प्रति तिष्ठति प्रत्य् अग्निं चिक्यानस् तिष्ठति य एवं वेद पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः । यज्ञम् एव पशून् अव रुन्द्धे त्रिचितीकं चिन्वीत द्वितीयं चिन्वानस् त्रय इमे लोकाः । एष्व् एव लोकेषु
VERSE: 7 प्रति तिष्ठन्ति । एकचितीकं चिन्वीत तृतीयं चिन्वानः। एकधा वै सुवर्गो लोकः । एकवृतैव सुवर्गं लोकम् एति पुरीषेणाभ्य् ऊहति तस्मान् माम्̇सेनास्थि छन्नम् । न दुश्चर्मा भवति य एवं वेद पञ्च चितयो भवन्ति पञ्चभिः पुरीषैर् अभ्य् ऊहति दश सम् पद्यन्ते दशाक्षरा { विराड् ^ विराज् } अन्नं { विराड् ^ विराज् } विराज्य् एवान्नाद्ये प्रति तिष्ठति ॥

5.2.4 अनुवाक 4 उख्याग्निसंवपनम्
VERSE: 1 वि वा एतौ द्विषाते यश् च पुराग्निर् यश् चोखायाम् । सम् इतम् इति चतसृभिः सं नि वपति चत्वारि छन्दाम्̇सि छन्दाम्̇सि खलु वा अग्नेः प्रिया तनूः प्रिययैवैनौ तनुवा सम्̇ शास्ति सम् इतम् इत्य् आह तस्माद् ब्रह्मणा क्षत्रम्̇ सम् एति यत् संन्युप्य विहरति तस्माद् ब्रह्मणा क्षत्रं व्य् एति । ऋतुभिः
VERSE: 2 वा एतं दीक्षयन्ति स ऋतुभिर् एव विमुच्यः । मातेव पुत्रम् पृथिवी पुरीष्यम् इत्य् आह । ऋतुभिर् एवैनं दीक्षयित्वर्तुभिर् वि मुञ्चति वैश्वानर्या शिक्यम् आ दत्ते स्वदयत्य् एवैनद् । नैर्ऋतीः कृष्णास् तिस्रस् तुषपक्वा भवन्ति निर्ऋत्यै वा एतद् भागधेयं यत् तुषा निर्ऋत्यै रूपं कृष्णम् । रूपेणैव निर्ऋतिं निरवदयते । इमां दिशं यन्ति । एषा
VERSE: 3 वै निर्ऋत्यै { दिक् ^ दिश् } स्वायाम् एव दिशि निर्ऋतिं निरवदयते स्वकृत इरिण उप दधाति प्रदरे वा । एतद् वै निर्ऋत्या आयतनम् । स्व एवायतने निर्ऋतिं निरवदयते शिक्यम् अभ्य् उप दधाति नैर्ऋतो वै पाशः साक्षाद् एवैनं निर्ऋतिपाशान् मुञ्चति तिस्र उप दधाति त्रेधाविहितो वै पुरुषः । यावान् एव पुरुषः तस्मान् निर्ऋतिम् अव यजते पराचीर् उप VERSE: 4 दधाति पराचीम् एवास्मान् निर्ऋतिम् प्र णुदते । अप्रतीक्षम् आ यन्ति निर्ऋत्या अन्तर्हित्यै मार्जयित्वोप तिष्ठन्ते मेध्यत्वाय गार्हपत्यम् उप तिष्ठन्ते निर्ऋतिलोक एव चरित्वा पूता देवलोकम् उपावर्तन्ते । एकयोप तिष्ठन्ते । एकधैव यजमाने वीर्यं दधति निवेशनः संगमनो वसूनाम् इत्य् आह प्रजा वै पशवो वसु प्रजयैवैनम् पशुभिः सम् अर्धयन्ति ॥

5.2.5 अनुवाक 5 क्षेत्रकर्षणम्
VERSE: 1 पुरुषमात्रेण वि मिमीते यज्ञेन वै पुरुषः सम्मितः । यज्ञपरुषैवैनं वि मिमीते यावान् पुरुष ऊर्ध्वबाहुस् तावान् भवति । एतावद् वै पुरुषे वीर्यम् । वीर्येणैवैनं वि मिमीते पक्षी भवति न ह्य् अपक्षः पतितुम् अर्हति । अरत्निना पक्षौ द्राघीयाम्̇सौ भवतस् तस्मात् पक्षप्रवयाम्̇सि वयाम्̇सि व्याममात्रौ पक्षौ च पुच्छं च भवति । एतावद् वै पुरुषे वीर्यम् ॥
VERSE: 2 वीर्यसम्मितः । वेणुना वि मिमीते । आग्नेयो वै वेणुः सयोनित्वाय यजुषा युनक्ति यजुषा कृषति व्यावृत्त्यै षड्गवेन कृषति षड् वा ऋतवः । ऋतुभिर् एवैनं कृषति यद् द्वादशगवेन संवत्सरेणैव। इयं वा अग्नेर् अतिदाहाद् अबिभेत् सैतद् द्विगुणम् अपश्यत् कृष्टं चाकृष्टं च ततो वा इमां नात्य् अदहत् । यत् कृष्टं चाकृष्टं च
VERSE: 3 भवत्य् अस्या अनतिदाहाय द्विगुणं त्वा अग्निम् उद्यन्तुम् अर्हतीत्य् आहुः । यत् कृष्टं चाकृष्टं च भवति । अग्नेर् उद्यत्यै । एतावन्तो वै पशवो द्विपादश् च चतुष्पादश् च तान् यत् प्राच उत्सृजेद् रुद्रायापि दध्यात् । यद् दक्षिणा पितृभ्यो नि धुवेत् । यत् प्रतीचो रक्षाम्̇सि हन्युः । उदीच उत् सृजति । एषा वै देवमनुष्याणाम्̇ शान्ता दिक् ।
VERSE: 4 ताम् एवैनान् अनूत् सृजति । अथो खल्व् इमां दिशम् उत् सृजति । असौ वा आदित्यः प्राणः प्राणम् एवैनान् अनूत् सृजति दक्षिणा पर्यावर्तन्ते स्वम् एव वीर्यम् अनु पर्यावर्तन्ते तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यावत्तरः । अथो आदित्यस्यैवावृतम् अनु पर्यावर्तन्ते तस्मात् पराञ्चः पशवो वि तिष्ठन्ते प्रत्यञ्च आ वर्तन्ते तिस्रस्तिस्रः सीताः
VERSE: 5 कृषति त्रिवृतम् एव यज्ञमुखे वि यातयति । ओषधीर् वपति ब्रह्मणान्नम् अव रुन्द्धे । अर्के ऽर्कश् चीयते चतुर्दशभिर् वपति सप्त ग्राम्या ओषधयः सप्तारण्याः । उभयीषाम् अवरुद्ध्यै । अन्नस्यान्नस्य वपति । अन्नस्यान्नस्यावरुद्ध्यै कृष्टे वपति कृष्टे ह्य् ओषधयः प्रतितिष्ठन्ति । अनुसीतं वपति प्रजात्यै द्वादशसु सीतासु वपति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मा अन्नम् पचति यद् अग्निचित् ॥
VERSE: 6 अनवरुद्धस्याश्नीयाद् अवरुद्धेन व्यृध्येत ये वनस्पतीनाम् फलग्रहयस् तान् इध्मे ऽपि प्रोक्षेत् । अनवरुद्धस्यावरुद्ध्यै । दिग्भ्यो लोष्टान्त् सम् अस्यति दिशाम् एव वीर्यम् अवरुध्य दिशां वीर्ये ऽग्निं चिनुते यं द्विष्याद् यत्र स स्यात् तस्यै दिशो लोष्टम् आ हरेत् । इषमूर्जम् अहम् इत आ दद इतीषम् एवोर्जं तस्यै दिशो ऽव रुन्द्धे क्षोधुको भवति यस् तस्यां दिशि भवति । उत्तरवेदिम् उप वपति । उत्तरवेद्याम्̇ ह्य् अग्निश् चीयते । अथो पशवो वा उत्तरवेदिः पशून् एवाव रुन्द्धे । अथो यज्ञपरुषो ऽनन्तरित्यै ॥

5.2.6 अनुवाक 6 क्षेत्रे सिकतादिवापः
VERSE: 1 अग्ने तव श्रवो वय इति सिकता नि वपति । एतद् वा अग्नेर् वैश्वानरस्य सूक्तम् । सूक्तेनैव वैश्वानरम् अव रुन्द्धे षड्भिर् नि वपति षड् वा ऋतवः संवत्सरः संवत्सरो ऽग्निर् वैश्वानरः साक्षाद् एव वैश्वानरम् अव रुन्द्धे समुद्रं वै नामैतच् छन्दः समुद्रम् अनु प्रजाः प्र जायन्ते यद् एतेन सिक्ता निवपति प्रजानाम् प्रजननाय । इन्द्रः
VERSE: 2 वृत्राय वज्रम् प्राहरत् स त्रेधा व्यभवत् स्फ्यस् तृतीयम्̇ रथस् तृतीयं यूपस् तृतीयम् । ये ऽन्तःशरा अशीर्यन्त ताः शर्करा अभवन् तच् छर्कराणाम्̇ शर्करत्वम् । वज्रो वै शर्कराः पशुर् अग्निः । यच् छर्कराभिर् अग्निम् परिमिनोति वज्रेणैवास्मै पशून् परि गृह्णाति तस्माद् वज्रेण पशवः परिगृहीतास् तस्मात् स्थेयान् अस्थेयसो नोप हरते त्रिसप्ताभिः पशुकामस्य
VERSE: 3 परि मिनुयात् सप्त वै शीर्षण्याः प्राणाः प्राणाः पशवः प्राणैर् एवास्मै पशून् अव रुन्द्धे त्रिणवाभिर् भ्रातृव्यवतस् त्रिवृतम् एव वज्रम् सम्भृत्य भ्रातृव्याय प्र हरति स्तृत्यै । अपरिमिताभिः परि मिनुयाद् अपरिमितस्यावरुद्ध्यै यं कामयेतापशुः स्याद् इति अपरिमित्य तस्य शर्कराः सिकता व्यूहेत् । अपरिगृहीत एवास्य विषूचीनम्̇ रेतः परा सिञ्चति । अपशुर् एव भवति ॥
VERSE: 4 यं कामयेत पशुमान्त् स्याद् इति परिमित्य तस्य शर्कराः सिक्ता व्य् { ऊहेद् ^ ऊहेत् } परिगृहीत एवास्मै समीचीनम्̇ रेतः सिञ्चति पशुमान् एव भवति सौम्या व्य् ऊहति सोमो वै रेतोधाः । रेत एव तद् दधाति गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस् त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः शंयुम् बार्हस्पत्यम् मेधो नोपानमत् सो ऽग्निम् प्राविशत् ॥
VERSE: 5 सो ऽग्नेः कृष्णो रूपं कृत्वोद् आयत सो ऽश्वम् प्राविशत् सो ऽश्वस्यावान्तरशफो ऽभवत् । यद् अश्वम् आक्रमयति य एव मेधो ऽश्वम् प्राविशत् तम् एवाव रुन्द्धे प्रजापतिनाग्निश् चेतव्य इत्य् आहुः प्राजापत्यो ऽश्वः । यद् अश्वम् आक्रमयति प्रजापतिनैवाग्निं चिनुते पुष्करपर्णम् उप दधाति योनिर् वा अग्नेः पुष्करपर्णम् । सयोनिम् एवाग्निं चिनुते । अपाम् पृष्ठम् असीत्य् उप दधाति । अपां वा एतत् पृष्ठं यत् पुष्करपर्णम् । रूपेणैवैनद् उप दधाति ॥

5.2.7 अनुवाक 7 रुक्माद्युपधानम्
VERSE: 1 ब्रह्म जज्ञानम् इति रुक्मम् उप दधाति ब्रह्ममुखा वै प्रजापतिः प्रजा असृजत ब्रह्ममुखा एव तत् प्रजा यजमानः सृजते ब्रह्म जज्ञानम् इत्य् आह तस्माद् ब्राह्मणो मुख्यः । मुख्यो भवति य एवं वेद ब्रह्मवादिनो वदन्ति न पृथिव्यां नान्तरिक्षे न दिव्यग्निश् चेतव्य इति यत् पृथिव्यां चिन्वीत पृथिवीम्̇ शुचार्पयेत् । नौषधयो न वनस्पतयः
VERSE: 2 प्र जायेरन् यद् अन्तरिक्षे चिन्वीतान्तरिक्षम्̇ शुचार्पयेत् । न वयाम्̇सि प्र जायेरन् यद् दिवि चिन्वीत दिवम्̇ शुचार्पयेत् । न पर्जन्यो वर्षेत् । रुक्मम् उप दधाति । अमृतं वै हिरण्यम् अमृत एवाग्निं चिनुते प्रजात्यै हिरण्मयम् पुरुषम् उप दधाति यजमानलोकस्य विधृत्यै यद् इष्टकाया आतृण्णम् अनूपदध्यात् पशूनां च यजमानस्य च प्राणम् अपि दध्यात् । दक्षिणतः VERSE: 3 प्राञ्चम् उप दधाति दाधार यजमानलोकम् । न पशूनां च यजमानस्य च प्राणम् अपि दधाति । अथो खल्व् इष्टकाया आतृण्णम् अनूप दधाति प्राणानाम् उत्सृष्ट्यै द्रप्सश् चस्कन्देत्य् अभि मृशति होत्रास्व् एवैनम् प्रति ष्ठापयति स्रुचाव् उप दधाति । आज्यस्य पूर्णां कार्ष्मर्यमयीं दध्नः पूर्णाम् औदुम्बरीम् इयं वै कार्ष्मर्यमय्य् असाव् औदुम्बरी । इमे एवोप धत्ते तूष्णीम् उप दधाति न हीमे यजुषाप्तुम् अर्हति दक्षिणां कार्ष्मर्यमयीम् उत्तराम् औदुम्बरीम् । तस्माद् अस्या असाव् उत्तरा । आज्यस्य पूर्णां कार्ष्मर्यमयीम् । वज्रो वा आज्यं वज्रः कार्ष्मर्यः । वज्रेणैव यज्ञस्य दक्षिणतो रक्षाम्̇स्य् अप हन्ति दध्नः पूर्णाम् औदुम्बरीम् पशवो वै दध्य् ऊर्ग् उदुम्बरः पशुष्व् एवोर्जं दधाति पूर्णे उप दधाति पूर्णे एवैनम्
VERSE: 4 अमुष्मिम्̐ लोक उप तिष्ठेते विराज्य् अग्निश् चेतव्य इत्य् आहुः स्रुग् वै { विराड् ^ विराज् } यत् स्रुचाव् उपदधाति विराज्य् एवाग्निं चिनुते यज्ञमुखेयज्ञमुखे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति यज्ञमुखम्̇ रुक्मः । यद् रुक्मं व्याघारयति यज्ञमुखाद् एव रक्षाम्̇स्य् अप हन्ति पञ्चभिर् व्याघारयति पाङ्क्तो यज्ञः । यावान् एव यज्ञस् तस्माद् रक्षाम्̇स्य् अप हन्ति अक्ष्णया व्याघारयति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ॥

5.2.8 अनुवाक 8 स्वयमातृण्णास्थापनम्
VERSE: 1 स्वयमातृण्णाम् उप दधाति । इयं वै स्वयमातृण्णा । इमाम् एवोप धत्ते । अश्वम् उप घ्रापयति प्राणम् एवास्यां दधाति । अथो प्राजापत्यो वा अश्वः प्रजापतिनैवाग्निं चिनुते प्रथमेष्टकोपधीयमाना पशूनां च यजमानस्य च प्राणम् अपि दधाति स्वयमातृण्णा भवति प्राणानाम् उत्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्यै । अग्नाव् अग्निश् चेतव्य इत्य् आहुः । एष वै VERSE: 2 अग्निर् वैश्वानरो यद् ब्राह्मणस् तस्मै प्रथमाम् इष्टकां यजुष्कृताम् प्र यच्छेत् ताम् ब्राह्मणस् चोप दध्याताम् अग्नाव् एव तद् अग्निं चिनुते । ईश्वरो वा एष आर्तिम् आर्तोर् यो ऽविद्वान् इष्टकाम् उपदधाति त्रीन् वरान् दद्यात् त्रयो वै प्राणाः प्राणानाम्̇ स्तृत्यै द्वाव् एव देयौ द्वौ हि प्राणौ । एक एव देयः । एको हि प्राणः पशुः
VERSE: 3 वा एष यद् अग्निः । न खलु वै पशव आयवसे रमन्ते दूर्वेष्टकाम् उप दधाति पशूनां धृत्यै द्वाभ्याम् प्रतिष्ठित्यै काण्डात्काण्डात् प्ररोहन्तीत्य् आह काण्डेनकाण्डेन ह्य् एषा प्रतितिष्ठति । एवा नो दूर्वे प्र तनु सहस्रेण शतेन चेत्य् आह साहस्रः प्रजापतिः प्रजापतेर् आप्त्यै देवलक्ष्मं वै त्र्यालिखितां ताम् उत्तरलक्ष्माणं देवा उपादधताधरलक्ष्माणम् असुराः । यम्
VERSE: 4 कामयेत वसीयान्त् स्याद् इत्य् उत्तरलक्ष्माणं तस्योप दध्यात् । वसीयान् एव भवति यं कामयेत पापीयान्त् स्याद् इत्य् अधरलक्ष्माणं तस्योप दध्यात् । असुरयोनिम् एवैनम् अनु परा भावयति पापीयान् भवति त्र्यालिखिता भवति । इमे वै लोकास् त्र्यालिखिता । एभ्य एव लोकेभ्यो भ्रातृव्यम् अन्तर् एति । अङ्गिरसः सुवर्गं लोकं यतः पुरोडाशः कूर्मो भूत्वाऽनु प्रासर्पत् ॥
VERSE: 5 यत् कूर्मम् उपदधाति यथा क्षेत्रविद् अञ्जसा नयत्य् एवम् एवैनं कूर्मः सुवर्गं लोकम् अञ्जसा नयति मेधो वा एष पशूनां यत् कूर्मः । यत् कूर्मम् उपदधाति स्वम् एव मेधम् पश्यन्तः पशव उप तिष्ठन्ते श्मशानं वा एतत् क्रियते यन् मृतानाम् पशूनाम्̇ शीर्षाण्य् उपधीयन्ते यज् जीवन्तं कूर्मम् उपदधाति तेनाश्मशानचित् । वास्तव्यो वा एष यत्
VERSE: 6 कूर्मः । मधु वाता ऋतायत इति दध्ना मधुमिश्रेणाभ्य् अनक्ति स्वदयत्य् एवैनम् । ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु यद् दध्ना मधुमिश्रेणाभ्यनक्त्य् उभयस्यावरुद्ध्यै मही द्यौः पृथिवी च न इत्य् आह । आभ्याम् एवैनम् उभयतः परि गृह्णाति प्राञ्चम् उप दधाति तस्मात्
VERSE: 7 पुरस्तात् प्रत्यञ्चः पशवो मेधम् उप तिष्ठन्ते यो वा अपनाभिम् अग्निं चिनुते यजमानस्य नाभिम् अनु प्र विशति स एनम् ईश्वरो हिम्̇सितोः । उलूखलम् उप दधाति । एषा वा अग्नेर् नाभिः सनाभिम् एवाग्निं चिनुते ऽहिम्̇सायै । औदुम्बरम् भवति । ऊर्ग् वा उदुम्बरः। ऊर्जम् एवाव रुन्द्धे मध्यत उप दधाति मध्यत एवास्मा ऊर्जं दधाति तस्मान् मध्यत ऊर्जा भुञ्जते । इयद् भवति प्रजापतिना यज्ञमुखेन सम्मितम् अव हन्ति । अन्नम् एवाकर् वैष्णव्यर्चोप दधाति विष्णुर् वै यज्ञः । वैष्णवा वनस्पतयः । यज्ञ एव यज्ञम् प्रति ष्ठापयति ॥

5.2.9 अनुवाक 9 उखादिस्थापनम्
VERSE: 1 एषां वा एतल् लोकानां ज्योतिः सम्भृतं यद् उखा यद् उखाम् उपदधात्य् एभ्य एवा लोकेभ्यो ज्योतिर् अव रुन्द्धे मध्यत उप दधाति मध्यत एवास्मै ज्योतिर् दधाति तस्मान् मध्यतो ज्योतिर् उपाऽऽस्महे सिकताभिः पूरयति । एतद् वा अग्नेर् वैश्वानरस्य रूपम् । रूपेणैव वैश्वानरम् अव रुन्द्धे यं कामयेत क्षोधुकः स्याद् इत्य् ऊनां तस्योप
VERSE: 2 दध्यात् क्षोधुक एव भवति यं कामयेत । अनुपदस्यद् अन्नम् अद्याद् इति पूर्णां तस्योप दध्यात् । अनुपदस्यद् एवान्नम् अत्ति सहस्रं वै प्रति पुरुषः पशूनां यच्छति सहस्रम् अन्ये पशवः । मध्ये पुरुषशीर्षम् उप दधाति सवीर्यत्वाय । उखायाम् अपि दधाति प्रतिष्ठाम् एवैनद् गमयति व्यृद्धं वा एतत् प्राणैर् अमेध्यं यत् पुरुषशीर्षम् अमृतं खलु वै प्राणाः ॥
VERSE: 3 अमृतम्̇ हिरण्यम् प्राणेषु हिरण्यशल्कान् प्रत्य् अस्यति प्रतिष्ठाम् एवैनद् गमयित्वा प्राणैः सम् अर्धयति दध्ना मधुमिश्रेण पूरयति । मधव्यो ऽसानीति शृतातङ्क्येन मेध्यत्वाय ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु यद् दध्ना मधुमिश्रेण पूरयत्य् उभयस्यावरुद्ध्यै पशुशीर्षाण्य् उप दधाति पशवो वै पशुशीर्षाणि पशून् एवाव रुन्द्धे यं कामयेत । अपशुः स्याद् इति VERSE: 4 विषूचीनानि तस्योप दध्यात् । विषूच एवास्मात् पशून् दधाति । अपशुर् एव भवति यं कामयेत पशुमान्त् स्याद् इति समीचीनानि तस्योप दध्यात् समीच एवास्मै पशून् दधाति पशुमान् एव भवति पुरस्तात् प्रतीचीनम् अश्वस्योप दधाति पश्चात् प्राचीनम् ऋषभस्य । अपशवो वा अन्ये गोअश्वेभ्यः पशवः । गोअश्वान् एवास्मै समीचो दधाति । एतावन्तो वै पशवः VERSE: 5 द्विपादश् च चतुष्पादश् च तान् वा एतद् अग्नौ प्र दधाति यत् पशुशीर्षाण्य् उपदधाति । अमुम् आरण्यम् अनु ते दिशामीत्य् आह ग्राम्येभ्य एव पशुभ्य आरण्यान् पशूञ् छुचम् अनूत् सृजति तस्मात् समावत् पशूनाम् प्रजायमानानाम् आरण्याः पशवः कनीयाम्̇सः शुचा ह्य् ऋताः सर्पशीर्षम् उप दधाति यैव सर्पे त्विषिस् ताम् एवाव रुन्द्धे ॥
VERSE: 6 यत् समीचीनम् पशुशीर्षैर् उपदध्याद् ग्राम्यान् पशून् दम्̇शुकाः स्युः । यद् विषूचीनम् आरण्यान् यजुर् एव वदेत् । अव तां त्विषिम्̇ रुन्द्धे या सर्पे न ग्राम्यान् पशून् हिनस्ति नारण्यान् अथो खलूपधेयम् एव यद् उपदधाति तेन तां त्विषिम् अव रुन्द्धे या सर्पे यद् यजुर् वदति तेन शान्तम् ॥

5.2.10 अनुवाक 10 प्रथमचितौ अपस्याद्युपधानम्
VERSE: 1 पशुर् वा एष यद् अग्निः । योनिः खलु वा एषा पशोर् वि क्रियते यत् प्राचीनम् ऐष्टकाद् यजुः क्रियते रेतो ऽपस्याः । अपस्या उप दधाति योनाव् एव रेतो दधाति पञ्चोप दधाति पाङ्क्ताः पशवः पशून् एवास्मै प्र जनयति पञ्च दक्षिणतः । वज्रो वा अपस्याः । वज्रेणैव यज्ञस्य दक्षिणतो रक्षाम्̇स्य् अप हन्ति पञ्च पश्चात्
VERSE: 2 प्राचीर् उप दधाति पश्चाद् वै प्राचीनम्̇ रेतो धीयते पश्चाद् एवास्मै प्राचीनम्̇ रेतो दधाति पञ्च पुरस्तात् प्रतीचीर् उप दधाति पञ्च पश्चात् प्राचीः तस्मात् प्राचीनम्̇ रेतो धीयते प्रतीचीः प्रजा जायन्ते पञ्चोत्तरतश् छन्दस्याः पशवो वै छन्दस्याः पशून् एव प्रजातान्त् स्वम् आयतनम् अभि पर्यूहते । इयं वा अग्नेर् अतिदाहाद् अबिभेत् सैताः
VERSE: 3 अपस्या अपश्यत् ता उपाधत्त ततो वा इमां नात्य् अदहत् । यद् अपस्या उपदधात्य् अस्या अनतिदाहाय उवाच हेयम् अदद् इत् स ब्रह्मणाऽन्नं यस्यैता उपधीयान्तै य उ चैना एवं वेदद् इति प्राणभृत उप दधाति रेतस्य् एव प्राणान् दधाति तस्माद् वदन् प्राणन् पश्यञ् छृण्वन् पशुर् जायते । अयम् पुरः ॥
VERSE: 4 भुव इति पुरस्ताद् उप दधाति प्राणम् एवैताभिर् दाधार । अयं दक्षिणा विश्वकर्मेति दक्षिणतः । मन एवैताभिर् दाधार । अयम् पश्चाद् विश्वव्यचा इति पश्चात् । चक्षुर् एवैताभिर् दाधार । इदम् उत्तरात् सुवर् इत्य् उत्तरतः श्रोत्रम् एवैताभिर् दाधार । इयम् उपरि मतिर् इत्य् उपरिष्टात् । वाचम् एवैताभिर् दाधार दशदशोप दधाति सवीर्यत्वाय । अक्ष्णया
VERSE: 5 उप दधाति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै याः प्राचीस् ताभिर् वसिष्ठ आर्ध्नोत् । या दक्षिणा ताभिर् भरद्वाजः । याः प्रतीचीस् ताभिर् विश्वामित्रः । या उदीचीस् ताभिर् जमदग्निः । या ऊर्ध्वास् ताभिर् विश्वकर्मा य एवम् एतासाम् ऋद्धिं वेदर्ध्नोत्य् एव य आसाम् एवम् बन्धुतां वेद बन्धुमान् भवति य आसाम् एवं क्लृप्तिं वेद कल्पते
VERSE: 6 अस्मै य आसाम् एवम् आयतनं वेदायतनवान् भवति य आसाम् एवम् प्रतिष्ठां वेद प्रत्य् एव तिष्ठति प्राणभृत उपधाय संयत उप दधाति प्राणान् एवास्मिन् धित्वा संयद्भिः सं यच्छति तत् संयताम्̇ संयत्त्वम् अथो प्राण एवापानं दधाति तस्मात् प्राणापानौ सं चरतः । विषूचीर् उप दधाति तस्माद् विष्वञ्चौ प्राणापानौ यद् वा अग्नेर् असंयतम्
VERSE: 7 असुवर्ग्यम् अस्य तत् सुवर्ग्यो ऽग्निः । यत् संयत उपदधाति सम् एवैनं यच्छति सुवर्ग्यम् एवाकस् त्र्यविर् वयः कृतम् अयानाम् इत्य् आह वयोभिर् एवायान् अव रुन्द्धे । अयैर् वयाम्̇सि सर्वतो वायुमतीर् भवन्ति तस्माद् अयम्̇ सर्वतः पवते ॥

5.2.11 अनुवाक 11 सूचीभिरसिपथक्लृप्तिः
VERSE: 1 गायत्री त्रिष्टुब् जगत्य् अनुष्टुक् पङ्क्त्या सह । बृहत्य् उष्णिहा ककुत् सूचीभिः शिम्यन्तु त्वा ॥ द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा । सच्छन्दा या च विच्छन्दाः सूचीभिः शिम्यन्तु त्वा ॥ महानाम्नी रेवतयो विश्वा आशाः प्रसूवरीः । मेध्या विद्युतो वाचः सूचीभिः शिम्यन्तु त्वा ॥ रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः । अश्वस्य वाजिनस् त्वचि सूचीभिः शिम्यन्तु त्वा ॥ नारीः ॥
VERSE: 2 ते पत्नयो लोम वि चिन्वन्तु मनीषया । देवानाम् पत्नीर् दिशः सूचीभिः शिम्यन्तु त्वा ॥ कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥

5.2.12 अनुवाक 12 विशसनाभिधानम्
VERSE: 1 कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शिम्यति । क उ ते शमिता कविः ॥ ऋतवस् त ऋतुधा परुः शमितारो वि शासतु । संवत्सरस्य धायसा शिमीभिः शिम्यन्तु त्वा ॥ दैव्या अध्वर्यवस् त्वा छ्यन्तु वि च शासतु । गात्राणि पर्वशस् ते शिमाः कृण्वन्तु शिम्यन्तः ॥ अर्धमासाः परूम्̇षि ते मासाश् छ्यन्तु शिम्यन्तः । अहोरात्राणि मरुतो विलिष्टं
VERSE: 2 सूदयन्तु ते ॥ पृथिवी ते ऽन्तरिक्षेण वायुश् छिद्रम् भिषज्यतु । द्यौस् ते नक्षत्रैः सह रूपं कृणोतु साधुया ॥ शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः । शम् अस्थभ्यो मज्जभ्यः शम् उ ते तनुवे भुवत् ॥


काण्ड 5
5.2 प्रपाठक: 2
5.2.1 अनुवाक 1 आसन्द्यां वह्निस्थापनं वात्सप्रेणोपस्थानं च
VERSE: 1
    विष्णुमुखा वै देवाश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभ्य् अजयन्
    यद् विष्णुक्रमान् क्रमते विष्णुर् एव भूत्वा यजमानश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभि जयति
    विष्णोः क्रमो ऽस्य् अभिमातिहेत्य् आह
    गायत्री वै पृथिवी
    त्रैष्ठुभम् अन्तरिक्षम् ।
    जागती द्यौः ।
    आनुष्टुभीर् दिशः ।
    छन्दोभिर् एवेमाँल्लोकान् यथापूर्वम् अभि जयति
    प्रजापतिर् अग्निम् असृजत
   सो ऽस्मात् सृष्टः ।

VERSE: 2
    पराङ् ऐत्
    तम् एतयान्व् ऐत् ।
    अक्रन्दत् इति
    तया वै सो ऽग्नेः प्रियं धामावारुन्द्ध
    यद् एताम् अन्वाहाग्नेर् एवैतया प्रियं धामाव रुन्द्धे ।
    ईश्वरो वा एष पराङ् प्रदघो यो विष्णुक्रमान् क्रमते
    चतसृभिर् आ वर्तते
    चत्वारि छन्दाम्̇सि
    छन्दाम्̇सि खलु वा अग्नेः प्रिया तनूः
   प्रियाम् एवास्य तनुवम् अभि

VERSE: 3
    पर्यावर्तते
    दक्षिणा पर्यावर्तते
    स्वम् एव वीर्यम् अनु पर्यावर्तते
    तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यावत्तरः ।
    अथो आदित्यस्यैवावृतम् अनु पर्यावर्तते
    शुनःशेपम् आजीगर्तिं वरुणो ऽगृह्णात्
    स एताम् वारुणीम् अपश्यत्
    तया वै स आत्मानं वरुणपाशाद् अमुञ्चत् ।
    वरुणो वा एतं गृह्णाति य उखाम् प्रतिमुञ्चते ।
  उद् उत्तमं वरुण पाशम् अस्मद् इत्य् आह ।
  आत्मानम् एवैतया

VERSE: 4
    वरुणपाशान् मुञ्चति ।
    आ त्वाहार्षम् इत्य् आह ।
    आ ह्य् एनम्̇ हरति
    ध्रुवस् तिष्ठाविचाचलिर् इत्य् आह
    प्रतिष्ठित्यै
    विशस् त्वा सर्वा वाञ्छन्त्व् इत्य् आह
    विशैवैनम्̇ सम् अर्धयति ।
    अस्मिन् राष्ट्रम् अधि श्रयेत्य् आह
    राष्ट्रम् एवास्मिन् ध्रुवम् अकर्
    यं कामयेत
    राष्ट्रम्̇ स्याद् इति तम् मनसा ध्यायेत् ।
   राष्ट्रम् एव भवति ॥

VERSE: 5
    अग्रे बृहन्न् उषसामूर्ध्वो अस्थाद् इत्य् आह ।
    अग्रम् एवैनम्̇ समानानां करोति
    निर्जग्मिवान् तमस इत्य् आह
    तम एवास्माद् अप हन्ति
    ज्योतिषागाद् इत्य् आह
    ज्योतिर् एवास्मिन् दधाति
    चतसृभिः सादयति
    चत्वारि छन्दाम्̇सि
    छन्दोभिर् एव ।
   अतिच्छन्दसोत्तमया
  वर्ष्म वा एष छन्दसां यद् अतिच्छन्दाः ।
  वर्ष्मैवैनम्̇ समानानां करोति
  सद्वती

VERSE: 6
    भवति
    सत्त्वम् एवैनं गमयति
    वात्सप्रेणोप तिष्ठते ।
    एतेन वै वत्सप्रीर् भालन्दनो ऽग्नेः प्रियं धामावारुन्द्ध ।
    अग्नेर् एवैतेन प्रियं धामाव रुन्द्धे ।
    एकादशम् भवति ।
    एकधैव यजमाने वीर्यं दधाति
    स्तोमेन वै देवा अस्मिम्̐ लोक आर्ध्नुवञ् छन्दोभिर् अमुष्मिन् ।
    स्तोमस्येव खलु वा एतद् रूपं यद् वात्सप्रम् ।
   यद् वात्सप्रेणोपतिष्ठते ।

VERSE: 7
    इमम् एव तेन लोकम् अभि जयति
    यद् विष्णुक्रमान् क्रमते ऽमुम् एव तैर् लोकम् अभि जयति
    पूर्वेद्युः प्र क्रामत्य् उत्तरेद्युर् उप तिष्ठते
    तस्माद् योगे ऽन्यासाम् प्रजानाम् मनः क्षेमे ऽन्यासाम् ।
    तस्माद् यायावरः क्षेम्यस्येशे
    तस्माद् यायावरः क्षेम्यम् अध्यवस्यति
    मुष्टी करोति
    वाचं यच्छति
    यज्ञस्य धृत्यै ॥

5.2.2 अनुवाक 2 उख्याग्निनयनम्
VERSE: 1
    अन्नपते ऽन्नस्य नो देहीत्य् आह ।
    अग्निर् वा अन्नपतिः
    स एवास्मा अन्नम् प्र यच्छति ।
    अनमीवस्य शुष्मिण इत्य् आह ।
    अयक्ष्मस्येति वावैतद् आह
    प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पद इत्य् आह ।
    आशिषम् एवैताम् आ शास्ते ।
    उद् उ त्वा विश्वे देवा इत्य् आह
    प्राणा वै विश्वे देवाः ।

VERSE: 2
    प्राणैर् एवैनम् उद् यच्छते ।
    अग्ने भरन्तु चित्तिभिर् इत्य् आह
    यस्मा एवैनं चित्तायोद्यच्छते तेनैवैनम्̇ सम् अर्धयति
    चतसृभिर् आ सादयति
    चत्वारि छन्दाम्̇सि
    छन्दोभिर् एव ।
    अतिच्छन्दसोत्तमया
    वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दा
    वर्ष्मैवैनम्̇ समानानां करोति
   सद्वती भवति
  सत्त्वम् एवैनं गमयति
  प्रेद् अग्ने ज्योतिष्मान्

VERSE: 3
    याहीत्य् आह
    ज्योतिर् एवास्मिन् दधाति तनुवा वा एष हिनस्ति यम्̇ हिनस्ति
    मा हिम्̇सीस् तनुवा प्रजा इत्य् आह
    प्रजाभ्य एवैनम्̇ शमयति
    रक्षाम्̇सि वा एतद् यज्ञम्̇ सचन्ते यद् अन उत्सर्जति ।
    अक्रन्दद् इत्य् अन्व् आह
    रक्षसाम् अपहत्यै ।
    अनसा वहन्ति ।
    अपचितिम् एवास्मिन् दधाति
  तस्माद् अनस्वी च रथी चातिथीनाम् अपचिततमौ ।

VERSE: 4
    अपचितिमान् भवति य एवं वेद
    समिधाग्निं दुवस्यतेति घृतानुषिक्ताम् अवसिते समिधम् आ दधाति
    यथातिथय आगताय सर्पिष्वद् आतिथ्यं क्रियते तादृग् एव तत् ।
    गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणः
    त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः ।
    अप्सु भस्म प्र वेशयति ।
    अप्सुयोनिर् वा अग्निः
    स्वाम् एवैनं योनिं गमयति
    तिसृभिः प्र वेशयति
  त्रिवृद् वै

VERSE: 5
    अग्निः ।
    यावान् एवाग्निः तम् प्रतिष्ठां गमयति
    परा वा एषो ऽग्निं वपति यो ऽप्सु भस्म प्रवेशयति
    ज्योतिष्मतीभ्याम् अव दधाति
    ज्योतिर् एवास्मिन् दधाति
    द्वाभ्याम् प्रतिष्ठित्यै
    परा वा एष प्रजाम् पशून् वपति यो ऽप्सु भस्म प्रवेशयति
    पुनर् ऊर्जा सह रय्येति पुनर् उदैति
    प्रजाम् एव पशून् आत्मन् धत्ते
   पुनस् त्वादित्याः

VERSE: 6
    रुद्रा वसवः सम् इन्धताम् इत्य् आह ।
    एता वा एतं देवता अग्रे सम् ऐन्धत
    ताभिर् एवैनम्̇ सम् इन्द्धे
    बोधा स बोधीत्य् उप तिष्ठते
    बोधयत्य् एवैनम् ।
    तस्मात् सुप्त्वा प्रजाः प्र बुध्यन्ते
    यथास्थानम् उप तिष्ठते
    तस्माद् यथास्थानम् पशवः पुनर् एत्योप तिष्ठन्ते ॥

5.2.3 अनुवाक 3 गार्हपत्यचयनम्
VERSE: 1
    यावती वै पृथिवी तस्यै यम आधिपत्यम् परीयाय
    यो वै यमं देवयजनम् अस्या अनिर्याच्याग्निं चिनुते यमायैनम्̇ स चिनुते ।
    अपेतेत्य् अध्यवसाययति
    यमम् एव देवयजनम् अस्यै निर्याच्याऽऽत्मने ऽग्निं चिनुते ।
    इष्वग्रेण वा अस्या अनामृतम् इच्छन्तो नाविन्दन्
    ते देवा एतद् यजुर् अपश्यन् ।
    अपेतेति
    यद् एतेनाध्यवसाययति ॥

VERSE: 2
    अनामृत एवाग्निं चिनुते ।
    उद् धन्ति
    यद् एवास्या अमेध्यं तद् अप हन्ति ।
    अपो ऽवोक्षति
    शान्त्यै
    सिकता नि वपति ।
    एतद् वा अग्नेर् वैश्वानरस्य रूपम् ।
    रूपेणैव वैश्वानरम् अव रुन्द्धे ।
    ऊषान् नि वपति
    पुष्टिर् वा एषा प्रजननं यद् ऊषाः
    पुष्ट्याम् एव प्रजनने ऽग्निं चिनुते ।
    अथो संज्ञान एव
    संज्ञानम्̇ ह्य् एतत्

VERSE: 3
    पशूनां यद् ऊषाः ।
    द्यावापृथिवी सहास्ताम् ।
    ते वियती अब्रूताम्
    अस्त्व् एव नौ सह यज्ञियम् इति
    यद् अमुष्या यज्ञियम् आसीत् तद् अस्याम् अदधात् त ऊषा अभवन्
    यद् अस्या यज्ञियम् आसीत् तद् अमुष्याम् अदधात् तद् अदश् चन्द्रमसि कृष्णम्
    ऊषान् निवपन्न् अदो ध्यायेद् द्यावापृथिव्योर् एव यज्ञिये ऽग्निं चिनुते ।
    अयम्̇ सो अग्निर् इति विश्वामित्रस्य

VERSE: 4
    सूक्तम् भवति ।
    एतेन वै विश्वामित्रो ऽग्नेः प्रियं धामावारुन्द्ध ।
    अग्नेर् एवैतेन प्रियं धामाव रुन्द्धे
    छन्दोभिर् वै देवाः सुवर्गं लोकम् { आयञ् ^ आयन् }
    चतस्रः प्राचीर् उप दधाति
    चत्वारि छन्दाम्̇सि
    छन्दोभिर् एव तद् यजमानः सुवर्गं लोकम् एति
    तेषाम्̇ सुवर्गं लोकं यतां दिशः सम् अव्लीयन्त
    ते द्वे पुरस्तात् समीची उपादधत द्वे

VERSE: 5
    पश्चात् समीची
    ताभिर् वै ते दिशो ऽदृम्̇हन्
    यद् द्वे पुरस्तात् समीची उपदधाति द्वे पश्चात् समीची
    दिशां विधृत्यै ।
    अथो पशवो वै छन्दाम्̇सि
    पशून् एवास्मै समीचो दधाति ।
    अष्टाव् उप दधाति ।
    अष्टाक्षरा गायत्री
    गायत्रो ऽग्निर् यावान् एवाग्निः तं चिनुते ।
   अष्टाव् उप दधाति ।
   अष्टाक्षरा गायत्री
    गायत्री सुवर्गं लोकम् अञ्जसा वेद
   सुवर्गस्य लोकस्य

VERSE: 6
    प्रज्ञात्यै
    त्रयोदश लोकम्पृणा उप दधाति ।
    एकविम्̇शतिः सम् पद्यन्ते
    प्रतिष्ठा वा एकविम्̇शः प्रतिष्ठा गार्हपत्यः ।
    एकविम्̇शस्यैव प्रतिष्ठां गार्हपत्यम् अनु प्रति तिष्ठति
    प्रत्य् अग्निं चिक्यानस् तिष्ठति य एवं वेद
    पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः
    पाङ्क्तो यज्ञः
    पाङ्क्ताः पशवः ।
   यज्ञम् एव पशून् अव रुन्द्धे
   त्रिचितीकं चिन्वीत द्वितीयं चिन्वानस्
   त्रय इमे लोकाः ।
    एष्व् एव लोकेषु

VERSE: 7
    प्रति तिष्ठन्ति ।
    एकचितीकं चिन्वीत तृतीयं चिन्वानः।
    एकधा वै सुवर्गो लोकः ।
    एकवृतैव सुवर्गं लोकम् एति
    पुरीषेणाभ्य् ऊहति
    तस्मान् माम्̇सेनास्थि छन्नम् ।
    न दुश्चर्मा भवति य एवं वेद
    पञ्च चितयो भवन्ति
    पञ्चभिः पुरीषैर् अभ्य् ऊहति
    दश सम् पद्यन्ते
   दशाक्षरा { विराड् ^ विराज् }
   अन्नं { विराड् ^ विराज् }
   विराज्य् एवान्नाद्ये प्रति तिष्ठति ॥

5.2.4 अनुवाक 4 उख्याग्निसंवपनम्
VERSE: 1
    वि वा एतौ द्विषाते यश् च पुराग्निर् यश् चोखायाम् ।
    सम् इतम् इति चतसृभिः सं नि वपति
    चत्वारि छन्दाम्̇सि
    छन्दाम्̇सि खलु वा अग्नेः प्रिया तनूः
    प्रिययैवैनौ तनुवा सम्̇ शास्ति
    सम् इतम् इत्य् आह
    तस्माद् ब्रह्मणा क्षत्रम्̇ सम् एति
    यत् संन्युप्य विहरति
    तस्माद् ब्रह्मणा क्षत्रं व्य् एति ।
   ऋतुभिः

VERSE: 2
    वा एतं दीक्षयन्ति
    स ऋतुभिर् एव विमुच्यः ।
    मातेव पुत्रम् पृथिवी पुरीष्यम् इत्य् आह ।
    ऋतुभिर् एवैनं दीक्षयित्वर्तुभिर् वि मुञ्चति
    वैश्वानर्या शिक्यम् आ दत्ते
    स्वदयत्य् एवैनद् ।
    नैर्ऋतीः कृष्णास् तिस्रस् तुषपक्वा भवन्ति
    निर्ऋत्यै वा एतद् भागधेयं यत् तुषा निर्ऋत्यै रूपं कृष्णम् ।
    रूपेणैव निर्ऋतिं निरवदयते ।
    इमां दिशं यन्ति ।
    एषा

VERSE: 3
    वै निर्ऋत्यै { दिक् ^ दिश् }
    स्वायाम् एव दिशि निर्ऋतिं निरवदयते
    स्वकृत इरिण उप दधाति प्रदरे वा ।
    एतद् वै निर्ऋत्या आयतनम् ।
    स्व एवायतने निर्ऋतिं निरवदयते
    शिक्यम् अभ्य् उप दधाति
    नैर्ऋतो वै पाशः
    साक्षाद् एवैनं निर्ऋतिपाशान् मुञ्चति
   तिस्र उप दधाति
    त्रेधाविहितो वै पुरुषः ।
    यावान् एव पुरुषः तस्मान् निर्ऋतिम् अव यजते
    पराचीर् उप

VERSE: 4
    दधाति
    पराचीम् एवास्मान् निर्ऋतिम् प्र णुदते ।
    अप्रतीक्षम् आ यन्ति
    निर्ऋत्या अन्तर्हित्यै
    मार्जयित्वोप तिष्ठन्ते
    मेध्यत्वाय
    गार्हपत्यम् उप तिष्ठन्ते
    निर्ऋतिलोक एव चरित्वा पूता देवलोकम् उपावर्तन्ते ।
    एकयोप तिष्ठन्ते ।
   एकधैव यजमाने वीर्यं दधति
  निवेशनः संगमनो वसूनाम् इत्य् आह
  प्रजा वै पशवो वसु
 प्रजयैवैनम् पशुभिः सम् अर्धयन्ति ॥

5.2.5 अनुवाक 5 क्षेत्रकर्षणम्
VERSE: 1
    पुरुषमात्रेण वि मिमीते
    यज्ञेन वै पुरुषः सम्मितः ।
    यज्ञपरुषैवैनं वि मिमीते
    यावान् पुरुष ऊर्ध्वबाहुस् तावान् भवति ।
    एतावद् वै पुरुषे वीर्यम् ।
    वीर्येणैवैनं वि मिमीते
    पक्षी भवति
    न ह्य् अपक्षः पतितुम् अर्हति ।
    अरत्निना पक्षौ द्राघीयाम्̇सौ भवतस्
   तस्मात् पक्षप्रवयाम्̇सि वयाम्̇सि
   व्याममात्रौ पक्षौ च पुच्छं च भवति ।
  एतावद् वै पुरुषे वीर्यम् ॥

VERSE: 2
    वीर्यसम्मितः ।
    वेणुना वि मिमीते ।
    आग्नेयो वै वेणुः
    सयोनित्वाय
    यजुषा युनक्ति
    यजुषा कृषति
    व्यावृत्त्यै
    षड्गवेन कृषति
    षड् वा ऋतवः ।
    ऋतुभिर् एवैनं कृषति
    यद् द्वादशगवेन संवत्सरेणैव। इयं वा अग्नेर् अतिदाहाद् अबिभेत्
   सैतद् द्विगुणम् अपश्यत् कृष्टं चाकृष्टं च
    ततो वा इमां नात्य् अदहत् ।
    यत् कृष्टं चाकृष्टं च

VERSE: 3
    भवत्य् अस्या अनतिदाहाय
    द्विगुणं त्वा अग्निम् उद्यन्तुम् अर्हतीत्य् आहुः ।
    यत् कृष्टं चाकृष्टं च भवति ।
    अग्नेर् उद्यत्यै ।
    एतावन्तो वै पशवो द्विपादश् च चतुष्पादश् च
    तान् यत् प्राच उत्सृजेद् रुद्रायापि दध्यात् ।
    यद् दक्षिणा पितृभ्यो नि धुवेत् ।
    यत् प्रतीचो रक्षाम्̇सि हन्युः ।
    उदीच उत् सृजति ।
    एषा वै देवमनुष्याणाम्̇ शान्ता दिक् ।

VERSE: 4
    ताम् एवैनान् अनूत् सृजति ।
    अथो खल्व् इमां दिशम् उत् सृजति ।
    असौ वा आदित्यः प्राणः
    प्राणम् एवैनान् अनूत् सृजति
    दक्षिणा पर्यावर्तन्ते
    स्वम् एव वीर्यम् अनु पर्यावर्तन्ते
    तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यावत्तरः ।
    अथो आदित्यस्यैवावृतम् अनु पर्यावर्तन्ते
    तस्मात् पराञ्चः पशवो वि तिष्ठन्ते प्रत्यञ्च आ वर्तन्ते
    तिस्रस्तिस्रः सीताः

VERSE: 5
    कृषति
    त्रिवृतम् एव यज्ञमुखे वि यातयति ।
    ओषधीर् वपति
    ब्रह्मणान्नम् अव रुन्द्धे ।
    अर्के ऽर्कश् चीयते
    चतुर्दशभिर् वपति
    सप्त ग्राम्या ओषधयः सप्तारण्याः ।
    उभयीषाम् अवरुद्ध्यै ।
    अन्नस्यान्नस्य वपति ।
    अन्नस्यान्नस्यावरुद्ध्यै
    कृष्टे वपति
    कृष्टे ह्य् ओषधयः प्रतितिष्ठन्ति ।
    अनुसीतं वपति
    प्रजात्यै
    द्वादशसु सीतासु वपति
    द्वादश मासाः संवत्सरः
    संवत्सरेणैवास्मा अन्नम् पचति
    यद् अग्निचित् ॥

VERSE: 6
    अनवरुद्धस्याश्नीयाद् अवरुद्धेन व्यृध्येत
    ये वनस्पतीनाम् फलग्रहयस् तान् इध्मे ऽपि प्रोक्षेत् ।
    अनवरुद्धस्यावरुद्ध्यै ।
    दिग्भ्यो लोष्टान्त् सम् अस्यति
    दिशाम् एव वीर्यम् अवरुध्य दिशां वीर्ये ऽग्निं चिनुते
    यं द्विष्याद् यत्र स स्यात् तस्यै दिशो लोष्टम् आ हरेत् ।
    इषमूर्जम् अहम् इत आ दद इतीषम् एवोर्जं तस्यै दिशो ऽव रुन्द्धे
    क्षोधुको भवति यस् तस्यां दिशि भवति ।
    उत्तरवेदिम् उप वपति ।
    उत्तरवेद्याम्̇ ह्य् अग्निश् चीयते ।
   अथो पशवो वा उत्तरवेदिः
    पशून् एवाव रुन्द्धे ।
   अथो यज्ञपरुषो ऽनन्तरित्यै ॥

5.2.6 अनुवाक 6
 क्षेत्रे सिकतादिवापः
VERSE: 1
    अग्ने तव श्रवो वय इति सिकता नि वपति ।
    एतद् वा अग्नेर् वैश्वानरस्य सूक्तम् ।
    सूक्तेनैव वैश्वानरम् अव रुन्द्धे
    षड्भिर् नि वपति
    षड् वा ऋतवः संवत्सरः
    संवत्सरो ऽग्निर् वैश्वानरः
    साक्षाद् एव वैश्वानरम् अव रुन्द्धे
    समुद्रं वै नामैतच् छन्दः
    समुद्रम् अनु प्रजाः प्र जायन्ते
    यद् एतेन सिक्ता निवपति
    प्रजानाम् प्रजननाय ।
   इन्द्रः

VERSE: 2
    वृत्राय वज्रम् प्राहरत्
    स त्रेधा व्यभवत् स्फ्यस् तृतीयम्̇ रथस् तृतीयं यूपस् तृतीयम् ।
    ये ऽन्तःशरा अशीर्यन्त ताः शर्करा अभवन्
    तच् छर्कराणाम्̇ शर्करत्वम् ।
    वज्रो वै शर्कराः
    पशुर् अग्निः ।
    यच् छर्कराभिर् अग्निम् परिमिनोति वज्रेणैवास्मै पशून् परि गृह्णाति
    तस्माद् वज्रेण पशवः परिगृहीतास्
    तस्मात् स्थेयान् अस्थेयसो नोप हरते
    त्रिसप्ताभिः पशुकामस्य

VERSE: 3
    परि मिनुयात्
    सप्त वै शीर्षण्याः प्राणाः
    प्राणाः पशवः
    प्राणैर् एवास्मै पशून् अव रुन्द्धे
    त्रिणवाभिर् भ्रातृव्यवतस्
    त्रिवृतम् एव वज्रम् सम्भृत्य भ्रातृव्याय प्र हरति
    स्तृत्यै ।
    अपरिमिताभिः परि मिनुयाद् अपरिमितस्यावरुद्ध्यै
    यं कामयेतापशुः स्याद् इति अपरिमित्य तस्य शर्कराः सिकता व्यूहेत् ।
   अपरिगृहीत एवास्य विषूचीनम्̇ रेतः परा सिञ्चति ।
    अपशुर् एव भवति ॥

VERSE: 4
    यं कामयेत
    पशुमान्त् स्याद् इति परिमित्य तस्य शर्कराः सिक्ता व्य् { ऊहेद् ^ ऊहेत् }
    परिगृहीत एवास्मै समीचीनम्̇ रेतः सिञ्चति
    पशुमान् एव भवति
    सौम्या व्य् ऊहति
    सोमो वै रेतोधाः ।
    रेत एव तद् दधाति
    गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस्
    त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः
    शंयुम् बार्हस्पत्यम् मेधो नोपानमत्
    सो ऽग्निम् प्राविशत् ॥

VERSE: 5
    सो ऽग्नेः कृष्णो रूपं कृत्वोद् आयत
    सो ऽश्वम् प्राविशत्
    सो ऽश्वस्यावान्तरशफो ऽभवत् ।
    यद् अश्वम् आक्रमयति य एव मेधो ऽश्वम् प्राविशत् तम् एवाव रुन्द्धे
    प्रजापतिनाग्निश् चेतव्य इत्य् आहुः
    प्राजापत्यो ऽश्वः ।
    यद् अश्वम् आक्रमयति प्रजापतिनैवाग्निं चिनुते
    पुष्करपर्णम् उप दधाति
    योनिर् वा अग्नेः पुष्करपर्णम् ।
    सयोनिम् एवाग्निं चिनुते ।
    अपाम् पृष्ठम् असीत्य् उप दधाति ।
    अपां वा एतत् पृष्ठं यत् पुष्करपर्णम् ।
    रूपेणैवैनद् उप दधाति ॥

5.2.7 अनुवाक 7
रुक्माद्युपधानम्
VERSE: 1
    ब्रह्म जज्ञानम् इति रुक्मम् उप दधाति
    ब्रह्ममुखा वै प्रजापतिः प्रजा असृजत
    ब्रह्ममुखा एव तत् प्रजा यजमानः सृजते
    ब्रह्म जज्ञानम् इत्य् आह
    तस्माद् ब्राह्मणो मुख्यः ।
    मुख्यो भवति य एवं वेद
    ब्रह्मवादिनो वदन्ति
    न पृथिव्यां नान्तरिक्षे न दिव्यग्निश् चेतव्य इति
    यत् पृथिव्यां चिन्वीत पृथिवीम्̇ शुचार्पयेत् ।
   नौषधयो न वनस्पतयः

VERSE: 2
    प्र जायेरन्
    यद् अन्तरिक्षे चिन्वीतान्तरिक्षम्̇ शुचार्पयेत् ।
    न वयाम्̇सि प्र जायेरन्
    यद् दिवि चिन्वीत दिवम्̇ शुचार्पयेत् ।
    न पर्जन्यो वर्षेत् ।
    रुक्मम् उप दधाति ।
    अमृतं वै हिरण्यम्
    अमृत एवाग्निं चिनुते
    प्रजात्यै
   हिरण्मयम् पुरुषम् उप दधाति
    यजमानलोकस्य विधृत्यै
   यद् इष्टकाया आतृण्णम् अनूपदध्यात् पशूनां च यजमानस्य च प्राणम् अपि दध्यात् ।
   दक्षिणतः

VERSE: 3
    प्राञ्चम् उप दधाति
    दाधार यजमानलोकम् ।
    न पशूनां च यजमानस्य च प्राणम् अपि दधाति ।
    अथो खल्व् इष्टकाया आतृण्णम् अनूप दधाति
    प्राणानाम् उत्सृष्ट्यै
    द्रप्सश् चस्कन्देत्य् अभि मृशति
    होत्रास्व् एवैनम् प्रति ष्ठापयति
    स्रुचाव् उप दधाति ।
    आज्यस्य पूर्णां कार्ष्मर्यमयीं दध्नः पूर्णाम् औदुम्बरीम्
   इयं वै कार्ष्मर्यमय्य् असाव् औदुम्बरी ।
   इमे एवोप धत्ते
    तूष्णीम् उप दधाति
   न हीमे यजुषाप्तुम् अर्हति
   दक्षिणां कार्ष्मर्यमयीम् उत्तराम् औदुम्बरीम् ।
   तस्माद् अस्या असाव् उत्तरा ।
  आज्यस्य पूर्णां कार्ष्मर्यमयीम् ।
   वज्रो वा आज्यं वज्रः कार्ष्मर्यः ।
    वज्रेणैव यज्ञस्य दक्षिणतो रक्षाम्̇स्य् अप हन्ति
   दध्नः पूर्णाम् औदुम्बरीम्
   पशवो वै दध्य् ऊर्ग् उदुम्बरः
   पशुष्व् एवोर्जं दधाति
    पूर्णे उप दधाति
   पूर्णे एवैनम्

VERSE: 4
    अमुष्मिम्̐ लोक उप तिष्ठेते
    विराज्य् अग्निश् चेतव्य इत्य् आहुः
    स्रुग् वै { विराड् ^ विराज् }
    यत् स्रुचाव् उपदधाति विराज्य् एवाग्निं चिनुते
    यज्ञमुखेयज्ञमुखे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति
    यज्ञमुखम्̇ रुक्मः ।
    यद् रुक्मं व्याघारयति यज्ञमुखाद् एव रक्षाम्̇स्य् अप हन्ति
    पञ्चभिर् व्याघारयति
    पाङ्क्तो यज्ञः ।
   यावान् एव यज्ञस् तस्माद् रक्षाम्̇स्य् अप हन्ति
   अक्ष्णया व्याघारयति
    तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ॥

5.2.8 अनुवाक 8
स्वयमातृण्णास्थापनम्
VERSE: 1
    स्वयमातृण्णाम् उप दधाति ।
    इयं वै स्वयमातृण्णा ।
    इमाम् एवोप धत्ते ।
    अश्वम् उप घ्रापयति
    प्राणम् एवास्यां दधाति ।
    अथो प्राजापत्यो वा अश्वः
    प्रजापतिनैवाग्निं चिनुते
    प्रथमेष्टकोपधीयमाना पशूनां च यजमानस्य च प्राणम् अपि दधाति
    स्वयमातृण्णा भवति
   प्राणानाम् उत्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्यै ।
   अग्नाव् अग्निश् चेतव्य इत्य् आहुः ।
    एष वै

VERSE: 2
    अग्निर् वैश्वानरो यद् ब्राह्मणस्
    तस्मै प्रथमाम् इष्टकां यजुष्कृताम् प्र यच्छेत्
    ताम् ब्राह्मणस् चोप दध्याताम्
    अग्नाव् एव तद् अग्निं चिनुते ।
    ईश्वरो वा एष आर्तिम् आर्तोर् यो ऽविद्वान् इष्टकाम् उपदधाति
    त्रीन् वरान् दद्यात्
    त्रयो वै प्राणाः
    प्राणानाम्̇ स्तृत्यै
    द्वाव् एव देयौ
   द्वौ हि प्राणौ ।
   एक एव देयः ।
    एको हि प्राणः
   पशुः

VERSE: 3
    वा एष यद् अग्निः ।
    न खलु वै पशव आयवसे रमन्ते
    दूर्वेष्टकाम् उप दधाति पशूनां धृत्यै
    द्वाभ्याम् प्रतिष्ठित्यै
    काण्डात्काण्डात् प्ररोहन्तीत्य् आह
    काण्डेनकाण्डेन ह्य् एषा प्रतितिष्ठति ।
    एवा नो दूर्वे प्र तनु सहस्रेण शतेन चेत्य् आह
    साहस्रः प्रजापतिः
    प्रजापतेर् आप्त्यै
   देवलक्ष्मं वै त्र्यालिखितां
  ताम् उत्तरलक्ष्माणं देवा उपादधताधरलक्ष्माणम् असुराः ।
   यम्

VERSE: 4
    कामयेत
    वसीयान्त् स्याद् इत्य् उत्तरलक्ष्माणं तस्योप दध्यात् ।
    वसीयान् एव भवति
    यं कामयेत
    पापीयान्त् स्याद् इत्य् अधरलक्ष्माणं तस्योप दध्यात् ।
    असुरयोनिम् एवैनम् अनु परा भावयति
    पापीयान् भवति
    त्र्यालिखिता भवति ।
    इमे वै लोकास् त्र्यालिखिता ।
    एभ्य एव लोकेभ्यो भ्रातृव्यम् अन्तर् एति ।
   अङ्गिरसः सुवर्गं लोकं यतः पुरोडाशः कूर्मो भूत्वाऽनु प्रासर्पत् ॥

VERSE: 5
    यत् कूर्मम् उपदधाति यथा क्षेत्रविद् अञ्जसा नयत्य् एवम् एवैनं कूर्मः सुवर्गं लोकम् अञ्जसा नयति
    मेधो वा एष पशूनां यत् कूर्मः ।
    यत् कूर्मम् उपदधाति स्वम् एव मेधम् पश्यन्तः पशव उप तिष्ठन्ते
    श्मशानं वा एतत् क्रियते यन् मृतानाम् पशूनाम्̇ शीर्षाण्य् उपधीयन्ते
    यज् जीवन्तं कूर्मम् उपदधाति तेनाश्मशानचित् ।
    वास्तव्यो वा एष यत्

VERSE: 6
    कूर्मः ।
    मधु वाता ऋतायत इति दध्ना मधुमिश्रेणाभ्य् अनक्ति
    स्वदयत्य् एवैनम् ।
    ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु
    यद् दध्ना मधुमिश्रेणाभ्यनक्त्य् उभयस्यावरुद्ध्यै
    मही द्यौः पृथिवी च न इत्य् आह ।
    आभ्याम् एवैनम् उभयतः परि गृह्णाति
    प्राञ्चम् उप दधाति
    तस्मात्

VERSE: 7
    पुरस्तात् प्रत्यञ्चः पशवो मेधम् उप तिष्ठन्ते
    यो वा अपनाभिम् अग्निं चिनुते यजमानस्य नाभिम् अनु प्र विशति
    स एनम् ईश्वरो हिम्̇सितोः ।
    उलूखलम् उप दधाति ।
    एषा वा अग्नेर् नाभिः
    सनाभिम् एवाग्निं चिनुते ऽहिम्̇सायै ।
    औदुम्बरम् भवति ।
    ऊर्ग् वा उदुम्बरः।
    ऊर्जम् एवाव रुन्द्धे
   मध्यत उप दधाति
   मध्यत एवास्मा ऊर्जं दधाति
   तस्मान् मध्यत ऊर्जा भुञ्जते ।
   इयद् भवति
  प्रजापतिना यज्ञमुखेन सम्मितम्
  अव हन्ति ।
   अन्नम् एवाकर्
   वैष्णव्यर्चोप दधाति
   विष्णुर् वै यज्ञः ।
   वैष्णवा वनस्पतयः ।
   यज्ञ एव यज्ञम् प्रति ष्ठापयति ॥

5.2.9 अनुवाक 9
उखादिस्थापनम्
VERSE: 1
    एषां वा एतल् लोकानां ज्योतिः सम्भृतं यद् उखा
    यद् उखाम् उपदधात्य् एभ्य एवा लोकेभ्यो ज्योतिर् अव रुन्द्धे
    मध्यत उप दधाति
    मध्यत एवास्मै ज्योतिर् दधाति
    तस्मान् मध्यतो ज्योतिर् उपाऽऽस्महे
    सिकताभिः पूरयति ।
    एतद् वा अग्नेर् वैश्वानरस्य रूपम् ।
    रूपेणैव वैश्वानरम् अव रुन्द्धे
    यं कामयेत
   क्षोधुकः स्याद् इत्य् ऊनां तस्योप

VERSE: 2
    दध्यात्
    क्षोधुक एव भवति
    यं कामयेत ।
    अनुपदस्यद् अन्नम् अद्याद् इति पूर्णां तस्योप दध्यात् ।
    अनुपदस्यद् एवान्नम् अत्ति
    सहस्रं वै प्रति पुरुषः पशूनां यच्छति सहस्रम् अन्ये पशवः ।
    मध्ये पुरुषशीर्षम् उप दधाति
    सवीर्यत्वाय ।
    उखायाम् अपि दधाति
   प्रतिष्ठाम् एवैनद् गमयति
   व्यृद्धं वा एतत् प्राणैर् अमेध्यं यत् पुरुषशीर्षम्
   अमृतं खलु वै प्राणाः ॥

VERSE: 3
    अमृतम्̇ हिरण्यम्
    प्राणेषु हिरण्यशल्कान् प्रत्य् अस्यति
    प्रतिष्ठाम् एवैनद् गमयित्वा प्राणैः सम् अर्धयति
    दध्ना मधुमिश्रेण पूरयति ।
    मधव्यो ऽसानीति
    शृतातङ्क्येन मेध्यत्वाय
    ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु
    यद् दध्ना मधुमिश्रेण पूरयत्य् उभयस्यावरुद्ध्यै
    पशुशीर्षाण्य् उप दधाति
   पशवो वै पशुशीर्षाणि
    पशून् एवाव रुन्द्धे
   यं कामयेत ।
   अपशुः स्याद् इति

VERSE: 4
   विषूचीनानि तस्योप दध्यात् ।
   विषूच एवास्मात् पशून् दधाति ।
    अपशुर् एव भवति
    यं कामयेत
    पशुमान्त् स्याद् इति समीचीनानि तस्योप दध्यात्
   समीच एवास्मै पशून् दधाति
   पशुमान् एव भवति
   पुरस्तात् प्रतीचीनम् अश्वस्योप दधाति पश्चात् प्राचीनम् ऋषभस्य ।
   अपशवो वा अन्ये गोअश्वेभ्यः पशवः ।
   गोअश्वान् एवास्मै समीचो दधाति ।
   एतावन्तो वै पशवः

VERSE: 5
    द्विपादश् च चतुष्पादश् च
    तान् वा एतद् अग्नौ प्र दधाति यत् पशुशीर्षाण्य् उपदधाति ।
    अमुम् आरण्यम् अनु ते दिशामीत्य् आह
    ग्राम्येभ्य एव पशुभ्य आरण्यान् पशूञ् छुचम् अनूत् सृजति
    तस्मात् समावत् पशूनाम् प्रजायमानानाम् आरण्याः पशवः कनीयाम्̇सः
    शुचा ह्य् ऋताः
    सर्पशीर्षम् उप दधाति
    यैव सर्पे त्विषिस् ताम् एवाव रुन्द्धे ॥

VERSE: 6
    यत् समीचीनम् पशुशीर्षैर् उपदध्याद् ग्राम्यान् पशून् दम्̇शुकाः स्युः ।
    यद् विषूचीनम् आरण्यान्
    यजुर् एव वदेत् ।
    अव तां त्विषिम्̇ रुन्द्धे या सर्पे
    न ग्राम्यान् पशून् हिनस्ति नारण्यान्
    अथो खलूपधेयम् एव
    यद् उपदधाति तेन तां त्विषिम् अव रुन्द्धे या सर्पे
    यद् यजुर् वदति तेन शान्तम् ॥

5.2.10 अनुवाक 10
प्रथमचितौ अपस्याद्युपधानम्
VERSE: 1
    पशुर् वा एष यद् अग्निः ।
    योनिः खलु वा एषा पशोर् वि क्रियते यत् प्राचीनम् ऐष्टकाद् यजुः क्रियते
    रेतो ऽपस्याः ।
    अपस्या उप दधाति
    योनाव् एव रेतो दधाति
    पञ्चोप दधाति
    पाङ्क्ताः पशवः
    पशून् एवास्मै प्र जनयति
    पञ्च दक्षिणतः ।
   वज्रो वा अपस्याः ।
   वज्रेणैव यज्ञस्य दक्षिणतो रक्षाम्̇स्य् अप हन्ति
   पञ्च पश्चात्

VERSE: 2
    प्राचीर् उप दधाति
    पश्चाद् वै प्राचीनम्̇ रेतो धीयते
    पश्चाद् एवास्मै प्राचीनम्̇ रेतो दधाति
    पञ्च पुरस्तात् प्रतीचीर् उप दधाति पञ्च पश्चात् प्राचीः
    तस्मात् प्राचीनम्̇ रेतो धीयते प्रतीचीः प्रजा जायन्ते
    पञ्चोत्तरतश् छन्दस्याः
    पशवो वै छन्दस्याः
    पशून् एव प्रजातान्त् स्वम् आयतनम् अभि पर्यूहते ।
    इयं वा अग्नेर् अतिदाहाद् अबिभेत्
    सैताः

VERSE: 3
    अपस्या अपश्यत्
    ता उपाधत्त
    ततो वा इमां नात्य् अदहत् ।
    यद् अपस्या उपदधात्य् अस्या अनतिदाहाय
    उवाच हेयम्
    अदद् इत् स ब्रह्मणाऽन्नं यस्यैता उपधीयान्तै य उ चैना एवं वेदद् इति
    प्राणभृत उप दधाति
    रेतस्य् एव प्राणान् दधाति
    तस्माद् वदन् प्राणन् पश्यञ् छृण्वन् पशुर् जायते ।
    अयम् पुरः ॥

VERSE: 4
    भुव इति पुरस्ताद् उप दधाति
    प्राणम् एवैताभिर् दाधार ।
    अयं दक्षिणा विश्वकर्मेति दक्षिणतः ।
    मन एवैताभिर् दाधार ।
    अयम् पश्चाद् विश्वव्यचा इति पश्चात् ।
    चक्षुर् एवैताभिर् दाधार ।
    इदम् उत्तरात् सुवर् इत्य् उत्तरतः
    श्रोत्रम् एवैताभिर् दाधार ।
    इयम् उपरि मतिर् इत्य् उपरिष्टात् ।
   वाचम् एवैताभिर् दाधार
   दशदशोप दधाति सवीर्यत्वाय ।
   अक्ष्णया

VERSE: 5
    उप दधाति
    तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति
    प्रतिष्ठित्यै
    याः प्राचीस् ताभिर् वसिष्ठ आर्ध्नोत् ।
    या दक्षिणा ताभिर् भरद्वाजः ।
    याः प्रतीचीस् ताभिर् विश्वामित्रः ।
    या उदीचीस् ताभिर् जमदग्निः ।
    या ऊर्ध्वास् ताभिर् विश्वकर्मा
    य एवम् एतासाम् ऋद्धिं वेदर्ध्नोत्य् एव
   य आसाम् एवम् बन्धुतां वेद बन्धुमान् भवति
   य आसाम् एवं क्लृप्तिं वेद कल्पते

VERSE: 6
    अस्मै
    य आसाम् एवम् आयतनं वेदायतनवान् भवति
    य आसाम् एवम् प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
    प्राणभृत उपधाय संयत उप दधाति
    प्राणान् एवास्मिन् धित्वा संयद्भिः सं यच्छति
    तत् संयताम्̇ संयत्त्वम्
    अथो प्राण एवापानं दधाति
    तस्मात् प्राणापानौ सं चरतः ।
    विषूचीर् उप दधाति
   तस्माद् विष्वञ्चौ प्राणापानौ
   यद् वा अग्नेर् असंयतम्

VERSE: 7
    असुवर्ग्यम् अस्य तत्
    सुवर्ग्यो ऽग्निः ।
    यत् संयत उपदधाति सम् एवैनं यच्छति सुवर्ग्यम् एवाकस्
    त्र्यविर् वयः कृतम् अयानाम् इत्य् आह
    वयोभिर् एवायान् अव रुन्द्धे ।
    अयैर् वयाम्̇सि
    सर्वतो वायुमतीर् भवन्ति
    तस्माद् अयम्̇ सर्वतः पवते ॥

5.2.11 अनुवाक 11
सूचीभिरसिपथक्लृप्तिः
VERSE: 1
गायत्री त्रिष्टुब् जगत्य् अनुष्टुक् पङ्क्त्या सह । बृहत्य् उष्णिहा ककुत् सूचीभिः शिम्यन्तु त्वा ॥
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा । सच्छन्दा या च विच्छन्दाः सूचीभिः शिम्यन्तु त्वा ॥
महानाम्नी रेवतयो विश्वा आशाः प्रसूवरीः । मेध्या विद्युतो वाचः सूचीभिः शिम्यन्तु त्वा ॥
रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः । अश्वस्य वाजिनस् त्वचि सूचीभिः शिम्यन्तु त्वा ॥
नारीः ॥

VERSE: 2
    ते पत्नयो लोम वि चिन्वन्तु मनीषया । देवानाम् पत्नीर् दिशः सूचीभिः शिम्यन्तु त्वा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥

5.2.12 अनुवाक 12
 विशसनाभिधानम्
VERSE: 1
कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शिम्यति । क उ ते शमिता कविः ॥
ऋतवस् त ऋतुधा परुः शमितारो वि शासतु । संवत्सरस्य धायसा शिमीभिः शिम्यन्तु त्वा ॥
दैव्या अध्वर्यवस् त्वा छ्यन्तु वि च शासतु । गात्राणि पर्वशस् ते शिमाः कृण्वन्तु शिम्यन्तः ॥
अर्धमासाः परूम्̇षि ते मासाश् छ्यन्तु शिम्यन्तः । अहोरात्राणि मरुतो विलिष्टं

VERSE: 2
    सूदयन्तु ते ॥
पृथिवी ते ऽन्तरिक्षेण वायुश् छिद्रम् भिषज्यतु । द्यौस् ते नक्षत्रैः सह रूपं कृणोतु साधुया ॥
शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः । शम् अस्थभ्यो मज्जभ्यः शम् उ ते तनुवे भुवत् ॥