तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ४/प्रपाठकः ४

विकिस्रोतः तः
Jump to navigation Jump to search

4.4 प्रपाठक: 4
4.4.1 अनुवाक 1
स्तोमभागा इष्टकाः

VERSE: 1
रश्मिर् असि क्षयाय त्वा क्षयं जिन्व प्रेतिर् असि धर्माय त्वा धर्मं जिन्वान्वितिर् असि दिवे त्वा दिवं जिन्व संधिर् अस्य् अन्तरिक्षाय त्वाऽन्तरिक्षं जिन्व प्रतिधिर् असि पृथिव्यै त्वा पृथिवीं जिन्व विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्व प्रवाऽस्य् अह्ने त्वाऽहर् जिन्व ।
अनुवाऽसि रात्रियै त्वा रात्रिं जिन्वोशिग् असि

VERSE: 2
वसुभ्यस् त्वा वसूञ् जिन्व प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्राञ्जिन्व सुदीतिरस्यादित्येभ्यस्त्वाऽऽदित्याञ्जिनवौजोऽसि पितृभ्यस्त्वा पितॄञ्जिन्व तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व पृतनाषाड् असि पशुभ्यस् त्वा पशूञ् जिन्व
रेवद् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्वाभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वाधिपतिर् असि प्राणाय

VERSE: 3
त्वा प्राणं जिन्व यन्ताऽस्य् अपानाय त्वाऽपानं जिन्व सम्̇सर्पो ऽसि चक्षुषे त्वा चक्षुर् जिन्व वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्व त्रिवृद् असि
प्रवृद् असि संवृद् असि विवृद् असि सम्̇रोहो ऽसि नीरोहो ऽसि प्ररोहो ऽसि अनुरोहो ऽसि
वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असि ॥

4.4.2 अनुवाक 2
नाकसदा इष्टकाः

VERSE: 1
राज्ञ्य् असि प्राची दिग् वसवस् ते देवा अधिपतयो ऽग्निर् हेतीनाम् प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याम्̇ श्रयत्व् आज्यम् उक्थम् अव्यथयत् स्तभ्नातु रथंतरम्̇ साम प्रतिष्ठित्यै
विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु प्रउगम् उक्थम् अव्यथयत् स्तभ्नातु बृहत् साम प्रतिष्ठित्यै
सम्राड् असि प्रतीची दिक्

VERSE: 2
आदित्यास् ते देवा अधिपतयः सोमो हेतीनाम् प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु मरुत्वतीयम् उक्थम् अव्यथयत् स्तभ्नातु वैरूपम्̇ साम प्रतिष्ठित्यै
स्वराड् अस्य् उदीची दिग् विश्वे ते देवा अधिपतयो वरुणो हेतीनाम् प्रतिधर्तैकविम्̇शस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु निष्केवल्यम् उक्थम् अव्यथयत् स्तभ्नातु वैराजम्̇ साम प्रतिष्ठित्यै ।
अधिपत्न्य् असि बृहती दिङ् मरुतस् ते देवा अधिपतयः

VERSE: 3
बृहस्पतिर् हेतीनाम् प्रतिधर्ता त्रिणवत्रयस्त्रिम्̇शौ त्वा स्तोमौ पृथिव्याम्̇ श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथयन्ती स्तभ्नीताम्̇ शाक्वररैवते सामनी प्रतिष्ठित्यै ।
अन्तरिक्षायर्षयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे सुवर्गे लोके यजमानं च सादयन्तु ॥

4.4.3 अनुवाक 3
चोडा इष्टकाः

VERSE: 1
अयम् पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश्च रथौजाश् च सेनानिग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षाम्̇सि प्रहेतिः ।
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानिग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिः ।
अयम् पश्चाद् विश्वव्यचास् तस्य रथेप्रोतश् चासमरथश् च सेनानिग्रामण्यौ प्रम्लोचन्ती च

VERSE: 2
अनुम्लोचन्ती चाप्सरसौ सर्पा हेतिर् व्याघ्राः प्रहेतिः ।
अयम् उत्तरात् संयद्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानिग्रामण्यौ विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिः ।
अयम् उपर्य् अर्वाग्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानिग्रामण्याव् उर्वशी च पूर्वचित्तिश् चाप्सरसौ विद्युद् धेतिर् अवस्फूर्जन् प्रहेतिस्
तेभ्यो नमस् ते नो मृडयन्तु ते यं

VERSE: 3
द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि ।
आयोस् त्वा सदने सादयाम्य् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे
परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीम् प्रथस्वतीं विभूमतीम् प्रभूमतीम् परिभूमतीं दिवं यच्छ दिवं दृम्̇ह दिवम् मा हिम्̇सीर् विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय सूर्यस् त्वाऽभि पातु मह्या स्वस्त्या

VERSE: 3
छर्दिषा शंतमेन तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद
प्रोथद् अश्वो न यवसे अविष्यन् यदा महः संवरणाद् व्यस्था । आद् अस्य् वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥

4.4.4 अनुवाक 4
छन्द इष्टकाः

VERSE: 1
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाम्̇ रेताम्̇सि जिन्वति ॥
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम् ॥
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥
अबोध्य् अग्निः समिधा जनानाम्

VERSE: 2
प्रति धेनुम् इवायतीम् उषासम् । यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उर्व्यञ्चम् अश्रेत् ॥
जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥
त्वाम् अग्ने अङ्गिरसः ॥

VERSE: 3
गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् इन्धते । इन्द्रेण देवैः सरथम्̇ स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोढवे ॥
सखायः सं वः सम्यञ्चम् इषम्

VERSE: 4
स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
सम्̇सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
एना वो अग्निं नमसोर्जो नपातम् आ हुवे । प्रियं चेतिष्ठम् अरतिम्̇ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥
स योजते अरुषो विश्वभोजसा स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी

VERSE: 5
वसूनां देवम्̇ राधो जनानाम् ॥
उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीढुषः । उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः ॥
स इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा । रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । स तिग्मजम्भ

VERSE: 6
रक्षसो दह प्रति ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषम्̇ स्तोतृभ्य आ भर ॥
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस् पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यम्̇ हूयत इषम्̇ स्तोतृभ्य आ भर ॥
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत् पुपूर्याः

VERSE: 7
उक्थेषु शवसस् पत इषम्̇ स्तोतृभ्य आ भर ॥
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रम्̇ हृदिस्पृशम् । ऋध्यामा त ओहैः ॥
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । रथीर् ऋतस्य बृहतो बभूथ ॥
आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । प्र ते दिवो न स्तनयन्ति शुष्माः ॥
एभिर् नो अर्कैर् भवा नो अर्वाङ्

VERSE: 8
सुवर् न ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥
अग्निम्̇ होतारम् मन्ये दास्वन्तम् वसोः सूनुम्̇ सहसो जातवेदसम् । विप्रं न जातवेदसम् ॥
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिम् अनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥
अग्ने त्वम् नो अन्तमः । उत त्राता शिवो भव वरूथ्यः ॥
तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनम् ईमहे सखिभ्यः ॥
वसुर् अग्निर् वसुश्रवाः । अच्छा नक्षि द्युमत्तमो रयिं दाः ॥

4.4.5 अनुवाक 5
सयुजादय इष्टकाः

VERSE: 1
इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्म्य् आघाराभ्यां तेजसा वर्चसोक्थेभिः स्तोमेभिश् छन्दोभी रय्यै पोषाय सजातानाम् मध्यमस्थेयाय मया त्वा सयुजा युजा युनज्मि ।
अम्बा दुला नितत्निर् अभ्रयन्ती मेघयन्ती वर्षयन्ती चुपुणीका नामासि प्रजापतिना त्वा विश्वाभिर् धीभिर् उप दधामि
पृथिव्य् उदपुरम् अन्नेन विष्टा मनुष्यास् ते गोप्तारो ऽग्निर् वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा

VERSE: 2
मे शर्म च वर्म चास्तु ।
अधिद्यौर् अन्तरिक्षम् ब्रह्मणा विष्टा मरुतस् ते गोप्तारो वायुर् वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा मे शर्म च वर्म चास्तु
द्यौर् अपराजिताऽमृतेन विष्टाऽऽदित्यास् ते गोप्तारः सूर्यो वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा मे शर्म च वर्म चास्तु ॥

4.4.6 अनुवाक 6
विश्वज्योतिराद्या इष्टकाः

VERSE: 1
बृहस्पतिस् त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छाग्निस् ते ऽधिपतिः ।
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छ वायुस् ते ऽधिपतिः
प्रजापतिस् त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छ परमेष्ठी ते ऽधिपतिः
पुरोवातसनिर् अस्य् अभ्रसनिर् असि विद्युत्सनिः

VERSE: 2
असि स्तनयित्नुसनिर् असि वृष्टिसनिर् असि ।
अग्नेर् यान्य् असि देवानाम् अग्नेयान्य् असि
वायोर् यान्य् असि देवानां वायोयान्य् असि ।
अन्तरिक्षस्य यान्य् असि देवानाम् अन्तरिक्षयान्य् असि ।
अन्तरिक्षम् अस्य् अन्तरिक्षाय त्वा
सलिलाय त्वा सर्णीकाय त्वा सतीकाय त्वा केताय त्वा प्रचेतसे त्वा विवस्वते त्वा दिवस् त्वा ज्योतिष आदित्येभ्यस् त्वा ।
ऋचे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा
यशोदां त्वा यशसि तेजोदां त्वा तेजसि पयोदां त्वा पयसि वर्चोदां त्वा वर्चसि द्रविणोदां त्वा द्रविणे सादयामि तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥

4.4.7 अनुवाक 7
भूयस्कृदादीष्टकाः

VERSE: 1
भूयस्कृद् असि वरिवस्कृद् असि प्राच्य् अस्य् ऊर्ध्वास्य् अन्तरिक्षसद् अस्य् अन्तरिक्षे सीद ।
अप्सुषद् असि श्येनसद् असि गृध्रसद् असि सुपर्णसद् असि नाकसद् असि
पृथिव्यास् त्वा द्रविणे सादयाम्य् अन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस् त्वा द्रविणे सादयामि दिशां त्वा द्रविणे सादयामि द्रविणोदां त्वा द्रविणे सादयामि
प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे

VERSE: 2
पाह्य् आयुर् मे पाहि विश्वायुर् मे पाहि सर्वायुर् मे पाहि ।
अग्ने यत् ते परम्̇ हृन् नाम ताव् एहि सम्̇ रभावहै पाञ्चजन्येष्व् अप्य् एध्य् अग्ने
यावा अयावा एवा ऊमाः सब्दः सगरः सुमेकः ॥

4.4.8 अनुवाक 8
इन्द्रतन्वाख्या इष्टकाः

VERSE: 1
अग्निना विश्वाषाट्
सूर्येण स्वराट्
क्रत्वा शचीपतिः ।
ऋषभेण त्वष्टा
यज्ञेन मघवान्
दक्षिणया सुवर्गः ।
मन्युना वृत्रहा
सौहार्द्येन तनूधा ।
अन्नेन गयः
पृथिव्याऽसनोत् ।
ऋग्भिर् अन्नादः ।
वषट्कारेण ऋद्धः
साम्ना तनूपाः ।
विराजा ज्योतिष्मान्
ब्रह्मणा सोमपाः ।
गोभिर् यज्ञं दाधार क्षत्रेण मनुष्यान्
अश्वेन च रथेन च वज्री ।
ऋतुभिः प्रभुः
संवत्सरेण परिभूस्
तपसाऽनाधृष्टः
सूर्यः सन् तनूभिः ॥

4.4.9 अनुवाक 9
यज्ञतन्वाख्या इष्टकाः

VERSE: 1
प्रजापतिर् मनसा ।
अन्धो ऽच्छेतः ।
धाता दीक्षायाम् ।
सविता भृत्याम्
पूषा सोमक्रयण्याम् ।
वरुण उपनद्धः ।
असुरः क्रीयमाणः ।
मित्रः क्रीतः
शिपिविष्ट आसादितः ।
नरंधिषः प्रोह्यमाणः ।
अधिपतिर् आगतः
प्रजापतिः प्रणीयमानः ।
अग्निर् आग्नीध्रे
बृहस्पतिर् आग्नीध्रात् प्रणीयमानः ।
इन्द्रो हविर्धाने ।
अदितिर् आसादितः ।
विष्णुर् उपावह्रियमाणः ।
अथर्वोपोत्तः ।
यमो ऽभिषुतः ।
अपूतपा आधूयमानः ।
वायुः पूयमानः ।
मित्रः क्षीरश्रीः ।
मन्थी सक्तुश्रीः ।
वैश्वदेव उन्नीतः ।
रुद्र
VERSE: 2
आहुतः ।
वायुर् आवृत्तः ।
नृचक्षाः प्रतिख्यातः ।
भक्ष आगतः
पितृणां नाराशम्̇सः ।
असुर् आत्तः
सिन्धुर् अवभृथम् अवप्रयन् ।
समुद्रो ऽवगतः
सलिलः प्रप्लुतः
सुवर् उदृचं गतः ॥

4.4.10 अनुवाक 10
नक्षत्रेष्टकाः

VERSE: 1
कृत्तिका नक्षत्रम् अग्निर् देवताऽग्ने रुचः स्थ प्रजापतेर् धातुः सोमस्यर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा
रोहिणी नक्षत्रम् प्रजापतिर् देवता मृगशीर्षं नक्षत्रम्̇ सोमो देवताऽऽर्द्रा नक्षत्रम्̇ रुद्रो देवता पुनर्वसू नक्षत्रम् अदितिर् देवता तिष्यो नक्षत्रम् बृहस्पतिर् देवताऽऽश्रेषा नक्षत्रम्̇ सर्पा देवता मघा नक्षत्रम् पितरो देवता फल्गुनी नक्षत्रम्

VERSE: 2
अर्यमा देवता फल्गुनी नक्षत्रम् भगो देवता हस्तो नक्षत्रम्̇ सविता देवता चित्रा नक्षत्रम् इन्द्रो देवता स्वाती नक्षत्रं वायुर् देवता विशाखे नक्षत्रम् इन्द्राग्नी देवता अनूराधा नक्षत्रम् मित्रो देवता रोहिणी नक्षत्रम् इन्द्रो देवता विचृतौ नक्षत्रम् पितरो देवताऽषाढा नक्षत्रम् आपो देवताऽषाढा नक्षत्रं विश्वे देवा देवता श्रोणा नक्षत्त्रं विष्णुर् देवता श्रविष्ठा नक्षत्रं वसवः

VERSE: 3
देवता शतभिषङ् नक्षत्रम् इन्द्रो देवता प्रोष्ठपदा नक्षत्रम् अज एकपाद् देवता प्रोष्ठपदा नक्षत्रम् अहिर् बुध्नियो देवता रेवती नक्षत्रम् पूषा देवताऽश्वयुजौ नक्षत्रम् अश्विनौ देवताऽपभरणीर् नक्षत्रं यमो देवता
पूर्णा पश्चाद् यत् ते देवा अदधुः ॥

4.4.11 अनुवाक 11
ऋतव्या इष्टकाः

VERSE: 1
मधुश् च माधवश् च वासन्तिकाव् ऋतू
शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू
नभश् च नभस्यश् च वार्षिकाव् ऋतू
इषश् चोर्जश् च शारदाव् ऋतू
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू
तपश् च तपस्यश् च शैशिराव् ऋतू
अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ओषधीः कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः

VERSE: 2
ये ऽग्नयः समनसो ऽन्तरा द्यावापृथिवी शैशिराव् ऋतू अभि कल्पमाना इन्द्रम् इव देवा अभि सं विशन्तु
संयच् च प्रचेताश् चाग्नेः सोमस्य सूर्यस्य ।
उग्रा च भीमा च पितृणां यमस्येन्द्रस्य
ध्रुवा च पृथिवी च देवस्य सवितुर् मरुतां वरुणस्य
धर्त्री च धरित्री च मित्रावरुणयोर् मित्रस्य धातुः
प्राची च प्रतीची च वसूनाम्̇ रुद्राणाम्

VERSE: 3
आदित्यानाम् ।
ते ते ऽधिपतयस् तेभ्यो नमस् ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि
सहस्रस्य प्रमा असि सहस्रस्य प्रतिमा असि सहस्रस्य विमा असि सहस्रस्योन्मा असि साहस्रो ऽसि सहस्राय त्वा ।
इमा मे अग्न इष्टका धेनवः सन्त्व् एका च शतं च सहस्रं चायुतं च

VERSE: 4
नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश् च मध्यं चान्तश् च परार्धश् चेमा मे अग्न इष्टका धेनवः सन्तु षष्टिः सहस्रम् अयुतम् अक्षीयमाणा ऋतस्था स्थर्तावृधो घृतश्चुतो मधुश्चुत ऊर्जस्वतीः स्वधाविनीस् ता मे अग्न इष्टका धेनवः सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिम्̐ लोके ॥

4.4.12 अनुवाक 12
अश्वमेधे याज्यानुवाक्याः

VERSE: 1
समिद् दिशाम् आशया नः सुवर्विन् मधोर् अतो माधवः पात्व् अस्मान् । अग्निर् देवो दुष्टरीतुर् अदाभ्य इदं क्षत्रम्̇ रक्षतु पात्व् अस्मान् ॥
रथंतरम्̇ सामभिः पात्व् अस्मान् गायत्री छन्दसां विश्वरूपा । त्रिवृन् नो विष्ठया स्तोमो अह्नाम्̇ समुद्रो वात इदम् ओजः पिपर्तु ॥
उग्रा दिशाम् अभिभूतिर् वयोधाः शुचिः शुक्रे अहन्य् ओजसीना । इन्द्राधिपतिः पिपृताद् अतो नो महि

VERSE: 2
क्षत्रं विश्वतो धारयेदम् ॥
बृहत् साम क्षत्रभृद् वृद्धवृष्णियं त्रिष्टुभौजः शुभितम् उग्रवीरम् । इन्द्र स्तोमेन पञ्चदशेन मध्यम् इदं वातेन सगरेण रक्ष ॥
प्राची दिशाम्̇ सहयशा यशस्वती विश्वे देवाः प्रावृषाह्नाम्̇ सुवर्वती । इदं क्षत्रं दुष्टरम् अस्त्व् ओजो ऽनाधृष्टम्̇ सहस्रियम्̇ सहस्वत् ॥
वैरूपे सामन्न् इह तच् छकेम जगत्यैनं विक्ष्व् आ वेशयामः । विश्वे देवाः सप्तदशेन

VERSE: 3
वर्च इदं क्षत्रम्̇ सलिलवातम् उग्रम् ॥
धर्त्री दिशां क्षत्रम् इदं दाधारोपस्थाऽऽशानाम् मित्रवद् अस्त्व् ओजः । मित्रावरुणा शरदाऽह्नां चिकित्नू अस्मै राष्ट्राय महि शर्म यच्छतम् ॥
वैराजे सामन्न् अधि मे मनीषाऽनुष्टुभा सम्भृतं वीर्यम्̇ सहः । इदं क्षत्रम् मित्रवद् आर्द्रदानु मित्रावरुणा रक्षतम् आधिपत्यैः ॥
सम्राड् दिशाम्̇ सहसाम्नी सहस्वत्य् ऋतुर् हेमन्तो विष्ठया नः पिपर्तु । अवस्युवाताः

VERSE: 4
बृहतीर् नु शक्वरीर् इमं यज्ञम् अवन्तु नो घृताचीः ॥
सुवर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची । त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्ग्धि वाचम् ॥
ऊर्ध्वा दिशाम्̇ रन्तिर् आशौषधीनाम्̇ संवत्सरेण सविता नो अह्नाम् । रेवत् सामातिछन्दा उ छन्दोऽजातशत्रुः स्योना नो अस्तु ॥
स्तोमत्रयस्त्रिम्̇शे भुवनस्य पत्नि विवस्वद्वाते अभि नः

VERSE: 5
गृणाहि । घृतवती सवितर् आधिपत्यैः पयस्वती रन्तिर् आशा नो अस्तु ॥
ध्रुवा दिशां विष्णुपत्न्य् अघोराऽस्येशाना सहसो या मनोता । बृहस्पतिर् मातरिश्वोत वायुः संधुवाना वाता अभि नो गृणन्तु ॥
विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । विश्वव्यचा इषयन्ती सुभूतिः शिवा नो अस्त्व् अदितिर् उपस्थे ॥
वैश्वानरो न ऊत्या
पृष्टो दिवि ।
अनु नो ऽद्यानुमतिः ।
अन्व् इद् अनुमते त्वम् ।
कया नश् चित्र आ भुवत्
को अद्य युङ्क्ते ॥