तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ४/प्रपाठकः १
तैत्तिरीय संहिता काण्ड 4 प्रपाठक: 1 अग्निचयनमन्त्राः
4.1.1 अनुवाक 1 अभ्र्यादानम्
1 युञ्जानः प्रथमम् मनस् तत्त्वाय सविता धियः । अग्निं ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत् ॥ युक्त्वाय मनसा देवान्त् सुवर् यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्र सुवति तान् ॥ युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्यै ॥ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इत्
2 मही देवस्य सवितुः परिष्टुतिः ॥ युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोका यन्ति पथ्येव सूराः । शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् अर्चतः । यः पार्थिवानि विममे स एतशो रजाꣳसि देवः सविता महित्वना ॥ देव सवितः प्र सुव यज्ञम् प्र सुव
3 यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचम् अद्य स्वदाति नः ॥ इमं नो देव सवितर् यज्ञम् प्र सुव देवायुवꣳ सखिविदꣳ सत्राजितं धनजितꣳ सुवर्जितम् ॥ ऋचा स्तोमꣳ सम् अर्धय गायत्रेण रथंतरम् । बृहद् गायत्रवर्तनि ॥ देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् गायत्रेण छन्दसा ददे ऽङ्गिरस्वत् । अभ्रिर् असि नारि
4 रसि पृथिव्याः सधस्थाद् अग्निम् पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन त्वा छन्दसा ऽऽददे ऽङ्गिरस्वत् । बभ्रिर् असि नारिर् असि त्वया वयꣳ सधस्थ आऽग्निꣳ शकेम खनितुम् पुरीष्यं जागतेन त्वा छन्दसा ददे ऽङ्गिरस्वत् । हस्त आधाय सविता बिभ्रद् अभ्रिꣳ हिरण्ययीम् । तया ज्योतिर् अजस्रम् इद् अग्निं खात्वी न आ भराऽनुष्टुभेन त्वा छन्दसा ऽऽ ददे ऽङ्गिरस्वत् ॥
4.1.2 अनुवाक 2 मृदाक्रान्तिः
1 इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व आयुषि विदथेषु कव्या । तया देवाः सुतम् आ बभूवुर् ऋतस्य सामन्त् सरम् आरपन्ती ॥ प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु संवतम् । दिवि ते जन्म परमम् अन्तरिक्षे नाभिः पृथिव्याम् अधि योनिः ॥ युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू । अग्निम् भरन्तम् अस्मयुम् ॥ योगेयोगे तवस्तरं वाजे-वाजे हवामहे । सखाय इन्द्रमूतये ॥ प्रतूर्वन्
2 एह्य् अवक्रामन्न् अशस्ती रुद्रस्य गाणपत्यान् मयोभूर् एहि । उर्व् अन्तरिक्षम् अन्व् इहि स्वस्तिगव्यूतिर् अभयानि कृण्वन् ॥ पूष्णा सयुजा सह पृथिव्याः सधस्थाद् अग्निम् पुरिष्यम् अङ्गिरस्वद् अच्छेहि । अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेमः । अग्निम् पुरीष्यम् अङ्गिरस्वद् भरिष्यामः । अग्निम् पुरीष्यम् अङ्गिरस्वद् भरामः । अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य
3 पुरुत्रा च रश्मीन् अनु द्यावापृथिवी आ ततान ॥ आगत्य वाज्य् अध्वनः सर्वा मृधो वि धूनुते । अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते ॥ आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् । भूया वृत्वाय नो ब्रूहि यतः खनाम तं वयम् ॥ द्यौस् ते पृष्ठम् पृथिवी सधस्थम् आत्मान्तरिक्षꣳ समुद्रस् ते योनिः । विख्याय चक्षुषा त्वम् अभि तिष्ठ
4 पृतन्यतः ॥ उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् । वयꣳ स्याम सुमतौ पृथिव्या अग्निं खनिष्यन्त उपस्थे अस्याः ॥ उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाऽकः स लोकꣳ सुकृतम् पृथिव्याः । ततः खनेम सुप्रतीकम् अग्निꣳ सुवो रुहाणा अधि नाक उत्तमे ॥ अपो देवीर् उप सृज मधुमतीर् अयक्ष्माय प्रजाभ्यः । तासाꣳ स्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥ जिघर्मि
5 अग्निम् मनसा घृतेन प्रतिक्ष्यन्तम् भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नꣳ रभसं विदानम् ॥ आ त्वा जिघर्मि वचसा घृतेनारक्षसा मनसा तज् जुषस्व । मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तनुवा जर्हृषाणः ॥ परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । दधद् रत्नानि दाशुषे ॥ परि त्वाऽग्ने पुरं वयं विप्रꣳ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारम् भङ्गुरावतः ॥ त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥
4.1.3 अनुवाक 3 मृत्खननम्
1 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् पृथिव्याः सधस्थे ऽग्निम् पुरीष्यम् अङ्गिरस्वत् खनामि ॥ ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यानम् । शिवम् प्रजाभ्यो ऽहिꣳसन्तम् पृथिव्याः सधस्थे ऽग्निम् पुरीष्यम् अङ्गिरस्वत् खनामि ॥ अपाम् पृष्ठम् असि सप्रथा उर्व् अग्निम् भरिष्यद् अपरावपिष्ठम् । वर्धमानम् मह आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥ शर्म च स्थो
2 वर्म च स्थो अच्छिद्रे बहुले उभे । व्यचस्वती सं वसाथाम् भर्तम् अग्निम् पुरीष्यम् ॥ सं वसाथाꣳ सुवर्विदा समीची उरसा त्मना । अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥ पुरीष्यो ऽसि विश्वभराः । अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥ तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे
3 अथर्वणः । वृत्रहणम् पुरंदरम् ॥ तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । धनंजयꣳ रणेरणे ॥ सीद होतः स्व उ लोके चिकित्वान्त् सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥ नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥ सꣳ सीदस्व महाꣳ असि शोचस्व
4 देववीतमः । वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥ जनिष्वा हि जेन्यो अग्रे अह्नाम् हितो हितेष्व् अरुषो वनेषु । दमेदमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥
4.1.4 अनुवाक 4 मृदाहरणम्
1 सं ते वायुर् मातरिश्वा दधातूत्तानायै हृदयं यद् विलिष्टम् । देवानां यश् चरति प्राणथेन तस्मै च देवि वषड् अस्तु तुभ्यम् ॥ सुजातो ज्योतिषा सह शर्म वरूथम् आऽसदः सुवः । वासो अग्ने विश्वरूपꣳ सं व्ययस्व विभावसो ॥ उद् उ तिष्ठ स्वध्वरावा नो देव्या कृपा । दृशे च भासा बृहता सुशुक्वनिर् आऽग्ने याहि सुशस्तिभिः ॥
2 ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥ स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । चित्रः शिशुः परि तमाꣳस्य् अक्तः प्र मातृभ्यो अधि कनिक्रदद् गाः ॥ स्थिरो भव वीड्वङ्ग आशुर् भव वाज्य् अर्वन् । पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहनः ॥ शिवो भव
3 प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः । मा द्यावापृथिवी अभि शूशुचो माऽन्तरिक्षम् मा वनस्पतीन् ॥ प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा । भरन्न् अग्निम् पुरीष्यम् मा पाद्य् आयुषः पुरा ॥ रासभो वां कनिक्रदत् सुयुक्तो वृषणा रथे । स वाम् अग्निम् पुरीष्यम् आशुर् दूतो वहाद् इतः ॥ वृषाग्निं वृषणम् भरन्न् अपां गर्भꣳ समुद्रियम् । अग्न आ याहि
4 वीतय ऋतꣳ सत्यम् ॥ ओषधयः प्रति गृह्णीताग्निम् एतꣳ शिवम् आयन्तम् अभ्य् अत्र युष्मान् । व्यस्यन् विश्वा अमतीर् अरातीर् निषीदन् नो अप दुर्मतिꣳ हनत् ॥ ओषधयः प्रति मोदध्वम् एनम् पुष्पावतीः सुपिप्पलाः । अयं वो गर्भ ऋत्वियः प्रत्नꣳ सधस्थम् आऽसदत् ॥
4.1.5 अनुवाक 5 उखानिर्माणम्
1 वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहꣳ सुहवस्य प्रणीतौ ॥ आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ मित्रः
2 सꣳसृज्य पृथिवीम् भूमिं च ज्योतिषा सह । सुजातं जातवेदसम् अग्निं वैश्वानरं विभुम् ॥ अयक्ष्माय त्वा सꣳ सृजामि प्रजाभ्यः । विश्वे त्वा देवा वैश्वानराः सꣳ सृजन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वत् ॥ रुद्राः सम्भृत्य पृथिवीम् बृहज् ज्योतिः सम् ईधिरे । तेषाम् भानुर् अजस्र इच् छुक्रो देवेषु रोचते ॥ सꣳसृष्टां वसुभी रुद्रैर् धीरैः कर्मण्याम् मृदम् । हस्ताभ्याम् मृद्वीं कृत्वा सिनीवाली करोतु
3 ताम् ॥ सिनीवली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यम् अदिते मह ओखां दधातु हस्तयोः ॥ उखां करोतु शक्त्या बाहुभ्याम् अदितिर् धिया । माता पुत्रं यथोपस्थे साऽग्निम् बिभर्तु गर्भ आ ॥ मखस्य शिरो ऽसि यज्ञस्य पदे स्थः । वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वत् पृथिव्यसि रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् अन्तरिक्षम् असि
4 आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् द्यौर् असि विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वद् दिशो ऽसि ध्रुवासि धारया मयि प्रजाꣳ रायस् पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय । अदित्यै रास्नाऽसि । अदितिस् ते बिलं गृह्णातु पाङ्क्तेन छन्दसाऽङ्गिरस्वत् । कृत्वाय सा महीम् उखाम् मृन्मयीं योनिम् अग्नये । ताम् पुत्रेभ्यः सम् प्रायच्छद् अदितिः श्रपयान् इति ॥
4.1.6 अनुवाक 6 उखासंस्कारः
1 वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वद् इन्द्रस् त्वा धूपयत्व् अङ्गिरस्वद् विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् वरुणस् त्वा धूपयत्व् अङ्गिरस्वत् । अदितिस् त्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽङ्गिरस्वत् खनत्व् अवट देवानां त्वा पत्नीर्
2 देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद् दधतूखे धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद् अभीन्धताम् उखे ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वच् छ्रपयन्तूखे वरूत्रयो जनयस् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वत् पचन्तूखे । मित्रैताम् उखाम् पचैषा मा भेदि । एतां ते परि ददाम्य् अभित्त्यै अभीमाम्
3 महिना दिवम् मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् ॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । द्युम्नं चित्रश्रवस्तमम् ॥ देवस् त्वा सवितोद् वपतु सुपाणिः स्वङ्गुरिः । सुबाहुर् उत शक्त्या ॥ अपद्यमाना पृथिव्य् आशा दिश आ पृण । उत् तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ॥ वसवस् त्वाऽऽ च्छृन्दन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास् त्वाऽऽ च्छृन्दन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् आदित्यास् त्वाऽऽ च्छृन्दन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा आ च्छृन्दन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वत् ॥
4.1.7 अनुवाक 7 पश्वङ्गभूता आग्निक्यः सामिधेन्यः
1 समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशः पृथिव्याः ॥ सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय । मा च ऋषद् उपसत्ता ते अग्ने ब्रह्माणस् ते यशसः सन्तु माऽन्ये ॥ त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने
2 संवरणे भवा नः । सपत्नहा नो अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥ इहैवाग्ने अधि धारया रयिम् मा त्वा नि क्रन् पूर्वचितो निकारिणः । क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥ क्षत्रेणाग्ने स्वायुः सꣳ रभस्व मित्रेणाग्ने मित्रधेये यतस्व । सजातानाम् मध्यमस्था एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥ अति
3 निहो अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने । विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यꣳ सहवीराꣳ रयिं दाः ॥ अनाधृष्यो जातवेदा अनिष्टृतो विराड् अग्ने क्षत्रभृद् दीदिहीह । विश्वा आशाः प्रमुञ्चन् मानुषीर् भियः शिवाभिर् अद्य परि पाहि नो वृधे ॥ बृहस्पते सवितर् बोधयैनꣳ सꣳशितं चित् संतराꣳ सꣳ शिशाधि । वर्धयैनम् महते सौभगाय ।
4 विश्व एनम् अनु मदन्तु देवाः ॥ अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः । प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥ उद् वयं तमसस् परि पश्यन्तो ज्योतिर् उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
4.1.8 अनुवाक 8 आप्रीनामिकाः प्रयाजयाज्याः
1 ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीꣳष्य् अग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः ॥ तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः । पथ आऽनक्ति मध्वा घृतेन ॥ मध्वा यज्ञं नक्षसे प्रीणानो नराशꣳसो अग्ने । सुकृद् देवः सविता विश्ववारः ॥ अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा । अग्निꣳ स्रुचो अध्वरेषु प्रयत्सु ॥
स यक्षद् अस्य महिमानम् अग्नेः स
2 ई मन्द्रासु प्रयसः । वसुश् चेतिष्ठो वसुधातमश् च ॥ द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः ॥ ते अस्य योषणे दिव्ये न योनाव् उषासानक्ता । इमं यज्ञम् अवताम् अध्वरं नः ॥ दैव्या होताराव् ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् । कृणुतं नः स्विष्टिम् ॥ तिस्रो देवीर् बर्हिर् एदꣳ सदन्त्व् इडा सरस्वती
3 भारती मही गृणाना ॥ तन् नस् तुरीपम् अद्भुतम् पुरुक्षु त्वष्टा सुवीरम् । रायस् पोषं वि ष्यतु नाभिम् अस्मे ॥ वनस्पते ऽव सृजा रराणस् त्मना देवेषु । अग्निर् हव्यꣳ शमिता सूदयाति ॥ अग्ने स्वाहा कृणुहि जातवेद इन्द्राय हव्यम् । विश्वे देवा हविर् इदं जुषन्ताम् ॥ हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम्
4 उतेमां कस्मै देवाय हविषा विधेम ॥ यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्रꣳ रसया सहा
5 हुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ यं क्रन्दसी अवसा तस्तभाने अभ्येक्षेताम् मनसा रेजमाने । यत्राधि सूर उदितौ व्येति कस्मै देवाय हविषा विधेम ॥ येन द्यौर् उग्रा पृथिवी च दृढे येन सुवः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ आपो ह यन् महतीर् विश्वमा
6 यन् दक्षं दधाना जनयन्तीर् अग्निम् । ततो देवानां निर् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥ यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् अग्निम् । यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥
4.1.9 अनुवाक 9 अग्न्युत्पादनम्
1 आकूतिम् अग्निम् प्रयुजꣳ स्वाहा मनो मेधाम् अग्निम् प्रयुजꣳ स्वाहा चित्तं विज्ञातम् अग्निम् प्रयुजꣳ स्वाहा वाचो विधृतिम् अग्निम् प्रयुजꣳ स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा विश्वे देवस्य नेतुर् मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा मा सु भित्था मा सु रिषो दृꣳहस्व वीडयस्व सु । अम्ब धृष्णु वीरयस्वा
2 ग्निश् चेदं करिष्यथः ॥ दृꣳहस्व देवि पृथिवि स्वस्तय आसुरी माया स्वधया कृतासि । जुष्टं देवानां इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे अस्मिन् ॥ मित्रैताम् उखां तपैषा मा भेदि । एताम् ते परि ददाम्य् अभित्त्यै । द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस् पुत्रो अद्भुतः ॥ परस्या अधि संवतो ऽवराꣳ अभ्य् आ
3 तर । यत्राहम् अस्मि ताꣳ अव ॥ परमस्याः परावतो रोहिदश्व इहा गहि । पुरीष्यः पुरुप्रियो ऽग्ने त्वं तरा मृधः ॥ सीद त्वम् मातुर् अस्या उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनाम् अर्चिषा मा तपसाऽभि शूशुचो ऽन्तर् अस्याꣳ शुक्रज्योतिर् वि भाहि ॥ अन्तर् अग्ने रुचा त्वम् उखायै सदने स्वे । तस्यास् त्वꣳ हरसा तपञ् जातवेदः शिवो भव ॥ शिवो भूत्वा मह्यम् अग्ने ऽथो सीद शिवस् त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
4.1.10 अनुवाक 10 अग्निधारणम्
1 यद् अग्ने यानि कानि चा ते दारूणि दध्मसि । तद् अस्तु तुभ्यम् इद् घृतं तज् जुषस्व यविष्ठ्य ॥ यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥ रात्रिꣳरात्रिम् अप्रयावम् भरत्नो ऽश्वायेव तिष्ठते घासम् अस्मै । रायस् पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥ नाभा
2 पृथिव्याः समिधानम् अग्निꣳ रायस् पोषाय बृहते हवामहे । इरम्मदम् बृहदुक्थं यजत्रं जेतारम् अग्निम् पृतनासु सासहिम् ॥ याः सेना अभीत्वरीर् आव्याधिनीर् उगणा उत । ये स्तेना ये च तस्करास् ताꣳस् ते अग्ने ऽपि दधाम्य् आस्ये ॥ दꣳष्ट्राभ्याम् मलिम्लूञ् जम्भ्यैस् तस्कराꣳ उत । हनूभ्याꣳ स्तेनान् भगवस् ताꣳस् त्वं खाद सुखादितान् ॥ ये जनेषु मलिम्लव स्तेनासस् तस्करा वने । ये
3 कक्षेष्व् अघायवस् ताꣳस् ते दधामि जम्भयोः ॥ यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः । निन्दाद् यो अस्मान् दिप्साच् च सर्वं तम् मस्मसा कुरु ॥ सꣳशितम् मे ब्रह्म सꣳशितं वीर्यम् बलम् । सꣳशितम् क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥ उद् एषाम् बाहू अतिरम् उद् वर्च उद् ऊ बलम् । क्षिणोमि ब्रह्मणामित्रान् उन् नयामि
4 स्वाꣳ अहम् । दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥ विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥ नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची । द्यावा क्षामा रुक्मः
5 अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥ सुपर्णो ऽसि गरुत्मान् त्रिवृत् ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर् वामदेव्यम् बृहद्रथन्तरे पक्षौ यज्ञायज्ञियम् पुच्छं छन्दाꣳस्य् अङ्गानि धिष्णियाः शफा यजूꣳषि नाम । सुपर्णो ऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥
4.1.11 अनुवाक 11 चातु्र्मास्येषु वैश्वदेवे याज्यानुवाक्याः
1 अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि । स इद् देवेषु गच्छति ॥ सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर् नो ऽविता भव ॥ अग्निर् मूर्धा भुवः । त्वं नः सोम या ते धामानि । तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता
2 देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ग्नाभिर् अछिद्रꣳ शरणꣳ सजोषा दुराधर्षं गृणते शर्म यꣳसत् ॥ पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । पूषा वाजꣳ सनोतु नः ॥ शुक्रं ते अन्यद् यजतं ते अन्यत्
3 विषुरूपे अहनी द्यौर् इवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥ ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः । विष्णुर् यद् धाऽऽवद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये । प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहाꣳसि सहसा सहन्ते
4 रेजते अग्ने पृथिवी मखेभ्यः ॥ विश्वे देवा । विश्वे देवाः । द्यावा नः पृथिवी इमꣳ सिध्रम् अद्य दिविस्पृशम् । यज्ञं देवेषु यच्छताम् ॥ प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वꣳ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ॥ अग्निꣳ स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत् ॥ स हव्यवाड् अमर्त्य उशिग् दूतश् चनोहितः । अग्निर् धिया सम् ऋण्वति ॥ शं नो भवन्तु वाजेवाजे ॥ वै देविकाश् छन्दाꣳसीव खलु वै रुक् छन्दोभिर् एवास्मिन् रुचं दधाति क्षीरे भवन्ति रुचम् एवास्मिन् दधति मध्यतो धातारं करोति मध्यत एवैनꣳ रुचो दधाति गायत्री वा अनुमतिस् त्रिष्टुग् राका जगती सिनीवाल्य् अनुष्टुप् कुहूर् धाता वषट्कारः पूर्वपक्षो राकापरपक्षः कुहूर् अमावास्या सिनीवली पौर्णमास्य् अनुमतिश् चन्द्रमा धाता । अष्टौ
7 वसवो ऽष्टाक्षरा गायत्र्य् एकादश रुद्रा एकादशाक्षरा त्रिष्टुब् द्वादशादित्या द्वादशाक्षरा जगती प्रजापतिर् अनुष्टुब् धाता वषट्कारः । एतद् वै देविकाः सर्वाणि च छन्दाꣳसि सर्वाश् च देवता वषट्कारस् ता यत् सह सर्वा निर्वपेद् ईश्वरा एनम् प्रदहो द्वे प्रथमे निरुप्य धातुस् तृतीयं निर् वपेत् तथो एवोत्तरे निर् वपेत् तथैनं न प्र दहन्त्य् अथो यस्मै कामाय निरुप्यन्ते तम् एवाभिर् उपाप्नोति ॥
4.1.1 अनुवाक 1
अभ्र्यादानम्
1
युञ्जानः प्रथमम् मनस् तत्त्वाय सविता धियः । अग्निं ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत् ॥
युक्त्वाय मनसा देवान्त् सुवर् यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्र सुवति तान् ॥
युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्यै ॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इत्
2
मही देवस्य सवितुः परिष्टुतिः ॥
युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोका यन्ति पथ्येव सूराः । शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥
यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् अर्चतः । यः पार्थिवानि विममे स एतशो रजाꣳसि देवः सविता महित्वना ॥
देव सवितः प्र सुव यज्ञम् प्र सुव
3
यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचम् अद्य स्वदाति नः ॥
इमं नो देव सवितर् यज्ञम् प्र सुव देवायुवꣳ सखिविदꣳ सत्राजितं धनजितꣳ सुवर्जितम् ॥
ऋचा स्तोमꣳ सम् अर्धय गायत्रेण रथंतरम् । बृहद् गायत्रवर्तनि ॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् गायत्रेण छन्दसा ददे ऽङ्गिरस्वत् ।
अभ्रिर् असि नारि
4
रसि पृथिव्याः सधस्थाद् अग्निम् पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन त्वा छन्दसा ऽऽददे ऽङ्गिरस्वत् ।
बभ्रिर् असि नारिर् असि त्वया वयꣳ सधस्थ आऽग्निꣳ शकेम खनितुम् पुरीष्यं जागतेन त्वा छन्दसा ददे ऽङ्गिरस्वत् ।
हस्त आधाय सविता बिभ्रद् अभ्रिꣳ हिरण्ययीम् । तया ज्योतिर् अजस्रम् इद् अग्निं खात्वी न आ भराऽनुष्टुभेन त्वा छन्दसा ऽऽ ददे ऽङ्गिरस्वत् ॥
4.1.2 अनुवाक 2
मृदाक्रान्तिः
1
इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व आयुषि विदथेषु कव्या । तया देवाः सुतम् आ बभूवुर् ऋतस्य सामन्त् सरम् आरपन्ती ॥
प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु संवतम् ।
दिवि ते जन्म परमम् अन्तरिक्षे नाभिः पृथिव्याम् अधि योनिः ॥
युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू । अग्निम् भरन्तम् अस्मयुम् ॥
योगेयोगे तवस्तरं वाजे-वाजे हवामहे । सखाय इन्द्रमूतये ॥
प्रतूर्वन्
2
एह्य् अवक्रामन्न् अशस्ती रुद्रस्य गाणपत्यान् मयोभूर् एहि । उर्व् अन्तरिक्षम् अन्व् इहि स्वस्तिगव्यूतिर् अभयानि कृण्वन् ॥
पूष्णा सयुजा सह पृथिव्याः सधस्थाद् अग्निम् पुरिष्यम् अङ्गिरस्वद् अच्छेहि ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेमः ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् भरामः ।
अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य
3
पुरुत्रा च रश्मीन् अनु द्यावापृथिवी आ ततान ॥
आगत्य वाज्य् अध्वनः सर्वा मृधो वि धूनुते । अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते ॥
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् । भूया वृत्वाय नो ब्रूहि यतः खनाम तं वयम् ॥
द्यौस् ते पृष्ठम् पृथिवी सधस्थम् आत्मान्तरिक्षꣳ समुद्रस् ते योनिः । विख्याय चक्षुषा त्वम् अभि तिष्ठ
4
पृतन्यतः ॥
उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् । वयꣳ स्याम सुमतौ पृथिव्या अग्निं खनिष्यन्त उपस्थे अस्याः ॥
उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाऽकः स लोकꣳ सुकृतम् पृथिव्याः । ततः खनेम सुप्रतीकम् अग्निꣳ सुवो रुहाणा अधि नाक उत्तमे ॥
अपो देवीर् उप सृज मधुमतीर् अयक्ष्माय प्रजाभ्यः । तासाꣳ स्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥
जिघर्मि
5
अग्निम् मनसा घृतेन प्रतिक्ष्यन्तम् भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नꣳ रभसं विदानम् ॥
आ त्वा जिघर्मि वचसा घृतेनारक्षसा मनसा तज् जुषस्व । मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तनुवा जर्हृषाणः ॥
परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । दधद् रत्नानि दाशुषे ॥
परि त्वाऽग्ने पुरं वयं विप्रꣳ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारम् भङ्गुरावतः ॥
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥
4.1.3 अनुवाक 3
मृत्खननम्
1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् पृथिव्याः सधस्थे ऽग्निम् पुरीष्यम् अङ्गिरस्वत् खनामि ॥
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यानम् । शिवम् प्रजाभ्यो ऽहिꣳसन्तम् पृथिव्याः सधस्थे ऽग्निम् पुरीष्यम् अङ्गिरस्वत् खनामि ॥
अपाम् पृष्ठम् असि सप्रथा उर्व् अग्निम् भरिष्यद् अपरावपिष्ठम् । वर्धमानम् मह आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥
शर्म च स्थो
2
वर्म च स्थो अच्छिद्रे बहुले उभे । व्यचस्वती सं वसाथाम् भर्तम् अग्निम् पुरीष्यम् ॥
सं वसाथाꣳ सुवर्विदा समीची उरसा त्मना । अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥
पुरीष्यो ऽसि विश्वभराः । अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे
3
अथर्वणः । वृत्रहणम् पुरंदरम् ॥
तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । धनंजयꣳ रणेरणे ॥
सीद होतः स्व उ लोके चिकित्वान्त् सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
सꣳ सीदस्व महाꣳ असि शोचस्व
4
देववीतमः । वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥
जनिष्वा हि जेन्यो अग्रे अह्नाम् हितो हितेष्व् अरुषो वनेषु । दमेदमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥
4.1.4 अनुवाक 4
मृदाहरणम्
1
सं ते वायुर् मातरिश्वा दधातूत्तानायै हृदयं यद् विलिष्टम् । देवानां यश् चरति प्राणथेन तस्मै च देवि वषड् अस्तु तुभ्यम् ॥
सुजातो ज्योतिषा सह शर्म वरूथम् आऽसदः सुवः । वासो अग्ने विश्वरूपꣳ सं व्ययस्व विभावसो ॥
उद् उ तिष्ठ स्वध्वरावा नो देव्या कृपा । दृशे च भासा बृहता सुशुक्वनिर् आऽग्ने याहि सुशस्तिभिः ॥
2
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥
स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । चित्रः शिशुः परि तमाꣳस्य् अक्तः प्र मातृभ्यो अधि कनिक्रदद् गाः ॥
स्थिरो भव वीड्वङ्ग आशुर् भव वाज्य् अर्वन् । पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहनः ॥
शिवो भव
3
प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः । मा द्यावापृथिवी अभि शूशुचो माऽन्तरिक्षम् मा वनस्पतीन् ॥
प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा । भरन्न् अग्निम् पुरीष्यम् मा पाद्य् आयुषः पुरा ॥
रासभो वां कनिक्रदत् सुयुक्तो वृषणा रथे । स वाम् अग्निम् पुरीष्यम् आशुर् दूतो वहाद् इतः ॥
वृषाग्निं वृषणम् भरन्न् अपां गर्भꣳ समुद्रियम् । अग्न आ याहि
4
वीतय ऋतꣳ सत्यम् ॥
ओषधयः प्रति गृह्णीताग्निम् एतꣳ शिवम् आयन्तम् अभ्य् अत्र युष्मान् । व्यस्यन् विश्वा अमतीर् अरातीर् निषीदन् नो अप दुर्मतिꣳ हनत् ॥
ओषधयः प्रति मोदध्वम् एनम् पुष्पावतीः सुपिप्पलाः । अयं वो गर्भ ऋत्वियः प्रत्नꣳ सधस्थम् आऽसदत् ॥
4.1.5 अनुवाक 5
उखानिर्माणम्
1
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहꣳ सुहवस्य प्रणीतौ ॥
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
मित्रः
2
सꣳसृज्य पृथिवीम् भूमिं च ज्योतिषा सह । सुजातं जातवेदसम् अग्निं वैश्वानरं विभुम् ॥
अयक्ष्माय त्वा सꣳ सृजामि प्रजाभ्यः । विश्वे त्वा देवा वैश्वानराः सꣳ सृजन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वत् ॥
रुद्राः सम्भृत्य पृथिवीम् बृहज् ज्योतिः सम् ईधिरे । तेषाम् भानुर् अजस्र इच् छुक्रो देवेषु रोचते ॥
सꣳसृष्टां वसुभी रुद्रैर् धीरैः कर्मण्याम् मृदम् । हस्ताभ्याम् मृद्वीं कृत्वा सिनीवाली करोतु
3
ताम् ॥
सिनीवली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यम् अदिते मह ओखां दधातु हस्तयोः ॥
उखां करोतु शक्त्या बाहुभ्याम् अदितिर् धिया । माता पुत्रं यथोपस्थे साऽग्निम् बिभर्तु गर्भ आ ॥
मखस्य शिरो ऽसि
यज्ञस्य पदे स्थः ।
वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वत् पृथिव्यसि रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् अन्तरिक्षम् असि
4
आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् द्यौर् असि विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वद् दिशो ऽसि ध्रुवासि धारया मयि प्रजाꣳ रायस् पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
अदित्यै रास्नाऽसि ।
अदितिस् ते बिलं गृह्णातु पाङ्क्तेन छन्दसाऽङ्गिरस्वत् ।
कृत्वाय सा महीम् उखाम् मृन्मयीं योनिम् अग्नये । ताम् पुत्रेभ्यः सम् प्रायच्छद् अदितिः श्रपयान् इति ॥
4.1.6 अनुवाक 6
उखासंस्कारः
1
वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वद् इन्द्रस् त्वा धूपयत्व् अङ्गिरस्वद् विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् वरुणस् त्वा धूपयत्व् अङ्गिरस्वत् ।
अदितिस् त्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽङ्गिरस्वत् खनत्व् अवट
देवानां त्वा पत्नीर्
2
देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद् दधतूखे
धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद् अभीन्धताम् उखे ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वच् छ्रपयन्तूखे वरूत्रयो जनयस् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वत् पचन्तूखे ।
मित्रैताम् उखाम् पचैषा मा भेदि ।
एतां ते परि ददाम्य् अभित्त्यै
अभीमाम्
3
महिना दिवम् मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । द्युम्नं चित्रश्रवस्तमम् ॥
देवस् त्वा सवितोद् वपतु सुपाणिः स्वङ्गुरिः । सुबाहुर् उत शक्त्या ॥
अपद्यमाना पृथिव्य् आशा दिश आ पृण । उत् तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ॥
वसवस् त्वाऽऽ च्छृन्दन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास् त्वाऽऽ च्छृन्दन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् आदित्यास् त्वाऽऽ च्छृन्दन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा आ च्छृन्दन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वत् ॥
4.1.7 अनुवाक 7
पश्वङ्गभूता आग्निक्यः सामिधेन्यः
1
समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशः पृथिव्याः ॥
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय । मा च ऋषद् उपसत्ता ते अग्ने ब्रह्माणस् ते यशसः सन्तु माऽन्ये ॥
त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने
2
संवरणे भवा नः । सपत्नहा नो अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥
इहैवाग्ने अधि धारया रयिम् मा त्वा नि क्रन् पूर्वचितो निकारिणः । क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥
क्षत्रेणाग्ने स्वायुः सꣳ रभस्व मित्रेणाग्ने मित्रधेये यतस्व । सजातानाम् मध्यमस्था एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥
अति
3
निहो अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने । विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यꣳ सहवीराꣳ रयिं दाः ॥
अनाधृष्यो जातवेदा अनिष्टृतो विराड् अग्ने क्षत्रभृद् दीदिहीह । विश्वा आशाः प्रमुञ्चन् मानुषीर् भियः शिवाभिर् अद्य परि पाहि नो वृधे ॥
बृहस्पते सवितर् बोधयैनꣳ सꣳशितं चित् संतराꣳ सꣳ शिशाधि । वर्धयैनम् महते सौभगाय ।
4
विश्व एनम् अनु मदन्तु देवाः ॥
अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः । प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥
उद् वयं तमसस् परि पश्यन्तो ज्योतिर् उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
4.1.8 अनुवाक 8
आप्रीनामिकाः प्रयाजयाज्याः
1
ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीꣳष्य् अग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः ॥
तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः । पथ आऽनक्ति मध्वा घृतेन ॥
मध्वा यज्ञं नक्षसे प्रीणानो नराशꣳसो अग्ने । सुकृद् देवः सविता विश्ववारः ॥
अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा । अग्निꣳ स्रुचो अध्वरेषु प्रयत्सु ॥
स यक्षद् अस्य महिमानम् अग्नेः स
2
ई मन्द्रासु प्रयसः । वसुश् चेतिष्ठो वसुधातमश् च ॥
द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः ॥
ते अस्य योषणे दिव्ये न योनाव् उषासानक्ता । इमं यज्ञम् अवताम् अध्वरं नः ॥
दैव्या होताराव् ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् । कृणुतं नः स्विष्टिम् ॥
तिस्रो देवीर् बर्हिर् एदꣳ सदन्त्व् इडा सरस्वती
3
भारती मही गृणाना ॥
तन् नस् तुरीपम् अद्भुतम् पुरुक्षु त्वष्टा सुवीरम् । रायस् पोषं वि ष्यतु नाभिम् अस्मे ॥
वनस्पते ऽव सृजा रराणस् त्मना देवेषु । अग्निर् हव्यꣳ शमिता सूदयाति ॥
अग्ने स्वाहा कृणुहि जातवेद इन्द्राय हव्यम् । विश्वे देवा हविर् इदं जुषन्ताम् ॥
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम्
4
उतेमां कस्मै देवाय हविषा विधेम ॥
यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
यस्येमे हिमवन्तो महित्वा यस्य समुद्रꣳ रसया सहा
5
हुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
यं क्रन्दसी अवसा तस्तभाने अभ्येक्षेताम् मनसा रेजमाने । यत्राधि सूर उदितौ व्येति कस्मै देवाय हविषा विधेम ॥
येन द्यौर् उग्रा पृथिवी च दृढे येन सुवः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
आपो ह यन् महतीर् विश्वमा
6
यन् दक्षं दधाना जनयन्तीर् अग्निम् । ततो देवानां निर् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् अग्निम् । यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥
4.1.9 अनुवाक 9
अग्न्युत्पादनम्
1
आकूतिम् अग्निम् प्रयुजꣳ स्वाहा मनो मेधाम् अग्निम् प्रयुजꣳ स्वाहा चित्तं विज्ञातम् अग्निम् प्रयुजꣳ स्वाहा वाचो विधृतिम् अग्निम् प्रयुजꣳ स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा
विश्वे देवस्य नेतुर् मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा
मा सु भित्था मा सु रिषो दृꣳहस्व वीडयस्व सु । अम्ब धृष्णु वीरयस्वा
2
ग्निश् चेदं करिष्यथः ॥
दृꣳहस्व देवि पृथिवि स्वस्तय आसुरी माया स्वधया कृतासि । जुष्टं देवानां इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे अस्मिन् ॥
मित्रैताम् उखां तपैषा मा भेदि ।
एताम् ते परि ददाम्य् अभित्त्यै ।
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस् पुत्रो अद्भुतः ॥
परस्या अधि संवतो ऽवराꣳ अभ्य् आ
3
तर । यत्राहम् अस्मि ताꣳ अव ॥
परमस्याः परावतो रोहिदश्व इहा गहि । पुरीष्यः पुरुप्रियो ऽग्ने त्वं तरा मृधः ॥
सीद त्वम् मातुर् अस्या उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनाम् अर्चिषा मा तपसाऽभि शूशुचो ऽन्तर् अस्याꣳ शुक्रज्योतिर् वि भाहि ॥
अन्तर् अग्ने रुचा त्वम् उखायै सदने स्वे । तस्यास् त्वꣳ हरसा तपञ् जातवेदः शिवो भव ॥
शिवो भूत्वा मह्यम् अग्ने ऽथो सीद शिवस् त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
4.1.10 अनुवाक 10
अग्निधारणम्
1
यद् अग्ने यानि कानि चा ते दारूणि दध्मसि । तद् अस्तु तुभ्यम् इद् घृतं तज् जुषस्व यविष्ठ्य ॥
यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
रात्रिꣳरात्रिम् अप्रयावम् भरत्नो ऽश्वायेव तिष्ठते घासम् अस्मै । रायस् पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥
नाभा
2
पृथिव्याः समिधानम् अग्निꣳ रायस् पोषाय बृहते हवामहे । इरम्मदम् बृहदुक्थं यजत्रं जेतारम् अग्निम् पृतनासु सासहिम् ॥
याः सेना अभीत्वरीर् आव्याधिनीर् उगणा उत । ये स्तेना ये च तस्करास् ताꣳस् ते अग्ने ऽपि दधाम्य् आस्ये ॥
दꣳष्ट्राभ्याम् मलिम्लूञ् जम्भ्यैस् तस्कराꣳ उत । हनूभ्याꣳ स्तेनान् भगवस् ताꣳस् त्वं खाद सुखादितान् ॥
ये जनेषु मलिम्लव स्तेनासस् तस्करा वने । ये
3
कक्षेष्व् अघायवस् ताꣳस् ते दधामि जम्भयोः ॥
यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः । निन्दाद् यो अस्मान् दिप्साच् च सर्वं तम् मस्मसा कुरु ॥
सꣳशितम् मे ब्रह्म सꣳशितं वीर्यम् बलम् । सꣳशितम् क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥
उद् एषाम् बाहू अतिरम् उद् वर्च उद् ऊ बलम् । क्षिणोमि ब्रह्मणामित्रान् उन् नयामि
4
स्वाꣳ अहम् ।
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची । द्यावा क्षामा रुक्मः
5
अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥
सुपर्णो ऽसि गरुत्मान् त्रिवृत् ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर् वामदेव्यम् बृहद्रथन्तरे पक्षौ यज्ञायज्ञियम् पुच्छं छन्दाꣳस्य् अङ्गानि धिष्णियाः शफा यजूꣳषि नाम ।
सुपर्णो ऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥
4.1.11 अनुवाक 11
चातु्र्मास्येषु वैश्वदेवे याज्यानुवाक्याः
1
अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि । स इद् देवेषु गच्छति ॥
सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर् नो ऽविता भव ॥
अग्निर् मूर्धा
भुवः ।
त्वं नः सोम
या ते धामानि ।
तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता
2
देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ग्नाभिर् अछिद्रꣳ शरणꣳ सजोषा दुराधर्षं गृणते शर्म यꣳसत् ॥
पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । पूषा वाजꣳ सनोतु नः ॥
शुक्रं ते अन्यद् यजतं ते अन्यत्
3
विषुरूपे अहनी द्यौर् इवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥
ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः । विष्णुर् यद् धाऽऽवद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ।
प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहाꣳसि सहसा सहन्ते
4
रेजते अग्ने पृथिवी मखेभ्यः ॥
विश्वे देवा ।
विश्वे देवाः ।
द्यावा नः पृथिवी इमꣳ सिध्रम् अद्य दिविस्पृशम् । यज्ञं देवेषु यच्छताम् ॥
प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वꣳ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ॥
अग्निꣳ स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत् ॥
स हव्यवाड् अमर्त्य उशिग् दूतश् चनोहितः । अग्निर् धिया सम् ऋण्वति ॥
शं नो भवन्तु
वाजेवाजे ॥