तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ३/प्रपाठकः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

3.5 प्रपाठक: 5
3.5.1 अनुवाक 1 अन्वारम्भणीयेष्टिः
1 पूर्णा पश्चाद् उत पूर्णा पुरस्ताद् उन् मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्त उत्तमे नाक इह मादयन्ताम् ॥ यत् ते देवा अदधुर् भागधेयम् अमावास्ये संवसन्तो महित्वा । सा नो यज्ञम् पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥ निवेशनी संगमनी वसूनां विश्वा रूपाणि वसून्य् आवेशयन्ती । सहस्रपोषꣳ सुभगा रराणा सा न आ गन् वर्चसा
2 संविदाना ॥ अग्नीषोमौ प्रथमौ वीर्येण वसून् रुद्रान् आदित्यान् इह जिन्वतम् । माध्यꣳ हि पौर्णमासं जुषेथाम् ब्रह्मणा वृद्धौ सुकृतेन साताव् अथास्मभ्यꣳ सहवीराꣳ रयिं नि यच्छतं ॥ आदित्याश् चाङ्गिरसश् चाग्नीन् आदधत ते दर्शपूर्णमासौ प्रैप्सन् तेषाम् अङ्गिरसां निरुप्तꣳ हविर् आसीद् अथाऽऽदित्या एतौ होमाव् अपश्यन् ताव् अजुहवुस् ततो वै ते दर्शपूर्णमासौ
3 पूर्व आलभन्त दर्शपूर्णमासाव् आलभमान एतौ होमौ पुरस्ताज् जुहुयात् साक्षाद् एव दर्शपूर्णमासाव् आ लभते ब्रह्मवादिनो वदन्ति स त्वै दर्शपूर्णमासाव् आलभेत य एनयोर् अनुलोमं च प्रतिलोमं च विद्याद् इति । अमावास्याया ऊर्ध्वं तद् अनुलोमम् पौर्णमास्यै प्रतीचीनं तत् प्रतिलोमम् । यत् पौर्णमासीम् पूर्वाम् आलभेत प्रतिलोमम् एनाव् आ लभेतामुम् अपक्षीयमाणम् अन्व् अप
4 क्षीयेत सारस्वतौ होमौ पुरस्ताज् जुहुयाद् अमावास्या वै सरस्वत्य् अनुलोमम् एवैनाव् आ लभते ऽमुम् आप्यायमानम् अन्व् आ प्यायते । आग्नावैष्णवम् एकादशकपालम् पुरस्तान् निर् वपेत् सरस्वत्यै चरुꣳ सरस्वते द्वादशकपालम् । यद् आग्नेयो भवत्य् अग्निर् वै यज्ञमुखं यज्ञमुखम् एवर्द्धिम् पुरस्ताद् धत्ते यद् वैष्णवो भवति यज्ञो वै विष्णुर् यज्ञम् एवारभ्य प्र तनुते सरस्वत्यै चरुर् भवति सरस्वते द्वादशकपालो ऽमावास्या वै सरस्वती पूर्णमासः सरस्वान् ताव् एव साक्षाद् आ रभत ऋध्नोत्य् आभ्याम् । द्वादशकपालः सरस्वते भवति मिथुनत्वाय प्रजात्यै मिथुनौ गावौ दक्षिणा समृद्ध्यै ॥

3.5.2 अनुवाक 2 सौमिकब्रह्मत्वविधिः
1 ऋषयो वा इन्द्रम् प्रत्यक्षं नापश्यन् तं वसिष्ठः प्रत्यक्षमपश्यत् सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते ऽथ मेतरेभ्य ऋषिभ्यो मा प्र वोच इति तस्मा एतान्त् स्तोमभागान् अब्रवीत् ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त तस्माद् वासिष्ठो ब्रह्मा कार्यः प्रैव जायते रश्मिर् असि क्षयाय त्वा क्षयं जिन्वेति
2 आह देवा वै क्षयो देवेभ्य एव यज्ञम् प्राह प्रेतिर् असि धर्माय त्वा धर्मं जिन्वेत्य् आह मनुष्या वै धर्मो मनुष्येभ्य एव यज्ञम् प्राऽऽहान्वितिर् असि दिवे त्वा दिवं जिन्वेत्य् आहैभ्य एव लोकेभ्यो यज्ञम् प्राऽऽह विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्वेत्य् आह वृष्टिं एवाव
3 रुन्द्धे प्रवाऽस्य् अनुवाऽसीत्य् आह मिथुनत्वाय । उशिग् असि वसुभ्यस् त्वा वसूञ् जिन्वेत्य् आहाष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्या एतावन्तो वै देवास् तेभ्य एव यज्ञम् प्राऽऽह । ओजो ऽसि पितृभ्यस् त्वा पितॄञ् जिन्वेत्य् आह देवान् एव पितॄन् अनु सं तनोति तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व
4 इत्य् आह पितॄन् एव प्रजा अनु सं तनोति पृतनाषाड् असि पशुभ्यस् त्वा पशूञ् जिन्वेत्य् आह प्रजा एव पशून् अनु सं तनोति रेवद् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्वेत्य् आहौषधीष्व् एव पशून् प्रति ष्ठापयति ।
अभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वेत्य् आहाभिजित्या अधिपतिर् असि प्राणाय त्वा प्राणम्
5 जिन्वेत्य् आह प्रजास्व् एव प्राणान् दधाति त्रिवृद् असि प्रवृद् असीत्य् आह मिथुनत्वाय सꣳरोहो ऽसि नीरोहो ऽसीत्य् आह प्रजात्यै वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीत्य् आह प्रतिष्ठित्यै ॥

3.5.3 अनुवाक 3 विष्ण्वतिक्रमाः
1 अग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यान् अधरान् पादयाम्य् अवैनान् बाधे प्रत्य् एनान् नुदे ऽस्मिन् क्षये ऽस्मिन् भूमिलोके यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्य् एनान् क्रामामि । इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण
2 सहजान् विश्वेभिर् देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान् इन्द्रेण सयुजो वयꣳ सासह्याम पृतन्यतः । घ्नन्तो वृत्राण्य् अप्रति यत् ते अग्ने तेजस् तेनाहं तेजस्वी भूयासं यत् ते अग्ने वर्चस् तेनाहं वर्चस्वी भूयासं यत् ते अग्ने हरस् तेनाहꣳ हरस्वी भूयासम् ॥

3.5.4 अनुवाक 4 अतिमोक्षमन्त्राः
1 ये देवा यज्ञहनो यज्ञमुषः पृथिव्याम् अध्य् आसते । अग्निर् मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणाम् भागो युवयोर् यो अस्ति । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ ये देवा यज्ञहनो यज्ञमुषो ऽन्तरिक्षे ऽध्य् आसते । वायुर् मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास् ते रात्रीः सवितः
2 देवयानीर् अन्तरा द्यावापृथिवी वियन्ति । गृहैश् च सर्वैः प्रजया न्व् अग्रे सुवो रुहाणास् तरता रजाꣳसि ॥ ये देवा यज्ञहनो यज्ञमुषो दिव्य् अध्य् आसते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाꣳस्य् उत्तमेन हविषा जातवेदः । तेनाग्ने त्वम् उत वर्धयेमꣳ सजातानाꣳ श्रेष्ठ्य आ धेह्य् एनम् ॥ यज्ञहनो वै देवा यज्ञमुषः
3 सन्ति त एषु लोकेष्व् आसत आददाना विमथ्नाना यो ददाति यो यजते तस्य । ये देवा यज्ञहनः पृथिव्याम् अध्य् आसते ये अन्तरिक्षे ये दिवीत्य् आहेमान् एव लोकाꣳस् तीर्त्वा सगृहः सपशुः सुवर्गं लोकम् एति । अप वै सोमेनेजानाद् देवताश् च यज्ञश् च क्रामन्त्य् आग्नेयम् पञ्चकपालम् उदवसानीयं निर् वपेद् अग्निः सर्वा देवताः
4 पाङ्क्तो यज्ञो देवताश् चैव यज्ञं चाव रुन्द्धे गायत्रो वा अग्निर् गायत्रच्छन्दास् तं छन्दसा व्य् अर्धयति यत् पञ्चकपालं करोत्य् अष्टाकपालः कार्यो ऽष्टाक्षरा गायत्री गायत्रो ऽग्निर् गायत्रच्छन्दाः स्वेनैवैनं छन्दसा सम् अर्धयति पङ्क्त्यौ याज्यानुवाक्ये भवतः पाङ्क्तो यज्ञस् तेनैव यज्ञान् नैति ॥

3.5.5 अनुवाक 5 आदित्यग्रहमन्त्राः
1 सूर्यो मा देवो देवेभ्यः पातु वायुर् अन्तरिक्षाद् यजमानो ऽग्निर् मा पातु चक्षुषः । सक्ष शूष सवितर् विश्वचर्षण एतेभिः सोम नामभिर् विधेम ते तेभिः सोम नामभिर् विधेम ते । अहम् परस्ताद् अहम् अवस्ताद् अहं ज्योतिषा वि तमो ववार । यद् अन्तरिक्षं तद् उ मे पिताऽभूद् अहꣳ सूर्यम् उभयतो ददर्शाहम् भूयासम् उत्तमः समानाना
2 मा समुद्राद् आन्तरिक्षात् प्रजापतिर् उदधिं च्यावयातीन्द्रः प्र स्नौतु मरुतो वर्षयन्तु । उन् नम्भय पृथिवीम् भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥ पशवो वा एते यद् आदित्य एष रुद्रो यद् अग्निर् ओषधीः प्रास्याग्नाव् आदित्यं जुहोति रुद्राद् एव पशून् अन्तर् दधात्य् अथो ओषधीष्व् एव पशून्
3 प्रति ष्ठापयति कविर् यज्ञस्य वि तनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतः सनीयान् ॥ यास् ते विश्वाः समिधः सन्त्य् अग्ने याः पृथिव्याम् बर्हिषि सूर्ये याः । तास् ते गच्छन्त्व् आहुतिं घृतस्य देवायते यजमानाय शर्म ॥ आशासानः सुवीर्यꣳ रायस् पोषꣳ स्वश्वियम् । बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठ ॥

3.5.6 अनुवाक 6 पत्नीविषया मन्त्राः
1 सं त्वा नह्यामि पयसा घृतेन सं त्वा नह्याम्य् अप ओषधीभिः । सं त्वा नह्यामि प्रजयाऽहम् अद्य सा दीक्षिता सनवो वाजम् अस्मे ॥ प्रैतु ब्रह्मणस् पत्नी वेदिं वर्णेन सीदतु । अथाहम् अनुकामिनी स्वे लोके विशा इह । सुप्रजसस् त्वा वयꣳ सुपत्नीर् उप सेदिम । अग्ने सपत्नदम्भनम् अदब्धासो अदाभ्यम् ॥ इमं वि ष्यामि वरुणस्य पाशम्
2 यम् अबध्नीत सविता सुकेतः । धातुश् च योनौ सुकृतस्य लोके स्योनम् मे सह पत्या करोमि ॥ प्रेह्य् उदेह्य् ऋतस्य वामीर् अन्व् अग्निस् ते ऽग्रं नयत्व् अदितिर् मध्यं ददताꣳ रुद्रावसृष्टासि युवा नाम मा मा हिꣳसीः । वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर् गृह्णामि यज्ञाय वः पन्नेजनीः सादयामि विश्वस्य ते विश्वावतो वृष्णियावत
3 स्तवाग्ने वामीर् अनु संदृशि विश्वा रेताꣳसि धिषीय । अगन् देवान् यज्ञो नि देवीर् देवेभ्यो यज्ञम् अशिषन्न् अस्मिन्त् सुन्वति यजमान आशिषः स्वाहाकृताः समुद्रेष्ठा गन्धर्वम् आ तिष्ठतानु । वातस्य पत्मन्न् इड ईडिताः ॥

ध्रुवा
स्रुवा
जुहू - स्रुवा
यज्ञपात्राणि


3.5.7 अनुवाक 7 स्रुचां वृक्षविशेषाः
1 वषट्कारो वै गायत्रियै शिरो ऽच्छिनत् तस्यै रसः परापतत् स पृथिवीम् प्राविशत् स खदिरो ऽभवद् यस्य खादिरः स्रुवो भवति छन्दसाम् एव रसेनाव द्यति सरसा अस्याऽऽहुतयो भवन्ति तृतीयस्याम् इतो दिवि सोम आसीत् तं गायत्र्य् आहरत् तस्य पर्णम् अच्छिद्यत तत् पर्णो ऽभवत् तत् पर्णस्य पर्णत्वं यस्य पर्णमयी जुहूः
2 भवति सौम्या अस्याऽऽहुतयो भवन्ति जुषन्ते ऽस्य देवा आहुतीः । देवा वै ब्रह्मन्न् अवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नाम यस्य पर्णमयी जुहूर् भवति न पापꣳ श्लोकꣳ शृणोति ब्रह्म वै पर्णो विण् मरुतो ऽन्नं विण् मारुतो ऽश्वत्थो यस्य पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् ब्रह्मणैवान्नम् अव रुन्द्धे ऽथो ब्रह्म
3 एव विश्य् अध्य् ऊहति राष्ट्रं वै पर्णो विड् अश्वत्थो यत् पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् राष्ट्रम् एव विश्य् अध्य् ऊहति प्रजापतिर् वा अजुहोत् सा यत्राऽऽहुतिः प्रत्यतिष्ठत् ततो विकङ्कत उद् अतिष्ठत् ततः प्रजा असृजत यस्य वैकङ्कती ध्रुवा भवति प्रत्य् एवास्याऽऽहुतयस् तिष्ठन्त्य् अथो प्रैव जायते । एतद् वै स्रुचाꣳ रूपं यस्यैवꣳरूपाः स्रुचो भवन्ति सर्वाण्य् एवैनꣳ रूपाणि पशूनाम् उप तिष्ठन्ते नास्यापरूपम् आत्मञ् जायते ॥

3.5.8 अनुवाक 8 दधिग्रहमन्त्राः
1 उपयामगृहीतो ऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधे रातं देवेभ्यो ऽग्निजिह्वेभ्यस् त्वर्तायुभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यो दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा । अपेन्द्र द्विषतो मनो ऽप जिज्यासतो जह्य् अप यो नो ऽरातीयति तं जहि प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वाऽसते त्वाऽद्भ्यस् त्वौषधीभ्यो विश्वेभ्यस् त्वा भूतेभ्यो यतः प्रजा अक्खिद्रा अजायन्त तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि ॥

3.5.9 अनुवाक 9 दधिग्रहब्राह्मणम्
1 यां वा अध्वर्युश् च यजमानश् च देवताम् अन्तरितस् तस्या आ वृश्च्येते प्राजापत्यं दधिग्रहं गृह्णीयात् प्रजापतिः सर्वा देवताः । देवताभ्य एव नि ह्नुवाते ज्येष्ठो वा एष ग्रहाणाम् । यस्यैष गृह्यते ज्यैष्ठ्यम् एव गच्छति सर्वासां वा एतद् देवतानाꣳ रूपं यद् एष ग्रहः । यस्यैष गृह्यते सर्वाण्य् एवैनꣳ रूपाणि पशूनाम् उप तिष्ठन्ते । उपयामगृहीतो
2 असि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीत्य् आह ज्योतिर् एवैनꣳ समानानां करोति । अग्निजिह्वेभ्यस् त्वर्तायुभ्य इत्य् आह । एतावतीर् वै देवतास् ताभ्य एवैनꣳ सर्वाभ्यो गृह्णाति । अपेन्द्र द्विषतो मन इत्य् आह भ्रातृव्यापनुत्त्यै प्राणाय त्वापानाय त्वेत्य् आह प्राणान् एव यजमाने दधाति तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि
3 इत्य् आह प्रजापतिः सर्वा देवताः सर्वाभ्य एवैनं देवताभ्यो जुहोति । आज्यग्रहं गृह्णीयात् तेजस्कामस्य तेजो वा आज्यम् । तेजस्व्य् एव भवति सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसं वै सोमः । ब्रह्मवर्चस्य् एव भवति दधिग्रहं गृह्णीयात् पशुकामस्य । ऊर्ग् वै दधि । ऊर्क् पशवः । ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे ॥

3.5.10 अनुवाक 10 गवामयने अतिग्राह्याः प्राणग्रहाश्च
1 त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । स्वादोः स्वादीयः स्वादुना सृजा सम् अत ऊ षु मधु मधुनाभि योधि । उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा । प्राणग्रहान् गृह्णात्य् एतावद् वा अस्ति यावद् एते ग्रहा स्तोमाश् छन्दाꣳसि पृष्ठानि दिशो यावद् एवास्ति तत्
2 अव रुन्द्धे ज्येष्ठा वा एतान् ब्राह्मणाः पुरा विदाम् अक्रन् तस्मात् तेषाꣳ सर्वा दिशो ऽभिजिता अभूवन् यस्यैते गृह्यन्ते ज्यैष्ठ्यम् एव गच्छत्य् अभि दिशो जयति पञ्च गृह्यन्ते पञ्च दिशः सर्वास्व् एव दिक्ष्व् ऋध्नुवन्ति नवनव गृह्यन्ते नव वै पुरुषे प्राणाः प्राणान् एव यजमानेषु दधति प्रायणीये चोदयनीये च गृह्यन्ते प्राणा वै प्राणग्रहाः
3 प्राणैर् एव प्रयन्ति प्राणैर् उद् यन्ति दशमे ऽहन् गृह्यन्ते प्राणा वै प्राणग्रहाः प्राणेभ्यः खलु वा एतत् प्रजा यन्ति यद् वामदेव्यं योनेश् च्यवते दशमे ऽहन् वामदेव्यं योनेश् च्यवते यद् दशमे ऽहन् गृह्यन्ते प्राणेभ्य एव तत् प्रजा न यन्ति ॥

3.5.11 अनुवाक 11 पाशुकहौत्रोपयोगिमन्त्राः
1 प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षद् आनुषक् ॥ अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । रथो न योर् अभीवृतो घृणीवान् चेतति त्मना ॥ अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥ इडायास् त्वा पदे वयं नाभा पृथिव्या अधि । जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥
2 अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । कुलायिनं घृतवन्तꣳ सवित्रे यज्ञं नय यजमानाय साधु ॥ सीद होतः स्व उ लोके चिकित्वान्त् सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥ नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥ त्वं दूतस् त्वम्
3 उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता । अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥ अभि त्वा देव सवितर् ईशानं वार्याणाम् । सदावन् भागम् ईमहे ॥ मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥ त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥ तम् उ
4 त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणम् पुरंदरम् ॥ तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् धनंजयꣳ रणेरणे ॥ उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । धनंजयो रणेरणे ॥ आ यꣳ हस्ते न खादिनꣳ शिशुं जातं न बिभ्रति । विशाम् अग्निꣳ स्वध्वरम् ॥ प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ नि षीदतु ॥ आ
5 जातं जातवेदसि प्रियꣳ शिशीतातिथिम् । स्योन आ गृहपतिम् ॥ अग्निनाऽग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥ त्वꣳ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥ तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । स्वेषु क्षयेषु वाजिनम् ॥ यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥




3.5.1 अनुवाक 1
अन्वारम्भणीयेष्टिः

1
पूर्णा पश्चाद् उत पूर्णा पुरस्ताद् उन् मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्त उत्तमे नाक इह मादयन्ताम् ॥
यत् ते देवा अदधुर् भागधेयम् अमावास्ये संवसन्तो महित्वा । सा नो यज्ञम् पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥
निवेशनी संगमनी वसूनां विश्वा रूपाणि वसून्य् आवेशयन्ती । सहस्रपोषꣳ सुभगा रराणा सा न आ गन् वर्चसा

2
संविदाना ॥ अग्नीषोमौ प्रथमौ वीर्येण वसून् रुद्रान् आदित्यान् इह जिन्वतम् । माध्यꣳ हि पौर्णमासं जुषेथाम् ब्रह्मणा वृद्धौ सुकृतेन साताव् अथास्मभ्यꣳ सहवीराꣳ रयिं नि यच्छतं ॥
आदित्याश् चाङ्गिरसश् चाग्नीन् आदधत ते दर्शपूर्णमासौ प्रैप्सन्
तेषाम् अङ्गिरसां निरुप्तꣳ हविर् आसीद् अथाऽऽदित्या एतौ होमाव् अपश्यन् ताव् अजुहवुस् ततो वै ते दर्शपूर्णमासौ

3
पूर्व आलभन्त
दर्शपूर्णमासाव् आलभमान एतौ होमौ पुरस्ताज् जुहुयात् साक्षाद् एव दर्शपूर्णमासाव् आ लभते
ब्रह्मवादिनो वदन्ति
स त्वै दर्शपूर्णमासाव् आलभेत य एनयोर् अनुलोमं च प्रतिलोमं च विद्याद् इति ।
अमावास्याया ऊर्ध्वं तद् अनुलोमम् पौर्णमास्यै प्रतीचीनं तत् प्रतिलोमम् ।
यत् पौर्णमासीम् पूर्वाम् आलभेत प्रतिलोमम् एनाव् आ लभेतामुम् अपक्षीयमाणम् अन्व् अप

4
क्षीयेत
सारस्वतौ होमौ पुरस्ताज् जुहुयाद् अमावास्या वै सरस्वत्य् अनुलोमम् एवैनाव् आ लभते ऽमुम् आप्यायमानम् अन्व् आ प्यायते ।
आग्नावैष्णवम् एकादशकपालम् पुरस्तान् निर् वपेत् सरस्वत्यै चरुꣳ सरस्वते द्वादशकपालम् ।
यद् आग्नेयो भवत्य् अग्निर् वै यज्ञमुखं यज्ञमुखम् एवर्द्धिम् पुरस्ताद् धत्ते
यद् वैष्णवो भवति यज्ञो वै विष्णुर् यज्ञम् एवारभ्य प्र तनुते
सरस्वत्यै चरुर् भवति सरस्वते द्वादशकपालो ऽमावास्या वै सरस्वती पूर्णमासः सरस्वान् ताव् एव साक्षाद् आ रभत ऋध्नोत्य् आभ्याम् ।
द्वादशकपालः सरस्वते भवति मिथुनत्वाय प्रजात्यै
मिथुनौ गावौ दक्षिणा समृद्ध्यै ॥

3.5.2 अनुवाक 2
सौमिकब्रह्मत्वविधिः

1
ऋषयो वा इन्द्रम् प्रत्यक्षं नापश्यन्
तं वसिष्ठः प्रत्यक्षमपश्यत्
सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते ऽथ मेतरेभ्य ऋषिभ्यो मा प्र वोच इति
तस्मा एतान्त् स्तोमभागान् अब्रवीत्
ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
तस्माद् वासिष्ठो ब्रह्मा कार्यः प्रैव जायते
रश्मिर् असि क्षयाय त्वा क्षयं जिन्वेति

2
आह देवा वै क्षयो देवेभ्य एव यज्ञम् प्राह
प्रेतिर् असि धर्माय त्वा धर्मं जिन्वेत्य् आह मनुष्या वै धर्मो मनुष्येभ्य एव यज्ञम् प्राऽऽहान्वितिर् असि दिवे त्वा दिवं जिन्वेत्य् आहैभ्य एव लोकेभ्यो यज्ञम् प्राऽऽह
विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्वेत्य् आह वृष्टिं एवाव

3
रुन्द्धे
प्रवाऽस्य् अनुवाऽसीत्य् आह मिथुनत्वाय ।
उशिग् असि वसुभ्यस् त्वा वसूञ् जिन्वेत्य् आहाष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्या एतावन्तो वै देवास् तेभ्य एव यज्ञम् प्राऽऽह ।
ओजो ऽसि पितृभ्यस् त्वा पितॄञ् जिन्वेत्य् आह देवान् एव पितॄन् अनु सं तनोति
तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व

4
इत्य् आह पितॄन् एव प्रजा अनु सं तनोति
पृतनाषाड् असि पशुभ्यस् त्वा पशूञ् जिन्वेत्य् आह प्रजा एव पशून् अनु सं तनोति
रेवद् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्वेत्य् आहौषधीष्व् एव पशून् प्रति ष्ठापयति ।
अभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वेत्य् आहाभिजित्या अधिपतिर् असि प्राणाय त्वा प्राणम्

5
जिन्वेत्य् आह प्रजास्व् एव प्राणान् दधाति
त्रिवृद् असि प्रवृद् असीत्य् आह मिथुनत्वाय
सꣳरोहो ऽसि नीरोहो ऽसीत्य् आह प्रजात्यै
वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीत्य् आह प्रतिष्ठित्यै ॥

3.5.3 अनुवाक 3
विष्ण्वतिक्रमाः

1
अग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यान् अधरान् पादयाम्य् अवैनान् बाधे प्रत्य् एनान् नुदे ऽस्मिन् क्षये ऽस्मिन् भूमिलोके यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्य् एनान् क्रामामि ।
इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण

2
सहजान्
विश्वेभिर् देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्
इन्द्रेण सयुजो वयꣳ सासह्याम पृतन्यतः । घ्नन्तो वृत्राण्य् अप्रति
यत् ते अग्ने तेजस् तेनाहं तेजस्वी भूयासं यत् ते अग्ने वर्चस् तेनाहं वर्चस्वी भूयासं यत् ते अग्ने हरस् तेनाहꣳ हरस्वी भूयासम् ॥

3.5.4 अनुवाक 4
अतिमोक्षमन्त्राः

1
ये देवा यज्ञहनो यज्ञमुषः पृथिव्याम् अध्य् आसते । अग्निर् मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
आगन्म मित्रावरुणा वरेण्या रात्रीणाम् भागो युवयोर् यो अस्ति । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
ये देवा यज्ञहनो यज्ञमुषो ऽन्तरिक्षे ऽध्य् आसते । वायुर् मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
यास् ते रात्रीः सवितः

2
देवयानीर् अन्तरा द्यावापृथिवी वियन्ति । गृहैश् च सर्वैः प्रजया न्व् अग्रे सुवो रुहाणास् तरता रजाꣳसि ॥
ये देवा यज्ञहनो यज्ञमुषो दिव्य् अध्य् आसते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
येनेन्द्राय समभरः पयाꣳस्य् उत्तमेन हविषा जातवेदः । तेनाग्ने त्वम् उत वर्धयेमꣳ सजातानाꣳ श्रेष्ठ्य आ धेह्य् एनम् ॥
यज्ञहनो वै देवा यज्ञमुषः

3
सन्ति त एषु लोकेष्व् आसत आददाना विमथ्नाना यो ददाति यो यजते तस्य । ये देवा यज्ञहनः पृथिव्याम् अध्य् आसते ये अन्तरिक्षे ये दिवीत्य् आहेमान् एव लोकाꣳस् तीर्त्वा सगृहः सपशुः सुवर्गं लोकम् एति ।
अप वै सोमेनेजानाद् देवताश् च यज्ञश् च क्रामन्त्य् आग्नेयम् पञ्चकपालम् उदवसानीयं निर् वपेद् अग्निः सर्वा देवताः

4
पाङ्क्तो यज्ञो देवताश् चैव यज्ञं चाव रुन्द्धे
गायत्रो वा अग्निर् गायत्रच्छन्दास् तं छन्दसा व्य् अर्धयति यत् पञ्चकपालं करोत्य् अष्टाकपालः कार्यो ऽष्टाक्षरा गायत्री गायत्रो ऽग्निर् गायत्रच्छन्दाः स्वेनैवैनं छन्दसा सम् अर्धयति
पङ्क्त्यौ याज्यानुवाक्ये भवतः पाङ्क्तो यज्ञस् तेनैव यज्ञान् नैति ॥

3.5.5 अनुवाक 5
आदित्यग्रहमन्त्राः

1
सूर्यो मा देवो देवेभ्यः पातु वायुर् अन्तरिक्षाद् यजमानो ऽग्निर् मा पातु चक्षुषः । सक्ष शूष सवितर् विश्वचर्षण एतेभिः सोम नामभिर् विधेम ते तेभिः सोम नामभिर् विधेम ते ।
अहम् परस्ताद् अहम् अवस्ताद् अहं ज्योतिषा वि तमो ववार । यद् अन्तरिक्षं तद् उ मे पिताऽभूद् अहꣳ सूर्यम् उभयतो ददर्शाहम् भूयासम् उत्तमः समानाना

2
मा समुद्राद् आन्तरिक्षात् प्रजापतिर् उदधिं च्यावयातीन्द्रः प्र स्नौतु मरुतो वर्षयन्तु ।
उन् नम्भय पृथिवीम् भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥
पशवो वा एते यद् आदित्य एष रुद्रो यद् अग्निर् ओषधीः प्रास्याग्नाव् आदित्यं जुहोति रुद्राद् एव पशून् अन्तर् दधात्य् अथो ओषधीष्व् एव पशून्

3
प्रति ष्ठापयति
कविर् यज्ञस्य वि तनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतः सनीयान् ॥
यास् ते विश्वाः समिधः सन्त्य् अग्ने याः पृथिव्याम् बर्हिषि सूर्ये याः । तास् ते गच्छन्त्व् आहुतिं घृतस्य देवायते यजमानाय शर्म ॥
आशासानः सुवीर्यꣳ रायस् पोषꣳ स्वश्वियम् । बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठ ॥

3.5.6 अनुवाक 6
पत्नीविषया मन्त्राः

1
सं त्वा नह्यामि पयसा घृतेन सं त्वा नह्याम्य् अप ओषधीभिः । सं त्वा नह्यामि प्रजयाऽहम् अद्य सा दीक्षिता सनवो वाजम् अस्मे ॥
प्रैतु ब्रह्मणस् पत्नी वेदिं वर्णेन सीदतु ।
अथाहम् अनुकामिनी स्वे लोके विशा इह ।
सुप्रजसस् त्वा वयꣳ सुपत्नीर् उप सेदिम । अग्ने सपत्नदम्भनम् अदब्धासो अदाभ्यम् ॥
इमं वि ष्यामि वरुणस्य पाशम्

2
यम् अबध्नीत सविता सुकेतः । धातुश् च योनौ सुकृतस्य लोके स्योनम् मे सह पत्या करोमि ॥
प्रेह्य् उदेह्य् ऋतस्य वामीर् अन्व् अग्निस् ते ऽग्रं नयत्व् अदितिर् मध्यं ददताꣳ रुद्रावसृष्टासि युवा नाम मा मा हिꣳसीः ।
वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर् गृह्णामि
यज्ञाय वः पन्नेजनीः सादयामि
विश्वस्य ते विश्वावतो वृष्णियावत

3
स्तवाग्ने वामीर् अनु संदृशि विश्वा रेताꣳसि धिषीय ।
अगन् देवान् यज्ञो नि देवीर् देवेभ्यो यज्ञम् अशिषन्न् अस्मिन्त् सुन्वति यजमान आशिषः स्वाहाकृताः समुद्रेष्ठा गन्धर्वम् आ तिष्ठतानु । वातस्य पत्मन्न् इड ईडिताः ॥

ध्रुवा
स्रुवा
जुहू - स्रुवा
यज्ञपात्राणि


3.5.7 अनुवाक 7
स्रुचां वृक्षविशेषाः
1
वषट्कारो वै गायत्रियै शिरो ऽच्छिनत् तस्यै रसः परापतत् स पृथिवीम् प्राविशत् स खदिरो ऽभवद् यस्य खादिरः स्रुवो भवति छन्दसाम् एव रसेनाव द्यति सरसा अस्याऽऽहुतयो भवन्ति
तृतीयस्याम् इतो दिवि सोम आसीत् तं गायत्र्य् आहरत् तस्य पर्णम् अच्छिद्यत तत् पर्णो ऽभवत् तत् पर्णस्य पर्णत्वं यस्य पर्णमयी जुहूः

2
भवति सौम्या अस्याऽऽहुतयो भवन्ति जुषन्ते ऽस्य देवा आहुतीः ।
देवा वै ब्रह्मन्न् अवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नाम यस्य पर्णमयी जुहूर् भवति न पापꣳ श्लोकꣳ शृणोति
ब्रह्म वै पर्णो विण् मरुतो ऽन्नं विण् मारुतो ऽश्वत्थो यस्य पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् ब्रह्मणैवान्नम् अव रुन्द्धे ऽथो ब्रह्म

3
एव विश्य् अध्य् ऊहति
राष्ट्रं वै पर्णो विड् अश्वत्थो यत् पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् राष्ट्रम् एव विश्य् अध्य् ऊहति
प्रजापतिर् वा अजुहोत् सा यत्राऽऽहुतिः प्रत्यतिष्ठत् ततो विकङ्कत उद् अतिष्ठत् ततः प्रजा असृजत यस्य वैकङ्कती ध्रुवा भवति प्रत्य् एवास्याऽऽहुतयस् तिष्ठन्त्य् अथो प्रैव जायते ।
एतद् वै स्रुचाꣳ रूपं यस्यैवꣳरूपाः स्रुचो भवन्ति सर्वाण्य् एवैनꣳ रूपाणि पशूनाम् उप तिष्ठन्ते नास्यापरूपम् आत्मञ् जायते ॥

3.5.8 अनुवाक 8
दधिग्रहमन्त्राः

1
उपयामगृहीतो ऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधे रातं देवेभ्यो ऽग्निजिह्वेभ्यस् त्वर्तायुभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यो दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा ।
अपेन्द्र द्विषतो मनो ऽप जिज्यासतो जह्य् अप यो नो ऽरातीयति तं जहि
प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वाऽसते त्वाऽद्भ्यस् त्वौषधीभ्यो विश्वेभ्यस् त्वा भूतेभ्यो यतः प्रजा अक्खिद्रा अजायन्त तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि ॥

3.5.9 अनुवाक 9
दधिग्रहब्राह्मणम्

1
यां वा अध्वर्युश् च यजमानश् च देवताम् अन्तरितस् तस्या आ वृश्च्येते
प्राजापत्यं दधिग्रहं गृह्णीयात्
प्रजापतिः सर्वा देवताः ।
देवताभ्य एव नि ह्नुवाते
ज्येष्ठो वा एष ग्रहाणाम् ।
यस्यैष गृह्यते ज्यैष्ठ्यम् एव गच्छति
सर्वासां वा एतद् देवतानाꣳ रूपं यद् एष ग्रहः ।
यस्यैष गृह्यते सर्वाण्य् एवैनꣳ रूपाणि पशूनाम् उप तिष्ठन्ते ।
उपयामगृहीतो

2
असि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीत्य् आह
ज्योतिर् एवैनꣳ समानानां करोति ।
अग्निजिह्वेभ्यस् त्वर्तायुभ्य इत्य् आह ।
एतावतीर् वै देवतास्
ताभ्य एवैनꣳ सर्वाभ्यो गृह्णाति ।
अपेन्द्र द्विषतो मन इत्य् आह
भ्रातृव्यापनुत्त्यै
प्राणाय त्वापानाय त्वेत्य् आह
प्राणान् एव यजमाने दधाति
तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि

3
इत्य् आह
प्रजापतिः सर्वा देवताः
सर्वाभ्य एवैनं देवताभ्यो जुहोति ।
आज्यग्रहं गृह्णीयात् तेजस्कामस्य
तेजो वा आज्यम् ।
तेजस्व्य् एव भवति
सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य
ब्रह्मवर्चसं वै सोमः ।
ब्रह्मवर्चस्य् एव भवति
दधिग्रहं गृह्णीयात् पशुकामस्य ।
ऊर्ग् वै दधि ।
ऊर्क् पशवः ।
ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे ॥

3.5.10 अनुवाक 10
गवामयने अतिग्राह्याः प्राणग्रहाश्च

1
त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । स्वादोः स्वादीयः स्वादुना सृजा सम् अत ऊ षु मधु मधुनाभि योधि ।
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ।
प्राणग्रहान् गृह्णात्य् एतावद् वा अस्ति यावद् एते ग्रहा स्तोमाश् छन्दाꣳसि पृष्ठानि दिशो यावद् एवास्ति तत्

2
अव रुन्द्धे
ज्येष्ठा वा एतान् ब्राह्मणाः पुरा विदाम् अक्रन् तस्मात् तेषाꣳ सर्वा दिशो ऽभिजिता अभूवन् यस्यैते गृह्यन्ते ज्यैष्ठ्यम् एव गच्छत्य् अभि दिशो जयति
पञ्च गृह्यन्ते पञ्च दिशः सर्वास्व् एव दिक्ष्व् ऋध्नुवन्ति
नवनव गृह्यन्ते नव वै पुरुषे प्राणाः प्राणान् एव यजमानेषु दधति
प्रायणीये चोदयनीये च गृह्यन्ते प्राणा वै प्राणग्रहाः

3
प्राणैर् एव प्रयन्ति प्राणैर् उद् यन्ति
दशमे ऽहन् गृह्यन्ते प्राणा वै प्राणग्रहाः प्राणेभ्यः खलु वा एतत् प्रजा यन्ति यद् वामदेव्यं योनेश् च्यवते दशमे ऽहन् वामदेव्यं योनेश् च्यवते यद् दशमे ऽहन् गृह्यन्ते प्राणेभ्य एव तत् प्रजा न यन्ति ॥

3.5.11 अनुवाक 11
पाशुकहौत्रोपयोगिमन्त्राः

1
प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षद् आनुषक् ॥
अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । रथो न योर् अभीवृतो घृणीवान् चेतति त्मना ॥
अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥
इडायास् त्वा पदे वयं नाभा पृथिव्या अधि । जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥

2
अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । कुलायिनं घृतवन्तꣳ सवित्रे यज्ञं नय यजमानाय साधु ॥
सीद होतः स्व उ लोके चिकित्वान्त् सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
त्वं दूतस् त्वम्

3
उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता । अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥
अभि त्वा देव सवितर् ईशानं वार्याणाम् । सदावन् भागम् ईमहे ॥
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
तम् उ

4
त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणम् पुरंदरम् ॥
तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् धनंजयꣳ रणेरणे ॥
उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । धनंजयो रणेरणे ॥
आ यꣳ हस्ते न खादिनꣳ शिशुं जातं न बिभ्रति । विशाम् अग्निꣳ स्वध्वरम् ॥
प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ नि षीदतु ॥


5
जातं जातवेदसि प्रियꣳ शिशीतातिथिम् । स्योन आ गृहपतिम् ॥
अग्निनाऽग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥
त्वꣳ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥
तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । स्वेषु क्षयेषु वाजिनम् ॥
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥