तैत्तिरीयसंहिता(विस्वरः)/काण्डम् २/प्रपाठकः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

2.5 प्रपाठक: 5 प्रकृतेष्टौ शेषविधीनामनुब्राह्मणम्
2.5.1 अनुवाक 1 इष्टिविधानम्। अग्नीषोमीयहविर्विध्युपोद्घातः
1 विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् । तस्य त्रीणि शीर्षाण्य् आसन्त् सोमपानꣳ सुरापानम् अन्नादनम् । स प्रत्यक्षं देवेभ्यो भागम् अवदत् परोऽक्षम् असुरेभ्यः सर्वस्मै वै प्रत्यक्षम् भागं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस् तस्माद् इन्द्रो ऽबिभेद् ईदृङ् वै राष्ट्रं वि पर्यावर्तयतीति तस्य वज्रम् आदाय शीर्षाण्य् अच्छिनद् यत् सोमपानम्
2 आसीत् स कपिञ्जलो ऽभवत् यत् सुरापानꣳ स कलविङ्को यद् अन्नादनꣳ स तित्तिरिः । तस्याञ्जलिना ब्रमहत्याम् उपागृह्णात् ताꣳ संवत्सरं अबिभस् तम् भूतान्य् अभ्य् अक्रोशन् ब्रह्महन्न् इति । स पृथिवीम् उपासीदद् अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृहाणेति साब्रवीद् वरं वृणै खातात् पराभविष्यन्ती मन्ये ततो मा परा भूवम् इति पुरा ते
3 संवत्सराद् अपि रोहाद् इत्य् अब्रवीत् तस्मात् पुरा संवत्सरात् पृथिव्यै खातम् अपि रोहति वारेवृतꣳ ह्य् अस्यै तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णात् तत् स्वकृतम् इरिणम् अभवत् तस्माद् आहिताग्निः श्रद्धादेवः स्वकृत इरिणे नाव स्येद् ब्रह्महत्यायै ह्य् एष वर्णः । स वनस्पतीन् उपासीदद् अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति ते ऽब्रुवन् वरं वृणामहै वृक्णात्
4 पराभविष्यन्तो मन्यामहे ततो मा परा भूमेति । आव्रश्चनाद् वो भूयाꣳस उत् तिष्ठान् इत्य् अब्रवीत् तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाꣳस उत् तिष्ठन्ति वारेवृतꣳ ह्य् एषाम् । तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् स निर्यासो ऽभवत् तस्मान् निर्यासस्य नाश्यम् ब्रह्महत्यायै ह्य् एष वर्णो ऽथो खलु य एव लोहितो यो वाऽऽव्रश्चनान् निर्येषति तस्य नाऽऽश्यम्
5 कामम् अन्यस्य । स स्त्रीषꣳसादम् उपासीदद् अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति ता अब्रुवन् वरं वृणामहा ऋत्वियात् प्रजां विन्दामहै कामम् आ विजनितोः सम् भवामेति तस्माद् ऋत्वियात् स्त्रियः प्रजां विन्दन्ते कामम् आ विजनितोः सम् भवन्ति वारेवृतꣳ ह्य् आसाम् । तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् सा मलवद्वासा अभवत् तस्मान् मलवद्वाससा न सं वदेत
6 न सहाऽऽसीत नास्या अन्नम् अद्याद् ब्रह्महत्यायै ह्य् एषा वर्णम् प्रतिमुच्याऽऽस्ते । अथो खल्व् आहुर् अभ्यञ्जनं वाव स्त्रिया अन्नम् अभ्यञ्जनम् एव न प्रतिगृह्यं कामम् अन्यद् इति । याम् मलवद्वाससꣳ सम्भवन्ति यस् ततो जायते सो ऽभिशस्तो याम् अरण्ये तस्यै स्तेनो याम् पराचीं तस्यै ह्रीतमुख्य् अपगल्भो या स्नाति तस्या अप्सु मारुको या
7 अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिर् अपमारी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जुꣳ सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस् तिस्रो रात्रीर् व्रतं चरेद् अञ्जलिना वा पिबेद् अखर्वेण वा पात्रेण प्रजायै गोपीथाय ॥

2.5.2 अनुवाक 2 अग्नीषोमीय पुरोडाशः
1 त्वष्टा हतपुत्रो वीन्द्रꣳ सोमम् आहरत् तस्मिन्न् इन्द्र उपहवम् ऐच्छत तं नोपाह्वयत पुत्रम् मे ऽवधीर् इति स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत् तस्य यद् अत्यशिष्यत तत् त्वष्टाहवनीयम् उप प्रावर्तयत् स्वाहेन्द्रशत्रुर् वर्धस्वेति यद् अवर्तयत् तद् वृत्रस्य वृत्रत्वम् । यद् अब्रवीत् स्वाहेन्द्रशत्रुर् वर्धस्वेति तस्माद् अस्य ॥
2 इन्द्रः शत्रुर् अभवत् स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत् स इषुमात्रमिषुमात्रं विष्वङ्ङ् अवर्धत स इमाँल्लोकान् अवृणोत् । यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् । तस्माद् इन्द्रो ऽबिभेत् स प्रजापतिम् उपाधावत् । शत्रुर् मे ऽजनीति तस्मै वज्रꣳ सिक्त्वा प्रायच्छत् । एतेन जहीति तेनाभ्य् आयत ताव् अब्रूताम् अग्नीषोमौ मा
3 प्र हार् आवम् अन्तः स्व इति मम वै युवꣳ स्थ इत्य् अब्रवीन् माम् अभ्य् एतम् इति तौ भागधेयम् ऐच्छेताम् । ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालम् पूर्णमासे प्रायच्छत् ताव् अब्रूताम् अभि संदष्टौ वै स्वो न शक्नुव ऐतुम् इति स इन्द्र आत्मनः शीतरूराव् अजनयत् तच् छीतरूरयोर् जन्म य एवꣳ शीतरूरयोर् जन्म वेद
4 नैनꣳ शीतरूरु हतस् ताभ्याम् एनम् अभ्य् अनयत् तस्माज् जञ्जभ्यमानाद् अग्नीषोमौ निर् अक्रामताम् प्राणापानौ वा एनं तद् अजहिताम् प्राणो वै दक्षो ऽपानः क्रतुस् तस्माज् जञ्जभ्यमानो ब्रूयात् । मयि दक्षक्रतू इति प्राणापानाव् एवात्मन् धत्ते सर्वम् आयुर् एति स देवता वृत्रान् निर्हूय वार्त्रघ्नꣳ हविः पूर्णमासे निर् अवपत् । घ्नन्ति वा एनम् पूर्णमास आ
5 अमावास्यायाम् प्याययन्ति तस्माद् वार्त्रघ्नी पूर्णमासे ऽनूच्येते वृधन्वती अमावास्यायाम् । तत् सꣳस्थाप्य वार्त्रघ्नꣳ हविर् वज्रम् आदाय पुनर् अभ्य् आयत ते अब्रूतां द्यावापृथिवी मा प्र हार् आवयोर् वै श्रित इति ते अब्रूताम् । वरं वृणावहै नक्षत्रविहिताऽहम् असानीत्य् असाव् अब्रवीच् चित्रविहिताऽहम् इतीयम् ।
तस्मान् नक्षत्रविहिताऽसौ चित्रविहिते ऽयम् । य एवं द्यावापृथिव्योः
6 वरं वेदैनं वरो गच्छति स आभ्याम् एव प्रसूत इन्द्रो वृत्रम् अहन् ते देवा वृत्रꣳ हत्वाऽग्नीषोमाव् अब्रुवन् हव्यं नो वहतम् इति ताव् अब्रूताम् अपतेजसौ वै त्यौ वृत्रे वै त्ययोस् तेज इति ते ऽब्रुवन् क इदम् अच्छैतीति गौर् इत्य् अब्रुवन् गौर् वाव सर्वस्य मित्रम् इति साब्रवीत् ।
7 वरं वृणै मय्य् एव सतो ऽभयेन भुनजाध्वा इति तद् गौर् आहरत् तस्माद् गवि सतो ऽभयेन भुञ्जते । एतद् वा अग्नेस् तेजो यद् घृतम् एतत् सोमस्य यत् पयः । य एवम् अग्नीषोमयोस् तेजो वेद तेजस्व्य् एव भवति ब्रह्मवादिनो वदन्ति किंदेवत्यम् पौर्णमासम् इति प्राजापत्यम् इति ब्रूयात् तेनेन्द्रं ज्येष्ठम् पुत्रं निरवासाययद् इति तस्माज् ज्येष्ठम् पुत्रं धनेन निरवसाययन्ति ॥

2.5.3 अनुवाक 3 पौर्णमास्यां वैमृध पुरोडाशः, अमावास्यायां सांनाय्यादियागः
1 इन्द्रं वृत्रं जघनिवाꣳसम् मृधो ऽभि प्रावेपन्त स एतं वैमृधम् पूणमासे ऽनुनिर्वाप्यम् अपश्यत् तं निर् अवपत् तेन वै स मृधो ऽपाहत यद् वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति मृध एव तेन यजमानो ऽप हते । इन्द्रो वृत्रꣳ हत्वा देवताभिश् चेन्द्रियेण च व्य् आर्ध्यत स एतम् आग्नेयम् अष्टाकपालम् अमावास्यायाम् अपश्यद् ऐन्द्रं दधि ॥
2 तं निर् अवपत् तेन वै स देवताश् चेन्द्रियं चावारुन्द्ध यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायाम् भवत्य् ऐन्द्रं दधि देवताश् चैव तेनेन्द्रियं च यजमानो ऽव रुन्द्धे । इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् पृथिवीम् अनु व्य् आर्छत् तद् ओषधयो वीरुधो ऽभवन् स प्रजापतिम् उपाधावद् वृत्रम् मे जघ्नुष इन्द्रियं वीर्यम्
3 पृथिवीम् अनु व्य् आरत् तद् ओषधयो वीरुधो ऽभूवन् इति तत् पशव ओषधीभ्यो ऽध्य् आत्मन्त् सम् अनयन् तत् प्रत्य् अदुहन् यत् समनयन् तत् सांनाय्यस्य सांनाय्यत्वं यत् प्रत्यदुहन् तत् प्रतिधुषः प्रतिधुक्त्वम् । सम् अनैषुः प्रत्य् अधुक्षन् न तु मयि श्रयत इत्य् अब्रवीद् एतद् अस्मै
4 शृतं कुरुतेत्य् अब्रवीत् तद् अस्मै शृतम् अकुर्वन्न् इन्द्रियं वावास्मिन् वीर्यं तद् अश्रयन् तच् छृतस्य शृतत्वम् । सम् अनैषुः प्रत्य् अधुक्षञ् छृतम् अक्रन् न तु मा धिनोतीत्य् अब्रवीद् एतद् अस्मै दधि कुरुतेत्य् अब्रवीत् तद् अस्मै दध्य् अकुर्वन् तद् एनम् अधिनोत् तद् दध्नो दधित्वम् ब्रह्मवादिनो वदन्ति दध्नः पूर्वस्यावदेयम् ।
5 दधि हि पूर्वं क्रियत इत्य् अनादृत्य तच् छृतस्यैव पूर्वस्याव द्येद् इन्द्रियम् एवास्मिन् वीर्यꣳ श्रित्वा दध्नोपरिष्टाद् धिनोति यथापूर्वम् उपैति यत् पूतीकैर् वा पर्णवल्कैर् वातञ्च्यात् सौम्यं तद् यत् क्वलै राक्षसं तद् यत् तण्डुलैर् वैश्वदेवं तद् यद् आतञ्चनेन मानुषं तद् यद् दध्ना तत् सेन्द्रं दध्ना ऽऽतनक्ति
6 सेन्द्रत्वाय । अग्निहोत्रोच्छेषणम् अभ्यातनक्ति यज्ञस्य संतत्यै । इन्द्रो वृत्रꣳ हत्वा पराम् परावतम् अगच्छद् अपाराधम् इति मन्यमानस् तं देवताः प्रैषम् ऐच्छन्त् सो ऽब्रवीत् प्रजापतिर् यः प्रथमो ऽनुविन्दति तस्य प्रथमम् भागधेयम् इति तम् पितरो ऽन्व् अविन्दन् तस्मात् पितृभ्यः पूर्वेद्युः क्रियते सो ऽमावास्याम् प्रत्य् आगच्छत् तं देवा अभि सम् अगच्छन्तामा वै नः
7 अद्य वसु वसतीतीन्द्रो हि देवानां वसु तद् अमावास्याया अमावास्यत्वम् ब्रह्मवादिनो वदन्ति किंदेवत्यꣳ सांनाय्यम् इति वैश्वदेवम् इति ब्रूयाद् विश्वे हि तद् देवा भागधेयम् अभि समगच्छन्तेत्य् अथो खल्व् ऐन्द्रम् इत्य् एव ब्रूयाद् इन्द्रं वाव ते तद् भिषज्यन्तो ऽभि सम् अगच्छन्तेति ॥

2.5.4 अनुवाक 4 भ्रातृव्यवतः पशुकामस्य च पौर्णमास्याम् अनुनिर्वाप्यौ। आग्नावैष्णवादियागविधिः।
1 ब्रह्मवादिनो वदन्ति स त्वै दर्शपूर्णमासौ यजेत य एनौ सेन्द्रौ यजेतेति वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति तेन पूर्णमासः सेन्द्र ऐन्द्रं दध्य् अमावास्यायां तेनामावास्या सेन्द्रा य एवं विद्वान् दर्शपूर्णमासौ यजते सेन्द्राव् एवैनौ यजते श्वःश्वो ऽस्मा ईजानाय वसीयो भवति देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एताम्
2 इष्टिम् अपश्यन् । आग्नावैष्णवम् एकादशकपालꣳ सरस्वत्यै चरुꣳ सरस्वते चरुं ताम् पौर्णमासꣳ सꣳस्थाप्यानु निर् अवपन् ततो देवा अभवन् परासुराः । यो भ्रातृव्यवान्त् स्यात् स पौर्णमासꣳ सꣳस्थाप्यैताम् इष्टिम् अनु निर् वपेत् पौर्णमासेनैव वज्रम् भ्रातृव्याय प्रहृत्याग्नावैष्णवेन देवताश् च यज्ञं च भ्रातृव्यस्य वृङ्क्ते मिथुनान् पशून्त् सारस्वताभ्यां यावद् एवास्यास्ति तत्
3 सर्वं वृङ्क्ते पौर्णमासीम् एव यजेत भ्रातृव्यवान् नामावास्याꣳ हत्वा भ्रातृव्यं नाऽऽ प्याययति साकम्प्रस्थायीयेन यजेत पशुकामः । यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्य् आत्मना ददात्य् अन्यस्मै महता पूर्णꣳ होतव्यम् । तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयति दारुपात्रेण जुहोति न हि मृन्मयम् आहुतिं आनशे । औदुम्बरम्
4 भवत्य् ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे नागतश्रीर् महेन्द्रं यजेत त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्यस् तेषाम् महेन्द्रो देवता यो वै स्वां देवतां अतियजते प्र स्वायै देवतायै च्यवते न पराम् प्राप्नोति पापीयान् भवति संवत्सरम् इन्द्रं यजेत संवत्सरꣳ हि व्रतं नाति स्वा ॥
5 एवैनं देवतेज्यमाना भूत्या इन्द्धे वसीयान् भवति संवत्सरस्य परस्ताद् अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर् वपेत् संवत्सरम् एवैनं वृत्रं जघ्निवाꣳसम् अग्निर् व्रतपतिर् व्रतम् आ लम्भयति ततो ऽधि कामं यजेत ॥

2.5.5 अनुवाक 5 अभ्युदयेष्टिः, दाक्षायणयज्ञः[१]
1 नासोमयाजी सं नयेद् अनागतं वा एतस्य पयो यो ऽसोमयाजी यद् असोमयाजी संनयेत् परिमोष एव सो ऽनृतं करोति । अथो परैव सिच्यते सोमयाज्य् एव सं नयेत् पयो वै सोमः पयः सांनाय्यम् पयसैव पय आत्मन् धत्ते वि वा एतम् प्रजया पशुभिर् अर्धयति वर्धयत्य् अस्य भ्रातृव्यं यस्य हविर् निरुप्तम् पुरस्ताच् चन्द्रमाः ॥
2 अभ्य् उदेति त्रेधा तण्डुलान् वि भजेद् ये मध्यमाः स्युस् तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं कुर्याद् ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधꣳश् चरुम् । ये ऽणिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम् अग्निर् एवास्मैप्रजाम् प्रजनयति वृद्धाम् इन्द्रः प्र यच्छति यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रति तिष्ठति न द्वे
3 यजेत यत् पूर्वया सम्प्रति यजेतोत्तरया छम्बट् कुर्याद् यद् उत्तरया सम्प्रति यजेत पूर्वया छम्बट् कुर्यान् नेष्टिर् भवति न यज्ञस् तद् अनु ह्रीत मुख्यपगल्भो जायते । एकाम् एव यजेत प्रगल्भो ऽस्य जायते । अनादृत्य तद् द्वे एव यजेत यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया देवता एव पूर्वयावरुन्द्ध इन्द्रियम् उत्तरया देवलोकम् एव
4 पूर्वयाभिजयति मनुष्यलोकम् उत्तरया भूयसो यज्ञक्रतून् उपैति । एषा वै सुमना नामेष्टिर् यम् अद्येजानम् पश्चाच् चन्द्रमा अभ्य् उदेत्य् अस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति दाक्षायणयज्ञेन सुवर्गकामो यजेत पूर्णमासे सं नयेन् मैत्रावरुण्यामिक्षयामावास्यायां यजेत पूर्णमासे वै देवानाꣳ सुतस् तेषाम् एतम् अर्धमासम् प्रसुतस् तेषाम् मैत्रावरुणी वशाऽमावास्यायाम् अनूबन्ध्या यत्
5 पूर्वेद्युर् यजते वेदिम् एव तत् करोति यद् वत्सान् अपाकरोति सदोहविर्धाने एव सम् मिनोति यद् यजते देवैर् एव सुत्याꣳ सम् पादयति स एतम् अर्धमासꣳ सधमादं देवैः सोमम् पिबति यन् मैत्रावरुण्यामिक्षयामावास्यायां यजते यैवासौ देवानां वशानूबन्ध्या सो एवैषैतस्य साक्षाद् वा एष देवान् अभ्यारोहति य एषां यज्ञम्
6 अभ्यारोहति यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति यद्य् अवविध्यति पापीयान् भवति यदि नावविध्यति सदृङ् व्यावृत्काम एतेन यज्ञेन यजेत क्षुरपविर् ह्य् एष यज्ञस् ताजक् पुण्यो वा भवति प्र वा मीयते तस्यैतद् व्रतम् । नानृतं वदेन् न माꣳसम् अश्नीयान् न स्त्रियम् उपेयान् नास्य पल्पूलनेन वासः पल्पूलयेयुर् एतद् धि देवाः सर्वं न कुर्वन्ति ॥
 
2.5.6 अनुवाक 6 दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्
1 एष वै देवरथो यद् दर्शपूर्णमासौ यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानाम् अव स्यति । एतानि वा अङ्गापरूꣳषि संवत्सरस्य यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते ऽङ्गापरूꣳष्य् एव संवत्सरस्य प्रति दधाति । एते वै संवत्सरस्य चक्षुषी यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते ताभ्याम् एव सुवर्गं लोकम् अनु पश्यति ॥
2 एषा वै देवानां विक्रान्तिर् यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते देवानाम् एव विक्रान्तिम् अनु वि क्रमते । एष वै देवयानः पन्था यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते य एव देवयानः पन्थास् तꣳ समारोहति । एतौ वै देवानाꣳ हरी यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते याव् एव देवानाꣳ हरी ताभ्याम्
3 एवैभ्यो हव्यं वहति । एतद् वै देवानाम् आस्यं यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते साक्षाद् एव देवानाम् आस्ये जुहोति । एष वै हविर्धानी यो दर्शपूर्णमासयाजी सायम्प्रातर् अग्निहोत्रं जुहोति यजते दर्शपूर्णमासाव् अहरहर् हविर्धानिनाꣳ सुतः । य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति देवा वा अहः
4 यज्ञियं नाविन्दन् ते दर्शपूर्णमासाव् अपुनन् तौ वा एतौ पूतौ मेध्यौ यद् दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते पूताव् एवैनौ मेध्यौ यजते नामावास्यायां च पौर्णमास्यां च स्त्रियम् उपेयात् । यद् उपेयान् निरिन्द्रियः स्यात् सोमस्य वै राज्ञो ऽर्धमासस्य रात्रयः पत्नय आसन् तासाम् अमावास्यां च पौर्णमासीं च नोपैत् ॥
5 ते एनम् अभि समनह्येताम् । तं यक्ष्म आर्छत् । राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म यत् पापीयान् अभवत् तत् पापयक्ष्मस्य यज् जायाभ्याम् अविन्दत् तज् जायेन्यस्य य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति स एते एव नमस्यन्न् उपाधावत् ते अब्रूताम् । वरं वृणावहा आवं देवानाम् भागधे असाव
6 आवद् अधि देवा इज्यान्ता इति तस्मात् सदृशीनाꣳ रात्रीणाम् अमावास्यायां च पौर्णमास्यां च देवा इज्यन्ते । एते हि देवानाम् भागधे भागधा अस्मै मनुष्या भवन्ति य एवं वेद भूतानि क्षुधम् अघ्नन्त् सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवत्सरे वनस्पतयस्
तस्माद् अहरहर् मनुष्या अशनम् इच्छन्ते ऽर्धमासे देवा इज्यन्ते मासि पितृभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति य एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ॥

2.5.7 अनुवाक 7 सामिधेनी मन्त्रव्याख्यानम्
1 देवा वै नर्चि न यजुष्य् अश्रयन्त ते सामन्न् एवाश्रयन्त हिं करोति सामैवाकर् हिं करोति यत्रैव देवा अश्रयन्त तत एवैनान् प्र युङ्क्ते हिं करोति वाच एवैष योगः । हिं करोति प्रजा एव तद् यजमानः सृजते त्रिः प्रथमाम् अन्व् आह त्रिर् उत्तमाम् । यज्ञस्यैव तद् बर्सम्
2 नह्यत्य् अप्रस्रꣳसाय संततम् अन्व् आह प्राणानाम् अन्नाद्यस्य संतत्यै । अथो रक्षसाम् अपहत्यै राथंतरीम् प्रथमाम् अन्व् आह राथंतरो वा अयं लोकः । इमम् एव लोकम् अभि जयति त्रिर् वि गृह्णाति त्रय इमे लोकाः । इमान् एव लोकान् अभि जयति बार्हतीम् उत्तमाम् अन्व् आह बार्हतो वा असौ लोकः । अमुम् एव लोकम् अभि जयति प्र वः
3 वाजा इत्य् अनिरुक्ताम् प्राजापत्याम् अन्व् आह यज्ञो वै प्रजापतिः । यज्ञम् एव प्रजापतिम् आ रभते प्र वो वाजा इत्य् अन्व् आह । अन्नं वै वाजः । अन्नम् एवाव रुन्द्धे प्र वो वाजा इत्य् अन्व् आह तस्मात् प्राचीनꣳ रेतो धीयते । अग्न आ याहि वीतय इत्य् आह तस्मात् प्रतीचीः प्रजा जायन्ते प्र वो वाजाः
4 इत्य् अन्व् आह मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर् घृताची यज्ञो देवाञ् जिगाति यजमानः सुम्नयुः । इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामाव रुन्द्धे यं कामयेत सर्वम् आयुर् इयाद् इति प्र वो वाजा इति तस्यानूच्याग्न आ याहि वीतय इति सं ततम् उत्तरम् अर्धर्चम् आ लभेत ॥
5 प्राणेनैवास्यापानं दधार सर्वम् आयुर् एति यो वा अरत्निꣳ सामिधेनीनां वेदारत्नाव् एव भ्रातृव्यं कुरुते । अर्धर्चौ सं दधाति । एष वा अरत्निः सामिधेनीनाम् । य एवं वेदारत्नाव् एव भ्रातृव्यं कुरुते । ऋषेर्ऋषेर् वा एता निर्मिता यत् सामिधेन्यस् ता यद् असंयुक्ताः स्युः प्रजया पशुभिर् यजमानस्य वि तिष्ठेरन् । अर्धर्चौ संदधाति सं युनक्त्य् एवैनास् ता अस्मै संयुक्ता अवरुद्धाः सर्वाम् आशिषं दुह्रे ॥

2.5.8 अनुवाक 8 सामिधेनी मन्त्रव्याख्यानम्
1 अयज्ञो वा एष यो ऽसामा । अग्न आ याहि वीतय इत्य् आह राथंतरस्यैष वर्णस् तं त्वा समिद्भिर् अङ्गिर इत्य् आह वामदेव्यस्यैष वर्णः । बृहद् अग्ने सुवीर्यम् इत्य् आह बृहत एष वर्णः । यद् एतं तृचम् अन्वाह यज्ञम् एव तत् सामन्वन्तं करोति । अग्निर् अमुष्मिम्̐ लोक आसीद् आदित्यो ऽस्मिन् ताव् इमौ लोकाव् अशान्तौ
2 आस्ताम् । ते देवा अब्रुवन् । एतेमौ वि पर्य् ऊहामेति । अग्न आ याहि वीतय इत्य् अस्मिम्̐ लोके ऽग्निम् अदधुर् बृहद् अग्ने सुवीर्यम् इत्य् अमुष्मिम्̐ लोक आदित्यम् । ततो वा इमौ लोकाव् अशाम्यताम् । यद् एवम् अन्वाहानयोर् लोकयोः शान्त्यै शाम्यतो ऽस्मा इमौ लोकौ य एवं वेद पञ्चदश सामिधेनीर् अन्व् आह पञ्चदश
3 वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते तासां त्रीणि च शतानि षष्टिश् चाक्षराणि तावतीः संवत्सरस्य रात्रयः । अक्षरश एव संवत्सरम् आप्नोति नृमेधश् च परुच्छेपश् च ब्रह्मवाद्यम् अवदेताम् अस्मिन् दाराव् आर्द्रे ऽग्निं जनयाव यतरो नौ ब्रह्मीयान् इति नृमेधो ऽभ्य् अवदत् स धूमम् अजनयत् परुच्छेपो ऽभ्य् अवदत् सो ऽग्निम् अजनयत् । ऋष इत्य् अब्रवीत् ॥
4 यत् समावद् विद्व कथा त्वम् अग्निम् अजीजनो नाहम् इति सामिधेनीनाम् एवाहं वर्णं वेदेत्य् अब्रवीत् । यद् घृतवत् पदम् अनूच्यते स आसां वर्णस् तं त्वा समिद्भिर् अङ्गिर इत्य् आह सामिधेनीष्व् एव तज् ज्योतिर् जनयति स्त्रियस् तेन यद् ऋच स्त्रियस् तेन यद् गायत्रिय स्त्रियस् तेन यत् सामिधेन्यः ।
वृषण्वतीम् अन्व् आह ॥
5 तेन पुꣳस्वतीस् तेन सेन्द्रास् तेन मिथुनाः । अग्निर् देवानां दूत आसीद् उशना काव्यो ऽसुराणाम् । तौ प्रजापतिम् प्रश्नम् ऐताम् स प्रजापतिर् अग्निं दूतं वृणीमह इत्य् अभि पर्यावर्तत ततो देवा अभवन् परासुराः । यस्यैवं विदुषो ऽग्निं दूतं वृणीमह इत्य् अन्वाह भवत्य् आत्मना परास्य भ्रातृव्यो भवति । अध्वरवतीम् अन्व् आह भ्रातृव्यम् एवैतया
6 ध्वरति शोचिष्केशस् तम् ईमह इत्य् आह पवित्रम् एवैतत् । यजमानम् एवैतया पवयति समिद्धो अग्न आहुतेत्य् आह परिधिम् एवैतम् परि दधात्य् अस्कन्दाय यद् अत ऊर्ध्वम् अभ्यादध्याद् यथा बहिःपरिधि स्कन्दति तादृग् एव तत् त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाꣳ सहरक्षा असुराणाम् । त एतर्ह्य् आ शꣳसन्ते मां वरिष्यते माम्
7 इति वृणीध्वꣳ हव्यवाहनम् इत्य् आह य एव देवानां तं वृणीते । आर्षेयं वृणीते बन्धोर् एव नैति । अथो संतत्यै परस्ताद् अर्वाचो वृणीते तस्मात् परस्ताद् अर्वाञ्चो मनुष्यान् पितरो ऽनु प्र पिपते ॥

2.5.9 अनुवाक 9 प्रवरादिमन्त्रव्याख्यानम्
1 अग्ने महाꣳ असीत्य् आह महान् ह्य् एष यद् अग्निः । ब्राह्मणेत्य् आह ब्राह्मणो ह्य् एष भारतेत्य् आहैष हि देवेभ्यो हव्यम् भरति देवेद्ध इत्य् आह देवा ह्य् एतम् ऐन्धत मन्विद्ध इत्य् आह मनुर् ह्य् एतम् उत्तरो देवेभ्य ऐन्द्ध । ऋषिष्टुत इत्य् आहर्षयो ह्य् एतम् अस्तुवन् विप्रानुमदित इत्य् आह ।
2 विप्रा ह्य् एते यच् छुश्रुवाꣳसः कविशस्त इत्य् आह कवयो ह्य् एते यच् छुश्रुवाꣳसः । ब्रह्मसꣳशित इत्य् आह ब्रह्मसꣳशितो ह्य् एष घृताहवन इत्य् आह घृताहुतिर् ह्य् अस्य प्रियतमा प्रणीर् यज्ञानाम् इत्य् आह प्रणीर् ह्य् एष यज्ञानाम् । रथीर् अध्वराणाम् इत्य् आहैष हि देवरथः । अतूर्तो होतेत्य् आह न ह्य् एतं कश् चन
3 तरति तूर्णिर् हव्यवाड् इत्य् आह सर्वꣳ ह्य् एष तरति । आस्पात्रं जुहूर् देवानाम् इत्य् आह जुहूर् ह्य् एष देवानाम् । चमसो देवपान इत्य् आह चमसो ह्य् एष देवपानः । अराꣳ इवाग्ने नेमिर् देवाꣳस् त्वम् परिभूर् असीत्य् आह देवान् ह्य् एष परिभूः ।
यद् ब्रूयात् । आ वह देवान् देवयते यजमानायेति भ्रातृव्यम् अस्मै
4 जनयेत् । आ वह देवान् यजमानायेत्य् आह यजमानम् एवैतेन वर्धयति । अग्निम् अग्न आ वह सोमम् आ वहेत्य् आह देवता एव तद् यथापूर्वम् उप ह्वयते । आ चाग्ने देवान् वह सुयजा च यज जातवेद इत्य् आह । अग्निम् एव तत् सꣳ श्यति सो ऽस्य सꣳशितो देवेभ्यो हव्यं वहति । अग्निर् होता
5 इत्य् आह । अग्निर् वै देवानाꣳ होता य एव देवानाꣳ होता तं वृणीते स्मो वयम् इत्य् आहात्मानम् एव सत्त्वं गमयति साधु ते यजमान देवतेत्य् आहाशिषम् एवैताम् आ शास्ते यद् ब्रूयात् । यो ऽग्निꣳ होतारम् अवृथा इत्य् अग्निनोभयतो यजमानम् परि गृह्णीयात् प्रमायुकः स्यात् । यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्यो उपभृत्

जुहू - स्रुवा


6 यद् द्वे इव ब्रूयाद् भ्रातृव्यम् अस्मै जनयेत् । घृतवतीम् अध्वर्यो स्रुचम् आऽस्यस्वेत्य् आह यजमानम् एवैतेन वर्धयति देवायुवम् इत्य् आह देवान् ह्य् एषावति विश्ववाराम् इत्य् आह विश्वꣳ ह्य् एषावति । ईडामहै देवाꣳ ईडेन्यान् नमस्याम वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः । देवता एव तद् यथाभागं यजति ॥

2.5.10 अनुवाक 10 नैमित्तिकीनां काम्यानां च सामिधेनीनां विधानम्
1 त्रीꣳस् तृचान् अनु ब्रूयाद् राजन्यस्य त्रयो वा अन्ये राजन्यात् पुरुषा ब्राह्मणो वैश्यः शूद्रस् तान् एवास्मा अनुकान् करोति पञ्चदशानु ब्रूयाद् राजन्यस्य पञ्चदशो वै राजन्यः स्व एवैनꣳ स्तोमे प्रति ष्ठापयति त्रिष्टुभा परि दध्यात् । इन्द्रियं वै त्रिष्टुग् इन्द्रियकामः खलु वै राजन्यो यजते त्रिष्टुभैवास्मा इन्द्रियम् परि गृह्णाति यदि कामयेत
2 ब्रह्मवर्चसम् अस्त्व् इति गायत्रिया परि दध्यात् । ब्रह्मवर्चसं वै गायत्री ब्रह्मवर्चसम् एव भवति सप्तदशानु ब्रूयाद् वैश्यस्य सप्तदशो वै वैश्यः स्व एवैनꣳ स्तोमे प्रति ष्ठापयति जगत्या परि दध्यात् । जागता वै पशवः पशुकामः खलु वै वैश्यो यजते जगत्यैवास्मै पशून् परि गृह्णाति । एकविꣳशतिम् अनु ब्रूयात् प्रतिष्ठाकामस्य । एकविꣳश स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै ।
3 चतुर्विꣳशतिम् अनु ब्रूयाद् ब्रह्मवर्चसकामस्य चतुर्विꣳशत्यक्षरा गायत्री गायत्री ब्रह्मवर्चसम् । गायत्रियैवास्मै ब्रह्मवर्चसम् अव रुन्द्धे त्रिꣳशतम् अनु ब्रूयाद् अन्नकामस्य त्रिꣳशदक्षरा विराड् अन्नं विराड् विराजैवास्मा अन्नाद्यम् अव रुन्द्धे द्वात्रिꣳशतम् अनुब्रूयात् प्रतिष्ठाकामस्य द्वात्रिꣳशदक्षरानुष्टुग् अनुष्टुप् छन्दसाम् प्रतिष्ठा प्रतिष्ठित्यै षट्त्रिꣳशतम् अनु ब्रूयात् पशुकामस्य षट्त्रिꣳशदक्षरा बृहती बार्हताः पशवः । बृहत्यैवास्मै पशून्
4 अव रुन्द्धे चतुश्चत्वारिꣳशतम् अनु ब्रूयाद् इन्द्रियकामस्य चतुश्चत्वारिꣳशदक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुप् त्रिष्टुभैवास्मा इन्द्रियम् अव रुन्द्धे । अष्टाचत्वारिꣳशतम् अनु ब्रूयात् पशुकामस्य । अष्टाचत्वरिꣳशदक्षरा जगती जागताः पशवः । जगत्यैवास्मै पशून् अव रुन्द्धे सर्वाणि छन्दाꣳस्य् अनु ब्रूयाद् बहुयाजिनः सर्वाणि वा एतस्य छन्दाꣳस्य् अवरुन्द्धानि यो बहुयाजी । अपरिमितम् अनु ब्रूयात् । अपरिमितस्यावरुद्ध्यै ॥

2.5.11 अनुवाक 11 सामिधेनीषु होतुर्नियमविशेषः
1 निवीतम् मनुष्याणाम् प्राचीनावीतम् पितृणाम् उपवीतं देवानाम् उप व्ययते देवलक्ष्मम् एव तत् कुरुते तिष्ठन्न् अन्व् आह तिष्ठन् ह्य् आश्रुततरं वदति तिष्ठन्न् अन्व् आह सुवर्गस्य लोकस्याभिजित्यै । आसीनो यजति । अस्मिन्न् एव लोके प्रति तिष्ठति यत् क्रौञ्चम् अन्वाहाऽऽसुरं तत् । यन् मन्द्रम् मानुषं तत् । यद् अन्तरा तत् सदेवम् अन्तरानूच्यम् । सदेवत्वाय विद्वाꣳसो वै
2 पुरा होतारो ऽभूवन् तस्माद् विधृता अध्वानो ऽभूवन् न पन्थानः सम् अरुक्षन् । अन्तर्वेद्य् अन्यः पादो भवति बहिर्वेद्य् अन्यः । अथान्व् आह । अध्वनां विधृत्यै पथाम् असꣳरोहाय । अथो भूतं चैव भविष्यच् चाव रुन्द्धे । अथो परिमितं चैवापरिमितं चाव रुन्द्धे । अथो ग्राम्याꣳश् चैव पशून् आरण्याꣳश् चाव रुन्द्धे । अथो
3 देवलोकं चैव मनुष्यलोकं चाभि जयति देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन् । स प्रजापतिस् तूष्णीम् आघारम् आघारयत् ततो वै देवा यज्ञम् अन्व् अपश्यन् यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै । अथो सामिधेनीर् एवाभ्य् अनक्ति । अलूक्षो भवति य एवं वेद । अथो तर्पयत्य् एवैनास् तृप्यति प्रजया पशुभिः
4 य एवं वेद यद् एकयाघारयेद् एकाम् प्रीणीयात् । यद् द्वाभ्यां द्वे प्रीणीयात् । यत् तिसृभिर् अति तद् रेचयेत् । मनसा घारयति मनसा ह्य् अनाप्तम् आप्यते तिर्यञ्चम् आ घारयत्य् अच्छम्बट्कारम् । वाक् च मनश् चार्तीयेताम् अहं देवेभ्यो हव्यं वहामीति वाग् अब्रवीद् अहं देवेभ्य इति मनस् तौ प्रजापतिम् प्रश्नम् ऐताम् । सो ऽब्रवीत्
5 प्रजापतिः । दूतीर् एव त्वम् मनसो ऽसि यद् धि मनसा ध्यायति तद् वाचा वदतीति तत् खलु तुभ्यं न वाचा जुहवन्न् इत्य् अब्रवीत् तस्मान् मनसा प्रजापतये जुह्वति मन इव हि प्रजापतिः प्रजापतेर् आप्त्यै परिधीन्त् सम् मार्ष्टि पुनात्य् एवैनान् त्रिर् मध्यमं त्रयो वै प्राणाः
6 इमे लोका इमान् एव लोकान् अभि जयति त्रिर् उत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस् तान् एवाभि जयति त्रिर् उप वाजयति त्रयो वै देवलोका देवलोकान् एवाभि जयति द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरम् एव प्रीणाति । अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै । आघारम् आ घारयति तिर इव
7 वै सुवर्गो लोकः सुवर्गम् एवास्मै लोकम् प्र रोचयति । ऋजुम् आ घारयत्य् ऋजुर् इव हि प्राणः संततम् आ घारयति प्राणानाम् अन्नाद्यस्य संतत्यै । अथो रक्षसाम् अपहत्यै यं कामयेत प्रमायुकः स्याद् इति जिह्मं तस्याऽऽ घारयेत् प्राणम् एवास्माज् जिह्मं नयति ताजक् प्र मीयते शिरो वा एतद् यज्ञस्य यद् आघार आत्मा ध्रुवा
8 आघारम् आघार्य ध्रुवाꣳ सम् अनक्ति । आत्मन्न् एव यज्ञस्य शिरः प्रति दधाति । अग्निर् देवानां दूत आसीद् दैव्यो ऽसुराणाम् । तौ प्रजापतिम् प्रश्नम् ऐताम् । स प्रजापतिर् ब्राह्मणम् अब्रवीत् । एतद् वि ब्रूहीति । आ श्रावयेतीदं देवाः शृणुतेति वाव तद् अब्रवीद् अग्निर् देवो होतेति य एव देवानां तम् अवृणीत ततो देवाः
9 अभवन् परासुराः । यस्यैवं विदुषः प्रवरम् प्रवृणते भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् ब्राह्मणश् चाब्राह्मणश् च प्रश्नम् एयाताम् ब्राह्मणायाधि ब्रूयात् । यद् ब्राह्मणायाध्याहाऽऽत्मने ऽध्य् आह यद् ब्राह्मणम् पराहाऽऽत्मनम् पराऽऽह तस्माद् ब्राह्मणो न परोच्यः ॥

2.5.12 अनुवाक 12 काम्येष्टियाज्यापुरोनुवाक्याः
1 आयुष् टे । आयुर्दा अग्ने । आ प्यायस्व सं ते । अव ते हेडः । उद् उत्तमम् प्र णो देवी । आ नो दिवः । अग्नाविष्णू अग्नाविष्णू इमं मे वरुण तत् त्वा यामि । उद् उ त्यम् । चित्रम् अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः । तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः सम्
2 अन्या यन्त्य् उप यन्त्य् अन्याः समानमूर्वं नद्यः पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसम् अपां नपातम् परि तस्थुर् आपः ॥ तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । स शुक्रेण शिक्वना रेवद् अग्निर् दीदायानिध्मो घृतनिर्णिग् अप्सु ॥ इन्द्रावरुणयोर् अहꣳ सम्राजोर् अव आ वृणे । ता नो मृडात ईदृशे ॥ इन्द्रावरुणा युवम् अध्वराय नः
3 विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥ आ नो मित्रावरुणा प्र बाहवा त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्य् अस्मत् स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणम्
4 रराणो वीहि मृडीकꣳ सुहवो न एधि प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ।
5 वि पाजसा वि ज्योतिषा स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । उरुक्षयेषु दीद्यत् तꣳ सुप्रतीकꣳ सुदृशꣳ स्वञ्चम् अविद्वाꣳसो विदुष्टरꣳ सपेम । स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥ अꣳहोमुचे विवेष यन् मा वि न इन्द्र । इन्द्र क्षत्रम् इन्द्रियाणि शतक्रतो अनु ते दायि ॥


2.5.1 अनुवाक 1 इष्टिविधानम्। अग्नीषोमीयहविर्विध्युपोद्घातः

1
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् ।
तस्य त्रीणि शीर्षाण्य् आसन्त् सोमपानꣳ सुरापानम् अन्नादनम् ।
स प्रत्यक्षं देवेभ्यो भागम् अवदत् परोऽक्षम् असुरेभ्यः सर्वस्मै वै प्रत्यक्षम् भागं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस्
तस्माद् इन्द्रो ऽबिभेद्
ईदृङ् वै राष्ट्रं वि पर्यावर्तयतीति
तस्य वज्रम् आदाय शीर्षाण्य् अच्छिनद् यत् सोमपानम्

2
आसीत् स कपिञ्जलो ऽभवत् यत् सुरापानꣳ स कलविङ्को यद् अन्नादनꣳ स तित्तिरिः । तस्याञ्जलिना ब्रमहत्याम् उपागृह्णात् ताꣳ संवत्सरं अबिभस् तम् भूतान्य् अभ्य् अक्रोशन्
ब्रह्महन्न् इति । स पृथिवीम् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृहाणेति
साब्रवीद्
वरं वृणै खातात् पराभविष्यन्ती मन्ये ततो मा परा भूवम् इति
पुरा ते

3
संवत्सराद् अपि रोहाद् इत्य् अब्रवीत् तस्मात् पुरा संवत्सरात् पृथिव्यै खातम् अपि रोहति वारेवृतꣳ ह्य् अस्यै
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णात् तत् स्वकृतम् इरिणम् अभवत् तस्माद् आहिताग्निः श्रद्धादेवः स्वकृत इरिणे नाव स्येद् ब्रह्महत्यायै ह्य् एष वर्णः । स वनस्पतीन् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति
ते ऽब्रुवन्
वरं वृणामहै वृक्णात्

4
पराभविष्यन्तो मन्यामहे ततो मा परा भूमेति ।
आव्रश्चनाद् वो भूयाꣳस उत् तिष्ठान् इत्य् अब्रवीत् तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाꣳस उत् तिष्ठन्ति वारेवृतꣳ ह्य् एषाम् ।
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् स निर्यासो ऽभवत् तस्मान् निर्यासस्य नाश्यम् ब्रह्महत्यायै ह्य् एष वर्णो ऽथो खलु य एव लोहितो यो वाऽऽव्रश्चनान् निर्येषति तस्य नाऽऽश्यम्

5
कामम् अन्यस्य । स स्त्रीषꣳसादम् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति
ता अब्रुवन्
वरं वृणामहा ऋत्वियात् प्रजां विन्दामहै कामम् आ विजनितोः सम् भवामेति तस्माद् ऋत्वियात् स्त्रियः प्रजां विन्दन्ते कामम् आ विजनितोः सम् भवन्ति वारेवृतꣳ ह्य् आसाम् ।
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् सा मलवद्वासा अभवत् तस्मान् मलवद्वाससा न सं वदेत

6
न सहाऽऽसीत नास्या अन्नम् अद्याद् ब्रह्महत्यायै ह्य् एषा वर्णम् प्रतिमुच्याऽऽस्ते ।
अथो खल्व् आहुर्
अभ्यञ्जनं वाव स्त्रिया अन्नम् अभ्यञ्जनम् एव न प्रतिगृह्यं कामम् अन्यद् इति । याम् मलवद्वाससꣳ सम्भवन्ति यस् ततो जायते सो ऽभिशस्तो याम् अरण्ये तस्यै स्तेनो याम् पराचीं तस्यै ह्रीतमुख्य् अपगल्भो या स्नाति तस्या अप्सु मारुको या

7
अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिर् अपमारी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जुꣳ सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस्
तिस्रो रात्रीर् व्रतं चरेद् अञ्जलिना वा पिबेद् अखर्वेण वा पात्रेण प्रजायै गोपीथाय ॥

2.5.2 अनुवाक 2
अग्नीषोमीय पुरोडाशः

1
त्वष्टा हतपुत्रो वीन्द्रꣳ सोमम् आहरत्
तस्मिन्न् इन्द्र उपहवम् ऐच्छत
तं नोपाह्वयत
पुत्रम् मे ऽवधीर् इति
स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
तस्य यद् अत्यशिष्यत तत् त्वष्टाहवनीयम् उप प्रावर्तयत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति
यद् अवर्तयत् तद् वृत्रस्य वृत्रत्वम् ।
यद् अब्रवीत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति तस्माद् अस्य ॥

2
इन्द्रः शत्रुर् अभवत्
स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत्
स इषुमात्रमिषुमात्रं विष्वङ्ङ् अवर्धत
स इमाँल्लोकान् अवृणोत् ।
यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् ।
तस्माद् इन्द्रो ऽबिभेत्
स प्रजापतिम् उपाधावत् ।
शत्रुर् मे ऽजनीति
तस्मै वज्रꣳ सिक्त्वा प्रायच्छत् ।
एतेन जहीति तेनाभ्य् आयत
ताव् अब्रूताम् अग्नीषोमौ
मा

3
प्र हार् आवम् अन्तः स्व इति
मम वै युवꣳ स्थ इत्य् अब्रवीन् माम् अभ्य् एतम् इति
तौ भागधेयम् ऐच्छेताम् ।
ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालम् पूर्णमासे प्रायच्छत्
ताव् अब्रूताम्
अभि संदष्टौ वै स्वो न शक्नुव ऐतुम् इति
स इन्द्र आत्मनः शीतरूराव् अजनयत्
तच् छीतरूरयोर् जन्म
य एवꣳ शीतरूरयोर् जन्म वेद

4
नैनꣳ शीतरूरु हतस्
ताभ्याम् एनम् अभ्य् अनयत्
तस्माज् जञ्जभ्यमानाद् अग्नीषोमौ निर् अक्रामताम्
प्राणापानौ वा एनं तद् अजहिताम्
प्राणो वै दक्षो ऽपानः क्रतुस्
तस्माज् जञ्जभ्यमानो ब्रूयात् ।
मयि दक्षक्रतू इति
प्राणापानाव् एवात्मन् धत्ते
सर्वम् आयुर् एति
स देवता वृत्रान् निर्हूय वार्त्रघ्नꣳ हविः पूर्णमासे निर् अवपत् ।
घ्नन्ति वा एनम् पूर्णमास आ

5
अमावास्यायाम् प्याययन्ति
तस्माद् वार्त्रघ्नी पूर्णमासे ऽनूच्येते वृधन्वती अमावास्यायाम् ।
तत् सꣳस्थाप्य वार्त्रघ्नꣳ हविर् वज्रम् आदाय पुनर् अभ्य् आयत
ते अब्रूतां द्यावापृथिवी
मा प्र हार् आवयोर् वै श्रित इति
ते अब्रूताम् ।
वरं वृणावहै नक्षत्रविहिताऽहम् असानीत्य् असाव् अब्रवीच् चित्रविहिताऽहम् इतीयम् ।
तस्मान् नक्षत्रविहिताऽसौ चित्रविहिते ऽयम् ।
य एवं द्यावापृथिव्योः

6
वरं वेदैनं वरो गच्छति
स आभ्याम् एव प्रसूत इन्द्रो वृत्रम् अहन्
ते देवा वृत्रꣳ हत्वाऽग्नीषोमाव् अब्रुवन्
हव्यं नो वहतम् इति
ताव् अब्रूताम्
अपतेजसौ वै त्यौ वृत्रे वै त्ययोस् तेज इति
ते ऽब्रुवन्
क इदम् अच्छैतीति
गौर् इत्य् अब्रुवन् गौर् वाव सर्वस्य मित्रम् इति
साब्रवीत् ।

7
वरं वृणै मय्य् एव सतो ऽभयेन भुनजाध्वा इति
तद् गौर् आहरत्
तस्माद् गवि सतो ऽभयेन भुञ्जते ।
एतद् वा अग्नेस् तेजो यद् घृतम्
एतत् सोमस्य यत् पयः ।
य एवम् अग्नीषोमयोस् तेजो वेद तेजस्व्य् एव भवति
ब्रह्मवादिनो वदन्ति
किंदेवत्यम् पौर्णमासम् इति
प्राजापत्यम् इति ब्रूयात्
तेनेन्द्रं ज्येष्ठम् पुत्रं निरवासाययद् इति
तस्माज् ज्येष्ठम् पुत्रं धनेन निरवसाययन्ति ॥

2.5.3 अनुवाक 3
पौर्णमास्यां वैमृध पुरोडाशः, अमावास्यायां सांनाय्यादियागः

1
इन्द्रं वृत्रं जघनिवाꣳसम् मृधो ऽभि प्रावेपन्त स एतं वैमृधम् पूणमासे ऽनुनिर्वाप्यम् अपश्यत् तं निर् अवपत् तेन वै स मृधो ऽपाहत यद् वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति मृध एव तेन यजमानो ऽप हते ।
इन्द्रो वृत्रꣳ हत्वा देवताभिश् चेन्द्रियेण च व्य् आर्ध्यत स एतम् आग्नेयम् अष्टाकपालम् अमावास्यायाम् अपश्यद् ऐन्द्रं दधि ॥

2
तं निर् अवपत् तेन वै स देवताश् चेन्द्रियं चावारुन्द्ध
यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायाम् भवत्य् ऐन्द्रं दधि देवताश् चैव तेनेन्द्रियं च यजमानो ऽव रुन्द्धे ।
इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् पृथिवीम् अनु व्य् आर्छत् तद् ओषधयो वीरुधो ऽभवन्
स प्रजापतिम् उपाधावद्
वृत्रम् मे जघ्नुष इन्द्रियं वीर्यम्

3
पृथिवीम् अनु व्य् आरत् तद् ओषधयो वीरुधो ऽभूवन् इति
तत् पशव ओषधीभ्यो ऽध्य् आत्मन्त् सम् अनयन् तत् प्रत्य् अदुहन् यत् समनयन् तत् सांनाय्यस्य सांनाय्यत्वं यत् प्रत्यदुहन् तत् प्रतिधुषः प्रतिधुक्त्वम् ।
सम् अनैषुः प्रत्य् अधुक्षन् न तु मयि श्रयत इत्य् अब्रवीद् एतद् अस्मै

4
शृतं कुरुतेत्य् अब्रवीत् तद् अस्मै शृतम् अकुर्वन्न् इन्द्रियं वावास्मिन् वीर्यं तद् अश्रयन् तच् छृतस्य शृतत्वम् ।
सम् अनैषुः प्रत्य् अधुक्षञ् छृतम् अक्रन् न तु मा धिनोतीत्य् अब्रवीद् एतद् अस्मै दधि कुरुतेत्य् अब्रवीत् तद् अस्मै दध्य् अकुर्वन् तद् एनम् अधिनोत् तद् दध्नो दधित्वम्
ब्रह्मवादिनो वदन्ति दध्नः पूर्वस्यावदेयम् ।

5
दधि हि पूर्वं क्रियत इत्य् अनादृत्य तच् छृतस्यैव पूर्वस्याव द्येद् इन्द्रियम् एवास्मिन् वीर्यꣳ श्रित्वा दध्नोपरिष्टाद् धिनोति यथापूर्वम् उपैति
यत् पूतीकैर् वा पर्णवल्कैर् वातञ्च्यात् सौम्यं तद् यत् क्वलै राक्षसं तद् यत् तण्डुलैर् वैश्वदेवं तद् यद् आतञ्चनेन मानुषं तद् यद् दध्ना तत् सेन्द्रं दध्ना ऽऽतनक्ति

6
सेन्द्रत्वाय ।
अग्निहोत्रोच्छेषणम् अभ्यातनक्ति यज्ञस्य संतत्यै ।
इन्द्रो वृत्रꣳ हत्वा पराम् परावतम् अगच्छद् अपाराधम् इति मन्यमानस् तं देवताः प्रैषम् ऐच्छन्त् सो ऽब्रवीत् प्रजापतिर् यः प्रथमो ऽनुविन्दति तस्य प्रथमम् भागधेयम् इति तम् पितरो ऽन्व् अविन्दन् तस्मात् पितृभ्यः पूर्वेद्युः क्रियते
सो ऽमावास्याम् प्रत्य् आगच्छत् तं देवा अभि सम् अगच्छन्तामा वै नः

7
अद्य वसु वसतीतीन्द्रो हि देवानां वसु तद् अमावास्याया अमावास्यत्वम्
ब्रह्मवादिनो वदन्ति किंदेवत्यꣳ सांनाय्यम् इति वैश्वदेवम् इति ब्रूयाद् विश्वे हि तद् देवा भागधेयम् अभि समगच्छन्तेत्य् अथो खल्व् ऐन्द्रम् इत्य् एव ब्रूयाद् इन्द्रं वाव ते तद् भिषज्यन्तो ऽभि सम् अगच्छन्तेति ॥

2.5.4 अनुवाक 4
भ्रातृव्यवतः पशुकामस्य च पौर्णमास्याम् अनुनिर्वाप्यौ। आग्नावैष्णवादियागविधिः।

1
ब्रह्मवादिनो वदन्ति
स त्वै दर्शपूर्णमासौ यजेत य एनौ सेन्द्रौ यजेतेति
वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति तेन पूर्णमासः सेन्द्र ऐन्द्रं दध्य् अमावास्यायां तेनामावास्या सेन्द्रा य एवं विद्वान् दर्शपूर्णमासौ यजते सेन्द्राव् एवैनौ यजते श्वःश्वो ऽस्मा ईजानाय वसीयो भवति
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एताम्

2
इष्टिम् अपश्यन् ।
आग्नावैष्णवम् एकादशकपालꣳ सरस्वत्यै चरुꣳ सरस्वते चरुं ताम् पौर्णमासꣳ सꣳस्थाप्यानु निर् अवपन् ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स पौर्णमासꣳ सꣳस्थाप्यैताम् इष्टिम् अनु निर् वपेत् पौर्णमासेनैव वज्रम् भ्रातृव्याय प्रहृत्याग्नावैष्णवेन देवताश् च यज्ञं च भ्रातृव्यस्य वृङ्क्ते
मिथुनान् पशून्त् सारस्वताभ्यां यावद् एवास्यास्ति तत्

3
सर्वं वृङ्क्ते
पौर्णमासीम् एव यजेत भ्रातृव्यवान् नामावास्याꣳ हत्वा भ्रातृव्यं नाऽऽ प्याययति
साकम्प्रस्थायीयेन यजेत पशुकामः ।
यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्य् आत्मना ददात्य् अन्यस्मै महता पूर्णꣳ होतव्यम् ।
तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयति
दारुपात्रेण जुहोति
न हि मृन्मयम् आहुतिं आनशे ।
औदुम्बरम्

4
भवत्य् ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे
नागतश्रीर् महेन्द्रं यजेत
त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्यस् तेषाम् महेन्द्रो देवता यो वै स्वां देवतां अतियजते प्र स्वायै देवतायै च्यवते न पराम् प्राप्नोति पापीयान् भवति
संवत्सरम् इन्द्रं यजेत संवत्सरꣳ हि व्रतं नाति स्वा ॥

5
एवैनं देवतेज्यमाना भूत्या इन्द्धे वसीयान् भवति
संवत्सरस्य परस्ताद् अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर् वपेत्
संवत्सरम् एवैनं वृत्रं जघ्निवाꣳसम् अग्निर् व्रतपतिर् व्रतम् आ लम्भयति
ततो ऽधि कामं यजेत ॥

2.5.5 अनुवाक 5 अभ्युदयेष्टिः, दाक्षायणयज्ञः

1
नासोमयाजी सं नयेद् अनागतं वा एतस्य पयो यो ऽसोमयाजी
यद् असोमयाजी संनयेत् परिमोष एव सो ऽनृतं करोति ।
अथो परैव सिच्यते
सोमयाज्य् एव सं नयेत् पयो वै सोमः पयः सांनाय्यम् पयसैव पय आत्मन् धत्ते
वि वा एतम् प्रजया पशुभिर् अर्धयति वर्धयत्य् अस्य भ्रातृव्यं यस्य हविर् निरुप्तम् पुरस्ताच् चन्द्रमाः ॥

2
अभ्य् उदेति
त्रेधा तण्डुलान् वि भजेद्
ये मध्यमाः स्युस् तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं कुर्याद्
ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधꣳश् चरुम् ।
ये ऽणिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम्
अग्निर् एवास्मैप्रजाम् प्रजनयति वृद्धाम् इन्द्रः प्र यच्छति
यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रति तिष्ठति
न द्वे

3
यजेत
यत् पूर्वया सम्प्रति यजेतोत्तरया छम्बट् कुर्याद्
यद् उत्तरया सम्प्रति यजेत पूर्वया छम्बट् कुर्यान् नेष्टिर् भवति न यज्ञस् तद् अनु ह्रीत मुख्यपगल्भो जायते ।
एकाम् एव यजेत प्रगल्भो ऽस्य जायते ।
अनादृत्य तद् द्वे एव यजेत
यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया देवता एव पूर्वयावरुन्द्ध इन्द्रियम् उत्तरया देवलोकम् एव

4
पूर्वयाभिजयति मनुष्यलोकम् उत्तरया
भूयसो यज्ञक्रतून् उपैति ।
एषा वै सुमना नामेष्टिर् यम् अद्येजानम् पश्चाच् चन्द्रमा अभ्य् उदेत्य् अस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति
दाक्षायणयज्ञेन सुवर्गकामो यजेत
पूर्णमासे सं नयेन् मैत्रावरुण्यामिक्षयामावास्यायां यजेत
पूर्णमासे वै देवानाꣳ सुतस् तेषाम् एतम् अर्धमासम् प्रसुतस्
तेषाम् मैत्रावरुणी वशाऽमावास्यायाम् अनूबन्ध्या यत्

5
पूर्वेद्युर् यजते वेदिम् एव तत् करोति
यद् वत्सान् अपाकरोति सदोहविर्धाने एव सम् मिनोति
यद् यजते देवैर् एव सुत्याꣳ सम् पादयति स एतम् अर्धमासꣳ सधमादं देवैः सोमम् पिबति
यन् मैत्रावरुण्यामिक्षयामावास्यायां यजते यैवासौ देवानां वशानूबन्ध्या सो एवैषैतस्य
साक्षाद् वा एष देवान् अभ्यारोहति य एषां यज्ञम्

6
अभ्यारोहति यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति
यद्य् अवविध्यति पापीयान् भवति यदि नावविध्यति सदृङ् व्यावृत्काम एतेन यज्ञेन यजेत क्षुरपविर् ह्य् एष यज्ञस् ताजक् पुण्यो वा भवति प्र वा मीयते
तस्यैतद् व्रतम् ।
नानृतं वदेन् न माꣳसम् अश्नीयान् न स्त्रियम् उपेयान् नास्य पल्पूलनेन वासः पल्पूलयेयुर् एतद् धि देवाः सर्वं न कुर्वन्ति ॥

2.5.6 अनुवाक 6 दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्

1
एष वै देवरथो यद् दर्शपूर्णमासौ
यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानाम् अव स्यति ।
एतानि वा अङ्गापरूꣳषि संवत्सरस्य यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते ऽङ्गापरूꣳष्य् एव संवत्सरस्य प्रति दधाति ।
एते वै संवत्सरस्य चक्षुषी यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते ताभ्याम् एव सुवर्गं लोकम् अनु पश्यति ॥

2
एषा वै देवानां विक्रान्तिर् यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते देवानाम् एव विक्रान्तिम् अनु वि क्रमते ।
एष वै देवयानः पन्था यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते य एव देवयानः पन्थास् तꣳ समारोहति ।
एतौ वै देवानाꣳ हरी यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते याव् एव देवानाꣳ हरी ताभ्याम्

3
एवैभ्यो हव्यं वहति ।
एतद् वै देवानाम् आस्यं यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते साक्षाद् एव देवानाम् आस्ये जुहोति ।
एष वै हविर्धानी यो दर्शपूर्णमासयाजी
सायम्प्रातर् अग्निहोत्रं जुहोति यजते दर्शपूर्णमासाव् अहरहर् हविर्धानिनाꣳ सुतः ।
य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति
देवा वा अहः

4
यज्ञियं नाविन्दन् ते दर्शपूर्णमासाव् अपुनन्
तौ वा एतौ पूतौ मेध्यौ यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते पूताव् एवैनौ मेध्यौ यजते
नामावास्यायां च पौर्णमास्यां च स्त्रियम् उपेयात् ।
यद् उपेयान् निरिन्द्रियः स्यात्
सोमस्य वै राज्ञो ऽर्धमासस्य रात्रयः पत्नय आसन्
तासाम् अमावास्यां च पौर्णमासीं च नोपैत् ॥

5
ते एनम् अभि समनह्येताम् ।
तं यक्ष्म आर्छत् ।
राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म
यत् पापीयान् अभवत् तत् पापयक्ष्मस्य
यज् जायाभ्याम् अविन्दत् तज् जायेन्यस्य
य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति
स एते एव नमस्यन्न् उपाधावत्
ते अब्रूताम् ।
वरं वृणावहा आवं देवानाम् भागधे असाव

6
आवद् अधि देवा इज्यान्ता इति
तस्मात् सदृशीनाꣳ रात्रीणाम् अमावास्यायां च पौर्णमास्यां च देवा इज्यन्ते ।
एते हि देवानाम् भागधे
भागधा अस्मै मनुष्या भवन्ति य एवं वेद
भूतानि क्षुधम् अघ्नन्त् सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवत्सरे वनस्पतयस्
तस्माद् अहरहर् मनुष्या अशनम् इच्छन्ते ऽर्धमासे देवा इज्यन्ते मासि पितृभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति
य एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ॥

2.5.7 अनुवाक 7 सामिधेनी मन्त्रव्याख्यानम्

1
देवा वै नर्चि न यजुष्य् अश्रयन्त
ते सामन्न् एवाश्रयन्त
हिं करोति सामैवाकर्
हिं करोति यत्रैव देवा अश्रयन्त तत एवैनान् प्र युङ्क्ते
हिं करोति वाच एवैष योगः ।
हिं करोति प्रजा एव तद् यजमानः सृजते
त्रिः प्रथमाम् अन्व् आह त्रिर् उत्तमाम् ।
यज्ञस्यैव तद् बर्सम्

2
नह्यत्य् अप्रस्रꣳसाय
संततम् अन्व् आह प्राणानाम् अन्नाद्यस्य संतत्यै ।
अथो रक्षसाम् अपहत्यै
राथंतरीम् प्रथमाम् अन्व् आह
राथंतरो वा अयं लोकः ।
इमम् एव लोकम् अभि जयति
त्रिर् वि गृह्णाति
त्रय इमे लोकाः ।
इमान् एव लोकान् अभि जयति
बार्हतीम् उत्तमाम् अन्व् आह
बार्हतो वा असौ लोकः ।
अमुम् एव लोकम् अभि जयति
प्र वः

3
वाजा इत्य् अनिरुक्ताम् प्राजापत्याम् अन्व् आह
यज्ञो वै प्रजापतिः ।
यज्ञम् एव प्रजापतिम् आ रभते
प्र वो वाजा इत्य् अन्व् आह ।
अन्नं वै वाजः ।
अन्नम् एवाव रुन्द्धे
प्र वो वाजा इत्य् अन्व् आह
तस्मात् प्राचीनꣳ रेतो धीयते ।
अग्न आ याहि वीतय इत्य् आह
तस्मात् प्रतीचीः प्रजा जायन्ते
प्र वो वाजाः

4
इत्य् अन्व् आह
मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर् घृताची यज्ञो देवाञ् जिगाति यजमानः सुम्नयुः ।
इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामाव रुन्द्धे
यं कामयेत
सर्वम् आयुर् इयाद् इति प्र वो वाजा इति तस्यानूच्याग्न आ याहि वीतय इति सं ततम् उत्तरम् अर्धर्चम् आ लभेत ॥

5
प्राणेनैवास्यापानं दधार सर्वम् आयुर् एति
यो वा अरत्निꣳ सामिधेनीनां वेदारत्नाव् एव भ्रातृव्यं कुरुते ।
अर्धर्चौ सं दधाति ।
एष वा अरत्निः सामिधेनीनाम् ।
य एवं वेदारत्नाव् एव भ्रातृव्यं कुरुते ।
ऋषेर्ऋषेर् वा एता निर्मिता यत् सामिधेन्यस्
ता यद् असंयुक्ताः स्युः प्रजया पशुभिर् यजमानस्य वि तिष्ठेरन् ।
अर्धर्चौ संदधाति
सं युनक्त्य् एवैनास्
ता अस्मै संयुक्ता अवरुद्धाः सर्वाम् आशिषं दुह्रे ॥

2.5.8 अनुवाक 8 सामिधेनी मन्त्रव्याख्यानम्

1
अयज्ञो वा एष यो ऽसामा ।
अग्न आ याहि वीतय इत्य् आह राथंतरस्यैष वर्णस्
तं त्वा समिद्भिर् अङ्गिर इत्य् आह वामदेव्यस्यैष वर्णः ।
बृहद् अग्ने सुवीर्यम् इत्य् आह बृहत एष वर्णः ।
यद् एतं तृचम् अन्वाह यज्ञम् एव तत् सामन्वन्तं करोति ।
अग्निर् अमुष्मिम्̐ लोक आसीद् आदित्यो ऽस्मिन्
ताव् इमौ लोकाव् अशान्तौ

2
आस्ताम् ।
ते देवा अब्रुवन् ।
एतेमौ वि पर्य् ऊहामेति ।
अग्न आ याहि वीतय इत्य् अस्मिम्̐ लोके ऽग्निम् अदधुर् बृहद् अग्ने सुवीर्यम् इत्य् अमुष्मिम्̐ लोक आदित्यम् ।
ततो वा इमौ लोकाव् अशाम्यताम् ।
यद् एवम् अन्वाहानयोर् लोकयोः शान्त्यै
शाम्यतो ऽस्मा इमौ लोकौ य एवं वेद
पञ्चदश सामिधेनीर् अन्व् आह
पञ्चदश

3
वा अर्धमासस्य रात्रयः ।
अर्धमासशः संवत्सर आप्यते
तासां त्रीणि च शतानि षष्टिश् चाक्षराणि
तावतीः संवत्सरस्य रात्रयः ।
अक्षरश एव संवत्सरम् आप्नोति
नृमेधश् च परुच्छेपश् च ब्रह्मवाद्यम् अवदेताम्
अस्मिन् दाराव् आर्द्रे ऽग्निं जनयाव यतरो नौ ब्रह्मीयान् इति
नृमेधो ऽभ्य् अवदत् स धूमम् अजनयत्
परुच्छेपो ऽभ्य् अवदत् सो ऽग्निम् अजनयत् ।
ऋष इत्य् अब्रवीत् ॥

4
यत् समावद् विद्व कथा त्वम् अग्निम् अजीजनो नाहम् इति
सामिधेनीनाम् एवाहं वर्णं वेदेत्य् अब्रवीत् ।
यद् घृतवत् पदम् अनूच्यते स आसां वर्णस्
तं त्वा समिद्भिर् अङ्गिर इत्य् आह सामिधेनीष्व् एव तज् ज्योतिर् जनयति
स्त्रियस् तेन यद् ऋच स्त्रियस् तेन यद् गायत्रिय स्त्रियस् तेन यत् सामिधेन्यः ।
वृषण्वतीम् अन्व् आह ॥

5
तेन पुꣳस्वतीस् तेन सेन्द्रास् तेन मिथुनाः ।
अग्निर् देवानां दूत आसीद् उशना काव्यो ऽसुराणाम् ।
तौ प्रजापतिम् प्रश्नम् ऐताम्
स प्रजापतिर् अग्निं दूतं वृणीमह इत्य् अभि पर्यावर्तत
ततो देवा अभवन् परासुराः ।
यस्यैवं विदुषो ऽग्निं दूतं वृणीमह इत्य् अन्वाह भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
अध्वरवतीम् अन्व् आह
भ्रातृव्यम् एवैतया

6
ध्वरति
शोचिष्केशस् तम् ईमह इत्य् आह
पवित्रम् एवैतत् ।
यजमानम् एवैतया पवयति
समिद्धो अग्न आहुतेत्य् आह
परिधिम् एवैतम् परि दधात्य् अस्कन्दाय
यद् अत ऊर्ध्वम् अभ्यादध्याद् यथा बहिःपरिधि स्कन्दति तादृग् एव तत्
त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाꣳ सहरक्षा असुराणाम् ।
त एतर्ह्य् आ शꣳसन्ते
मां वरिष्यते माम्

7
इति
वृणीध्वꣳ हव्यवाहनम् इत्य् आह
य एव देवानां तं वृणीते ।
आर्षेयं वृणीते
बन्धोर् एव नैति ।
अथो संतत्यै
परस्ताद् अर्वाचो वृणीते
तस्मात् परस्ताद् अर्वाञ्चो मनुष्यान् पितरो ऽनु प्र पिपते ॥

2.5.9 अनुवाक 9
प्रवरादिमन्त्रव्याख्यानम्

1
अग्ने महाꣳ असीत्य् आह महान् ह्य् एष यद् अग्निः ।
ब्राह्मणेत्य् आह ब्राह्मणो ह्य् एष
भारतेत्य् आहैष हि देवेभ्यो हव्यम् भरति
देवेद्ध इत्य् आह देवा ह्य् एतम् ऐन्धत
मन्विद्ध इत्य् आह मनुर् ह्य् एतम् उत्तरो देवेभ्य ऐन्द्ध ।
ऋषिष्टुत इत्य् आहर्षयो ह्य् एतम् अस्तुवन्
विप्रानुमदित इत्य् आह ।

2
विप्रा ह्य् एते यच् छुश्रुवाꣳसः
कविशस्त इत्य् आह कवयो ह्य् एते यच् छुश्रुवाꣳसः ।
ब्रह्मसꣳशित इत्य् आह ब्रह्मसꣳशितो ह्य् एष
घृताहवन इत्य् आह घृताहुतिर् ह्य् अस्य प्रियतमा
प्रणीर् यज्ञानाम् इत्य् आह प्रणीर् ह्य् एष यज्ञानाम् ।
रथीर् अध्वराणाम् इत्य् आहैष हि देवरथः ।
अतूर्तो होतेत्य् आह न ह्य् एतं कश् चन

3
तरति
तूर्णिर् हव्यवाड् इत्य् आह
सर्वꣳ ह्य् एष तरति ।
आस्पात्रं जुहूर् देवानाम् इत्य् आह जुहूर् ह्य् एष देवानाम् ।
चमसो देवपान इत्य् आह चमसो ह्य् एष देवपानः ।
अराꣳ इवाग्ने नेमिर् देवाꣳस् त्वम् परिभूर् असीत्य् आह देवान् ह्य् एष परिभूः ।
यद् ब्रूयात् ।
आ वह देवान् देवयते यजमानायेति भ्रातृव्यम् अस्मै

4
जनयेत् ।
आ वह देवान् यजमानायेत्य् आह यजमानम् एवैतेन वर्धयति ।
अग्निम् अग्न आ वह सोमम् आ वहेत्य् आह देवता एव तद् यथापूर्वम् उप ह्वयते ।
आ चाग्ने देवान् वह सुयजा च यज जातवेद इत्य् आह ।
अग्निम् एव तत् सꣳ श्यति
सो ऽस्य सꣳशितो देवेभ्यो हव्यं वहति ।
अग्निर् होता

5
इत्य् आह ।
अग्निर् वै देवानाꣳ होता
य एव देवानाꣳ होता तं वृणीते
स्मो वयम् इत्य् आहात्मानम् एव सत्त्वं गमयति
साधु ते यजमान देवतेत्य् आहाशिषम् एवैताम् आ शास्ते
यद् ब्रूयात् ।
यो ऽग्निꣳ होतारम् अवृथा इत्य् अग्निनोभयतो यजमानम् परि गृह्णीयात्
प्रमायुकः स्यात् ।
यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्यो उपभृत्

जुहू - स्रुवा


6
यद् द्वे इव ब्रूयाद् भ्रातृव्यम् अस्मै जनयेत् ।
घृतवतीम् अध्वर्यो स्रुचम् आऽस्यस्वेत्य् आह यजमानम् एवैतेन वर्धयति
देवायुवम् इत्य् आह देवान् ह्य् एषावति
विश्ववाराम् इत्य् आह विश्वꣳ ह्य् एषावति ।
ईडामहै देवाꣳ ईडेन्यान् नमस्याम वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः ।
देवता एव तद् यथाभागं यजति ॥

2.5.10 अनुवाक 10 नैमित्तिकीनां काम्यानां च सामिधेनीनां विधानम्

1
त्रीꣳस् तृचान् अनु ब्रूयाद् राजन्यस्य
त्रयो वा अन्ये राजन्यात् पुरुषा ब्राह्मणो वैश्यः शूद्रस् तान् एवास्मा अनुकान् करोति
पञ्चदशानु ब्रूयाद् राजन्यस्य
पञ्चदशो वै राजन्यः
स्व एवैनꣳ स्तोमे प्रति ष्ठापयति
त्रिष्टुभा परि दध्यात् ।
इन्द्रियं वै त्रिष्टुग्
इन्द्रियकामः खलु वै राजन्यो यजते
त्रिष्टुभैवास्मा इन्द्रियम् परि गृह्णाति
यदि कामयेत

2
ब्रह्मवर्चसम् अस्त्व् इति गायत्रिया परि दध्यात् ।
ब्रह्मवर्चसं वै गायत्री
ब्रह्मवर्चसम् एव भवति
सप्तदशानु ब्रूयाद् वैश्यस्य
सप्तदशो वै वैश्यः
स्व एवैनꣳ स्तोमे प्रति ष्ठापयति
जगत्या परि दध्यात् ।
जागता वै पशवः
पशुकामः खलु वै वैश्यो यजते
जगत्यैवास्मै पशून् परि गृह्णाति ।
एकविꣳशतिम् अनु ब्रूयात् प्रतिष्ठाकामस्य ।
एकविꣳश स्तोमानाम् प्रतिष्ठा
प्रतिष्ठित्यै ।

3
चतुर्विꣳशतिम् अनु ब्रूयाद् ब्रह्मवर्चसकामस्य
चतुर्विꣳशत्यक्षरा गायत्री
गायत्री ब्रह्मवर्चसम् ।
गायत्रियैवास्मै ब्रह्मवर्चसम् अव रुन्द्धे
त्रिꣳशतम् अनु ब्रूयाद् अन्नकामस्य
त्रिꣳशदक्षरा विराड्
अन्नं विराड्
विराजैवास्मा अन्नाद्यम् अव रुन्द्धे
द्वात्रिꣳशतम् अनुब्रूयात् प्रतिष्ठाकामस्य
द्वात्रिꣳशदक्षरानुष्टुग्
अनुष्टुप् छन्दसाम् प्रतिष्ठा
प्रतिष्ठित्यै
षट्त्रिꣳशतम् अनु ब्रूयात् पशुकामस्य
षट्त्रिꣳशदक्षरा बृहती
बार्हताः पशवः ।
बृहत्यैवास्मै पशून्

4
अव रुन्द्धे
चतुश्चत्वारिꣳशतम् अनु ब्रूयाद् इन्द्रियकामस्य
चतुश्चत्वारिꣳशदक्षरा त्रिष्टुग्
इन्द्रियं त्रिष्टुप्
त्रिष्टुभैवास्मा इन्द्रियम् अव रुन्द्धे ।
अष्टाचत्वारिꣳशतम् अनु ब्रूयात् पशुकामस्य ।
अष्टाचत्वरिꣳशदक्षरा जगती
जागताः पशवः ।
जगत्यैवास्मै पशून् अव रुन्द्धे
सर्वाणि छन्दाꣳस्य् अनु ब्रूयाद् बहुयाजिनः
सर्वाणि वा एतस्य छन्दाꣳस्य् अवरुन्द्धानि यो बहुयाजी ।
अपरिमितम् अनु ब्रूयात् ।
अपरिमितस्यावरुद्ध्यै ॥

2.5.11 अनुवाक 11
सामिधेनीषु होतुर्नियमविशेषः

1
निवीतम् मनुष्याणाम्
प्राचीनावीतम् पितृणाम्
उपवीतं देवानाम्
उप व्ययते
देवलक्ष्मम् एव तत् कुरुते
तिष्ठन्न् अन्व् आह
तिष्ठन् ह्य् आश्रुततरं वदति
तिष्ठन्न् अन्व् आह
सुवर्गस्य लोकस्याभिजित्यै ।
आसीनो यजति ।
अस्मिन्न् एव लोके प्रति तिष्ठति
यत् क्रौञ्चम् अन्वाहाऽऽसुरं तत् ।
यन् मन्द्रम् मानुषं तत् ।
यद् अन्तरा तत् सदेवम्
अन्तरानूच्यम् ।
सदेवत्वाय
विद्वाꣳसो वै

2
पुरा होतारो ऽभूवन्
तस्माद् विधृता अध्वानो ऽभूवन् न पन्थानः सम् अरुक्षन् ।
अन्तर्वेद्य् अन्यः पादो भवति बहिर्वेद्य् अन्यः ।
अथान्व् आह ।
अध्वनां विधृत्यै पथाम् असꣳरोहाय ।
अथो भूतं चैव भविष्यच् चाव रुन्द्धे ।
अथो परिमितं चैवापरिमितं चाव रुन्द्धे ।
अथो ग्राम्याꣳश् चैव पशून् आरण्याꣳश् चाव रुन्द्धे ।
अथो

3
देवलोकं चैव मनुष्यलोकं चाभि जयति
देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन् ।
स प्रजापतिस् तूष्णीम् आघारम् आघारयत्
ततो वै देवा यज्ञम् अन्व् अपश्यन्
यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै ।
अथो सामिधेनीर् एवाभ्य् अनक्ति ।
अलूक्षो भवति य एवं वेद ।
अथो तर्पयत्य् एवैनास्
तृप्यति प्रजया पशुभिः

4
य एवं वेद
यद् एकयाघारयेद् एकाम् प्रीणीयात् ।
यद् द्वाभ्यां द्वे प्रीणीयात् ।
यत् तिसृभिर् अति तद् रेचयेत् ।
मनसा घारयति मनसा ह्य् अनाप्तम् आप्यते
तिर्यञ्चम् आ घारयत्य् अच्छम्बट्कारम् ।
वाक् च मनश् चार्तीयेताम्
अहं देवेभ्यो हव्यं वहामीति वाग् अब्रवीद् अहं देवेभ्य इति मनस्
तौ प्रजापतिम् प्रश्नम् ऐताम् ।
सो ऽब्रवीत्

5
प्रजापतिः ।
दूतीर् एव त्वम् मनसो ऽसि यद् धि मनसा ध्यायति तद् वाचा वदतीति
तत् खलु तुभ्यं न वाचा जुहवन्न् इत्य् अब्रवीत्
तस्मान् मनसा प्रजापतये जुह्वति
मन इव हि प्रजापतिः
प्रजापतेर् आप्त्यै
परिधीन्त् सम् मार्ष्टि
पुनात्य् एवैनान्
त्रिर् मध्यमं त्रयो वै प्राणाः

6
इमे लोका इमान् एव लोकान् अभि जयति
त्रिर् उत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस् तान् एवाभि जयति
त्रिर् उप वाजयति त्रयो वै देवलोका देवलोकान् एवाभि जयति
द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः
संवत्सरम् एव प्रीणाति ।
अथो संवत्सरम् एवास्मा उप दधाति
सुवर्गस्य लोकस्य समष्ट्यै ।
आघारम् आ घारयति
तिर इव

7
वै सुवर्गो लोकः
सुवर्गम् एवास्मै लोकम् प्र रोचयति ।
ऋजुम् आ घारयत्य् ऋजुर् इव हि प्राणः
संततम् आ घारयति प्राणानाम् अन्नाद्यस्य संतत्यै ।
अथो रक्षसाम् अपहत्यै
यं कामयेत
प्रमायुकः स्याद् इति जिह्मं तस्याऽऽ घारयेत्
प्राणम् एवास्माज् जिह्मं नयति
ताजक् प्र मीयते
शिरो वा एतद् यज्ञस्य यद् आघार आत्मा ध्रुवा

8
आघारम् आघार्य ध्रुवाꣳ सम् अनक्ति ।
आत्मन्न् एव यज्ञस्य शिरः प्रति दधाति ।
अग्निर् देवानां दूत आसीद् दैव्यो ऽसुराणाम् ।
तौ प्रजापतिम् प्रश्नम् ऐताम् ।
स प्रजापतिर् ब्राह्मणम् अब्रवीत् ।
एतद् वि ब्रूहीति ।
आ श्रावयेतीदं देवाः शृणुतेति वाव तद् अब्रवीद् अग्निर् देवो होतेति
य एव देवानां तम् अवृणीत
ततो देवाः

9
अभवन् परासुराः ।
यस्यैवं विदुषः प्रवरम् प्रवृणते भवत्य् आत्मना परास्य भ्रातृव्यो भवति
यद् ब्राह्मणश् चाब्राह्मणश् च प्रश्नम् एयाताम् ब्राह्मणायाधि ब्रूयात् ।
यद् ब्राह्मणायाध्याहाऽऽत्मने ऽध्य् आह
यद् ब्राह्मणम् पराहाऽऽत्मनम् पराऽऽह
तस्माद् ब्राह्मणो न परोच्यः ॥

2.5.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः

1
आयुष् टे ।
आयुर्दा अग्ने ।
आ प्यायस्व
सं ते ।
अव ते हेडः ।
उद् उत्तमम्
प्र णो देवी ।
आ नो दिवः ।
अग्नाविष्णू
अग्नाविष्णू
इमं मे वरुण
तत् त्वा यामि ।
उद् उ त्यम् ।
चित्रम्
अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः । तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः
सम्

2
अन्या यन्त्य् उप यन्त्य् अन्याः समानमूर्वं नद्यः पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसम् अपां नपातम् परि तस्थुर् आपः ॥
तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । स शुक्रेण शिक्वना रेवद् अग्निर् दीदायानिध्मो घृतनिर्णिग् अप्सु ॥
इन्द्रावरुणयोर् अहꣳ सम्राजोर् अव आ वृणे । ता नो मृडात ईदृशे ॥
इन्द्रावरुणा युवम् अध्वराय नः

3
विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
आ नो मित्रावरुणा
प्र बाहवा
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्य् अस्मत्
स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणम्

4
रराणो वीहि मृडीकꣳ सुहवो न एधि
प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः
प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ।

5
वि पाजसा
वि ज्योतिषा
स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । उरुक्षयेषु दीद्यत्
तꣳ सुप्रतीकꣳ सुदृशꣳ स्वञ्चम् अविद्वाꣳसो विदुष्टरꣳ सपेम । स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥
अꣳहोमुचे
विवेष यन् मा
वि न इन्द्र ।
इन्द्र क्षत्रम्
इन्द्रियाणि शतक्रतो
अनु ते दायि ॥


  1. तु. माश २.४.४