तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः १०

विकिस्रोतः तः
Jump to navigation Jump to search

3.10.1 सावित्रचयनम्

संज्ञानं विज्ञानं प्रज्ञानं जानदभिजानत् । संकल्पमानं प्रकल्पमानमुपकल्पमानमुपक्ळृप्तं क्ळृप्तम् । श्रेयो वसीय आयत्सम्भूतं भूतम् । चित्रः केतुः प्रभानाभान्त्संभान् । ज्योतिष्माँस्तेजस्वानातपँस्तपन्नभितपन् । रोचनो रोचमानः शोभनः शोभमानः कल्याणः । दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना । आप्यायमाना प्यायमाना प्याया सूनृतेरा । आपूर्यमाणा पूर्यमाणा पूरयन्ती पूर्णा पौर्णमासी ।दाता प्रदातानन्दो मोदः प्रमोदः १

आवेशयन्निवेशयन्त्संवेशनः सँ शान्तः शान्तः । आभवन्प्रभवन्त्संभवन्त्संभूतो भूतः । प्रस्तुतं विष्टुतँ सँस्तुतं कल्याणं विश्वरूपम् । शुक्रममृतं तेजस्वि तेजः समिद्धम् । अरुणं भानुमन्मरीचिमदभितपत्तपस्वत् । सविता प्रसविता दीप्तो दीपयन्दीप्यमानः । ज्वलञ्ज्वलिता तपन्वितपन्त्संतपन् । रोचनो रोचमानः शुम्भूः शुम्भमानो वामः । सुता सुन्वती प्रसुता सूयमानाभिषूयमाणा । पीती प्रपा संपा तृप्तिस्तर्पयन्ती २

कान्ता काम्या कामजातायुष्मती कामदुघा । अभिशास्तानुमन्तानन्दो मोदः प्रमोदः । आसादयन्निषादयन्त्सँ सादनः सँसन्नः सन्नः । आभूर्विभूः प्रभूः शम्भूर्भुवः । पवित्रं पवयिष्यन्पूतो मेध्यः । यशो यशस्वानायुरमृतः । जीवो जीविष्यन्त्स्वर्गो लोकः । सहस्वान्त्सहीयानोजस्वान्त्सहमानः । जयन्नभिजयन्त्सुद्रविणो द्रविणोदाः । आर्द्र पवित्रो हरिकेशो मोदः प्रमोदः ३

अरुणोऽरुणरजाः पुण्डरीको विश्वजिदभिजित् । आर्द्रः पिन्वमानोऽन्नवान्रसवानिरावान् । सर्वौषधः सम्भरो महस्वान् । एजत्का जोवत्काः । क्षुल्लकाः शिपिविष्टकाः । सरिस्रराः सुशेरवः । अजिरासो गमिष्णवः । इदानीं तदानीमेतर्हि क्षिप्रमजिरम् । आशुर्निमेषः फणो द्रवन्नतिद्रवन् । त्वरँस्त्वरमाण आशुराशीयाञ्जवः । अग्निष्टोम उक्थ्योऽतिरात्रो द्विरात्रस्त्रिरात्रश्चतूरात्रः । अग्निर्ऋतुः सूर्य ऋतुश्चन्द्रमा ऋतुः । प्रजापतिः संवत्सरो महान्कः ४

३.१०.२

भूरग्निं च पृथिवीं च मां च । त्रीँश्च लोकान्त्संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । भुवो वायुं चान्तरिक्षं च मां च । त्रीँश्च लोकान्त्संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । स्वरादित्यं च दिवं च मां च । त्रीँश्च लोकान्त्संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । भूर्भुवः स्वश्चन्द्रमसं च दिशश्च मां च । त्रीँश्च लोकान्त्संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ५

३.१०.३

त्वमेव त्वां वेत्थ योऽसि सोऽसि । त्वमेव त्वामचैषीः । चितश्चासि संचितश्चास्यग्ने । एतावाँश्चासि भूयाँश्चास्यग्ने । यत्ते अग्ने न्यूनं यदु तेऽतिरिक्तम् । आदित्यास्तदङ्गिरसश्चिन्वन्तु । विश्वे ते देवाश्चितिमापूरयन्तु । चितश्चासि संचितश्चास्यग्ने । एतावाँश्चासि भूयाँश्चास्यग्ने । मा ते अग्नेऽचयेन मातिचयेनायुरावृक्षि । सर्वेषां ज्योतिषां ज्योतिर्यददावुदेति । तपसो जातमनिभृष्टमोजः । तत्ते ज्योतिरिष्टके । तेन मे तप । तेन मे ज्वल । तेन मे दीदिहि । यावद्देवाः । यावदसाति सूर्यः । यावदुतापि ब्रह्म ६

३.१०.४

संवत्सरोऽसि परिवत्सरोऽसि । इदावत्सरोऽसीदुवत्सरोऽसि । इद्वत्सरोऽसि वत्सरोऽसि । तस्य ते वसन्तः शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् ७

अहोरात्राणीष्टकाः । ऋषभोऽसि स्वर्गो लोकः । यस्यां दिशि महीयसे । ततो नो मह आवह । वायुर्भूत्वा सर्वा दिश आवाहि । सर्वा दिशोऽनुविवाहि । सर्वा दिशोऽनुसंवाहि । चित्त्या चितिमापृण । अचित्त्या चितिमापृण । चिदसि समुद्रयोनिः ८

इन्दुर्दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युः । महान्त्सधस्थे ध्रुव आनिषत्तः । नमस्ते अस्तु मा मा हिँ सीः । एति प्रेति वीति समित्युदिति । दिवं मे यच्छ । अन्तरिक्षं मे यच्छ । पृथिवीं मे यच्छ । पृथिवीं मे यच्छ । अन्तरिक्षं मे यच्छ । दिवं मे यच्छ । अह्ना प्रसारय । रात्र्या समच । रात्र्या प्रसारय अह्ना समच । कामं प्रसारय । कामँ समच ९

३.१०.५

भूर्भुवः स्वः । ओजो बलम् । ब्रह्म क्षत्रम् । यशो महत् । सत्यं तपो नाम । रूपममृतम् । चक्षुः श्रोत्रम् । मन आयुः । विश्वं यशो महः । समं तपो हरो भाः । जातवेदा यदि वा पावकोऽसि । वैश्वानरो यदि वा वैद्युतोऽसि । शं प्रजाभ्यो यजमानाय लोकम् । ऊर्जं पुष्टिं दददभ्याववृत्स्व १०

३.१०.६

राज्ञी विराज्ञी ।सम्राज्ञी स्वराज्ञी ।अर्चिः शोचिः । तपो हरो भाः । अग्निरिन्द्रो बृहस्पतिः । विश्वे देवा भुवनस्य गोपाः । ते मा सर्वे यशसा सँ सृजन्तु ११

३.१०.७

असवे स्वाहा । वसवे स्वाहा । विभुवे स्वाहा । विवस्वते स्वाहा । अभिभुवे स्वाहाधिपतये स्वाहा । दिवां पतये स्वाहाँहस्पत्याय स्वाहा । चाक्षुष्मत्याय स्वाहा ज्योतिष्मत्याय स्वाहा । राज्ञे स्वाहा विराज्ञे स्वाहा । संराज्ञे स्वाहा । स्वराज्ञे स्वाहा । शूषाय स्वाहा सूर्याय स्वाहा । चन्द्रमसे स्वाहा ज्योतिषे स्वाहा । सँ सर्पाय स्वाहा । कल्याणाय स्वाहा । अर्जुनाय स्वाहा १२

३.१०.८

विपश्चिते पवमानाय गायत । मही न धारात्यन्धो अर्षति । अहिर्ह जीर्णामतिसर्पति त्वचम् । अत्यो न क्रीडन्नसरद्वृषा हरिः । उपयामगृहीतोऽसि मृत्यवे त्वा जुष्टं गृह्णामि । एष ते योनिर्मृत्यवे त्वा । अप मृत्युमप क्षुधम् । अपेतः शपथं जहि । अधा नो अग्न आवह । रायस्पोषँ सहस्रिणम् १३

ये ते सहस्रमयुतं पाशाः । मृत्यो मर्त्याय हन्तवे । तान्यज्ञस्य मायया । सर्वानवयजामहे । भक्षोऽस्यमृतभक्षः । तस्य ते मृत्युपीतस्यामृतवतः । स्वगाकृतस्य मधुमतः । उपहूतस्योपहूतो भक्षयामि । मन्द्राऽभिभूतिः केतु-र्यज्ञानां वाक् । असावेहि १४
अन्धो जागृविः प्राण । असावेहि । बधिर आक्रन्दयितरपान । असावेहि । अहस्तोऽस्त्वा चक्षुः । असावेहि । अपादाशो मनः । असावेहि । कवे विप्रचित्ते श्रोत्र । असावेहि १५

सुहस्तः सुवासाः । शूषो नामास्यमृतो मर्त्येषु । तं त्वाहं तथा वेद । असावेहि । अग्निर्मे वाचि श्रितः । वाग्घृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । वायुर्मे प्राणे श्रितः १६

प्राणो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । सूर्यो मे चक्षुषि श्रितः । चक्षुर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । चन्द्रमा मे मनसि श्रितः १७

मनो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । दिशो मे श्रोत्रे श्रिताः । श्रोत्रँ हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । आपो मे रेतसि श्रिताः १८

रेतो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पृथिवी मे शरीरे श्रिता । शरीरँ हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । ओषधिवनस्पतयो मे लोमसु श्रिताः १९

लोमानि हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । इन्द्रो मे बले श्रितः । बलँ हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पर्जन्यो मे मूर्ध्नि श्रितः २०

मूर्धा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । ईशानो मे मन्यौ श्रितः । मन्युर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । आत्मा म आत्मनि श्रितः २१

आत्मा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पुनर्म आत्मा पुनरायुरागात् । पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानः । अन्तस्तिष्ठत्वमृतस्य गोपाः २२

३.१०.९

प्रजापतिर्देवानसृजत । ते पाप्मना संदिता अजायन्त । तान्व्यद्यत् । यद्व्यद्यत् । तस्माद्विद्युत् । तमवृश्चत् । यदवृश्चत् । तस्माद्वृष्टिः । तस्माद्यत्रैते देवते अभिप्राप्नुतः । वि च हैवास्य तत्र पाप्मानं द्यतः २३

वृश्चतश्च । सैषा मीमाँसाग्निहोत्र एव संपन्ना । अथो आहुः । सर्वेषु यज्ञक्रतुष्विति । होष्यन्नप उपस्पृशेत् । विद्युदसि विद्य मे पाप्मानमिति । अथ हुत्वोपस्पृशेत् । वृष्टिरसि वृश्च मे पाप्मानमिति । यक्ष्यमाणो वेष्ट्वा वा । वि च हैवास्यैते देवते पाप्मानं द्यतः २४

वृश्चतश्च । अत्यँहो हारुणिः । ब्रह्मचारिणे प्रश्नान्प्रोच्य प्रजिघाय । परेहि । प्लक्षं दैयाम्पातिं पृच्छ । वेत्थ सावित्रा३न्न वेत्था३ इति । तमागत्य पप्रच्छ । आचार्यो मा प्रा हैषीत् । वेत्थ सावित्रा३न्न वेत्था३ इति । स होवाच वेदेति २५

स कस्मिन्प्रतिष्ठित इति । परोरजसीति । कस्तद्यत्परोरजा इति । एष वाव स परोरजा इति होवाच । य एष तपति । एषोऽर्वाग्रजा इति । स कस्मिन्त्वेष इति । सत्य इति । किं तत्सत्यमिति । तप इति २६

कस्मिन्नु तप इति । बल इति । किं तद्बलमिति । प्राण इति । मा स्म प्राणमतिपृच्छ इति माचार्योऽब्रवीदिति होवाच ब्रह्मचारी ।स होवाच प्लक्षो दैयाम्पातिः । यद्वै ब्रह्मचारिन्प्राणमत्यप्रक्ष्यः । मूर्धा ते व्यपतिष्यत् । अहमु त आचार्याच्छ्रेयान्भविष्यामि । यो मा सावित्रे समवादिष्टेति २७

तस्मात्सावित्रे न संवदेत । स यो ह वै सावित्रं विदुषा सावित्रे संवदते । सहास्मिञ्श्रियं दधाति । अनु ह वा अस्मा असौ तपञ्श्रियं मन्यते । अन्वस्मै श्रीस्तपो मन्यते । अन्वस्मै तपो बलं मन्यते । अन्वस्मै बलं प्राणं मन्यते । स यदाह । संज्ञानं विज्ञानं दर्शा दृष्टेति । एष एव तत् २८
अथ यदाह । प्रस्तुतं विष्टुतँ सुता सुन्वतीति । एष एव तत् । एष ह्येव तान्यहानि । एष रात्रयः । अथ यदाह । चित्रः केतुर्दाता प्रदाता सविता प्रसविताभिशास्तानुमन्तेति । एष एव तत् । एष ह्येव तेऽह्नो मुहूर्ताः । एष रात्रेः २९

अथ यदाह । पवित्रं पवयिष्यन्त्सहस्वान्त्सहीयानरुणोऽरुणरजा इति । एष एव तत् । एष ह्येव तेऽर्धमासाः । एष मासाः । अथ यदाह । अग्निष्टोम उक्थ्योऽग्निर्ऋतुः प्रजापतिः संवत्सर इति । एष एव तत् । एष ह्येव ते यज्ञक्रतवः । एष ऋतवः ३०

एष संवत्सरः । अथ यदाह । इदानीं तदानीमिति । एष एव तत् । एष ह्येव ते मुहूर्तानां मुहूर्ताः । जनको ह वैदेहः । अहोरात्रैः समाजगाम । तँ होचुः । यो वा अस्मान्वेद । विजहत्पाप्मानमेति ३१

सर्वमायुरेति । अभि स्वर्गं लोकं जयति । नास्यामुष्मिँल्लोकेऽन्नं क्षीयत इति । विजहद्ध वै पाप्मानमेति । सर्वमायुरेति । अभि स्वर्गं लोकं जयति । नास्यामुष्मिँल्लोकेऽन्नं क्षीयते । य एवं वेद । अहीना हाश्वत्थ्यः । सावित्रं विदांचकार ३२

स ह हँसो हिरण्मयो भूत्वा । स्वर्गं लोकमियाय । आदित्यस्य सायुज्यम् । हँसो ह वै हिरण्मयो भूत्वा । स्वर्गं लोकमेति । आदित्यस्य सायुज्यम् । य एवं वेद । देवभागो ह श्रौतर्षः । सावित्रं विदांचकार । तँ ह वागदृश्यमानाभ्युवाच ३३

सर्वं बत गौतमो वेद । यः सावित्रं वेदेति । स होवाच । कैषा वागसीति । अयमहँ सावित्रः । देवानामुत्तमो लोकः । गुह्यं महो बिभ्रदिति । एतावति ह गौतमः । यज्ञोपवीतं कृत्वाधो निपपात । नमो नम इति ३४

स होवाच । मा भैषीर्गौतम । जितो वै ते लोक इति । तस्माद्ये के च सावित्रं विदुः । सर्वे ते जितलोकाः । स यो ह वै सावित्रस्याष्टाक्षरं पदँ श्रियाभिषिक्तं वेद । श्रिया हैवाभिषिच्यते । घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि । आदित्य इति त्रीणि ३५

एतद्वै सावित्रस्याष्टाक्षरं पदँ श्रियाभिषिक्तम् । य एवं वेद । श्रिया हैवाभिषिच्यते । तदेतदृचाभ्युक्तम् । ऋचो अक्षरे परमे व्योमन् । यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति । य इत्तद्विदुस्त इमे समासत इति । न ह वा एतस्यर्चा न यजुषा न साम्नार्थोऽस्ति । यः सावित्रं वेद ३६

तदेतत्परि यद्देवचक्रम् । आर्द्रं पिन्वमानँ स्वर्गे लोक एति । विजहद्विश्वा भूतानि संपश्यत् । आर्द्रो ह वै पिन्वमानः स्वर्गे लोक एति । विजहन्विश्वा भूतानि संपश्यन् । य एवं वेद । शूषो ह वै वार्ष्णेयः । आदित्येन समाजगाम । तँ होवाच । एहि सावित्रं विद्धि । अयं वै स्वर्ग्योऽग्निः पारयिष्णुरमृतात्संभूत इति । एष वाव स सावित्रः । य एष तपति । एहि मां विद्धि । इति हैवैनं तदुवाच ३७

३.१०.१०

इयं वाव सरघा । तस्या अग्निरेव सारघं मधु । या एताः पूर्वपक्षापरपक्षयो रात्रयः । ता मधुकृतः । यान्यहानि । ते मधुवृषाः । स यो ह वा एता मधुकृतश्च मधुवृषाँश्च वेद । कुर्वन्ति हास्यैता अग्नौ मधु । नास्येष्टापूर्तं धयन्ति । अथ यो न वेद ३८

न हास्यैता अग्नौ मधु कुर्वन्ति । धयन्त्यस्येष्टापूर्तम् । यो ह वा अहोरात्राणां नामधेयानि वेद । नाहोरात्रेष्वार्तिमार्च्छति । संज्ञानं विज्ञानं दर्शा दृष्टेति । एतावनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानि । प्रस्तुतं विष्टुतँ सुता सुन्वतीति । एतावनुवाकावपरपक्षस्याहोरात्राणां नामधेयानि । नाहोरात्रेष्वार्तिमार्च्छति । य एवं वेद ३९

यो ह वै मुहूर्तानां नामधेयानि वेद । न मुहूर्तेष्वार्तिमार्च्छति । चित्रः केतुर्दाता प्रदाता सविता प्रसविताभिशास्तानुमन्तेति । एतेऽनुवाका मुहूर्तानां नामधेयानि । न मुहूर्तेष्वार्तिमार्च्छति । य एवं वेद । यो ह वा अर्धमासानां च मासानां च नामधेयानि वेद । नार्धमासेषु न मासेष्वार्तिमार्च्छति । पवित्रं पवयिष्यन्त्सहस्वान्त्सहीयानरुणोऽरुणरजा इति । एतेऽनुवाका अर्धमासानां च मासानां च नामधेयानि ४०

नार्धमासेषु न मासेष्वार्तिमार्च्छति । य एवं वेद । यो ह वै यज्ञक्रतूनां चर्तूनां च संवत्सरस्य च नामधेयानि वेद । न यज्ञक्रतुषु नर्तुषु न संवत्सर आर्तिमार्च्छति । अग्निष्टोम उक्थ्योऽग्निर्ऋतुः प्रजापतिः संवत्सर इति । एतेऽनुवाका यज्ञक्रतूनां चर्तूनां च संवत्सरस्य च नामधेयानि । न यज्ञक्रतुषु नर्तुषु न संवत्सर आर्तिमार्च्छति । य एवं वेद । यो ह वै मुहूर्तानां मुहूर्तान्वेद । न मुहूर्तानां मुहूर्तेष्वार्तिमार्च्छति ४१

इदानीं तदानीमिति । एते वै मुहूर्तानां मुहूर्ताः । न मुहूर्तानां मुहूर्तेष्वार्तिमार्च्छति । य एवं वेद । अथो यथा क्षेत्रज्ञो भूत्वानुप्रविश्यान्नमत्ति । एवमेवैतान्क्षेत्रज्ञो भूत्वानुप्रविश्यान्नमत्ति । स एतेषामेव सलोकताँ सायुज्यमश्नुते । अप पुनर्मृत्युं जयति । य एवं वेद ४२

३.१०.११

कश्चिद्ध वा अस्माल्लोकात्प्रेत्य । आत्मानं वेद । अयमहमस्मीति । कश्चित्स्वं लोकं न प्रतिप्रजानाति । अग्निमुग्धो हैव धुूमतान्तः । स्वं लोकं न प्रतिप्रजानाति । अथ यो हैवैतमग्निँ सावित्रं वेद । स एवास्माल्लोकात्प्रेत्य । आत्मानं वेद । अयमहमस्मीति ४३

स स्वं लोकं प्रतिप्रजानाति । एष उ चैवैनं तत्सावित्रः । स्वर्गं लोकमभिवहति । अहोरात्रैर्वा इदँ सयुग्भिः क्रियते । इतिरात्रायादीक्षिषत । इतिरात्राय व्रतमुपागुरिति । तानि हानेवं विदुषः । अमुष्मिँल्लोके शेवधिं धयन्ति । धीतँ हैव स शेवधिमनुपरैति । अथ यो हैवैतमग्निँ सावित्रं वेद ४४

तस्य हैवाहोरात्राणि । अमुष्मिँल्लोके शेवधिं न धयन्ति । अधीतँ हैव स शेवधिमनु परैति । भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास । तँ ह जीर्णिँ स्थविरँ शयानम् । इन्द्र उपव्रज्योवाच । भरद्वाज । यत्ते चतुर्थमायुर्दद्याम् । किमेनेन कुर्या इति । ब्रह्मचर्यमेवैनेन चरेयमिति होवाच ४५
तँ ह त्रीन्गिरिरूपानविज्ञातानिव दर्शयांचकार । तेषाँ हैकैकस्मान्मुष्टिनाददे । स होवाच । भरद्वाजेत्यामन्त्र्य । वेदा वा एते । अनन्ता वै वेदाः । एतद्वा एतैस्त्रिभिरायुर्भिरन्ववोचथाः । अथ त इतरदननूक्तमेव । एहीमं विद्धि । अयं वै सर्वविद्येति ४६

तस्मै हैतमग्निँ सावित्रमुवाच । तँ स विदित्वा । अमृतो भूत्वा । स्वर्गं लोकमियाय । आदित्यस्य सायुज्यम् । अमृतो हैव भूत्वा । स्वर्गं लोकमेति । आदित्यस्य सायुज्यम् । य एवं वेद । एषो एव त्रयी विद्या ४७

यावन्तँ ह वै त्रय्या विद्यया लोकं जयति । तावन्तं लोकं जयति । य एवं वेद । अग्नेर्वा एतानि नामधेयानि । अग्नेरेव सायुज्यँ सलोकतामाप्नोति । य एवं वेद । वायोर्वा एतानि नामधेयानि । वायोरेव सायुज्यँ सलोकतामाप्नोति । य एवं वेद । इन्द्र स्य वा एतानि नामधेयानि ४८

इन्द्रस्यैव सायुज्यँ सलोकतामाप्नोति । य एवं वेद । बृहस्पतेर्वा एतानि नामधेयानि । बृहस्पतेरेव सायुज्यँ सलोकतामाप्नोति । य एवं वेद । प्रजापतेर्वा एतानि नामधेयानि । प्रजापतेरेव सायुज्यँ सलोकतामाप्नोति । य एवं वेद । ब्रह्मणो वा एतानि नामधेयानि । ब्रह्मण एव सायुज्यँ सलोकतामाप्नोति । य एवं वेद । स वा एषोऽग्निरपक्षपुच्छो वायुरेव । तस्याग्निर्मुखम् । असावादित्यः शिरः । स यदेते देवते अन्तरेण । तत्सर्वँ सीव्यति । तस्मात्सावित्रः ४९ १०