तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

3.3.1
प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीत्याह मेध्यत्वाय । स्रुचः संमार्ष्टि । स्रुवमग्रे । पुमाँ समेवाभ्यः सँ श्यति मिथुनत्वाय । अथ जुहूम् । अथोपभृतम् । अथ ध्रुवाम् । असौ वै जुहूः १

अन्तरिक्षमुपभृत् । पृथिवी ध्रुवा । इमे वै लोकाः स्रुचः । वृष्टिः संमार्जनानि । वृष्टिर्वा इमाँ ल्लोकाननुपूर्वं कल्पयति । ते ततः क्ळ्प्ताः समेधन्ते । समेधन्तेऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । यदि कामयेत वर्षुकः पर्जन्यः स्यादिति । अग्रतः संमृज्यात् २

वृष्टिमेव नियच्छति । अर्वाचीनाग्रा हि वृष्टिः । यदि कामयेतावर्षुकः स्यादिति । मूलतः संमृज्यात् । वृष्टिमेवोद्यच्छति । तदु वा आहुः । अग्रत एवोपरिष्टात्संमृज्यात् । मूलतोऽधस्तात् । तदनुपूर्वं कल्पते । वर्षुको भवतीति ३
प्राचीमभ्याकारम् । अग्रैरन्तरतः । एवमिव ह्यन्नमद्यते । अथो अग्राद्वा ओषधीनामूर्जं प्रजा उपजीवन्ति । ऊर्ज एवान्नाद्यस्यावरुध्यै । अधस्ता-त्प्रतीचीम् । दण्डमुत्तमतः । मूलेन मूलं प्रतिष्ठित्यै । तस्मादरत्नौ प्राञ्च्युप-रिष्टाल्लोमानि । प्रत्यञ्च्यधस्तात् ४

स्रुग्घ्येषा । प्राणो वै स्रुवः । जुहूर्दक्षिणो हस्तः । उपभृत्सव्यः । आत्मा ध्रुवा । अन्नँ संमार्जनानि । मुखतो वै प्राणोऽपानो भूत्वा । आत्मानमन्नं प्रविश्य । बाह्यतस्तनुवँ शुभयति । तस्मात्स्रुवमेवाग्रे संमार्ष्टि । मुखतो हि प्राणोऽपानो भूत्वा । आत्मानमन्नमाविशति । तौ प्राणापाणौ । अव्यर्धुकः प्राणापानाभ्यां भवति । य एवं वेद ५

3.3.2
दिवः शिल्पमवततम् । पृथिव्याः ककुभि श्रितम् । तेन वयँ सहस्रवल्शेन । सपत्नं नाशयामसि स्वाहेति स्रुक्संमार्जनान्यग्नौ प्रहरति । आपो वै दर्भाः । रूपमेवैषामेतन्महिमानं व्याचष्टे । अनुष्टुभर्चा । आनुष्टुभः प्रजापतिः । प्राजापत्यो वेदः । वेदस्याग्रँ स्रुक्संमार्जनानि ६

स्वेनैवैनानि छन्दसा । स्वया देवतया समर्धयति । अथो ऋग्वाव योषा । दर्भो वृषा । तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । प्रजायते प्रजया पशुभिर्यजमानः । तान्येके वृथैवापास्यन्ति । तत्तथा न कार्यम् । आरब्धस्य यज्ञियस्य कर्मणः स विदोहः ७

यद्येनानि पशवोऽभितिष्ठेयुः । न तत्पशुभ्यः कम् । अद्भिर्मार्जयित्वोत्करे न्यस्येत् । यद्वै यज्ञियस्य कर्मणोऽन्यत्राहुतीभ्यः संतिष्ठते । उत्करो वाव तस्य प्रतिष्ठा । एताँ हि तस्मै प्रतिष्ठां देवाः समभरन् । यदद्भिर्मार्जयति । तेन शान्तम् । यदुत्करे न्यस्यति । प्रतिष्ठामेवैनानि तद्गमयति ८

प्रतितिष्ठति प्रजया पशुभिर्यजमानः । अथो स्तम्बस्य वा एतद्रू पम् । यत्स्रुक्संमार्जनानि । स्तम्बशो वा ओषधयः । तासां जरत्कक्षे पशवो न रमन्ते । अप्रियो ह्येषां जरत्कक्षः । यावदप्रियो ह वै जरत्कक्षः पशूनाम् । तावदप्रियः पशूनां भवति । यस्यैतान्यन्यत्राग्नेर्दधति । नवदाव्यासु वा ओषधीषु पशवो रमन्ते ९

नवदावो ह्येषां प्रियः । यावत्प्रियो ह वै नवदावः पशूनाम् । तावत्प्रियः पशूनां भवति । यस्यैतान्यग्नौ प्रहरन्ति । तस्मादेतान्यग्नावेव प्रहरेत् । यतरस्मिन्त्संमृज्यात् । पशूनां धृत्यै । यो भूतानामधिपतिः । रुद्र स्तन्तिचरो वृषा । पशूनस्माकं मा हिँ सीः । एतदस्तु हुतं तव स्वाहेत्यग्निसंमार्जनान्यग्नौ प्रहरति । एषा वा एतेषां योनिः । एषा प्रतिष्ठा । स्वामेवैनानि योनिम् । स्वां प्रतिष्ठां गमयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः १०

3.3.3
अयज्ञो वा एषः । योऽपत्नीकः । न प्रजाः प्रजायेरन् । पत्न्यन्वास्ते । यज्ञमेवाकः । प्रजानां प्रजननाय । यत्तिष्ठन्ती संनह्येत । प्रियं ज्ञातिँ रुन्ध्यात् । आसीना संनह्यते । आसीना ह्येषा वीर्यं करोति ११

यत्पश्चात्प्राच्यन्वासीत । अनया समदं दधीत । देवानां पत्निया समदं दधीत । देशाद्दक्षिणत उदीच्यन्वास्ते । आत्मनो गोपीथाय । आशासाना सौमनसमित्याह । मेध्यामेवैनां केवलीं कृत्वा । आशिषा समर्धयति । अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कमित्याह । एतद्वै पत्नियै व्रतोपनयनम् १२

तेनैवैनां व्रतमुपनयति । तस्मादाहुः । यश्चैवं वेद यश्चन । योक्त्रमेव युते । यमन्वास्ते । तस्यामुष्मिँ ल्लोके भवतीति योक्त्रेण । यद्योक्त्रम् । स योगः । यदास्ते । स क्षेमः १३

योगक्षेमस्य क्ळ्प्त्यै । युक्तं क्रियाता आशीः कामे युज्याता इति । आशिषः समृद्ध्यै । ग्रन्थिं ग्रथ्नाति । आशिष एवास्यां परिगृह्णाति । पुमान्वै ग्रन्थिः । स्त्री पत्नी ।तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । प्रजायते प्रजया पशुभिर्यजमानः १४

अथो अर्धो वा एष आत्मनः । यत्पत्नी ।यज्ञस्य धृत्या अशिथिलंभावाय । सुप्रजसस्त्वा वयँ सुपत्नीरुपसेदिमेत्याह । यज्ञमेव तन्मिथुनी करोति । ऊनेऽतिरिक्तं धीयाता इति प्रजात्यै । महीनां पयोऽस्योषधीनाँ रस इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । तस्य तेऽक्षीयमाणस्य निर्वपामि देवय-ज्याया इत्याह । आशिषमेवैतामाशास्ते १५

3.3.4
घृतं च वै मधु च प्रजापतिरासीत् । यतो मध्वासीत् । ततः प्रजा असृजत । तस्मान्मधुषि प्रजननमिवास्ति । तस्मान्मधुषा न प्रचरन्ति । यातयाम हि । आज्येन प्रचरन्ति । यज्ञो वा आज्यम् । यज्ञेनैव यज्ञं प्रचरन्त्ययातयामत्वाय । पत्न्यवेक्षते १६

मिथुनत्वाय प्रजात्यै । यद्वै पत्नी यज्ञस्य करोति । मिथुनं तत् । अथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै । अमेध्यं वा एतत्करोति । यत्पत्न्यवेक्षते । गार्हपत्येऽधिश्रयति मेध्यत्वाय । आहवनीयमभ्युद्द्रवति । यज्ञस्य संतत्यै । तेजोऽसि तेजोऽनु प्रेहीत्याह १७

तेजो वा अग्निः । तेज आज्यम् । तेजसैव तेजः समर्धयति । अग्निस्ते तेजो मा विनैदित्याहाहिँ सायै । स्फ्यस्य वर्त्मन्त्सादयति । यज्ञस्य संतत्यै । अग्नेर्जिह्वासि सुभूर्देवानामित्याह । यथायजुरेवैतत् । धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवेत्याह । आशिषमेवैतामाशास्ते १८

तद्वा अतः पवित्राभ्यामेवोत्पुनाति । यजमानो वा आज्यम् । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । पुनराहारम् । एवमिव हि प्राणापानौ संचरतः । शुक्रमसि ज्योतिरसि तेजोऽसीत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । त्रिर्यजुषा । त्रय इमे लोकाः १९

एषां लोकानामाप्त्यै । त्रिः । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । अथाज्यवतीभ्यामपः । रूपमेवासामेतद्वर्णं दधाति । अपि वा उताहुः । यथा ह वै योषा सुवर्णँ हिरण्यं पेशलं बिभ्रती रूपाण्यास्ते । एवमेता एतर्हीति । आपो वै सर्वा देवताः २०

एषा हि विश्वेषां देवानां तनूः । यदाज्यम् । तत्रोभयोर्मीमाँ सा । जामिः स्यात् । यद्यजुषाज्यं यजुषाप उत्पुनीयात् । छन्दसाप उत्पुनात्यजामित्वाय । अथो मिथुनत्वाय । सावित्रियर्चा । सवितृप्रसूतं मे कर्मासदिति । सवितृप्रसूतमेवास्य कर्म भवति । पच्छो गायत्रिया त्रिःषमृद्धत्वाय । अद्भिरेवौषधीः संनयति । ओषधीभिः पशून् । पशुभिर्यजमानम् । शुक्रं त्वा शुक्रायां ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वार्चिषीत्याह सर्वत्वाय । पर्यान्प्त्या अनन्तरायाय २१

3.3.5
देवासुराः संयात्ता आसन् । स एतमिन्द्र आज्यस्यावकाशमपश्यत् । तेनावैक्षत । ततो देवा अभवन् । परासुराः । य एवं विद्वानाज्यमवेक्षते । भवत्यात्मना । परास्य भ्रातृव्यो भवति । ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवीँ ष्यभिघारयति २२

अथ केनाज्यमिति । सत्येनेति ब्रूयात् । चक्षुर्वै सत्यम् । सत्येनैवैनदभिघारयति । ईश्वरो वा एषोऽन्धो भवितोः । यश्चक्षुषाज्यमवेक्षते । निमील्यावेक्षेत । दाधारात्मन्चक्षुः । अभ्याज्यं घारयति । आज्यं गृह्णाति २३

छन्दाँ सि वा आज्यम् । छन्दाँ स्येव प्रीणाति । चतुर्जुह्वां गृह्णाति । चतुष्पादः पशवः । पशूनेवावरुन्धे । अष्टावुपभृति । अष्टाक्षरा गायत्री ।गायत्रः प्राणः । प्राणमेव पशुषु दधाति । चतुर्ध्रुवायाम् २४

चतुष्पादः पशवः । पशुष्वेवोपरिष्टात्प्रतितिष्ठति । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । चतुर्जुह्वां गृह्णन्भूयो गृह्णीयात् । अष्टावुपभृति गृह्णन्कनीयः । यजमानायैव भ्रातृव्यमुपस्तिं करोति । गौर्वै स्रुवः । चतुर्जुह्वां गृह्णाति । तस्माच्चतुष्पदी २५

अष्टावुपभृति । तस्मादष्टाशफा । चतुर्ध्रुवायाम् । तस्माच्चतुस्तना । गामेव तत्सँ स्करोति । सास्मै सँ स्कृतेषमूर्जं दुहे । यज्जुह्वां गृह्णाति । प्रयाजेभ्यस्तत् । यदुपभृति । प्रयाजानूयाजेभ्यस्तत् । सर्वस्मै वा एतद्यज्ञाय गृह्यते । यद्ध्रुवायामाज्यम् २६

3.3.6
आपो देवीरग्रेपुवो अग्रेगुव इत्याह । रूपमेवासामेतन्महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह । अग्र एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् । युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य इत्याह । वृत्रँ ह हनिष्यन्निन्द्र आपो वव्रे । आपो हेन्द्रं वव्रिरे । संज्ञामेवासामेतत्सामानं व्याचष्टे । प्रोक्षिताः स्थेत्याह २७

तेनापः प्रोक्षिताः । अग्निर्देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन्प्राविशत् । कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेत्याह । अग्नय एवैनं जुष्टं करोति । अथो अग्नेरेव मेधमवरुन्धे । वेदिरसि बर्हिषे त्वा स्वहेत्याह । प्रजा वै बर्हिः । प्र्थिवी वेदिः २८

प्रजा एव पृथिव्यां प्रतिष्ठापयति । बर्हिरसि स्रुग्भ्यस्त्वा स्वाहेत्याह । प्रजा वै बर्हिः । यजमानः स्रुचः । यजमानमेव प्रजासु प्रतिष्ठापयति । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति बर्हिरासाद्य प्रोक्षति । एभ्य एवैनंलोकेभ्यः प्रोक्षति । अथ ततः सह स्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति । प्रजा वै बर्हिः । यथा सूत्यै काल आपः पुरस्ताद्यन्ति २९

तादृगेव तत् । स्वधा पितृभ्य इत्याह । स्वधाकारो हि पितृणाम् । ऊर्ग्भव बर्हिषद्भ्य इति दक्षिणायै श्रोणेरोत्तरस्यै निनयति संतत्यै । मासा वै पितरो बर्हिषदः । मासानेव प्रीणाति । मासा वा ओषधीर्वर्धयन्ति । मासाः पचन्ति समृद्ध्यै । अनतिस्कन्दन्ह पर्जन्यो वर्षति । यत्रैतदेवं क्रियते ।

ऊर्जा पृथिवीं गच्छतेत्याह । पृथिव्यामेवोर्जं दधाति । तस्मात्पृथिव्या ऊर्जा भुञ्जते । ग्रन्थिं विस्रँ सयति । प्रजनयत्येव तत् । ऊर्ध्वं प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति । तस्मात्प्राचीनँ रेतो धीयते । प्रतीचीः प्रजा जायन्ते । विष्णोः स्तूपोऽसीत्याह । यज्ञो वै विष्णुः ३१

यज्ञस्य धृत्यै । पुरस्तात्प्रस्तरं गृह्णाति । मुख्यमेवैनं करोति । इयन्तं गृह्णाति । प्रजापतिना यज्ञमुखेन संमितम् । इयन्तं गृह्णाति । यज्ञपरुषा संमितम् । इयन्तं गृह्णाति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमितम् ३२
अपरिमितं गृह्णाति । अपरिमितस्यावरुद्ध्यै । तस्मिन्पवित्रे अपिसृजति । यजमानो वै प्रस्तरः । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । ऊर्णाम्रदसं त्वा स्तृणामीत्याह । यथायजुरेवैतत् । स्वासस्थं देवेभ्य इत्याह । देवेभ्य एवैनत्स्वासस्थं करोति ३३

बर्हिः स्तृणाति । प्रजा वै बर्हिः । पृथिवी वेदिः । प्रजा एव पृथिव्यां प्रतिष्ठापयति । अनतिदृश्नँ स्तृणाति । प्रजयैवैनं पशुभिरनतिदृश्नं करोति । धारयन्प्रस्तरं परिधीन्परिदधाति । यजमानो वै प्रस्तरः । यजमान एव तत्स्वयं परिधीन्परिदधाति । गन्धर्वोऽसि विश्वावसुरित्याह ३४

विश्वमेवायुर्यजमाने दधाति । इन्द्र स्य बाहुरसि दक्षिण इत्याह । इन्द्रि यमेव यजमाने दधाति । मित्रावरुणौ त्वोत्तरतः परिधत्तामित्याह । प्राणापानौ मित्रावरुणौ । प्राणापानावेवास्मिन्दधाति । सूर्यस्त्वा पुरस्तात्पात्वित्याह । रक्षसामपहत्यै । कस्याश्चिदभिशस्त्या इत्याह । अपरिमितादेवैनं पाति ३५

वीतिहोत्रं त्वा कव इत्याह । अग्निमेव होत्रेण समर्धयति । द्युमन्तँ समिधीमहीत्याह समिद्ध्यै । अग्ने बृहन्तमध्वर इत्याह वृद्ध्यै । विशो यन्त्रे स्थ इत्याह । विशां यत्यै । उदीचीनाग्रे निदधाति प्रतिष्ठित्यै । वसूनाँ रुद्रा णामादित्यानाँ सदसि सीदेत्याह । देवतानामेव सदने प्रस्तरँ सादयति । जुहूरसि घृताची नाम्नेत्याह ३६

असौ वै जुहूः । अन्तरिक्षमुपभृत् । पृथिवी ध्रुवा । तासामेतदेव प्रियं नाम । यद्घृताचीति । यद्घृताचीत्याह । प्रियेणैवैना नाम्ना सादयति । एता असदन्त्सुकृतस्य लोक इत्याह । सत्यं वै सुकृतस्य लोकः । सत्य एवैनाः सुकृतस्य लोके सादयति । ता विष्णो पाहीत्याह । यज्ञो वै विष्णुः । यज्ञस्य धृत्यै । पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियमित्याह । यज्ञाय यजमानायात्मने । तेभ्य एवाशिषमाशास्तेऽनार्त्यै ३७

3.3.7
अग्निना वै होत्रा । देवा असुरानभ्यभवन् । अग्नये समिध्यमानायानुब्रूहीत्याह भ्रातृव्याभिभूत्यै । एकविँ शतिमिध्मदारूणि भवन्ति । एकविँ शो वै पुरुषः । पुरुषस्याप्त्यै । पञ्चदशेध्मदारूण्यभ्यादधाति । पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते । त्रीन्परिधीन्परिदधाति ३८

ऊर्ध्वे समिधावादधाति । अनूयाजेभ्यः समिधमतिशिनष्टि । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । वेदेनोपवाजयति । प्राजापत्यो वै वेदः । प्राजापत्यः प्राणः । यजमान आहवनीयः । यजमान एव प्राणं दधाति ३९

त्रिरुपवाजयति । त्रयो वै प्राणाः । प्राणानेवास्मिन्दधाति । वेदेनोपयत्य स्रुवेण प्राजापत्यमाघारमाघारयति । यज्ञो वै प्रजापतिः । यज्ञमेव प्रजाप्तिं मुखत आरभते । अथो प्रजापतिः सर्वा देवताः । सर्वा एव देवताः प्रीणाति । अग्निमग्नीत्त्रिस्त्रिः संमृड्ढीत्याह । त्र्! यावृद्धि यज्ञः ४०

अथो रक्षसामपहत्यै । परिधीन्त्संमार्ष्टि । पुनात्येवैनान् । त्रिस्त्रिः संमार्ष्टि । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । अथो एते वै देवाश्वाः । देवाश्वानेव तत्संमार्ष्टि । सुवर्गस्य लोकस्य समष्ट्यै । आसीनोऽन्यमाघारमाघारयति ४१

तिष्ठन्नन्यम् । यथानो वा रथं वा युञ्ज्यात् । एवमेव तदध्वर्युर्यज्ञं युनक्ति । सुवर्गस्य लोकस्याभ्यूढ्यै । वहन्त्येनं ग्राम्याः पशवः । य एवं वेद । भुवनमसि विप्रथस्वेत्याह । यज्ञो वै भुवनम् । यज्ञ एव यजमानं प्रजया पशुभिः प्रथयति । अग्ने यष्टरिदं नम इत्याह ४२

अग्निर्वै देवानां यष्टा । य एव देवानां यष्टा । तस्मा एव नमस्करोति । जुह्वेह्यग्निस्त्वा ह्वयति देवयज्याया उपभृदेहि देवस्त्वा सविता ह्वयति देवयज्याया इत्याह । आग्नेयी वै जुहूः । सावित्र्! युपभृत् । ताभ्यामेवैने प्रसूत आदत्ते । अग्नाविष्णू मावामवक्रमिषमित्याह । अग्निः पुरस्तात् । विष्णुर्यज्ञः पश्चात् ४३

ताभ्यामेव प्रतिप्रोच्यात्याक्रामति । विजिहाथां मा मा संताप्तमित्याहाहिँ सायै । लोकं मे लोककृतौ कृणुतमित्याह । आशिषमेवैतामाशास्ते । विष्णोः स्थानमसीत्याह । यज्ञो वै विष्णुः । एतत्खलु वै देवानामपराजितमायतनम् । यद्यज्ञः । देवानामेवापराजित आयतने तिष्ठति । इत इन्द्रो अकृणो-द्वीर्याणीत्याह ४४

इन्द्रि यमेव यजमाने दधाति । समारभ्योर्ध्वो अध्वरो दिविस्पृशमित्याह वृद्ध्यै । आघारमाघार्यमाणमनु समारभ्य । एतस्मिन्काले देवाः सुवर्गं लोकमायन् । साक्षादेव यजमानः सुवर्गं लोकमेति । अथो समृद्धेनैव यज्ञेन यजमानः सुवर्गं लोकमेति । अह्रुतो यज्ञो यज्ञपतेरित्याहानार्त्यै । इन्द्रा वान्त्स्वाहेत्याह । इन्द्रि यमेव यजमाने दधाति । बृहद्भा इत्याह ४५

सुवर्गो वै लोको बृहद्भाः । सुवर्गस्य लोकस्य समष्ट्यै यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । प्राण आघारः । यत्सँ स्पर्शयेत् । भ्रातृव्येऽस्य प्राणं दध्यात् । असँ स्पर्शयन्नत्याक्रामति । यजमान एव प्राणं दधाति । पाहि माग्ने दुश्चरितादा मा सुचरिते भजेत्याह ४६

अग्निर्वाव पवित्रम् । वृजिनमनृतं दुश्चरितम् । ऋजुकर्मँ सत्यँ सुचरितम् । अग्निरेवैनं वृजिनादनृताद्दुश्चरितात्पाति । ऋजुकर्मे सत्ये सुचरिते भजति तस्मादेवमाशास्ते । आत्मनो गोपीथाय । शिरो वा एतद्यज्ञस्य । यदाघारः । आत्मा ध्रुवा ४७

आघारमाघार्य ध्रुवाँ समनक्ति । आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति । द्विः समनक्ति । द्वौ हि प्राणापानौ । तदाहुः । त्रिरेव समञ्ज्यात् । त्रिधातु हि शिर इति । शिर इवैतद्यज्ञस्य । अथो त्रयो वै प्राणाः । प्राणानेवा-स्मिन्दधाति । मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्तामित्याह । ज्योतिरे-वास्मा उपरिष्टाद्दधाति । सुवर्गस्य लोकस्यानुख्यात्यै ४८

3.3.8
धिष्णिया वा एते न्युप्यन्ते । यद्ब्रह्मा । यद्धोता । यदध्वर्युः । यदग्नीत् । यद्यजमानः । तान्यदन्तरेयात् । यजमानस्य प्राणान्त्संकर्षेत् । प्रमायुकः स्यात् । पुरोडाशमपगृह्य संचरत्यध्वर्युः ४९

यजमानायैव तल्लोकँ शिँ षति । नास्य प्राणान्त्संकर्षति । न प्रमायुको भवति । पुरस्तात्प्रत्यङ्ङासीनः । इडाया इडामादधाति । हस्त्याँ होत्रे । पशवो वा इडा । पशवः पुरुषः । पशुष्वेव पशून्प्रतिष्ठापयति । इडायै वा एषा प्रजातिः ५०

तां प्रजातिं यजमानोऽनु प्रजायते । द्विरङ्गुलावनक्ति पर्वणोः । द्विपाद्यजमानः प्रतिष्ठित्यै । सकृदुपस्तृणाति । द्विरादधाति । सकृदभिघारयति । चतुः संपद्यते । चत्वारि वै पशोः प्रतिष्ठानानि । यावानेव पशुः । तमुपह्वयते ५१

मुखमिव प्रत्युपह्वयेत । संमुखानेव पशूनुपह्वयते । पशवो वा इडा । तस्मात्सान्वारभ्या । अध्वर्युणा च यजमानेन च । उपहूतः पशुमानसानीत्याह । उप ह्येनौ ह्वयते होता । इडायै देवतानामुपहवे । उपहूतः पशुमान्भवति । य एवं वेद ५२

यां वै हस्त्यामिडामादधाति । वाचः सा भागधेयम् । यामुपह्वयते । प्राणानाँ सा । वाचं चैव प्राणाँ श्चावरुन्धे । अथ वा एतर्ह्युपहूतायामिडायाम् । पुरोडाशस्यैव बर्हिषदो मीमाँ सा । यजमानं देवा अब्रुवन् । हविर्नो निर्वपेति । नाहमभागो निर्वप्स्यामीत्यब्रवीत् ५३

न मयाभागयानुवक्ष्यथेति वागब्रवीत् । नाहमभागा पुरोऽनुवाक्या भविष्यामीति पुरोऽनुवाक्या । नाहमभागा याज्या भविष्यामीति याज्या । न मयाभागेन वषट्करिष्यथेति वषट्कारः । यद्यजमानभागं निधाय पुरोडाशं बर्हिषदं करोति । तानेव तद्भागिनः करोति । चतुर्धा करोति । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति । बर्हिषदं करोति ५४

यजमानो वै पुरोडाशः । प्रजा बर्हिः । यजमानमेव प्रजासु प्रतिष्ठापयति । तस्मादस्थ्नान्याः प्रजाः प्रतितिष्ठन्ति । माँ सेनान्याः । अथो खल्वाहुः । दक्षिणा वा एता हविर्यज्ञस्यान्तर्वेद्यवरुध्यन्ते । यत्पुरोडाशं बर्हिषदं करोतीति । चतुर्धा करोति । चत्वारो ह्येते हविर्यज्ञस्यर्त्विजः ५५

ब्रह्मा होताध्वर्युरग्नीत् । तमभिमृशेत् । इदं ब्रह्मणः । इदँ होतुः । इदमध्वर्योः । इदमग्नीध इति । यथैवादः सौम्येऽध्वरे । आदेशमृत्विग्भ्यो दक्षिणा नीयन्ते । तादृगेव तत् । अग्नीधे प्रथमायादधाति ५६

अग्निमुखा ह्यृद्धिः । अग्निमुखामेवर्द्धिं यजमान ऋध्नोति । सकृदुपस्तीर्य द्विरादधत् । उपस्तीर्य द्विरभिघारयति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । वेदेन ब्रह्मणे ब्रह्मभागं परिहरति । प्राजापत्यो वै वेदः । प्राजापत्यो ब्रह्मा ५७

सविता यज्ञस्य प्रसृत्यै । अथ काममन्येन । ततो होत्रे । मध्यं वा एतद्यज्ञस्य । यद्धोता । मध्यत एव यज्ञं प्रीणाति । अथाध्वर्यवे । प्रतिष्ठा वा एषा यज्ञस्य । यदध्वर्युः । तस्माद्धविर्यज्ञस्यैतामेवावृतमनु ५८

अन्या दक्षिणा नीयन्ते । यज्ञस्य प्रतिष्ठित्यै । अग्निमग्नीत्सकृत्सकृत्संमृड्ढीत्याह । पराङिव ह्येतर्हि यज्ञः । इषिता दैव्या होतार इत्याह । इषितँ हि कर्म क्रियते । भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीत्याह । आशिषमेवैतामाशास्ते । स्वगा दैव्या होतृभ्य इत्याह । यज्ञमेव तत्स्वगा करोति । स्वस्तिर्मानुषेभ्य इत्याह । आशिषमेवैतामाशास्ते । शंयोर्ब्रूहीत्याह । शंयुमेव बार्हस्पत्यं भागधेयेन समर्धयति ५९

3.3.9
अथ स्रुचावनुष्टुग्भ्यां वाजवतीभ्यां व्यूहति । प्रतिष्ठा वा अनुष्टुक् । अन्नं वाजः प्रतिष्ठित्यै । अन्नाद्यस्यावरुध्यै । प्राचीं जुहूमूहति । जातानेव भ्रातृव्यान्प्रणुदते । प्रतीचीमुपभृतम् । जनिष्यमाणानेव प्रतिनुदते । स विषूच एवापोह्य सपत्नान्यजमानः । अस्मिन्लोके प्रतितिष्ठति ६०

द्वाभ्याम् । द्विप्रतिष्ठो हि । वसुभ्यस्त्वा रुद्रे भ्यस्त्वादित्येभ्यस्त्वेत्याह । यथायजुरेवैतत् । स्रुक्षु प्रस्तरमनक्ति । इमे वै लोकाः स्रुचः । यजमानः प्रस्तरः । यजमानमेव तेजसानक्ति । त्रेधानक्ति । त्रय इमे लोकाः ६१

एभ्य एवैनं लोकेभ्योऽनक्ति । अभिपूर्वमनक्ति । अभिपूर्वमेव यजमानं तेजसानक्ति । अक्तँ रिहाणा इत्याह । तेजो वा आज्यम् । यजमानः प्रस्तरः । यजमानमेव तेजसानक्ति । वियन्तु वय इत्याह । वय एवैनं कृत्वा । सुवर्गं लोकं गमयति ६२

प्रजां योनिं मा निर्मृक्षमित्याह । प्रजायै गोपीथाय । आप्यायन्तामाप ओषधय इत्याह । आप एवौषधीराप्याययति । मरुतां पृषतयः स्थेत्याह । मरुतो वै वृष्ट्या ईशते । वृष्टिमेवावरुन्धे । दिवं गच्छ ततो नो वृष्टिमेरयेत्याह । वृष्टिर्वै द्यौः । वृष्टिमेवावरुन्धे ६३

यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्यायुर्मीयते । आयुष्पा अग्नेऽस्यायुर्मे पाहीत्याह । आयुरेवात्मन्धत्ते । यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्य चक्षुर्मीयते । चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्याह । चक्षुरेवात्मन्धत्ते । ध्रुवासीत्याह प्रतिष्ठित्यै । यं परिधिं पर्यधत्था इत्याह ६४

यथायजुरेवैतत् । अग्ने देव पणिभिर्वीर्यमाण इत्याह । अग्नय एवैनं जुष्टं करोति । तं त एतमनु जोषं भरामीत्याह । सजातानेवास्मा अनुकान्करोति । नेदेष त्वदपचेतयाता इत्याहानुख्यात्यै । यज्ञस्य पाथ उप समितमित्याह । भूमानमेवोपैति । परिधीन्प्रहरति । यज्ञस्य समिष्ट्यै ६५

स्रुचौ संप्रस्रावयति । यदेव तत्र क्रूरम् । तत्तेन शमयति । जुह्वामुपभृतम् । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । यजमानायैव भ्रातृव्यमुपस्तिं करोति । सँ स्रावभागाः स्थेत्याह । वसवो वै रुद्रा आदित्याः सँ स्रावभागाः । तेषां तद्भागधेयम् ६६

तानेव तेन प्रीणाति । वैश्वदेव्यर्चा । एते हि विश्वे देवाः । त्रिष्टुग्भवति । इन्द्रि यं वै त्रिष्टुक् । इन्द्रि यमेव यजमाने दधाति । अग्नेर्वामपन्नगृहस्य सदसि सादयामीत्याह । इयं वा अग्निरपन्नगृहः । अस्या एवैने सदने सादयति । सुम्नाय सुम्निनी सुम्ने मा धत्तमित्याह ६७

प्रजा वै पशवः सुम्नम् । प्रजामेव पशूनात्मन्धत्ते । धुरि धुर्यौ पातमित्याह । जायापत्योर्गोपीथाय । अग्नेऽदब्धायोऽशीततनो इत्याह । यथायजुरेवैतत् । पाहि माद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्च-रितादित्याह । आशिषमेवैतामाशास्ते । अविषं नः पितुं कृणु सुषदा योनिँ स्वाहेतीध्मसंवृश्चनान्यन्वाहार्यपचनेऽभ्याधाय फलीकरणहोमं जुहोति । अतिरिक्तानि वा इध्मसंवृश्चनानि ६८

अतिरिक्ताः फलीकरणाः । अतिरिक्तमाज्योच्छेषणम् । अतिर्कित एवातिरिक्तं दधाति । अथो अतिरिक्तेनैवातिरिक्तमाप्त्वावरुन्धे । वेदिर्देवेभ्यो निलायत । तां वेदेनान्वविन्दन् । वेदेन वेदिं विविदुः पृथिवीम् । सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तः । ततो यज्ञो जायते विश्वदानिरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिँ संमार्ष्ट्यनुवित्त्यै ६९

अथो यद्वेदश्च वेदिश्च भवतः । मिथुनत्वाय प्रजात्यै । प्रजापतेर्वा एतानि श्मश्रूणि । यद्वेदः । पत्निया उपस्थ आस्यति । मिथुनमेव करोति । विन्दते प्रजाम् । वेदँ होताहवनीयात्स्तृणन्नेति । यज्ञमेव तत्संतनोत्योत्तर-स्मादर्धमासात् । तँ संततमुत्तरेऽर्धमास आलभते ७०

तं कालेकाल आगते यजते । ब्रह्मवादिनो वदन्ति । स त्वा अध्वर्युः स्यात् । यो यतो यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयतीति । वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते । देवा गातुविदो गातुं वित्त्वा गातुमितेत्याह । यत एव यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः ७१

3.3.10
यो वा अयथादेवतं यज्ञमुपचरति । आ देवताभ्यो वृश्च्यते । पापीयान्भवति । यो यथादेवतम् । न देवताभ्य आवृश्च्यते । वसीयान्भवति । वारुणो वै पाशः । इमं विष्यामि वरुणस्य पाशमित्याह । वरुणपाशादेवैनां मुञ्चति । सवितृप्रसूतो यथादेवतम् ७२

न देवताभ्य आवृश्च्यते । वसीयान्भवति । धातुश्च योनौ सुकृतस्य लोक इत्याह । अग्निर्वै धाता । पुण्यं कर्म सुकृतस्य लोकः । अग्निरेवैनां धाता । पुण्ये कर्मणि सुकृतस्य लोके दधाति । स्योनं मे सह पत्या करोमीत्याह । आत्मनश्च यजमानस्य चानात्यै संत्वाय । समायुषा संप्रजयेत्याह ७३

आशिषमेवैतामाशास्ते पूर्णपात्रे । अन्ततोऽनुष्टुभा । चतुष्पद्वा एतच्छन्दः प्रतिष्ठितं पत्नियै पूर्णपात्रे भवति । अस्मिँ ल्लोके प्रतितिष्ठानीति । अस्मिन्नेव लोके प्रतितिष्ठति । अथो वाग्वा अनुष्टुक् । वाङ्मिथुनम् । आपो रेतः प्रजननम् । एतस्माद्वै मिथुनाद्विद्योतमानः स्तनयन्वर्षति । रेतः सिञ्चन् ७४

प्रजाः प्रजनयन् । यद्वै यज्ञस्य ब्रह्मणा युज्यते । ब्रह्मणा वै तस्य विमोकः । अद्भिः शान्तिः । विमुक्तं वा एतर्हि योक्त्रं ब्रह्मणा । आदायैनत्पत्नी सहाप उपगृह्णीते शान्त्यै । अञ्जलौ पूर्णपात्रमानयति । रेत एवास्यां प्रजां दधाति । प्रजया हि मनुष्यः पूर्णः । मुखं विमृष्टे । अवभृथस्यैव रूपं कृत्वोत्तिष्ठति ७६

3.3.11
परिवेषो वा एष वनस्पतीनाम् । यदुपवेषः । य एवं वेद । विन्दते परि-वेष्टारम् । तमुत्करे । यं देवा मनुष्येषु । उपवेषमधारयन् । ये अस्म-दपचेतसः । तानस्मभ्यमिहाकुरु । उपवेषोपविड्ढि नः ७७

प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदः । ध्रुवाननपगान्कुर्विति पुरस्तात्प्रत्यञ्चमुपगूहति । तस्मात्पुरस्तात्प्रत्यञ्चः शूद्रा अवस्यन्ति । स्थविमत उपगूहति । अप्रतिवादिन एवैनान्कुरुते । धृष्टिर्वा उपवेषः । शुचर्तो वज्रो ब्रह्मणा सँ शितः । योपवेषे शुक् । सामुमृच्छतु यं द्विष्म इति ७७

अथास्मै नामगृह्य प्रहरति । निरमुं नुद ओकसः । सपत्नो यः पृतन्यति । निर्बाध्येन हविषा । इन्द्र एणं पराशरीत् । इहि तिस्रः परावतः । इहि पञ्च जनाँ अति । इहि तिस्रोऽति रोचना । यावत् । सूर्यो असद्दिवि । परमां त्वा परावतम् ७८

इन्द्रो नयतु वृत्रहा । यतो न पुनरायसि । शश्वतीभ्यः समाभ्य इति । त्रिवृद्वा एष वज्रो ब्रह्मणा सँ शितः । शुचैवैनं विद्ध्वा । एभ्यो लोकेभ्यो निर्णुद्य । वज्रेण ब्रह्मणा स्तृणुते । हतोऽसाववधिष्मामुमित्याह स्तृत्यै । यं द्विष्यात्तं ध्यायेत् । शुचैवैनमर्पयति ७९ ३