तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

2.1.1.1 अग्निहोत्रम्

अङ्गिरसो वै सत्त्रमासत । तेषां पृश्निर्घर्मधुगासीत् । सर्जीषेणाजीवत् । तेऽब्रुवन् । कस्मै नु सत्त्रमास्महे । येऽस्या ओषधीर्न जनयाम इति । ते दिवो वृष्टिमसृजन्त । यावन्तः स्तोका अवापद्यन्त । तावतीरोषधयोऽजायन्त । ता जाताः पितरो विषेणालिम्पन् १

तासां जग्ध्वा रुप्यन्त्यैत् । तेऽब्रुवन् । क इदमित्थमकरिति । वयं भागधेयमिच्छमाना इति पितरोऽब्रुवन् । किं वो भागधेयमिति । अग्निहोत्र एव नोऽप्यस्त्वित्यब्रुवन् । तेभ्य एतद्भागधेयं प्रायच्छन् । यद्धुत्वा निमार्ष्टि । ततो वै त ओषधीरस्वदयन् । य एवं वेद २

स्वदन्तेऽस्मा ओषधयः । ते वत्समुपावासृजन् । इदं नो हव्यं प्रदापयेति । सोऽब्रवीद्वरं वृणै । दश मा रात्रीर्जातं न दोहन् । आसंगवं मात्रा सह चराणीति । तस्माद्वत्सं जातं दश रात्रीर्न दुहन्ति । आसंगवं मात्रा सह चरति । वारेवृतँ ह्यस्य । तस्माद्वत्सँ सँ सृष्टधयँ रुद्रो घातुकः । अति हि सन्धां धयति ३


2.1.2.1

प्रजापतिरग्निमसृजत । तं प्रजा अन्वसृज्यन्त । तमभाग उपास्त । सोऽस्य प्रजाभिरपाक्रामत् । तमवरुरुत्समानोऽन्वैत् । तमवरुधन्नाशक्नोत् । स तपोऽतप्यत । सोऽग्निरुपारमतातापि वै स्य प्रजापतिरिति ४ तद्घृतमभवत् । तस्माद्यस्य दक्षिणतः केशा उन्मृष्टाः । तां ज्येष्ठलक्ष्मी प्राजापत्येत्याहुः । यद्र राटादुदमृष्ट । तस्माद्र राटे केशा न सन्ति । तदग्नौ प्रागृह्णात् । तद्व्यचिकित्सत् । जुहवानी३ मा हौषा३मिति । तद्विचिकित्सायै जन्म । य एवं विद्वान्विचिकित्सति ५

वसीय एव चेतयते ६तं वागभ्यवदज्जुहुधीति । सोऽब्रवीत् । कस्त्वमसीति । स्वैव ते वागित्यब्रवीत् । सोऽजुहोत्स्वाहेति । तत्स्वाहाकारस्य जन्म । य एवँ स्वाहाकारस्य जन्म वेद । करोति स्वाहाकारेण वीर्यम् । यस्यैवं विदुषः स्वाहाकारेण जुह्वति ६

भोगायैवास्य हुतं भवति ।तस्या आहुत्यै पुरुषमसृजत । द्वितीयमजुहोत् । सोऽश्वमसृजत । तृतीयमजुहोत् । स गामसृजत । चतुर्थमजुहोत् । सोऽविम सृजत । पञ्चममजुहोत् । सोऽजामसृजत ७

सोऽग्निरबिभेत् । आहुतीभिर्वै माप्नोतीति । स प्रजापतिं पुनः प्राविशत् । तं प्रजापतिरब्रवीत् । जायस्वेति । सोऽब्रवीत् । किं भागधेयमभिजनिष्य इति । तुभ्यमेवेदँ हूयाता इत्यब्रवीत् । स एतद्भागधेयमभ्यजायत । यदग्निहोत्रम् ८

तस्मादग्निहोत्रमुच्यते । तद्धूयमानमादित्योऽब्रवीत् । मा हौषीः । उभयोर्वै नावेतदिति । सोऽग्निरब्रवीत् । कथं नौ होष्यन्तीति । सायमेव तुभ्यं जुहवन् । प्रातर्मह्यमित्यब्रवीत् । तस्मादग्नये सायँ हूयते । सूर्याय प्रातः ९

आग्नेयी वै रात्रिः । ऐन्द्र महः । यदनुदिते सूर्ये प्रातर्जुहुयात् । उभयमेवाग्नेयँ स्यात् । उदिते सूर्ये प्रातर्जुहोति । तथाग्नये सायँ हूयते । सूर्याय प्रातः । रात्रिं वा अनु प्रजाः प्रजायन्ते । अह्ना प्रतितिष्ठन्ति । यत्सायं जुहोति १०

प्रैव तेन जायते । उदिते सूर्ये प्रातर्जुहोति । प्रत्येव तेन तिष्ठति । प्रजापतिरकामयत प्रजायेयेति । स एतदग्निहोत्रं मिथुनमपश्यत् । तदुदिते सूर्येऽजुहोत् । यजुषान्यत् । तूष्णीमन्यत् । ततो वै स प्राजायत । यस्यैवं विदुष उदिते सूर्येऽग्निहोत्रं जुह्वति ११

प्रैव जायते । अथो यथा दिवा प्रजानन्नेति । तादृगेव तत् । अथो खल्वाहुः । यस्य वै द्वौ पुण्यौ गृहे वसतः । यस्तयोरन्यँ राधयत्यन्यं न । उभौ वाव स तावृच्छतीति । अग्निं वावादित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी संपद्येते १२

उद्यन्तं वावादित्यमग्निरनुसमारोहति । तस्माद्धूम एवाग्नेर्दिवा ददृशे । यदग्नये सायं जुहुयात् । आ सूर्याय वृश्च्येत । यत्सूर्याय प्रातर्जुहुयात् । आग्नये वृश्च्येत । देवताभ्यः समदं दध्यात् । अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेत्येव सायँ होतव्यम् । सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातः । तथो-भाभ्याँ सायँ हूयते १३

उभाभ्यां प्रातः । न देवताभ्यः समदं दधाति । अग्निर्ज्योतिरित्याह । अग्निर्वै रेतोधाः । प्रजा ज्योतिरित्याह । प्रजा एवास्मै प्रजनयति । सूर्यो ज्योति-रित्याह । प्रजास्वेव प्रजातासु रेतो दधाति । ज्योतिरग्निः स्वाहेत्याह । प्रजा एव प्रजाता अस्यां प्रतिष्ठापयति १४

तूष्णीमुत्तरामाहुतिं जुहोति । मिथुनत्वाय प्रजात्यै । यदुदिते सूर्ये प्रातर्जुहुयात् । यथातिथये प्रद्रुताय शून्यायावसथायाहार्यँ हरन्ति । तादृगेव तत् । क्वाह ततस्तद्भवतीत्याहुः । यत्स न वेद । यस्मै तद्धरन्तीति । तस्माद्यदौषसं जुहोति । तदेव संप्रति । अथो यथा प्रार्थमौषसं परिवेवेष्टि । तादृगेव तत् १५


2.1.3.1 अग्निहोत्रम्

रुद्रो वा एषः । यदग्निः । पत्नी स्थाली ।यन्मध्येऽग्नेरधिश्रयेत् । रुद्रा य पत्नीमपिदध्यात् । प्रमायुका स्यात् । उदीचोऽङ्गारान्निरूह्याधिश्रयति । पत्नियै गोपीथाय । व्यन्तान्करोति । तथा पत्न्यप्रमायुका भवति १६

घर्मो वा एषोऽशान्तः । अहरहः प्रवृज्यते । यदग्निहोत्रम् । प्रतिषिञ्चेत्पशु-कामस्य । शान्तमिव हि पशव्यम् । न प्रतिषिञ्चेद्ब्रह्मवर्चसकामस्य । समिद्धमिव हि ब्रह्मवर्चसम् । अथो खलु । प्रतिषिच्यमेव । यत्प्रतिषिञ्चति १७

तत्पशव्यम् । यज्जुहोति । तद्ब्रह्मवर्चसि । उभयमेवाकः । प्रच्युतं वा एतदस्माल्लोकात् । अगतं देवलोकम् । यच्छृतँ हविरनभिघारितम् । अभिद्योतयति । अभ्येवैनद्घारयति । अथो देवत्रैवैनद्गमयति १८

पर्यग्नि करोति । रक्षसामपहत्यै । त्रिः पर्यग्नि करोति । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । यत्प्राचीनमुद्वासयेत् । यजमानँ शुचार्पयेत् । यद्दक्षिणा । पितृदेवत्यँ स्यात् । यत्प्रत्यक् १९

पत्नीँ शुचार्पयेत् । उदीचीनमुद्वासयति । एषा वै देवमनुष्याणाँ शान्ता दिक् । तामेवैनदनूद्वासयति शान्त्यै । वर्त्म करोति । यज्ञस्य संतत्यै । निष्टपति । उपैव तत्स्तृणाति । चतुरुन्नयति । चतुष्पादः पशवः २०

पशूनेवावरुन्धे । सर्वान्पूर्णानुन्नयति । सर्वे हि पुण्या राद्धाः । अनूच उन्नयति । प्रजाया अनूचीनत्वाय । अनूच्येवास्य प्रजार्धुका भवति । संमृशति व्यावृत्त्यै । नाहोष्यन्नुपसादयेत् । यदहोष्यन्नुपसादयेत् । यथान्यस्मा उपनिधाय २१

अन्यस्मै प्रयच्छति । तादृगेव तत् । आस्मै वृश्च्येत । यदेव गार्हपत्येऽधिश्रयति । तेन गार्हपत्यं प्रीणाति । अग्निरबिभेत् । आहुतयो मात्येष्यन्तीति । स एताँ समिधमपश्यत् । तामाधत्त । ततो वा अग्नावाहुतयोऽध्रियन्त २२

यदेनँ समयच्छत् । तत्समिधः समित्त्वम् । समिधमादधाति । समेवैनं यच्छति । आहुतीनां धृत्यै । अथो अग्निहोत्रमेवेध्मवत्करोति । आहुतीनां प्रतिष्ठित्यै । ब्रह्मवादिनो वदन्ति । यदेकाँ समिधमाधाय द्वे आहुती जुहोति । अथ कस्याँ समिधि द्वितीयामाहुतिं जुहोतीति २३

यद्द्वे समिधावादध्यात् । भ्रातृव्यमस्मै जनयेत् । एकाँ समिधमाधाय । यजुषान्यामाहुतिं जुहोति । उभे एव समिद्वती आहुती जुहोति । नास्मै भ्रातृव्यं जनयति । आदीप्तायां जुहोति । समिद्धमिव हि ब्रह्मवर्चसम् । अथो यथातिथिं ज्योतिष्कृत्वा परिवेवेष्टि । तादृगेव तत् । चतुरुन्नयति । द्विर्जुहोति । तस्माद्द्विपाच्चतुष्पादमत्ति । अथो द्विपद्येव चतुष्पदः प्रतिष्ठापयति २४


2.1.4.1 अग्निहोत्रम्

उत्तरावतीं वै देवा आहुतिमजुहवुः । अवाचीमसुराः । ततो देवा अभवन् । परासुराः । यं कामयेत वसीयान्स्यादिति । कनीयस्तस्य पूर्वँ हुत्वा । उत्तरं भूयो जुहुयात् । एषा वा उत्तरावत्याहुतिः । तां देवा अजुहवुः । ततस्तेऽभवन् २५

यस्यैवं जुह्वति । भवत्येव । यं कामयेत पापीयान्त्स्यादिति । भूयस्तस्य पूर्वँ हुत्वा । उत्तरं कनीयो जुहुयात् । एषा वा अवाच्याहुतिः । तामसुरा अजुहवुः । ततस्ते पराभवन् । यस्यैवं जुह्वति । परैव भवति २६

हुत्वोपसादयत्यजामित्वाय । अथो व्यावृत्त्यै । गार्हपत्यं प्रतीक्षते । अननुध्यायिनमेवैनं करोति । अग्निहोत्रस्य वै स्थाणुरस्ति । तं य ऋच्छेत् । यज्ञस्थाणुमृच्छेत् । एष वा अग्निहोत्रस्य स्थाणुः । यत्पूर्वाहुतिः । तां यदुत्तरयाभिजुहुयात् २७

यज्ञस्थाणुमृच्छेत् । अतिहाय पूर्वामाहुतिं जुहोति । यज्ञस्थाणुमेव परिवृणक्ति । अथो भ्रातृव्यमेवाप्त्वातिक्रामति । अवाचीनँ सायमुपमार्ष्टि । रेत एव तद्दधाति । ऊर्ध्वं प्रातः । प्र जनयत्येव तत् । ब्रह्मवादिनो वदन्ति । चतुरुन्नयति २८

द्विर्जुहोति । अथ क्व द्वे आहुती भवत इति । अग्नौ वैश्वानर इति ब्रूयात् । एष वा अग्निर्वैश्वानरः । यद्ब्राह्मणः । हुत्वा द्विः प्राश्नाति । अग्नावेव वैश्वानरे द्वे आहुती जुहोति । द्विर्जुहोति । द्विर्निमार्ष्टि । द्विः प्राश्नाति २९

षट्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । ब्रह्वमादिनो वदन्ति । किंदेवत्यमग्निहोत्रमिति । वैश्वदेवमिति ब्रूयात् । यद्यजुषा जुहोति । तदैन्द्रा ग्नम् । यत्तूष्णीम् । तत्प्राजापत्यम् ३०

यन्निमार्ष्टि । तदोषधीनाम् । यद्द्वितीयम् । तत्पितृणाम् । यत्प्राश्नाति । तद्गर्भाणाम् । तस्माद्गर्भा अनश्नन्तो वर्धन्ते । यदाचामति । तन्मनुष्याणाम् । उदङ्पर्यावृत्याचामति ३१

आत्मनो गोपीथाय । निर्णेनेक्ति शुद्ध्यै । निष्टपति स्वगाकृत्यै । उद्दिशति । सप्तऋषीनेव प्रीणाति । दक्षिणा पर्यावर्तते । स्वमेव वीर्यमनु पर्यावर्तते । तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरः । अथो आदित्यस्यैवावृतमनु पर्यावर्तते । हुत्वोपसमिन्धे ३२

ब्रह्मवर्चसस्य समिद्ध्यै । न बर्हिरनु प्रहरेत् । असँ स्थितो वा एष यज्ञः । यदग्निहोत्रम् । यदनुप्रहरेत् । यज्ञं विच्छिन्द्यात् । तस्मान्नानुप्रहृत्यम् । यज्ञस्य संतत्यै । अपो निनयति । अवभृथस्यैव रूपमकः ३३


2.1.5.1 अग्निहोत्रम्

ब्रह्मवादिनो वदन्ति । अग्निहोत्रप्रायणा यज्ञाः । किंप्रायणमग्निहोत्रमिति । वत्सो वा अग्निहोत्रस्य प्रायणम् । अग्निहोत्रं यज्ञानाम् । तस्य पृथिवी सदः । अन्तरिक्षमाग्नीध्रम् । द्यौर्हविर्धानम् । दिव्या आपः प्रोक्षणयः । ओषधयो बर्हिः ३४

वनस्पतय इध्मः । दिशः परिधयः । आदित्यो यूपः । यजमानः पशुः । समुद्रो ऽवभृथः । संवत्सरः स्वगाकारः । तस्मादाहिताग्नेः सर्वमेव बर्हिष्यं दत्तं भवति । यत्सायं जुहोति । रात्रिमेव तेन दक्षिण्यां कुरुते । यत्प्रातः ३५

अहरेव तेन दक्षिण्यं कुरुते । यत्ततो ददाति । सा दक्षिणा । यावन्तो वै देवा अहुतमादन् । ते पराभवन् । त एतदग्निहोत्रँ सर्वस्यैव समवदायाजुहवुः । तस्मादाहुः । अग्निहोत्रं वै द्वा गृहाणां निष्कृतिमपश्यन्निति । यत्सायं जुहोति । रात्रिया एव तद्धुताद्याय ३६

यजमानस्यापराभावाय । यत्प्रातः । अह्न एव तद्धुताद्याय । यजमानस्या-पराभावाय । यत्ततोऽश्नाति । हुतमेव तत् । द्वयोः पयसा जुहुयात्पशुकामस्य । एतद्वा अग्निहोत्रं मिथुनम् । य एवं वेद । प्र प्रजया पशुभिर्मिथुनैर्जायते ३७

इमामेव पूर्वया दुहे । अमूमुत्तरया । अधिश्रित्योत्तरमानयति । योनावेव तद्रेतः सिञ्चति प्रजनने । आज्येन जुहुयात्तेजस्कामस्य । तेजो वा आज्यम् । तेजस्व्येव भवति । पयसा पशुकामस्य । एतद्वै पशूनाँ रूपम् । रूपेनैवास्मै पशूनवरुन्धे ३८

पशुमानेव भवति । दध्नेन्द्रियकामस्य । इन्द्रियं वै दधि । इन्द्रियाव्येव भवति । यवाग्वा ग्रामकामस्यौषधा वै मनुष्याः । भागधेयेनैवास्मै सजातानवरुन्धे । ग्राम्येव भवति । अयज्ञो वा एषः । योऽसामा ३९

चतुरुन्नयति । चतुरक्षरँ रथंतरम् । रथन्तरस्यैष वर्णः । उपरीव हरति । अन्तरिक्षं वामदेव्यम् । वामदेव्यस्यैष वर्णः । द्विर्जुहोति । द्व्यक्षरं बृहत् । बृहत एष वर्णः । अग्निहोत्रमेव तत्सामन्वत्करोति ४०

यो वा अग्निहोत्रस्योपसदो वेद । उपैनमुपसदो नमन्ति । विन्दत उपसत्तारम् । उन्नीयोपसादयति । पृथिवीमेव प्रीणाति । होष्यन्नुपसादयति । अन्तरिक्षमेव प्रीणाति । हुत्वोपसादयति । दिवमेव प्रीणाति । एता वा अग्निहोत्रस्योपसदः ४१

य एवं वेद । उपैनमुपसदो नमन्ति । विन्दत उपसत्तारम् । यो वा अग्निहोत्रस्याश्रावितं प्रत्याश्रावितँ होतारं ब्रह्माणं वषट्कारं वेद । तस्य त्वेव हुतम् । प्राणो वा अग्निहोत्रस्याश्रावितम् । अपानः प्रत्याश्रावितम् । मनो होता । चक्षुर्ब्रह्मा । निमेषो वषट्कारः ४२

य एवं वेद । तस्य त्वेव हुतम् । सायंयावानश्च वै देवाः प्रातर्यावाणश्चाग्निहोत्रिणो गृहमागच्छन्ति । तान्यन्न तर्पयेत् । प्रजयास्य पशुभिर्वितिष्ठेरन् । यत्तर्पयेत् । तृप्ता एनं प्रजया पशुभिस्तर्पयेयुः । सजूर्देवैः सायं यावभिरिति सायँ संमृशति । सजूर्देवैः प्रातर्यावभिरिति प्रातः । ये चैव देवाः सायंयावानो ये च प्रातर्यावाणः ४३

तानेवोभयाँ स्तर्पयति । त एनं तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अरुणो ह स्माहाउपवेशिः । अग्निहोत्र एवाहँ सायंप्रातर्वज्रं भ्रातृव्येभ्यः प्रहरामि । तस्मान्मत्पापीयाँ सो भ्रातृव्या इति । चतुरुन्नयति । द्विर्जुहोति । समित्सप्तमी ।सप्तपदा शक्वरी ।शाक्वरो वज्रः । अग्निहोत्र एव तत्सायंप्रातर्वज्रं यजमानो भ्रातृव्याय प्रहरति । भवत्यात्मना । परास्य भ्रातृव्यो भवति ४४


2.1.6.1 अग्निहोत्रम्

प्रजापतिरकामयतात्मन्वन्मे जायेतेति । सोऽजुहोत् । तस्यात्मन्वदजायत । अग्निर्वायुरादित्यः । तेऽब्रुवन् । प्रजापतिरहौषीदात्मन्वन्मे जायेतेति । तस्य वयमजनिष्महि । जायतां न आत्मन्वदिति तेऽजुहवुः । प्राणानामग्निः । तनुवै वायुः ४५

चक्षुष आदित्यः । तेषाँ हुतादजायत गौरेव । तस्यै पयसि व्यायच्छन्त । मम हुतादजनि ममेति । ते प्रजापतिं प्रश्नमायन् । स आदित्योऽग्निमब्रवीत् । यतरो नौ जयात् । तन्नौ सहासदिति । कस्यैकोऽहौषीदिति प्रजापतिरब्रवीत्कस्यैक इति । प्राणानामहमित्यग्निः ४६

तनुवा अहमिति वायुः । चक्षुषोऽहमित्यादित्यः । य एव प्राणानामहौषीत् । तस्य हुतादजनीति । अग्नेर्हुतादजनीति । तदग्निहोत्रस्याग्निहोत्रत्वम् । गौर्वा आग्निहोत्रम् । य एवं वेद गौरग्निहोत्रमिति । प्राणापानाभ्यामेवाग्निँ समर्धयति । अव्यर्धुकः प्राणापानाभ्यां भवति ४७

य एवं वेद । तौ वायुरब्रवीत् । अनु माभजतमिति । यदेव गार्हप-त्येऽधिश्रित्याहवनीयमभ्युद्द्रवान् । तेन त्वां प्रीणानित्यब्रूताम् । तस्माद्य-द्गार्हपत्येऽधिश्रित्याहवनीयमभ्युद्द्रवति । वायुमेव तेन प्रीणाति । प्रजाप-तिर्देवताः सृजमानः । अग्निमेव देवतानां प्रथममसृजत । सोऽन्यदाल-म्भ्यमवित्त्वा ४८

प्रजापतिमभि पर्यावर्तत । स मृत्योरबिभेत् । सोऽमुमादित्यमात्मनो निरमिमीत । तँ हुत्वा पराङ्पर्यावर्तत । ततो वै स मृत्युमपाजयत् । अप मृत्युं जयति । य एवं वेद । तस्माद्यस्यैवं विदुषः । उतैकाहमुत द्व्यहं न जुह्वति । हुतमेवास्य भवति । असौ ह्यादित्योऽग्निहोत्रम् ४९


2.1.7.1 अग्निहोत्रम्

रौद्रं गवि । वायव्यमुपसृष्टम् । आश्विनं दुह्यमानम् । सौम्यं दुग्धम् । वारुणमधिश्रितम् । वैश्वदेवा भिन्दवः । पौष्णमुदन्तम् । सारस्वतं विष्यन्दमानम् । मैत्रँ शरः । धातुरुद्वासितम् । बृहस्पतेरुन्नीतम् । सवितुः प्रक्रान्तम् । द्यावापृथिव्यँ ह्रियमाणम् । ऐन्द्रा ग्नमुपसन्नम् । अग्नेः पूर्वाहुतिः । प्रजापतेरुत्तरा । ऐन्द्र ँ! हुतम् ५०


2.1.8.1 अग्निहोत्रम्

दक्षिणत उपसृजति । पितृलोकमेव तेन जयति । प्राचीमावर्तयति । देव-लोकमेव तेन जयति । उदीचीमाव्रत्य दोग्धि । मनुष्यलोकमेव तेन जयति । पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य । यो वा गतश्रीः स्यात् । अपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य । यो वा बुभूषेत् ५१

न संमृशति । पापवस्यसस्य व्यावृत्त्यै । वायव्यं वा एतदुपसृष्टम् । आश्विनं दुह्यमानम् । मैत्रं दुग्धम् । अर्यम्ण उद्वास्यमानम् । त्वाष्ट्रमुन्नीयमानम् । बृहस्पतेरुन्नीतम् । सवितुः प्रक्रान्तम् । द्यावापृथिव्यँ ह्रियमाणम् ५२

न्द्रैआ! ग्नमुपसादितम् । सर्वाभ्यो वा एष देवताभ्यो जुहोति । योऽग्निहोत्रं जुहोति । यथा खलु वै धेनुं तीर्थे तर्पयति । एवमग्निहोत्री यजमानं तर्पयति । तृप्यति प्रजया पशुभिः । प्र सुवर्गं लोकं जानाति । पश्यति पुत्रम् । पश्यति पौत्रम् । प्र प्रजया पशुभिर्मिथुनैर्जायते । यस्यैवं विदुषोऽग्निहोत्रं जुह्वति । य उ चैनदेवं वेद ५३


2.1.9.1 अग्निहोत्रम्

त्रयो वै प्रैयमेधा आसन् । तेषां त्रिरेकोऽग्निहोत्रमजुहोत् । द्विरेकः । सकृदेकः । तेषां यस्त्रिरजुहोत् । स ऋचाजुहोत् । यो द्विः । स यजुषा । यः सकृत् । स तूष्णीम् ५४

यश्च यजुषाजुहोद्यश्च तूष्णीम् । तावुभावार्ध्नुताम् । तस्माद्यजुषाहुतिः पूर्वा होतव्या । तूष्णीमुत्तरा । उभे एवर्द्धी अवरुन्धे । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति । रेत एव तद्दधाति । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः । रेत एव हितं प्रजनयति । रेतो वा एतस्य हितं न प्रजायते ५५

यस्याग्निहोत्रमहुतँ सूर्योऽभ्युदेति । यद्यन्ते स्यात् । उन्नीय प्राङुदाद्र वेत् । स उपसाद्यातमितोरासीत । स यदाताम्येत् । अथ भूः स्वाहेति जुहुयात् । प्रजापतिर्वै भूतः । तमेवोपासरत् । स एवैनं तत उन्नयति । नार्तिमार्च्छति यजमानः ५६


2.1.10.1 अग्निहोत्रम्

यदग्निमुद्धरति । वसवस्तर्ह्यग्निः । तस्मिन्यस्य तथाविधे जुह्वति । वसुष्वेवास्याग्निहोत्रँ हुतं भवति । निहितो धूपायञ्शेते । रुद्रा स्तर्ह्यग्निः । तस्मिन्यस्य तथाविधे जुह्वति । रुद्रे ष्वेवास्याग्निहोत्रँ हुतं भवति । प्रथममि-ध्ममर्चिरालभते । आदित्यास्तर्ह्यग्निः ५७

तस्मिन्यस्य तथाविधे जुह्वति । आदित्येष्वेवास्याग्निहोत्रँ हुतं भवति । सर्व एव सर्वश इध्म आदीप्तो भवति । विश्वे देवास्तर्ह्यग्निः । तस्मिन्यस्य तथाविधे जुह्वति । विश्वेष्वेवास्य देवेष्वग्निहोत्रँ हुतं भवति । नितराम-र्चिरुपावैति लोहिनीकेव भवति । इन्द्र स्तर्ह्यग्निः । तस्मिन्यस्य तथाविधे जुह्वति । इन्द्र एवास्याग्निहोत्रँ हुतं भवति ५८

अङ्गारा भवन्ति । तेभ्योऽङ्गारेभ्योऽर्चिरुदेति । प्रजापतिस्तर्ह्यग्निः । तस्मि-न्यस्य तथाविधे जुह्वति । प्रजापतावेवास्याग्निहोत्रँ हुतं भवति । शरोऽङ्गारा अध्यूहन्ते । ब्रह्म तर्ह्यग्निः । तस्मिन्यस्य तथाविधे जुह्वति । ब्रह्मन्नेवास्याग्निहोत्रँ हुतं भवति । वसुषु रुद्रे ष्वादित्येषु विश्वेषु देवेषु । इन्द्रे प्रजापतौ ब्रह्मन् । अपरिवर्गमेवास्यैतासु देवतासु हुतं भवति । यस्यैवं विदुषोऽग्निहोत्रं जुह्वति । य उ चैनदेवं वेद ५९


2.1.11.1 अग्निहोत्रम्

ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति । सत्यं त्वर्तेन परिषिञ्चामीति प्रातः । अग्निर्वा ऋतम् । असावादित्यः सत्यम् । अग्निमेव तदादित्येन सायं परिषिञ्चति । अग्निनादित्यं प्रातः सः । यावदहोरात्रे भवतः । तावदस्य लोकस्य । नार्तिर्न ऋष्टिः । नान्तो न पर्यन्तोऽस्ति । यस्यैवं विदुषोऽग्निहोत्रं जुह्वति । य उ चैनदेवं वेद ६० १